सप्तमः सर्गः


आकर्ण्य पुत्त्रस्य जयं जयैषिणो दृष्ट्वा सहस्रार्जुनशातनं सुतम्। पादे पतन्तं प्रणिपातमुद्रया नैवाभ्यनन्दत्स पिता निनिन्द तम्॥ ७-१ ॥ आहैनमारात्प्रणतं कृताञ्जलिं पुत्त्रं परिष्वज्य पिताश्रुलोचनः। किं ते कृतं वत्स दुरन्तमन्युतो विप्रः क्षमासारकृतिर्हि शस्यते॥ ७-२ ॥ मूर्धाभिषिक्तस्य महीपतेर्वधः पापावहो ब्रह्मवधादपि स्मृतः। तं त्वं विधायाद्य मुधा विकत्थसे क्रोधो हि पापस्य निदानमुच्यते॥ ७-३ ॥ द्वारत्रयं यद्यपि नैरयं बुधाः सक्रोधलोभं मदनं समुज्जगुः। क्रोधस्तु ताभ्यां बलवत्तरः स्मृतः सन्मध्यमेवाङ्गुलिरेष मध्यमः॥ ७-४ ॥ क्रोधो हि धर्मस्य दुरत्ययो रिपुः क्रोधो गवाशो मनुजत्वगोपतेः। क्रोधो महादारुणरक्षसां पतिः क्रोधः पिशाचः पिशिताशनो नृणाम्॥ ७-५ ॥ तद्वत्स तीर्थाटनतो दुरत्ययं पापं द्रुतं क्षालयितुं त्वमर्हसि। तीर्थाम्बुभिर्धूतसमस्तकल्मषो राहूज्झितश्चन्द्र इवावभास्यसि॥ ७-६ ॥ इत्युक्तवन्तं जमदग्निमादरात्स्वां मातरं च प्रणिपत्य भार्गवः। तीर्थीचिकीर्षन् पदपद्मरेणुभिस्तीर्थानि गन्तुं भगवान्मनो दधे॥ ७-७ ॥ तीर्थेषु मज्जन् प्रणमन् मुदा क्वचित्स्थानानि पश्यन् मृडयंश्च कुत्रचित्। भ्राम्यन् क्वचित्क्वापि च रेणुकासुतश्चिच्चित्रकूटं ससुखं समाययौ॥ ७-८ ॥ मन्दाकिनीवारिविधूतकल्मषं वृक्षावलीशीतलचण्डदीधितम्। श्रीचित्रकूटं स निरीक्ष्य राघवीः सस्मार लीलाः श्रितपूर्वकल्पिकाः॥ ७-९ ॥ मन्दाकिनीवारिपवित्रकूटः संसारपाथोधिवहित्रकूटः। सीतेशपादाब्जविचित्रकूटो मत्पापकूटं द्यतु चित्रकूटः॥ ७-१० ॥ त्रिजगदवन हतहरिजननिधुवन निजवनरुचिजितशतशतविधुवन। तरुवरविभवविनतसुरवरवन जयति विरतिघन इव रघुवरवन॥ ७-११ ॥ मदनमथनसुखसदन विधुवदन गदितविमलवरविरुद कलिकदन। शमदमनियममहित मुनिजनधन लससि विबुधमणिरिव हरिपरिजन॥ ७-१२ ॥ जनकदुहितरमहिपमपि सुखयसि सुखमुखमपि शुचिसुमुख सुमुखयसि। विबुधविपिनमपि हरिसख सखयसि यतिजनमखमपि सुमख सुमखयसि॥ ७-१३ ॥ मनसिजजवमपि सुजव विफलयसि खलकुलरवमपि सुरव विकलयसि। कलिमलबलमपि सबलमबलयसि गुणिगणकुलमपि कुशल कुशलयसि॥ ७-१४ ॥ विटपनिविडनिगडितमनसिजजव शिखरिशकलशकलितभवपरिभव। मुनिजनभजन महितखगकलरव रघुवरवन मयि सकरुण इह भव॥ ७-१५ ॥ रघुपतिगृहिणिनयनसुखनवदल हरिपदजलजरसितसितजलकल। सुरनरमुनिगणगुणित सुजनबल विफलय मम भवरुजमपि फलफल॥ ७-१६ ॥ सुकृतसुभगसुरवरतरुफल जय फणिपतिरघुपतिचरणविमल जय। कलिमलखलकुलकदनकुशल जय गिरिधर सुखवन नयनसुफल जय॥ ७-१७ ॥ परं निर्गुणं ब्रह्मलीलातडागं कृपादोर्लताहंसकं हंसभागम्। मुदा यत्र रेमे चिरं रामसञ्ज्ञं सदा सादरं तं स्तुवे चित्रकूटम्॥ ७-१८ ॥ कृता पर्णशाला सुरै राघवार्थे किरातायितैर्यस्य दिव्ये प्रदेशे। गिरीणां प्रणम्यं प्रभग्नत्रिकूटं सदा सुन्दरं तं ब्रुवे चित्रकूटम्॥ ७-१९ ॥ सदा मैथिलीपादपद्मप्रपन्नं शुचिं साधकानां समूहाभिपन्नम्। हरिद्भिर्द्रुमैः सङ्कुलं सुप्रसन्नं विचित्रं चिदा संश्रये चित्रकूटम्॥ ७-२० ॥ क्वचिल्लक्ष्मणेनामुदा लाल्यमानं क्वचिद्रामचन्द्रेण सञ्चर्यमाणम्। क्वचिद्देववृन्दैः समभ्यर्चमानं विमानं मुहुः सन्दधे चित्रकूटम्॥ ७-२१ ॥ प्रयागादितीर्थैर्लसच्चारुकूटं खरद्विट्कृते देवतादारुकूटम्। त्रिलोकेशवन्दारुमन्दारकूटं महोदारकूटं भजे चित्रकूटम्॥ ७-२२ ॥ द्रुतं पूरयन्तं मनःकामकूटं कलिध्वान्तहृद्भास्करोद्दामकूटम्। रमारामकूटं घनश्यामकूटं परं धामकूटं वृणे चित्रकूटम्॥ ७-२३ ॥ धरायाश्चितं भागधेयैककूटं परब्रह्मणो रूपधेयैककूटम्। शुचीनां शुभं नामधेयैककूटं चिरं चेतसा चिन्तये चित्रकूटम्॥ ७-२४ ॥ क्वचिद्योगिवृन्दैर्लसद्दिव्यकूटं क्वचिद्रामचन्द्रं नमन् नव्यकूटम्। क्वचिन्मैथिलीं मण्डयन् भव्यकूटं चिता चिन्तये चेतसा चित्रकूटम्॥ ७-२५ ॥ श्रीरामपद्मपदपुण्यपरागभागं योगीन्द्रसिद्धमुनिसेवितदिग्विभागम्। कारुण्यमूर्तिमनघं हृतजीवरागं चेतश्चिरं तमिह चेतय चित्रकूटम्॥ ७-२६ ॥ पूतात्मनां मतिमतां विहितव्रतानां सत्साधनैकमनसां भुवि पारिजातम्। दत्ताखिलेप्सितफलं श्रुतिशैलकेतुं चेतश्चिरं तमिह चिन्तय चित्रकूटम्॥ ७-२७ ॥ चिन्तामणिं विहितशैलतनुं तनिम्ना प्रादुष्कृतश्रुतिसुसम्भ्रितसारभूतम्। पूतं नुतं गिरिवरैर्गुणितं गरिम्णा चेतश्चिरं तमिह चिन्तय चित्रकूटम्॥ ७-२८ ॥ सैरध्वजीललितपाणिसरोजसेव्यं मन्दाकिनीविमलवारिविवर्धिताभम्। श्रीकामदेश्वरसमर्पितसत्प्रतिष्ठं चेतश्चिरं तमिह चिन्तय चित्रकूटम्॥ ७-२९ ॥ नवजलधरनीलं वेदविख्यातलीलं शिखरमहितसीतं पादपालीपरीतम्। गिरिवरकमनीयं वन्दनीयं सुराणां कलितविविधकूटं चिन्तये चित्रकूटम्॥ ७-३० ॥ पयसि निहितभागं ज्ञानवैराग्ययागं परिलसदनुरागं रामपादाब्जरागम्। मणिमिव रमणीयं भास्वतं भावतश्च प्रथितविमलकूटं नौमि तं चित्रकूटम्॥ ७-३१ ॥ सुरतरुवरवृन्दैर्भागधेयं यदीयं प्रणतिविनमितांसैर्गीयते बद्धनिष्ठैः। जनकनृपसुताया लोचनैकाभिरामं शिखरनिहितरामं चित्रकूटं नतोऽस्मि॥ ७-३२ ॥ भवजलनिधिमीनं पापपङ्के निलीनं विषयकलिलमग्नं वासनाराशिलग्नम्। निरवधिनिरुपायं त्याजिताध्यात्मकायं पतितमभिकमेनं त्रायतां चित्रकूटः॥ ७-३३ ॥ विधातुर्वै सृष्टो परमरमणीयो मणिरिव प्रचेतोजातस्य प्रथितरचनास्रोत इव यः। निषेव्यः शैलानां मुनितिलकवन्द्याङ्घ्रिवनजः सदारामारामो जयति रुचिरो राघवगिरिः॥ ७-३४ ॥ निधानं सिद्धीनां विमलमवदानं च तपसां निदानं रोगाणां क्षपितभवभोगैकजनुषाम्। निपानं जीवानां मिहिरकरतप्तामिततृषां निशानं लक्ष्याणां त्रिभुवि गिरिरेको विजयते॥ ७-३५ ॥ प्रतप्तानां तापैस्त्वमसि शरणं वै तनुभृतां तथा जिज्ञासूनां त्वमसि विमलं ज्ञानभवनम्। पिपासूनां स्रोतः सरसमतिदिव्यं जलमयं जगत्यां वै शैलस्त्वमसि गुणधन्यो हरिगिरे॥ ७-३६ ॥ अकामानां नॄणां त्वमिव फलदः खण्डपरशु- र्यथा विष्णुस्त्राता त्वमसि भवभीतेः पदजुषाम्। विधातेव स्रष्टा त्वमिह हरिभक्त्येकमनसां त्रिदेवात्मा देवो जयसि नितरां राघवगिरे॥ ७-३७ ॥ निवासो धीराणां गुणगणविकासोऽसि सुधियां प्रकाशो बुद्धीनां त्वमसि सुविलासो मतिमताम्। जनानां विश्रामो भवभयविरामः पदजुषां सदा रामारामो निखिलगिरिमौले विजयसे॥ ७-३८ ॥ रघुपतेःपदपद्मविभूषितो निखिलयोगिसमाजसभाजितः। सकलसाधककल्पतरुर्महान् विजयसे भुवि राघवपर्वत॥ ७-३९ ॥ रघुनन्दनपादपयोजरजःकलितं भरितं प्रभया विभया। शुचिसाधकवाञ्छितसिद्धिकरं प्रणमामि रघूत्तमशैलवरम्॥ ७-४० ॥ धरणीतनयाकरपङ्करुहप्रथितामरदुर्लभभाग्यविभम्। फणिनायकसेवितशृङ्गचयं प्रणमामि गिरिं च सुवर्णमयम्॥ ७-४१ ॥ श्रीरामचन्द्रचरणाङ्कितदिव्यकूटं सौमित्रिसाधनधनार्चितनव्यकूटम्। सीताविलोचनसमञ्चितभव्यकूटं रे चित्त चिन्तय चिरन्तनचित्रकूटम्॥ ७-४२ ॥ चिन्तामणिप्रकरमञ्जुलरत्नकूटं सीतापतिप्रसरपावनप्रत्नकूटम्। योगीन्द्रसाधकसुसाधनयत्नकूटं रे चित्त चिन्तय चिरन्तनचित्रकूटम्॥ ७-४३ ॥ सीतानिवासवरवासविलासभूमिं वृन्दारकागणशरण्यमरण्ययुक्तम्। विन्ध्याटवीमुकुटमौलिमदभ्रकान्तिं रे चित्त चिन्तय चिदालयचित्रकूटम्॥ ७-४४ ॥ तीर्थैः किमत्र बहुभिः कलितप्रयासैः कष्टैकसाध्यजनमानसरोगयुग्भिः। आकर्ण्य वाक्यमिदमद्य विचारयुक्तं पान्थाः सदा व्रजत चिन्मयचित्रकूटम्॥ ७-४५ ॥ अज्ञस्य पापकलिलेऽपि विषीदतो वै त्यक्तप्रसादनिवहस्य मलैकराशेः। चिन्ताकुलस्य विधनस्य जडायुषो मे दीनस्य चाद्य शरणं भव चित्रकूट॥ ७-४६ ॥ श्रीमन्मैथिलिपादपद्मरजसां राशीकृतं शाश्वतं पापानां किल धूमकेतुविभवं माधुर्यधुर्यस्थितम्। श्रीमन्दाकिनिवारिवारितभयं कल्लोललोलद्विभं पश्येयं सुमनोदृशा गिरिवरं श्रीचित्रकूटं मुहुः॥ ७-४७ ॥ सीता यत्र विराजते भगवती सत्पर्णशालास्थिता सिञ्चन्ती तुलसीतरूनहरहो मन्दाकिनीवारिभिः। कीरान्मञ्जुलसारिकाश्च विधिवत्संशिक्षयन्ती मुहु- र्धन्योऽसौ नयनाभिरामशिखरः श्रीचित्रकूटो गिरिः॥ ७-४८ ॥ यत्रास्ते सुमनोज्ञपूतसलिला श्रीगुप्तगोदावरी यं नित्यं समलङ्करोति विरजा मालेव मन्दाकिनी। यस्योत्कर्षमतीव वर्धयति वै ह्यत्रिप्रिया शाश्वती सोऽयं राजति शैलराजशिखरी श्रीचित्रकूटो भुवि॥ ७-४९ ॥ यो नित्यं परिपाति पावनरुचा श्रीकामदोपत्यकां यस्मिन् कोटिमुनीन्द्रयोगिनिवहाः प्रेम्णा तपस्यन्त्यहो। यत्र क्रीडति चारुचम्पकनिभा सैरध्वजी शावकैः कीराणां तमिमं गिरीन्द्रमनघं श्रीचित्रकूटं श्रये॥ ७-५० ॥ मन्दाकिनीपयसि भावभरं निमज्ज्य भक्त्या समार्जिहत मत्तगजेन्द्रनाथम्। आदौ भवस्य यदथाम्बुजविष्टरोऽसावातिष्ठिपद्विमललिङ्गमभीप्सितार्थः॥ ७-५१ ॥ मध्येपयस्विनिपुरस्कृतदुग्धधारां व्यालोक्य लोलनयनश्चकितो बभूव। वात्सल्यमण्डितपयोधरहारशोभां श्रीरेणुकामिव नदीं विनतो ननाम॥ ७-५२ ॥ चक्रे प्रदक्षिणमथो गिरिराजराजं श्रीकामदं पुलकितः स सहस्रकृत्वः। रामस्तु दण्डवदनागसि दत्तदण्डपापानि मार्ष्टुमिव भग्नभयो भवस्य॥ ७-५३ ॥ यं धर्मपीठमिह पर्वतराजराजं श्रीचित्रकूटमथ कामदनामधेयम्। पूर्वत्र कल्प उषितानुजजानकीश्रीरामं स्मरन् समभवत्स कृतार्थरूपः॥ ७-५४ ॥ पतिदैवतिकां स चानसूयां परशुधरोऽर्चितवांश्च पूज्यभावात्। कुपितामिव तां स शङ्कमानः प्रियसुतशिष्यविनाशतोऽनुनेष्यन्॥ ७-५५ ॥ आमन्त्र्याद्रिं रघुपतिपदाम्भोजपांशुप्रसादं रामोऽद्राक्षीद्भुवनमहितां राजधानीं रघूणाम् । यस्यां त्यक्त्वा त्वचमिव तनुं भोगवान् कोऽपि जीवः प्राप्तानन्दो लसति दिविजैर्दिव्यसाकेतधाम्नि ॥ ७-५६ ॥ यस्यां सीता विबुधवनितावन्दिता वन्द्यभार्या नित्यं धातुस्तनयतनयातीरकुञ्जेषु भर्त्रा । दीव्यन्ती सा प्रणयमुदिता कोटिकोट्या सखीनां रामा रामं रमयति रमा मञ्जुमाधुर्यधुर्या ॥ ७-५७ ॥ राजा रामो जयति भगवान् जानकी यत्र राज्ञी यस्यां लोकाः प्रणिहतमलाः सच्चिदानन्दरूपाः । यस्याः प्रान्ते लसति सरयूः सर्वदा सोमतोया सैषायोध्या विलसति भुवो मस्तकीभूय भूयः ॥ ७-५८ ॥ नामं नामं नमितशिरसा दण्डवद्दण्डितारि- र्भ्रामं भ्रामं विगतरजसा वन्यकुञ्जेषु धीरः । ध्यायं ध्यायं शिशुरघुवरं कन्दनीलं सुशीलं गायं गायं प्रभुगुणगणं भार्गवस्तत्र रेमे ॥ ७-५९ ॥ दर्शं दर्शं दुरितदमनं दामिनिद्योति धाम स्पर्शं स्पर्शं परमरमणं रेणुराशिं रमेष्टम् । भावं भावं भवभयहरं भावभाव्यं भविष्णुं कामं कामं कमलकमनं राघवं शर्म लेभे ॥ ७-६० ॥ भूयो पश्यन् मधुवनमसौ सूर्यकन्यातिधन्यं स्निग्धारामं व्रजजनवृतं मञ्जुकूजन्मरालम् । यां वै प्राहुर्मधुरिपुपुरीं शार्ङ्गिणो जन्मभूमिं सेयं पापं मथति मथुरा मन्मथारीष्टमान्या ॥ ७-६१ ॥ स्नात्वा जप्त्वा मनसि यमुनाजीवनं चिन्तयित्वा वृन्दारण्यं त्रिजगदरणं भार्गवो भक्तितोऽगात् । कृष्णः कूजन् मधुरमुरली यत्र रासे सखीनां नित्यं राधाकुचकलशयोर्भाति पाटीरशिल्पी ॥ ७-६२ ॥ गत्वा भूयो मुनिगणयुतं श्रीहरिद्वारमाद्यं गङ्गाद्वारं त्रिपुरजयिना भग्नदक्षावलेपम् । मायापुर्यामथ कनखले जाह्नवीदिव्यतोये मज्जन् मग्नं मनसि स मलं मज्जयामास मान्यः ॥ ७-६३ ॥ काश्यां काशीगदितगरिमोद्दाममुक्तैकभूमौ रामो रेमे शिशुशशिभृतश्शूललब्धास्पदायाम् । मङ्क्त्वा भक्त्याच्युतचरणजावारि वाराणसीशं रामेत्येवं जपपरधियं सान्नपूर्णं ददर्श ॥ ७-६४ ॥ यस्यामीशो मरणसमये प्राणिनां कर्णमूले द्व्यर्णं रामेत्यघहरमहामन्त्रमाद्यं ददानः । आचाण्डालं जयति भगवान्मोक्षयन् जीवलोकं काशीवासी कथमु विभियाद्याम्यदण्डात्कदापि ॥ ७-६५ ॥ काञ्चीं काञ्चीमिव वसुमतीयोषितस्तिग्मभानुं गत्वा रामः किल वरदराड्विष्णुमीक्षाम्बभूव । शेषे शेषे बकुलधवले शार्ङ्गिणं तं शयानं नैशं नीलोत्पलमिव लसत्षट्पदं पार्वणेन्दौ ॥ ७-६६ ॥ तस्या आराद्रतिपतिरिपोः पादपद्माङ्कभाजं घण्टानादप्रतिहतभयां शैवकाञ्चीमपश्यत् । श्रीकावेरीसरिति विमलो रङ्गनाथं विलोक्य प्राप्तानन्दो मनसि च बभौ भौमवैकुण्ठमाप्य ॥ ७-६७ ॥ गत्वापूर्वां पवनगमनो विन्ध्यशैले लसन्तीं हृष्टो रामः श्रुतमिव भयाच्चाप्यवन्तीमवन्तीम् । क्षिप्रं क्षिप्रापयसि विरजाः प्राप्तभावोपचारः साम्बं देवं हरमथ महाकालमानर्च धीरः ॥ ७-६८ ॥ भूयो यात्वा सपदि ददृशे द्वारकां पश्चिमायां सिन्धोस्तीरे कनकभवनां राजधानीं यदूनाम् । द्वारे द्वारे विलसति परं ब्रह्म कं यत्र नित्यं दृष्ट्वा रेमे भृगुकुलमणिर्मोक्षदां तां मनोज्ञाम् ॥ ७-६९ ॥ तत्र स्नात्वा लवणसलिले गोमतीसिन्धुमिश्रे लुञ्चन् दर्भान् परमकुशलस्तान् कुशस्थल्युपेतान् । प्रापं प्रापं पयसि रुचिरं गोमतीचक्रकं त- द्रामः प्रीतः परमकठिनं कालचक्रं व्यपोहत् ॥ ७-७० ॥ गत्वा प्रभासं तममन्दविक्रमः श्रीसोमनाथं श्रितसोमशेखरम्। सम्पूजयामास वशी वशानुगं गौरीसमेतं धृतसर्वगौरवम्॥ ७-७१ ॥ यत्पादपाथोजपरागसेवया सोमो दुरन्तादथ दक्षशापतः। मुक्तः क्षयात्क्षीणकलोऽपि पुष्कलो ज्योतिश्च सोमेश्वरलिङ्गमादिमम्॥ ७-७२ ॥ श्रीशैलमासाद्य स मल्लिकार्जुनं रामोऽर्चयन्नन्दनमल्लिकादिभिः। स्तुत्यानुरक्त्या वरिवस्ययार्जवप्रोद्दामवाचा समतूतुषद्धरम्॥ ७-७३ ॥ यज्ज्योतिषो लिङ्गमथो द्वितीयकं पौराणिका आदरतः समामनन्। पुत्त्रं दिदृक्षुर्गिरिजावरः सदा यत्राश्रितः क्रौञ्चभिदं महेश्वरः॥ ७-७४ ॥ भूयो महाकालमुपास्त धीधनः प्राप्योज्जयन्यां जनतापमोचनम्। क्षिप्रापयःक्षालितपादपङ्कजं दोषाकरास्यं स निरस्तदूषणम्॥ ७-७५ ॥ यत्रोषितानां भगवानुमावरो धत्ते महाकालकरालभीतितः। रक्षन् प्रतीक्ष्यार्पितसर्वसाधनो निष्किञ्चनानामिव पारिजातकः॥ ७-७६ ॥ ओङ्कारमासाद्य मुदावनीतलं रेवाजलाप्लावितसर्वविप्लवम्। प्रार्चत्स भक्त्या परमेश्वरं प्रभुं राजोपचारैर्द्विजराजसत्तमः॥ ७-७७ ॥ विन्ध्याचलं स्मास्थितवान् स भक्तितः सम्प्रीणितोऽद्धा गुरुगौरवादपि। तस्याद्रिराजस्य हरः प्रसेदिवान् ज्योतिस्स्फुलिङ्गं व्यदधाच्चतुर्थकम्॥ ७-७८ ॥ गत्वा परघ्नः परलीं परन्तपः श्रीवैद्यनाथं किल लिङ्गमद्भुतम्। दृष्ट्वा प्रसन्नः समपूपुजन्मुदा बिभ्रन्मनो भूतपभक्तिनिर्भरम्॥ ७-७९ ॥ कैलासमुत्तोलयतो दुराग्रहाद्दोर्भ्यां स्ववीर्याद्वहतः कृतागसः। यो रावणस्य स्खलितः स्वहस्ततः अत्र स्थितः पुण्यमिवाल्पमेधसः॥ ७-८० ॥ गत्वाथ भूयः किल डाकिनीं जवी स्वं डाकिनीभ्यो भगवान् रिरक्षिषुः। तं पूजयामास च भीमशङ्करं षष्ठञ्च लिङ्गं धृतभक्तिरादरात्॥ ७-८१ ॥ वाराणसीमेत्य पुनः स भार्गवो वीरव्रतो वर्धितशत्रुसङ्कटः। विश्वेशलिङ्गं समपूजयन्मुहुः कोट्या सहस्रेण च बिल्वपत्त्रकैः॥ ७-८२ ॥ यां विश्वनाथः प्रलयेऽपि काशिकां बिभ्रत्त्रिशूले दयितामिवादरात्। प्रीत्या ररक्षाथ सुरेन्द्रवन्दितः सानन्दमानन्दवने कृतालयः॥ ७-८३ ॥ गोदावरीतीरमुपेत्य भार्गवः स त्र्यम्बकं स्नेहजलाप्लुताम्बकः। सम्पूज्य भक्त्या प्रतुतोष मानसे नष्टव्यथो रङ्क इवाप्य काञ्चनम्॥ ७-८४ ॥ सम्भावितो गौतमभक्तिभावितो गोदावरीं स्वीयशटाकलापतः। प्रादुश्चकारामलनीरमण्डितां लिङ्गं शिवश्चामरवृन्दवन्दितम्॥ ७-८५ ॥ केदारनाथं हिमशैलमूर्धनि प्रार्चत्प्रसन्नो भृगुवंशवर्धनः। नेत्राम्बुभिश्चापि तुषारशीतलैः सङ्क्षालयामास वदान्यशेखरम्॥ ७-८६ ॥ यश्चादिदेवः श्रितवत्सलो भवः कारुण्यकल्लोलविलोलमानसः। बिभ्रद्वपुर्माहिषमादिपूरुषो भीमेन भीमो ददृशे हिमालये॥ ७-८७ ॥ पश्चात्समासाद्य स दारुकावनं नागेश्वरं पूजयति स्म भक्तितः। दूरीचिकीर्षुः षडसौ दुरत्ययान्नागानिवासादितभूरिवैक्लवः॥ ७-८८ ॥ यं सेवितुं सादरलोकपालका देवेन्द्रमुख्याः स्पृहयन्ति नित्यशः। आकाशगङ्गाशिशिराम्बुशीकरैः सङ्क्षालयिष्यन्त इवाङ्घ्रिपङ्कजम्॥ ७-८९ ॥ भूयः समासाद्य स दक्षिणोदधिं रामेश्वरं पूजयति स्म पूजितः। सन्नारिकेलाम्बुविशुद्धधारया रुद्राभिषेकं विदधे विधानवित्॥ ७-९० ॥ यं पूर्वकल्पे रघुवंशवर्धनो रामेश्वरं स्थापयति स्म सादरम्। लिङ्गं विधायाथ च रेणुकामयं भूमौ च विश्वासमिवात्मनामनि॥ ७-९१ ॥ अन्ते स गत्वा मुदितश्शिवालयं घ्रुश्मेश्वरं वैदिकमन्त्रवत्प्रभुः। प्रीत्याभ्यसिञ्चज्जमदग्निनन्दनो नम्रः प्रसूनैः किल नन्दनोद्भवैः॥ ७-९२ ॥ यो ब्राह्मणीनिर्मलभक्तियन्त्रतो घ्रुश्मापुरो दर्शितलिङ्गविग्रहः। दिव्यं यशः स्वं प्रकटीचकार ह घुश्मेश्वरख्यातिमगात्सनातनीम्॥ ७-९३ ॥ एवं विभुर्द्वादशलिङ्गविग्रहं सज्ज्योतिषो ज्योतिषबद्धनिष्ठया। सम्पूज्य भक्त्या भृगुवंशभूषणः स द्वादशादित्य इवाबभौ दिने॥ ७-९४ ॥ एवं विधान्येव सुतीर्थकान्यलं भ्राम्यन् भ्रमभ्रामितपापतापहा। भूयश्चचारातिमनुष्यचेष्टितः संशिक्षयिष्यन् पितृतोषणं व्रतम्॥ ७-९५ ॥ पश्चाद्गतस्तीर्थगुरुं स पुष्करं पुंसः पुराणस्य कलांशविग्रहः। लोकं पुनानः पदपद्मरेणुभी रेमेंऽशुमालीव स रेणुकासुतः॥ ७-९६ ॥ भूयः प्रयागं स तु तीर्थनायकं गत्वा त्रिवेण्यां परिमज्ज्य भार्गवः। स्वं पापराशिं क्षपयाम्बभूव ह प्रद्योतितो भानुरिवाभ्रसङ्क्षये॥ ७-९७ ॥ स ब्रह्मचर्यव्रतमेव नैष्ठिकं बिभ्रत्समुत्खातसपत्नकण्टकः। सत्तीर्थयात्राव्यपदेशतो विभुस्तीर्थीचकाराखिलमेव भारतम्॥ ७-९८ ॥ इति पितृपरितोषं संविधित्सुर्महात्मा पदजलजरजोभिर्जीवलोकं पुनानः। निजचरितसितिम्ना श्वेतयिष्यंस्त्रिलोकीं विबुधविरुदवन्दी वन्दितो रैणुकेयः॥ ७-९९ ॥ द्विजकुलकुमुदेशः शस्त्रविद्याविधिज्ञो ग्लपितसकलपापो भग्नतापस्तरस्वी। घटजसदृशतेजा भूसुरध्रुक्पयोधेर्जगति जयति रामः सर्वदा जामदग्न्यः॥ ७-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः श्रियै स्तात्कविरामभद्राचार्यप्रणीते किल सप्तमो नः॥ ७-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये तीर्थाटनं नाम सप्तमः सर्गः।