षष्ठः सर्गः


इत्थं पितुः प्रीतिकरश्चरित्रैर्मातुः परित्राणकरश्च पापात्। स देहलीदीप इवोद्दिदीपे बाह्यान्तरश्रीर्भृगुवंशदीपः॥ ६-१ ॥ गुरोः पितुर्मातुरसौ स्वभक्त्या वाक्यानुरक्त्या चरणप्रसक्त्या। आर्यस्त्रयीं त्रीनिव तोषयित्वा जिगाय जैत्रश्चरितैस्त्रिलोकीम्॥ ६-२ ॥ स ब्रह्मचारी निजधर्मचारी स्वकर्मचारी च न चाभिचारी। चारी सतां चेतसि नातिचारी स चापचारी स न चापचारी॥ ६-३ ॥ निरन्तरायोऽप्यसदन्तरायो धनुःसहायो महितोरुगायः। सदा निरस्ताष्टविधव्यवायो निष्प्रत्यवायो लसितोऽनपायः॥ ६-४ ॥ त्रिकालसन्ध्यो विहिताग्निहोत्रः शिखोपवीती नितरामधीती। श्रुतौ श्रुतौ वैदिककर्णपूरो मायाविदूरो रुरुचे रुचाढ्यः॥ ६-५ ॥ वने वसन् ब्राह्मणवासवोऽयं षडङ्गवेदाम्बुधिपारदृश्वा। स्वकर्मणां क्रौञ्चभिदास्यसङ्ख्यां सानन्दचित्तः सुमनाश्चकार॥ ६-६ ॥ यज्वा सदा श्रौतमहामखानां महाक्रतूनायजता जविष्ठः। स्वयं वषट्कारमखात्मकोऽपि स्म वर्तते लौकिकसङ्ग्रहार्थम्॥ ६-७ ॥ स्वाध्यायतः क्वापि न स प्रमत्तः प्रातःसमाराधितजातवेदाः। घनान्तपाठञ्च घनस्वरेण स संहितां सङ्गमयाम्बभूव॥ ६-८ ॥ अध्यापिपत्पीतपदारविन्दपरागमारन्दमिलिन्दभूतान्। मुनीन्द्रबालान्नितरां कृपालुः साङ्गांश्च वेदांश्चतुरश्चतुर्थः॥ ६-९ ॥ दिदेश सद्भ्यश्चिदचिद्विशिष्टाद्वैतं गतद्वैतमखण्डबोधम्। तद्ब्राह्मणः सेवकसेव्यभावं प्लवं भवाब्धेर्विगतप्लवानाम्॥ ६-१० ॥ जहार सर्वेभ्य उदारभावो दोषानदोषो धृतशान्तिपोषः। इत्थं श्रुताराधनतत्परोऽसौ ब्राह्मीं विभां सञ्जनयाम्बभूव॥ ६-११ ॥ अनेकराजन्यसुताननिन्द्यान्निरागसो ब्राह्मणपादनिष्ठान्। स पाठयामास धनूरहस्यं विद्या हि विप्रैकवशा प्रशस्ता॥ ६-१२ ॥ ब्रह्मद्विषो नैव नृपान् स सेहे सपौरुषेयानपि भार्गवेन्द्रः। एकोऽप्यसङ्ख्यान्मदमत्तनागान् हिनस्ति सिंहः कुतुकात्क्षणेन॥ ६-१३ ॥ अथैकदाहूय मुनीन् यतीन्द्रान् वटून् गृहस्थानपि वानप्रस्थान्। स ब्राह्मणान् ब्राह्मणवंशवार्धेर्विधुर्वितन्वन् परितः प्रमोदम्॥ ६-१४ ॥ सम्पूज्य पूज्यान् स यथोपचारैः प्रसाद्य चासाद्य निजानुकूलान्। द्विजावलीध्वस्ततमस्तमोऽसौ सुधामिवेन्दुर्गिरमुज्जगार॥ ६-१५ ॥ शृणुध्वमेते मुनयो यतीन्द्रा वैखानसार्या बटवो गृहस्थाः। वचो मम श्रोत्रमनोऽभिरामं विपद्विरामं परिणामरामम्॥ ६-१६ ॥ वयं विराजो मुखतः स्म सृष्टा जगद्विभूत्यै विधिना विसृष्टाः। भूयश्च वेदैर्विहिता विशिष्टाः पुनः समाजेन नताः सुशिष्टाः॥ ६-१७ ॥ तदद्य दायित्वमथोत्तराणां महत्प्रवृद्धं शृणुत द्विजेन्द्राः। वोढुं कथं शक्ष्यथ भूरिभारं हंसा इवांसेषु च मन्दरस्य॥ ६-१८ ॥ न जन्ममात्राद्द्विजधर्मपत्न्यां भवेम तुष्टाः क्रियतां प्रयत्नः। न सिंहपुत्त्रोऽपि शृगालसत्त्वो गजेन्द्रगण्डं प्रसभं भिनत्ति॥ ६-१९ ॥ न जन्ममात्रेण हि कार्यसिद्धिरपेक्ष्यते कर्मसमुच्चयोऽपि। सुबीजमालापि मृदम्बुमुक्ता प्रभुः प्ररोहाय किमङ्कुरस्य॥ ६-२० ॥ पूजार्हतां यद्यपि विप्रपत्न्यां द्विजात्प्रसूतो लभतेऽनवद्याम्। तपःश्रुताभ्यां रहितस्तथापि व्यस्तः कराभ्यामिव ना न भाति॥ ६-२१ ॥ तपः श्रुतं योनिरिति त्रयं वै द्विजत्वहेतुं प्रवदन्ति सन्तः। नाभ्यामृते भाति जनुर्द्विजस्य प्राणात्ममुक्तस्य तनूरिवास्यम्॥ ६-२२ ॥ एतावतालं नहि वैभवेन द्विजत्वसिद्ध्यै क्रियतां प्रयासः। न वह्निजातोऽपि हि धूमराशिर्हविर्भुजो वै समतामुपैति॥ ६-२३ ॥ न वारिजातोऽपि जडो जलौका धत्ते विभां कामपि वारिजस्य। न सिन्धुजातापि च शुक्तिरीयात्पदं हरेर्वक्षसि सिन्धुजेव॥ ६-२४ ॥ परोपकारः सुसमाजसेवा निःस्वार्थवृत्त्या विकलाङ्गपोषः। ततस्तपस्तप्तशरीरयष्टिर्विप्रो विपश्चिद्भगवन्तमेति॥ ६-२५ ॥ विप्रं प्रशंसन्ति तपःप्रधानं तपोविहीनञ्च विगर्हयन्ति। राकेशमीट्टे किल जीवलोकः कुहूगतं नार्चति चन्द्रबिम्बम्॥ ६-२६ ॥ अनाशकेन व्रतचर्यया वा यज्ञैस्तपोभिर्मनसि द्विजस्य। जागर्ति वै ब्रह्मविवित्सुभावस्त्रिभिः समीरैरिव ना विभाते॥ ६-२७ ॥ श्रुतं धनं ब्राह्मणपुङ्गवानां श्रुताद्विहीनाः पशुवद्विभान्ति। श्रुतं न हातव्यमहो द्विजेन्द्राः प्राणैः परं प्रार्थ्यमिदं सदैव॥ ६-२८ ॥ किं कामरूपेण मनोहरेण प्रमाथिना वा चलयौवनेन। विद्याविहीनो न विभाति विप्रः सहस्ररश्मिः इव कान्तिहीनः॥ ६-२९ ॥ वर्णव्यवस्था विगतानवस्था वेदात्मना सा नु मयैव सृष्टा। एतां जिहासन् नहि शान्तिमेति दन्दह्यते मे किल कोपवह्नौ॥ ६-३० ॥ न कर्मणा सा किल जन्मनैव तथा हि यायाद्विपुलानवस्थाम्। जन्मापि तत्पूर्वशरीरकर्मफलानुगं राजति जीवलोके॥ ६-३१ ॥ लाभाय जातिर्न तु जातिवादो वर्णाभिमानोऽपि लसद्विषादः। सुनिर्विवादो विलसत्प्रसादः सनातनो वैदिकधर्म एकः॥ ६-३२ ॥ को नाम जीवेदनपेक्ष्य धर्मं जीवंस्त्रिलोक्यां धृतधर्मवर्मा। धर्मः प्रजा धारयति प्रसन्नः क्षमेव पापक्षमणे क्षमोऽयम्॥ ६-३३ ॥ लोके न चेत्स्याद्यदि धर्म एष भार्याभगिन्योरथ का भिदा स्यात्। त्रायेत कः कल्पलतामिवाद्यां पापात्पशोर्मानवताममोघः॥ ६-३४ ॥ तस्माद्वयं धर्मविदां वरिष्ठा विप्रा दिशेमाभयमेव नित्यम्। भूतेभ्य आर्तेभ्य उदारसत्त्वा एतद्द्विजानां हि महद्द्विजत्वम्॥ ६-३५ ॥ एवं समाश्वास्य समान्मुनीन्द्रानामन्त्र्य रामः पितरावनिन्द्यौ। जगच्छरण्योऽपि सतां शरण्यमरण्यमागात्प्रविविक्तवासम्॥ ६-३६ ॥ विविक्तमास्थाय महानुभावो रामो रमानाथसमप्रभावः। स्वभावसिद्धं श्रितसर्वसिद्धं विचिन्तयामास निजं स्वरूपम्॥ ६-३७ ॥ कैलासनीकाशनिसर्गगौरं गौरीपतिप्रार्थितपादपद्मम्। पद्मार्चितं साभरणं प्रसन्नं प्रसन्नमाकाशमिवर्क्षजुष्टम्॥ ६-३८ ॥ वैकुण्ठवासं धृतचन्द्रहासं लक्ष्मीनिवासं श्रितकोटिदासम्। अनन्तचण्डांशुसमप्रकाशं विभग्नभक्तामितयाम्यपाशम्॥ ६-३९ ॥ कौमोदकीकम्बुरथाङ्गकञ्जलसच्चतुर्बाधकबाधिबाहुम्। किरीटकेयूरविभूषणाढ्यं श्रीवत्सलक्ष्मं दनुजेन्दुराहुम्॥ ६-४० ॥ विचारयामास पुनर्मनस्वी कालो मया व्यर्थमियानयापि। साकेतनाथेन यदर्थमुर्व्यां सम्प्रेषितः कार्यमकारि तन्नो॥ ६-४१ ॥ वीर्यातिरेकात्प्रतुदंस्त्रिलोकीं बर्भर्ति सम्प्रत्यपि कार्तवीर्यः। फणीव सम्पादितदुग्धपानो दानीव दत्तेन करी प्रमत्तः॥ ६-४२ ॥ कथं निहन्यां तमसन्महीपं न पूर्वमेवाक्रमणं वरं मे। मृतेऽपि सर्पे त्रुटिता न यष्टिर्यदा तदा स्याद्विबुधैः प्रशस्ता॥ ६-४३ ॥ यद्वा मया नात्र विचारणीयं विधास्यते सर्वमसौ खरारिः। अहं तदंशः स ममास्ति चांशी ह्यहं लघीयान् स ममावतारी॥ ६-४४ ॥ इति व्यवस्यामितवीर्यशाली माली पटुर्ब्राह्मणवाटिकानाम्। रामे समभ्यर्पितचित्तवृत्ती रामाश्रयोऽयं विचचार रामः॥ ६-४५ ॥ गते विविक्तं भृगुवंशकेतौ हरीच्छया प्रेरितकालचक्रः। रामाशरण्यं जमदग्न्यरण्यं राजा सहस्रार्जुन आजगाम॥ ६-४६ ॥ माहिष्मतीनायकमात्तसैन्यं ज्ञात्वागतं तं सबलं सभार्यम्। मुदा महर्षिर्व्यदधात्सुरभ्या सुस्वागतं सिद्धिबला हि सन्तः॥ ६-४७ ॥ तां वीक्ष्य राजाखिलकामधेनुं सुरासुरप्रार्थितपादरेणुम्। तस्यै स भूपः स्पृहयाम्बभूव लुनाति लोभो हि सतोऽपि धैर्यम्॥ ६-४८ ॥ उवाच राजा जमदग्निमीड्यं सप्रश्रयं वाक्यमनन्दवीर्यः। प्रदीयतां मे किल कामधेनुः स्मृतो महीपो हि सुरत्नभोगी॥ ६-४९ ॥ तपस्विनो धैर्यधना भवन्तो वसन्तु कामं विपिने प्रशान्ताः। वयं नृपा वः परिपालयेम भोगैः किमेभिर्भवतां सतां भोः॥ ६-५० ॥ इति ब्रुवन्तं नृपमाह विप्रो नेत्थं त्वया हैहयराज वाच्यम्। गां नैव दास्यामि महीपते ते वेदान्तविद्यामिव नास्तिकाय॥ ६-५१ ॥ न चोत्सहे हातुमिमामनिन्द्यां हविर्दुहं कामदुहं स्वकीयाम्। कदापि गां गामिव गोपते त्वं कीर्तिं यशस्वीव सुधां शशीव॥ ६-५२ ॥ माहिष्मतीं गच्छ समं महिष्या विषीद मा भूप मयि प्रसीद। मा कामधेन्वै स्पृहयस्व मोघं ब्रह्माप्तये ग्राम्य इवाल्पपुण्यः॥ ६-५३ ॥ उवाच तं हैहयवंशवह्निर्मुने नमस्यामि भव प्रसन्नः। प्रदेहि मे सम्प्रति कामधेनुं षष्ठांशभोगी भवतीह राजा॥ ६-५४ ॥ धनाद्धिरण्यान्ननु रत्नकोटेर्माणिक्यमुक्तागजमौक्तिकेभ्यः। भूमेस्त्रिलोक्या अपि चाधिपत्यान्मुने प्रसन्नः प्रतियच्छ धेनुम्॥ ६-५५ ॥ इत्थं ब्रुवाणं जमदग्निराह गोविक्रयं नो नृपते प्रकुर्मः। तथाकृते स्वौरसकन्यकानां पापं स्पृशेन्मामपि विक्रयस्य॥ ६-५६ ॥ इत्युक्तवत्येव स कार्तवीर्यः साक्षान्महाकालमयीं च धेनुम्। बलाज्जहारामरराजलोकगवीं गवाशो रुदतीमिवाज्ञः॥ ६-५७ ॥ अथागतस्तत्र कुठारपाणिर्वीक्ष्याश्रमं शोकसमुद्रमग्नम्। शून्यं सुरभ्या सुधया विहीनं गतश्रियं चन्द्रमिवातिदीनम्॥ ६-५८ ॥ निशम्य तद्बालमुखाद्दुरन्तमुदन्तमुग्रं विषसाद रामः। स नेत्रनीरं पितरं निरीक्ष्य क्रोधात्प्रतीकारवशो बभूव॥ ६-५९ ॥ अहो इयं ब्राह्मणवंशपीडा व्रीडां ममोत्पादयति प्रकामम्। यच्छ्रीमदान्धा गतलोकलज्जाः सारस्वतान् विप्रवरांस्तुदन्ति॥ ६-६० ॥ तं दण्डयिष्यामि प्रचण्डदण्डो मुनेरवज्ञोत्थितचण्डचण्डः। निर्वापयाम्यद्य चलत्कुठारधाराम्बुना हैहयधूमकेतुम्॥ ६-६१ ॥ यावन्न पास्यन्ति मदीयबाणाः कदुष्णरक्तं युधि हैहयस्य। तावज्जलं नो न च भोगनिद्रा रामस्य चैषा परमा प्रतिज्ञा॥ ६-६२ ॥ निहन्तुकामो युधि कार्तवीर्यं कृतप्रणामो जननीपितृभ्याम्। गृहीतशस्त्रो धृतवल्कवस्त्रो माहिष्मतीमेव जगाम रामः॥ ६-६३ ॥ इति व्यवस्यत्यथ भार्गवेन्द्रे साङ्गत्रयो वीररसः प्रबुद्धः। जाग्रन्नवोत्साहमहामहाब्धितरङ्गभङ्गाञ्चितदेहयष्टिः॥ ६-६४ ॥ सव्येतरस्तस्य महाभुजस्य भुजः प्रपुस्फोर भुजग्नवर्यः। भुजङ्गभोगोपमसत्त्वसारो भुजङ्गपर्यङ्कबलप्रचारः॥ ६-६५ ॥ रुरोध रोचिष्णुशिलीमुखानां स पञ्जरे निर्जरलोभनीयाम्। माहिष्मतीं तां महिषीमिवाज्ञां पलायमानां जरसा जरन्तीम्॥ ६-६६ ॥ विदारयिष्यन्निव हैहयानां हृत्कर्णमस्तिष्कसमस्तशक्तिम्। स शक्रशस्त्रामितकोटिघोरं टङ्कारयामास धनुः कठोरम्॥ ६-६७ ॥ शरेण सन्देशमिहादिदीक्षन् राज्ञे प्रचिक्षेप विविक्तवर्णाम्। पत्त्री स पत्त्रीमिव कालदूतीं सहस्रबाहोः करयोः करङ्के॥ ६-६८ ॥ रे राजमानिन् क्षितिभुक्कलङ्क यत्कामधेनुं विजनादरण्यात्। विमाय वृद्धं पितरं मदीयं ध्वाङ्क्षः पुरोडाशमिवाजहर्थ॥ ६-६९ ॥ किं ते कृतं तत्सदृशं कुलस्य ब्रह्मस्वमेवापहरन्ति भूपाः। ब्रह्मण्यदेवः किल कार्तवीर्यो मिथ्याप्रवादं त्वमिमं बिभर्षि॥ ६-७० ॥ धिग्धिक्तव ब्राह्मणभक्तिमेतां धर्मध्वजिन् ब्रह्मकुलावमानिन्। विकत्थसे त्वं निजवीर्यमेव राजन्यवंशापसदः स मिथ्या॥ ६-७१ ॥ त्वां दण्डयिष्यन् समुपागतोऽहं करालकीनाश इवोग्रदण्डः। द्वन्द्वाहवं देहि महिष्मतीश नान्यो द्विजोऽहं किल दक्षिणार्थी॥ ६-७२ ॥ निशम्य चैतद्भृगुरामपत्त्रं राजा लसद्वाजिगजो युयुत्सुः। दोषां सहस्रेण विवृद्धदोषो दोषाकरो राहुमिवाभ्यगच्छत्॥ ६-७३ ॥ ददर्श रामं रणरङ्गमध्ये कालं करालं स्वमिवाह्वयन्तम्। विना पदत्राणशिरस्त्रमारादलातचक्रं तमिवोत्पतन्तम्॥ ६-७४ ॥ कुठारपाणिं मृगराजसत्त्वं क्रोधोज्ज्वलद्रक्तविशालनेत्रम्। रथादवातीर्य सहस्रबाहुस्तमर्जुनश्छद्मधिया ववन्दे॥ ६-७५ ॥ धन्योऽसि भो युद्धरसैकगृध्नो संवर्धितं विप्रकुलं त्वयैव। सुस्वागतं ते भृगुवंशकेतो दत्तं मया द्वन्द्वरणं घटस्व॥ ६-७६ ॥ ततः प्रवृत्तमात्तरोषकोषयोः सतोषयोर्विरुद्धयुद्धमद्भुतं प्रचण्डचण्डमुद्धतम्। तडत्तडत्तडत्तडच्छतघ्निकाशतप्रभास्फुरत्स्फुलिङ्गमालया विलुप्तचण्डदीधिति॥ ६-७७ ॥ रथाश्वमत्तसादिमद्दुरन्तमप्यनादिमत्परस्परप्रमादिमद्विरुद्धवीरवादिमत्। प्रवृद्धवीर्यवाडवं प्रगल्भशस्त्रलाघवं प्रसिद्धसैन्यपाटवं करालकालताण्डवम्॥ ६-७८ ॥ इतो निरस्तसम्भ्रमो विधूतविश्वविभ्रमो गतभ्रमः परिभ्रमन् भृगूत्तमः स्म राजते। ततोऽप्यदैन्यसैन्यसांयुगीनशक्तिसर्जनः स दत्तसत्कृपार्जनः सहस्रबाहुरर्जुनः॥ ६-७९ ॥ प्रवीरवाजिमत्तशस्त्रमत्स्यनक्रसङ्कुलत्समुल्लसत्सहस्रबाहुसैन्यघोरसागरम्। अजांशकच्छतीव्रशस्त्रवासुकिर्महाबलो रसोज्ज्वलो भयानलो ममन्थ राममन्दरः॥ ६-८० ॥ क्वचिच्छिरोविखण्डनं क्वचित्कबन्धकृन्तनं क्वचित्पदादिलुण्ठनं क्वचित्प्रवीरतर्जनम्। प्रभञ्जनो यथा घनं विधूय शात्रवं बलं प्रचण्डचण्डविग्रहो जगर्ज रामकेशरी॥ ६-८१ ॥ एवं हतेऽखिलबले बलिबन्धिबन्धुस्निग्धावतारवपुषा रणकर्कशेन। क्रुद्धस्तमभ्यपपतच्छलभो यथाग्निं रुद्रास्यचापशतकोऽथ सहस्रबाहुः॥ ६-८२ ॥ तं पञ्चकार्मुकशतेरितभीमवह्निज्वालाज्वलच्छिखनिशातशरालिजालैः। जैत्रं जजाल जलदो जलजान्वयस्य प्रेष्ठं मुहूर्तमिव संयति कार्तवीर्यः॥ ६-८३ ॥ स ग्रीष्मकोटिशतभानुसमप्रभावश्चापाच्युताग्निशरमेव प्रहृत्य शीघ्रम्। भस्मीचकार रिपुबाणचयं क्षणेन श्रीरामनाम जपतामिव पातकानि॥ ६-८४ ॥ पार्जन्यशस्त्रमथ हैहयराजमुक्तं यावत्क्षणं दमयितुं दहनं प्रयेते। तावद्भृगूत्तमसमीरसमीरशस्त्रं मोघीचकार किमनन्तबलस्य चित्रम्॥ ६-८५ ॥ क्रुद्धोऽर्जुनो धनुषि पार्वतशस्त्रमुग्रं यावद्दधे विहितपर्वतभूरिवर्षम्। वज्रास्त्रतः सपदि वज्रधरानुजांशो धूलीचकार धृतशात्रवनेत्रधूलिः॥ ६-८६ ॥ रुष्टोऽर्जुनः परशुरामजिघांसया वै यावद्दधे धनुषि पाशुपतास्त्रमुग्रम्। तावद्भृगूत्तमप्रयोजितभीमशस्त्रे नारायणे समलयत्तदतीव चित्रम्॥ ६-८७ ॥ तत्साधु साधु मुनयो विबुधाश्च चक्रुः शंसन्त ईड्यचरितं भृगुवंशकेतोः। नेदुर्दिवो विबुधदुन्दुभयस्तदानीं कीर्तिं जगुर्मुदितकिम्पुरुषाः सुगाश्च॥ ६-८८ ॥ शक्तिस्त्रिशूलमथ चक्रपरश्वधाद्या रामे विरुद्धमनसा प्रसभं प्रयुक्ताः। सर्वे तदैव विफला हतशक्तिकास्ते क्षिप्रं बभूवुरिव दुष्टमनोरथाश्च॥ ६-८९ ॥ भूयो व्यभावयदयं मनसा मनस्वी सङ्क्रीडितो बहु मया किल हैहयेशः। शीघ्रं निहन्मि खरधारपरश्वधेन ब्रह्मावमानहतपूर्वममन्दपापम्॥ ६-९० ॥ एवं व्यवस्य भगवान् धृतचण्डचापः शीघ्रं चकर्त धनुषां शतकानि पञ्च। क्रोधाज्जडीकृतविवेकविलोचनं तं वीरो महारथमसौ विरथञ्चकार॥ ६-९१ ॥ भग्नो रथो विनिहतास्तुरगाश्च सर्वे सूतोऽपि कृत्तशिरसा सहसा पपात। तूणानि नष्टविशिखानि तदा स भूयो मर्तव्यमेव मनसा परिनिश्चिकाय॥ ६-९२ ॥ यं विश्वविश्वविजयी दशकन्धरोऽपि प्राभून्न चाभिभवितुं धृतमुक्त आजौ। रेवाप्रवाहपरिवर्तनसौण्ड्यबाहुं रामो रणे गणयते स्म न तं तृणाय॥ ६-९३ ॥ तं हन्तुकाममनसा भृगुवंशवर्यो विज्यं धनुः सपदि सज्जमसावकार्षीत्। ब्रह्मद्विषां प्रबलकालकराललोलज्ज्वालामयं स्वधितिमेव करेऽग्रहीत्सः॥ ६-९४ ॥ तं खड्गपाणिमभियान्तमरातिमारात्संस्तभ्य मार्गणगणैः स परश्वधेन। रामः सहस्रभुजबाहुसहस्रमुग्रो वव्रश्च काण्डनिकरानिव पादपस्य॥ ६-९५ ॥ स हैहयपतेश्शिरो मुकुटकुण्डलाढ्यं नृपा- भिषेकजलबिन्दुभिर्विलसितं श्लथत्कुन्तलम्। कठोरतमनेमिना परशुना पतिभ्यो दिशां चकर्त कृतिनां वरो बलिमिवादिशन् भार्गवः॥ ६-९६ ॥ धनुःस्रुगभिमेदुरे भृगुपकोपवैश्वानरे रणाङ्गणसुचत्वरे सुभटराववेदस्वरे। शराहुतिमनोहरे नृपतिकाष्ठसञ्जागरे सहस्रभुजमध्वरे पशुमिवाजुहोद्भार्गवः॥ ६-९७ ॥ देवा हृष्टा ववृषुरनघं पारिजातप्रसूनै रेजे राजा रुचिततमसामोषधीनामिवासौ। माहिष्मत्याः सह निववृते कामधेन्वा महात्मा पित्र्यारण्यं पृथुलचरितः किन्नरैर्गीतकीर्तिः॥ ६-९८ ॥ हत्वा संयति भूसुरद्रुहमसौ भूपं सहस्रार्जुनं कृत्वा दारुणदेवविस्मयकरं सङ्ग्राममत्युल्बणम्। दिव्यं ब्राह्मणवंशविश्रुतयशो लोकत्रयं गापयन् पित्रोस्तोषकरश्चिरं विजयते वीरव्रती भार्गवः॥ ६-९९ ॥ इति भृगुपतिर्हत्वा रामः सहस्रभुजं रणे सुरभिसुरभिर्वीरो धीरो धरासुरभूषणम्। सुरमुनिगणोद्गीतः प्रीतः पितुः पदपङ्कजं रणरसलसन्मूर्ध्ना प्रेम्णास्पृशन्मधुपव्रतः॥ ६-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। षष्ठस्तु सर्गः कविरामभद्राचार्यप्रणीते भवताच्छ्रियै नः॥ ६-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये सहस्रार्जुनवधो नाम षष्ठः सर्गः।