षोडशः सर्गः


अथ मुनीन्द्रकरो मुनिभीहरो रघुवरोऽवरजाभिहतावरः। समुदितो मुदितो यशसाययौ स मिथिलां मिथिलाधिपपालिताम्॥ १६-१ ॥ सुसलिलां कमलाकमलावलीमधुभरभ्रमरीमुखरीकृताम्। सुविमलां विमलातरलैरलं कलितपण्डितमण्डनमण्डलीम्॥ १६-२ ॥ कलमरालमृणालसुवापिकां पिकरसालरसालितवाटिकाम्। सुसरितं सरसां सरसीरुहैः स्फुटपरागजुषां सरसां रसैः॥ १६-३ ॥ सकलशस्यसनाथितसम्पदं विविपदं विपदं विपदां पदम्। सुखपदं द्विपदाञ्च चतुष्पदां प्रतिपदं प्रपदामभयास्पदम्॥ १६-४ ॥ पुरटतोरणवज्रकपाटिकां कपटपाटवपूगविपाटिकाम्। शुभसमञ्चितविश्वललाटिकां विबुधविघ्नवरूथविघाटिकाम्॥ १६-५ ॥ क्वचिदनुष्ठितपावकहोतृकां क्वचिदधिश्रितशास्त्रपरम्पराम्। क्वचिदलङ्कृतपण्डितमण्डलां क्वचिदुपाकृतभावसमुज्ज्वलाम्॥ १६-६ ॥ सुवलभिं बलिभिर्बलितेश्वरां कनकमन्दिरजुष्टमहेश्वराम्। परिसमीरितवेदवटुस्वरां रचितहाटकमन्दिरचत्वराम्॥ १६-७ ॥ धनदतुल्यसमृद्धसमन्वितां मणिललामसुवीथिविधन्विताम्। पुरजनप्रथितां धृतगौरवां जनकराजपुरीं हृतरौरवाम्॥ १६-८ ॥ विरजसं रजसा परिवर्जितां वितमसं तमसोऽपि विदूरगाम्। कलितदुग्धमतीं मतिमत्प्रियामशिथिलां मिथिलां मिथनिर्मिताम्॥ १६-९ ॥ स नगरीं नगरीप्रभुतामयीं सदबलां न बलेन विवर्जिताम्। धृतवनीमवनीमवलोकयन् प्रमुमुदे मुमुदे न नृपावली॥ १६-१० ॥ नवलनीलपयोधरसुन्दरो दरदरो दरदीर्णदरोदरः। हरहरारिशरः शरजन्मकृत्कृदभितो ह्यहितोषणतोषणः॥ १६-११ ॥ मकरकेतनकेतनकुण्डलोज्ज्वलकपोललसन्मुखमाधुरी। मिषदलोलविलोलविलोचनभृकुटिभग्नमनोभवचातुरी॥ १६-१२ ॥ सुभुजभोजनमञ्जुशरावलीहरजहस्तसमानमहाभुजः। करसरोजधृतेषुशरासनो विगणितामितमानसशासनः॥ १६-१३ ॥ दशनदीधितिलीननिशाकरो वसनसौभगदीनदिवाकरः। प्रणतपालकचारुयशस्करो रघुवरः स्मरकोटिमनोहरः॥ १६-१४ ॥ वृहदुरस्यथ लक्ष्म लघूद्वहन् श्रिय उदञ्चितचित्रपराक्रमः। नरमणी रमणीमणिवल्लभो भुवि बभौ भगवान् मिथिलापुरः॥ १६-१५ ॥ समुदितं मुदितं मिथिलाम्बरे विमलराघवचन्द्रमसं जनाः। कृतविलोचनचारुचकोरकाः परिपपुः सुवपुःसुषमासुधाम्॥ १६-१६ ॥ प्रणिनिशम्य मुनिं पुरमागतं श्रितकुमारयुगं किल कौशिकम्। स मिलितुं मिलितैः सचिवैर्द्विजैर्द्विजवरं द्विजदेव उपागमत्॥ १६-१७ ॥ कृतनमस्यममुष्य पदाम्बुजं समवलोक्य रघूद्वहसौभगम्। विशिथिलो मिथिलाधिपतिर्मुनिं वच उवाच कृताञ्जलिरादरात्॥ १६-१८ ॥ जयति तत्रभवान् किल कौशिको विबुधभूसुरशस्यबलाहकः। बहुमता भवता विहिता वयं पदपयोरुहदर्शनतो मुने॥ १६-१९ ॥ कुत इमौ हरितुल्यपराक्रमौ जलदहाटकसुन्दरवर्णिनौ। सुरवरारिव चात्र समागतौ नरवरौ किमु देव दिवः किल॥ १६-२० ॥ हरिहरावुत वा मुनिबालकौ रविसुतावुत भूपकिशोरकौ। किमुत ते सुकृतस्य फलं मुने धृतशरीरयुगं प्रतिभाति मे॥ १६-२१ ॥ मम निसर्गविरागमयं मनः समवलोकयतो नितरामिमौ। स्थिरगतीव शरद्रजनीविधू क्षुधितनेत्रचकोरकशावकम्॥ १६-२२ ॥ अहह धन्यतमौ पितरौ किल यदनयोर्मुखपङ्कजमाधुरीम्। प्रपिबतोऽनिमिषैः सुकृताम्बुधी दृगभिधैश्चषकैश्चलपक्ष्मभिः॥ १६-२३ ॥ सहजसुन्दरमञ्जुमरालकौ विहितबालतनू किल काविमौ। सुविमले कमले इव पश्यतो मम मनोमधुपं हरतो हठात्॥ १६-२४ ॥ कथय नाथ कथां व्यथितव्यथां मनुजदारकयोरनयोर्मुदा। किमुत पावयितुं मिथिलावनिं नयनगोचरतामगमत्परः॥ १६-२५ ॥ इति निशम्य गिरं गदिताक्षरां सुमतिनावनिपेन महामुनिः। पतितपावनरामयशस्सुधां किमपि पाययितुं ह्युपचक्रमे॥ १६-२६ ॥ दशरथस्य सुतः प्रथमः पुमाञ्जलदनीलतमालतनुच्छविः। मदनमोहनमूर्तिरनुत्तमो जगति राजति राम इति श्रुतः॥ १६-२७ ॥ कमनकोसलजासुरवल्लिकासुफलमेष मुखस्मितमञ्जुलः। भुवनमङ्गलसद्गुणसागरो गरहरो हरहृद्यवपुर्धरः॥ १६-२८ ॥ दनुजसूदन एष महाभुजो भुजमहानलदग्धसुबाहुकः। बलप्रभावप्रतापपराक्रमा इह चकासति सोदरका इव॥ १६-२९ ॥ अयममुष्य लघुर्दयितोऽनुजो जनभृतां चरितैरिव देशिकः। कनककेशरचम्पकसुन्दरोऽविलुलितोऽललितोऽवति लक्ष्मणः॥ १६-३० ॥ असितपीतपयोरुहसुन्दरौ रघुवरौ कलकेशरिकन्धरौ। दशरथस्य सुतौ महितौ हितौ जगति जाग्रति राघवलक्ष्मणौ॥ १६-३१ ॥ मखरुजो विजिघातयिषन्नृप कुशलकोसलपालपुरीं गतः। दशरथं समयाच इमावहं जरठमीनमिवाम्बु विनिर्दयः॥ १६-३२ ॥ दशरथोऽगणयन् दशमीं दशां स दशमं निगमो यतये यथा। सुतयुगं प्रददौ दयितं हि मे न रघवो हि निराकृतयाचकाः॥ १६-३३ ॥ बलनिधी गुणमन्दिरसुन्दरौ जलदहाटकमञ्जुमहाद्युती। अनुगताविव मां मधुमाधवौ दिशमितं शमितं रविमुत्तराम्॥ १६-३४ ॥ कलितकेलिशरासनसायकौ शुभशिखण्डधरौ रघुनायकौ। समरमूर्धनि नाशितनैर्ऋतौ मम मखं ससुखं समरक्षताम्॥ १६-३५ ॥ पथि प्रपूय पदाब्जपरागकैर्मुनिवधूं कमनीयकलेवराम्। रघुवरोऽथ धनुर्मखदर्शनोत्सुक इहागत एष सलक्ष्मणः॥ १६-३६ ॥ इति निवेद्य मुनौ विरते रते प्रभुपदाम्बुजयोः स जयोचितम्। रघुपतिं परिपूज्य पुराणवित्समनयन्नयनैकफलं गृहम्॥ १६-३७ ॥ अथ विदेहपुरीं पुरुषोत्तमो ललितलक्ष्मणलालसयेरितः। अनुमतो गुरुणाभिमतो गतः स जगतां जगतां प्रभुरीक्षितुम्॥ १६-३८ ॥ जलजसुन्दरनीलकलेवरो वरधनुर्धरधुर्यसमर्चितः। मलयमञ्जुलचन्दनचर्चितः परिवृतो महसेव महैर्वृतः॥ १६-३९ ॥ करिकराभकरे वरकार्मुकं श्रितशरं सशरं धृतिमान् धरन्। कटितटे च निषङ्गमिवात्मना स मनसा प्रणवं परमात्मवित्॥ १६-४० ॥ विपुलवक्षसि मौक्तिकमालिका परिललास परा परमात्मनः। गजमुखो धृतमौक्तिकविग्रहो हरिमुपासितुमेव किमागतः॥ १६-४१ ॥ किमुत वैष्णवयुक्तमहात्मनां चय इवाश्रितमौक्तिकदेहभाक्। वृहदुरस्यथ लक्ष्मणपूर्वजं कृतनिवास इमं रमयत्यहो॥ १६-४२ ॥ पथि विराजति राजसुतोत्तमे भुवनमङ्गलधाम्नि सलक्ष्मणे। प्रमुदिताः शिशवः समुपाययुः शशिनि किन्न चकोररतिर्भवेत्॥ १६-४३ ॥ विविधवेषधराः सरलाः समे क्रमविवर्जितभाषणशालिनः। गतभयाः परिषस्वजिरे हरिं सरलता महतां हि विभूषणम्॥ १६-४४ ॥ अहह दाशरथी मिथिलापुरीं ससुखमागतयोर्युवयोर्वयम्। प्रकरवाम सुवस्तुनिदर्शनां भुवनभूषणता भवतोर्यतः॥ १६-४५ ॥ इत इतो रघुनन्दन ईक्षतामशिथिला विमला मिथिलापुरी। कलिततोरणवज्रकपाटिका सुजनपापकदम्बविपाटिका॥ १६-४६ ॥ मिथमियं विलुनाति भयावहं मथति पातकपुञ्जमसौ सताम्। मिथमहीपतिना विहिता पुरा अत इयं मिथिला परिगीयते॥ १६-४७ ॥ सुरसरित्पयसैव पवित्रिता विमलगण्डकिवीचिविलासिता। हिमगिरेरधिराजदुपत्यकं धृतपदा मिथिला भुवि शोभते॥ १६-४८ ॥ इह विलोकय दुग्धमतीं नदीं विदधतीं गुणतश्च मुधा सुधाम्। दुहितरं परिपालयितुं भुवा प्रकटितां कटितां पयसाहिताम्॥ १६-४९ ॥ सुनयनापयसः प्रथमं प्रभो वसुमतीतनया सनयानया। निजपयोभिरतोषि ततः सुरैरभिहिता भुवि दुग्धमती सती॥ १६-५० ॥ इदमथो परिलोकय लोकपस्पृहितवासविलासमनोरमम्। जनकराजगृहं विलसद्गृहं सुनयनादिवधूभिरलङ्कृतम्॥ १६-५१ ॥ इदमखण्डितदीपमणिप्रभं सुभवनं भगवन् भवतेक्ष्यताम्। सुनयनानयनाम्बुधिकौमुदी कनति काचिदयोनिजकन्यका॥ १६-५२ ॥ भुवमिमां हलतः परिशोधयन् समधिगम्य महीपमणिर्मुदा। सुनयनामनया सममानयत्तनय एव मतिं परविद्यया॥ १६-५३ ॥ इयमनुत्तमपादपमण्डिता लसति मैथिलवल्लभवाटिका। विहरतीह हरारिसखः सदा कुसुमपल्लवसौरभसम्पदा॥ १६-५४ ॥ अधिनिकुञ्जमिहावनिबालिका सशुकगार्गितनूः शुकसारिका। कनकसुन्दरमञ्जुलपञ्जरे समनुपाठयते सुकुमारिका॥ १६-५५ ॥ श्व उषसीह महीसुतया तया निजकरग्रहपूर्वदिने मुदा। कनकमन्दिरमध्यगता शिवा सविधि पूजयिता गिरिजा सती॥ १६-५६ ॥ इत इतः पुरतः पुरतो धनुर्मखगृहं जनकस्य धनुर्यतः। अहमिवैतदहो तनुमानिभिः सुमहितं सहितं मिथिलाधिपैः॥ १६-५७ ॥ धनुरिदं गिरिशस्य निरीक्ष्यतां जडितपूर्वमदो युधि शार्ङ्गिणा। क्षपितभूपबलं पतितं भुवि प्रथितभैरवमन्दरगौरवम्॥ १६-५८ ॥ यदसुरा न सुरा न च किन्नरा न दनुजा मनुजा न कदाचन। चलयितुं तिलमात्रमपि क्षमाः कुविषया न महात्ममनो यथा॥ १६-५९ ॥ तदिदमीशधनुर्धरणीसुता करजकन्दुकितं कमलेक्षणा। करसरोजपुटेन मनस्विनी कुतुकतो बहुशः समनर्तयत्॥ १६-६० ॥ इति निदर्शपुरं पुरुषोत्तमं पुलकिताः परमं परिरेभिरे। मधुरमूर्तिमयं रघुनन्दनं सदसवः शिशवः शिशुचन्दनम्॥ १६-६१ ॥ रघुवरोऽपि विभाव्य विभाकरं जिगमिषुं निजविश्रमणं गिरिम्। शिशुगणांश्च विसर्ज्य विसर्गवित्समगृणादनुजं रिपुहानुजम्॥ १६-६२ ॥ ललितलक्ष्मण लक्षय पश्चिमामनुपमामुपमामुपमामुमाम्। रविकरैररुणां नववल्लभां स्वपतिना रमितामिव कुङ्कुमैः॥ १६-६३ ॥ रसितरश्मिरथो रथिनां रथोपरि वरो विचकास्ति विभास्वरः। कमलिनीरमणीकुचकुङ्कुमारुणिमचारुकरोऽथ नभश्चरः॥ १६-६४ ॥ वियति भूरि विहृत्य पयोजिनीप्रियकरो रसरञ्जितरश्मिमान्। अभिसरन्निव मञ्जुलमण्डलो दिशमुदञ्चति सम्प्रति पश्चिमाम्॥ १६-६५ ॥ कमलिनीं विरहेण स योजयन् स्वभगिनीं रजनीमिव मानयन्। मुखरयन् वयसां च कुटुम्बकं दिनकरोऽवति पश्चिमपर्वतम्॥ १६-६६ ॥ अभिमुखो ननु पश्चिमसागरं रविरभूल्लघुशीतकरः किल। अनुरसन्निव पश्चिमसभ्यतां क्षपितशर्ममहो मनुजाधमः॥ १६-६७ ॥ अथ गुरुं समुपेत्य तदाज्ञया विहितसान्ध्यविधिर्विधिकोविदः। जनकजागुणचिन्तनतत्परो निशमिमामनयत्क्षणकल्पिकाम्॥ १६-६८ ॥ प्रातरुत्थाय रामो रमावल्लभः कौशिकानुज्ञया योगिनां दुर्लभः। बन्धुनेवर्तुराजेन पुष्पायुधः पुष्पहेतोर्गतो जानकीं वाटिकाम्॥ १६-६९ ॥ कोकिलाकाकलीभिः कलं कूजितां सद्विहङ्गावलीभिः पुनः पूजिताम्। रम्यराजीवराजीवशैः षट्पदैर्मञ्जुमानन्ददानं द्रुतं गुञ्जिताम्॥ १६-७० ॥ पादपाः पल्लवाढ्याः सुपुष्पाः फलव्रातकाः पारिजाता इवाजातकाः। राजिता नान्दनीं सम्पदं सम्पदा व्रीडयन्तो हि राजन्ति ते सर्वदा॥ १६-७१ ॥ वाटिकामध्यतस्तोयजालीलसन्मञ्जुमाद्यन्मयूरेन्द्रशुभ्रं सरः। मैथिलीस्नानदिव्याम्भसा पूरितं हंसपारावतैः सन्ततं कूजितम्॥ १६-७२ ॥ वीक्ष्य वापीं तटाकं तथा वाटिकां मञ्जुनृत्यं मयूरं वनं पावनम्। लोकलोकाभिरामो रमावल्लभो रामचन्द्रोऽपि रेमे समं बन्धुना॥ १६-७३ ॥ मालिना संस्तुतो मञ्जुमाली भुवो वाटिकायाः करे द्रोणिकां धारयन्। पुष्पपूगं विचिन्वन् विभुश्चिन्तयन् जानकीदर्शनौत्सुक्यलोलन्मनाः॥ १६-७४ ॥ तत्क्षणे सङ्क्वणत्किङ्किणीनूपुरारावराजद्दिगन्ता सुदन्तप्रभा। भूषणैर्भूषिता मातृसम्प्रेषिता पार्वतीपूजनायागता मैथिली॥ १६-७५ ॥ कामवामाविभा व्रीडितेन्दुप्रभा भव्यनीलाम्बरा स्त्रीवरा स्रग्विणी। मत्तमातङ्गिनीहंसिनीगामिनी भामिनी भाविभान्तीव सौदामिनी॥ १६-७६ ॥ चम्पकाभा स्मितज्योत्स्नया भासिता भूषिता दिव्यभूषाम्बरैर्वर्णिनी। पद्मपद्भ्यां चलन्ती लसन्ती रुचा कोटिकोटीर्हसन्ती रतीः स्वत्विषा॥ १६-७७ ॥ आननं चुम्बितुः सप्रयत्नानिव स्निग्धकेशान् रुषा वारयन्ती सती। कोटिलक्ष्मीविभां बिभ्रती धीमती श्रीमती श्रीः श्रियो राघवप्रेयसी॥ १६-७८ ॥ स्वाभिरष्टाभिरीड्यप्रभाभिः सुखं सेव्यमाना यशोगीयमाना मुदा। मञ्जुमञ्जीरसिञ्जत्पदा प्रस्थिता सुस्थिता संयमे धारणेयी बभौ॥ १६-७९ ॥ रामचन्द्रोऽपि तां दृष्टवान् पार्थिवीं दूरतो दुर्विभाव्यां सतां चेतसाम्। वल्लभां श्रीश्रियं श्रेयसीं प्रेयसीं मञ्जुराजीवदृग्भ्यां सतृष्णं प्रभुः॥ १६-८० ॥ दीपयन्ती दिगन्तं दिवो दीपिका रामचेतःकुरङ्गं कुरङ्गेक्षणा। कोसलाधीशचक्षुश्चकोरास्पदं स्वाननेन्दुं समारोपयत्पार्थिवी॥ १६-८१ ॥ यस्य योषाकटाक्षेषुभिर्नो मनो विव्यथे क्वापि विद्धं प्रवृद्धात्मकम्। तस्य रामस्य तद्भृङ्गितं मानसं निघ्नमासीन्महीजाननाम्भोरुहे॥ १६-८२ ॥ वीक्ष्यमाणो दृशा राजकन्यां रहो राजसूनू रसेशाम्बुधेश्चन्द्रिकाम्। स्वञ्च सस्मार साकेतलोकोचितं नेत्रयोर्निर्निमेषत्वमत्र क्षणे॥ १६-८३ ॥ कापि कादम्बरी कापि कादम्बिनी कापि सौदामिनी कापि भाभामिनी। एवमेषा शुभोत्प्रेक्षिकाभिः प्रिया प्रेक्षिता प्रेयसा प्रेक्षणप्रेयसी॥ १६-८४ ॥ वीक्ष्य तां वीक्षणीयाम्बुजास्यश्रियं स्वश्रियं श्रीश्रियं ब्रह्मविद्याश्रियम्। धीधियं ह्रीह्रियं भूभुवं भूभुवं राघवः प्राह सल्लक्षणं लक्ष्मणम्॥ १६-८५ ॥ वीक्ष्यतां वीक्षणीया कुमारीवरा वाटिकां भासयन्ती तनुज्योतिषा। रत्नदीपस्य साध्वीशिखेवामला देवतेवैति चाराममिन्दूज्ज्वला॥ १६-८६ ॥ सेयमम्भोरुहाक्षी विदेहात्मजा यत्कृते चापयज्ञः समायोजितः। दक्षिणा यस्य सीतैव सङ्कल्पिता वीर्यशुल्का धनुर्भञ्जिने यज्वने॥ १६-८७ ॥ अद्य पूर्वे दिने पाणिपीडाविधेः पार्वतीमर्चितुं सानुगा सागता। द्योतयन्ती दिशो वाटिकां भामिनी दिव्यदीपप्रभेवार्चिषा चिन्मयी॥ १६-८८ ॥ एतदास्ये शरच्चारुचन्द्रप्रभे लोचने मे चकोरायिते लक्ष्मण। नो जिहासेत्क्षणं भृङ्गभूतं मनस्तन्मुखाम्भोरुहस्यासवं वै नवम्॥ १६-८९ ॥ किं निमित्तं मनोऽस्यां स्पृहावद्धि मे जैत्र जागर्ति रागो ममास्यां कथम्। चातकस्येव बन्धो पयोदस्रजि प्रौढभृङ्गस्य भावो नलिन्यां यथा॥ १६-९० ॥ नूनमत्रास्ति किञ्चिद्विधात्रे हितं नान्यथा मन्मनोऽस्यां प्रवृत्तं भवेत्। स्वप्नकालेऽपि मन्मानसाम्भोधिजो नान्यनारीनलिन्यां स्पृहामावहेत्॥ १६-९१ ॥ इत्थमाकर्ण्य विश्वैकभर्तुर्वचो लक्ष्मणो नैव किञ्चिज्जगादोत्तरम्। सस्मितं वीक्ष्य सीतापदाम्भोरुहं भ्रातृजायां ववन्दे स्वमातुर्धिया॥ १६-९२ ॥ भूमिजा भूमिभूयिष्ठभारं हरिं सञ्जिहीर्षन्तमत्रागतं मैथिली। राघवं मञ्जुकञ्जे लतामन्दिरे रम्यराजीवदृग्भ्यां समार्चन्मुदा॥ १६-९३ ॥ कोटिकन्दर्पदर्पघ्नमिन्दीवरश्यामलं कोमलं निर्मलं सद्बलम्। विश्ववारान्निधेर्मन्दरं सुन्दरं भीहरं भूधरं श्रेयसां मन्दिरम्॥ १६-९४ ॥ सर्वलोकैककान्तं सदा सुस्मितं राममात्माभिरामं सुखाम्भोनिधिम्। वीक्षमाणा समानं प्रभुं सानुजं नैव तृप्तिं जगामावनेयी चिरम्॥ १६-९५ ॥ वीक्ष्य वीक्षावतां वीक्षणानां फलं भक्तिमद्वत्सलं निर्बलानां बलम्। सा चकोरी किशोरीव भौमी शरच्चारुराकाविधुं वीक्षते स्मादरात्॥ १६-९६ ॥ प्रेमपाथोनिधौ धैर्यनौकां सती मज्जयित्वा विदित्वा स्वकान्तं प्रभुम्। प्राणनाथं जगन्मङ्गलं माबलं मानसे सस्वजे जानकीजीवनम्॥ १६-९७ ॥ नेत्ररन्ध्रैः समानीय हृन्मन्दिरं रामचन्द्रं शरच्चन्द्रिका सौभगा। सा सखीमध्यगागाद्भवानीगृहं चोरयित्वा जगच्चित्तचोरं द्रुतम्॥ १६-९८ ॥ गोपं गोपं हृदयसदने रामरत्नं मनोज्ञं ह्रेयं ह्रेयं निजतनुरुचा कामवामा असङ्ख्याः। गापं गापं निजविधिकरी रामबाहुप्रतापं गौरीं सीता निजपितृगृहं पूजयित्वा प्रतस्थे॥ १६-९९ ॥ श्रीरामोऽपि सलक्ष्मणोऽथ विलसत्पुष्पोच्चयश्चिन्मयो विश्वामित्रमुपेत्य सर्वमवदत्सीतानुरागं स्वकम्। सत्याशीर्भिरलङ्कृतोऽथ गुरुणा प्रीतश्च सैरध्वजी- स्मेरास्यं शशिनश्छलेन रजनीं जाग्रज्जगौ गौरवात्॥ १६-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः कलाख्यः कविरामभद्राचार्यप्रणीते जगतां श्रियेऽस्तु॥ १६-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीराघवप्रियादर्शनं नाम षोडशः सर्गः।