नवमः सर्गः


अथ विप्रसपत्ननरेन्द्रतनूस्रुतशोणितबाणतडागकरः। विबभौ भृगुरामरविस्तरुणस्तततुत्तमतिग्मतुषारहरः॥ ९-१ ॥ खरधारपरश्वधसागरभूरणसागरमग्ननृपप्लवकः। न कदाप्यमृशत्करुणातरुणीं व्रतभङ्गभियेव ततारिकुले॥ ९-२ ॥ अभिषिच्य पितृघ्ननृपापसदव्रणतो द्रुतरक्तपयोभिरलम्। स्वमथो क्रतुभिर्गतभीर्बहुभिर्भगवान् समयष्ट विसृष्टमदः॥ ९-३ ॥ स समर्प्य मरीचिसुताय महीं महितोऽमहितो ममहामहिमा। विरराज विराडिव राजवधप्रशमोरुरुजा निजलीनजगत्॥ ९-४ ॥ हतभानुसहस्रनृपेन्द्रवपुस्स्रुतशोणितनिर्मितबाणसराः। तदपः किल नाकसदां यजने सममन्यत पूर्वजतोषकरीः॥ ९-५ ॥ हुतवीर्यविभावसुविप्ररिपुर्विबुधार्चितपङ्कजपादयुगः। स सरस्सु कृतानुसवाभिषवः सममन्यत पूर्णततापचितिम्॥ ९-६ ॥ परितर्प्य तदद्भिरसौ स्वपितॄन् पितरं परिजीव्य पराभिहतम्। प्रविधाय मुनिष्वनुमातुलकं कमितः कमितः शमितारिरुजाम्॥ ९-७ ॥ इति पुण्यपयोजपरागरसै रसिताखिलविद्वदलिप्रकरः। विबभार रुचं रुचिराननभाजितकोटिविधुर्विधुशेखरकः॥ ९-८ ॥ स कदाचिदुदग्रतपास्तरुणस्तपसा जिततिग्मतपस्तपनः। तपआतपतप्तकरीव सरो हरशैलमुपास्त निरस्तपरः॥ ९-९ ॥ दृढभक्तिसमाधिनिरुद्धमनोनयनो नयनोदितविश्वसृजम्। स ददर्श विवेकदृशं त्रिदृशं दृशिदृक्सदृशं गिरिशं सवृषम्॥ ९-१० ॥ घनसारसुधारतुषारतनुं रविचन्द्रहुताशदृशं सुमनुम्। बुधवीथिविराजितपिङ्गजटं प्रकटं विकटं श्रितसर्पकटम्॥ ९-११ ॥ वदनद्युतिनिन्दितचन्द्रमसं स्वमहोहतपादनमत्तमसम्। श्रितरामसुनामवृहत्तपसं पुलकावलिलाभलसद्वपुषम्॥ ९-१२ ॥ भवशूलविमोचनशूलकरं शरचापडमर्वयदण्डधरम्। भुजगेन्द्रविभूषणमार्तिहरं जितदूषणदूषणवैरिवरम्॥ ९-१३ ॥ करुणावरुणालयमात्तविषं नुतभूसुरराजतुरीयविशम्। भवभूतिविभावितसर्वदिशं रघुवीरपदाब्जलसन्निमिषम्॥ ९-१४ ॥ निटिलाक्षविदाहितविश्वरुजं भववारिधिमन्दरपङ्क्तिभुजम्। वरदं विशदं विमलं विरजं गिरजामुखचन्द्रचकोरमजम्॥ ९-१५ ॥ तमथ प्रथमप्रमितेन दृशा वशितुं द्विजवंशकृशानुकृषा। शिवमीहितमीहितवीर्यवृषा वृषकेतुपदाब्जपरागतृषा॥ ९-१६ ॥ भवभारहरेण हरेण रुषा भवलब्धकठोरकुठारजुषा। क्षपितं हि मया कुपवीर्यमुषा कुनृपालकुलं द्विजवंशपुषा॥ ९-१७ ॥ त्रिजगच्छ्रुतिशष्कुलिकानलिनीकरिशावरवे भवभीतिभवे। स्मृतिवृक्णकुभृद्गृहगर्भशिशौ सुमनो रमते परुषे परशौ॥ ९-१८ ॥ मुनिभिर्गुणितत्रिरसत्क्षितिपक्षतजार्णवमज्जनलब्धरुचिम्। तुलयेयमलं धनुषा नु कथं शकलत्परशोः परशुं वितथम्॥ ९-१९ ॥ कृतमज्जननीजनकापचितिं कृतिनं नृपनाशकठोरगतिम्। तमहं मृडपादपयोरुहयोर्मृडयेयमुदात्तगुणा हि बुधाः॥ ९-२० ॥ चलचन्द्ररुचे शिशुचन्द्ररुचिं व्रज भो परशो शकलत्परशुम्। दयितोऽसि च मे स ममापि गुरुस्त्वमसत्पुरहा स हतत्रिपुरः॥ ९-२१ ॥ गिरिराजसुताकुचकुङ्कुमभारुणितारुणसूतभवोपमितम्। गिरिशाङ्घ्रियुगं नुतसूनुयुगं स्पृशमुक्तकठोरगुणोऽनुयुगम्॥ ९-२२ ॥ न तुदेः खरधार कुठार कुभृत्क्षतजस्वदनोद्धत शर्वपदम्। गिरिजाकरचारुसरोजसखं प्रणमद्द्विजनाकिसखं सुनखम्॥ ९-२३ ॥ अवलोक्य भवन्तमुदारगणं कृतकार्यमनार्यवधव्यसनम्। भगवान्नयनैर्दशपञ्चमितैः सुखयिष्यति हृद्यगुणा हि बुधाः॥ ९-२४ ॥ त्वमथो भवपादपयोरुहयोर्भ्रमरीभवभावितभव्यबलः। परशो परुषत्वमपास्य मुहुर्लघुता हि गुरौ गुरुताजननी॥ ९-२५ ॥ इति सानुनयं प्रियशस्त्रमयं निगदन्निगदन् गदिनोंऽशवरः। परुषं परितो निजदृष्टिमयीर्विसृजन् स्रज उत्क उमेशपदे॥ ९-२६ ॥ नरकिन्नरचारणसिद्धगणैः परिगीतनृपाधमजैत्रयशाः। पथि पुष्पचयैर्नितरां निचितः प्रश्रितः स ययौ गिरिजेशगिरिम्॥ ९-२७ ॥ मुनिभिर्मृदुमानसकञ्जकरैः क्रियमाणमहेशमहासुमहम्। अलकाललनालकमल्लिकया विहिताद्रिसुताचरणापचितिम्॥ ९-२८ ॥ सह शारदनारदतुम्बुरुणा स्वरमण्डलमञ्जुलमूर्छनया। रणितं क्वणितं क्वचिदार्द्रधिया कलनूपुरनाकनटीभिरलम्॥ ९-२९ ॥ क्वचिदुन्मदराजमरालवरैर्वरटासहितै रटितं नटितम्। क्वचिदग्निजवाहसखैः शिखिभिः श्रुतदुन्दुभिनादघनानुमितैः॥ ९-३० ॥ मुनिमानसबालमरालवरो मुनिमानसमज्जनपानकरः। मुनिमानसपङ्कजभृङ्गमयं मुनिमानसमन्दिररङ्गमियात्॥ ९-३१ ॥ स ददर्श तदर्षभमम्बरिणामुदरम्भरिणां दुरवापपदम्। विपदां विपदं श्रितशर्वपदं हृतविघ्नपदं धृतशर्मपदम्॥ ९-३२ ॥ अरुणाचलचारुशरीररुचं हृतपादपयोरुहदासशुचम्। निजसेवकशस्यसुवारिमुचं शरणागतसङ्कटलोकलुचम्॥ ९-३३ ॥ चिदलौकिकसिन्धुरराड्वदनं भवविघ्नवरूथकलाकदनम्। मृदुमङ्गलमोदमहासदनं शशिदीधितिनिन्दकदृग्रदनम्॥ ९-३४ ॥ हृतवङ्किमवङ्किमतुण्डधरं भवखेदविभञ्जनवेदकरम्। गजकर्णसुकर्णितभौमिवरं सततं हृदि भावितगौरिहरम्॥ ९-३५ ॥ कटदानसुगन्धविलुब्धसुरोपवनभ्रमरं भ्रमभीतिहरम्। करतोऽकरतो रिपुवारिभुवां हृतविघ्नभरं हरहारकरम्॥ ९-३६ ॥ सुमुखं धृतमोदकमञ्जुमुखं सुसुखं रघुनाथकथैकसुखम्। सुमखं हृतविघ्नकबाणमखं सुसखं मतिमञ्जुलसिद्धिसखम्॥ ९-३७ ॥ निटिलाम्बकवल्गितविप्रपतिं खरतुण्डविदारितविघ्नततिम्। चरणाम्बुजसेवकसेव्यगतिं सततं श्रितराघवनामरतिम्॥ ९-३८ ॥ भगवन्तमनन्तमखण्डमजं धृतपाशमनोहरवेदभुजम्। निजकीर्तिविनाशितविघ्नरुजं गणनायकमायकमानमृजम्॥ ९-३९ ॥ पुरभित्सुतमाश्रितमाखुरथं वरतुन्दमलङ्कृतवेदपथम्। श्रुतिकीर्तितसन्ततसाधुकथं कृतरामसुनामजपावभृथम्॥ ९-४० ॥ जगदुद्भवपालननाशगुणं बहुविघ्नविघातविधौ निपुणम्। मतिसिद्धिकलत्रकलाप्रगुणं परमात्ममयं मगुणं सगुणम्॥ ९-४१ ॥ वरदं वरदन्तविभावरदत्विडुदञ्चितशैलसुतावरदम्। विपदर्णवपोतपदं विपदं शुभदं सुखदं विनताभयदम्॥ ९-४२ ॥ अरुणाम्बरमम्बरचारिनुतं दनुजारिपुरारिमुरारिहुतम्। वरदानिसुतं वरदानियुतं वरदानिवृतं वरदानिभृतम्॥ ९-४३ ॥ सहितं गणनाथमनाथहितं सुरनायकनागनरैर्महितम्। भयविघ्नविनाशकलासहितं स्मरमत्सरमानमदै रहितम्॥ ९-४४ ॥ गिरिजागिरिजावरसत्सुकृतं गिरिराजसुताजठरे विहृतम्। गिरिशानुगतं गिरिशानुरतं जगदीश्वरमीश्वरभावरतम्॥ ९-४५ ॥ निजभालविभूषितबालविधुं शुचिमानसबालमरालविधुम्। स्मरभित्सुकृताब्धिरसालविधुं श्रितबुद्धिसुसिद्धिसुधालवधुम्॥ ९-४६ ॥ तमतीव मनोहरवेषधरं धरणीधरभूषणतोषकरम्। प्रतिहारमवस्थितमार्तिहरं भृगुराम उदैक्षत बुद्धिवरम्॥ ९-४७ ॥ अवलोक्य गणेशमशेषनुतं सुमहान्तमुरुक्रमसत्त्वयुतम्। धृतमोदकहस्तमपास्तभयं भृगुराट् स सविस्मय ईशमयम्॥ ९-४८ ॥ किमयं धृतदेहमुदारतपः किमसौ तनुमान् भगवान् सुजपः। किमु मूर्तिमयं पुरभित्सुकृतं शिवया जनुषे जठरे हि धृतम्॥ ९-४९ ॥ भवमेष भवे भवभावनया सफलं भविनामथ भावितवान्। जननीततपादपरिक्रमया सुरपूज्यविधौ प्रथमः प्रथमः॥ ९-५० ॥ तं प्राह प्राञ्जलिमिभास्यमुपास्यवाचं वाचंयमं प्रथमपूज्यमथामराणाम्। द्वाःस्थं सुतं भृगुभुजो भृगुवंशकेतुः स्मेराननेन्दुपरिवर्धिततच्छ्रितेन्धुः॥ ९-५१ ॥ वर्धस्व भो भवभवाभवनाम्बरेन्दो हेरम्ब साम्बशिववत्सलवारिजार्क। विघ्नाटवीदहनदक्षमहादवाग्ने लम्बोदरोदरदुरोदरदृश्यदुर्ग॥ ९-५२ ॥ धन्योऽसि वै गणपते त्वमिह त्रिलोक्यां यत्पाद्मिपद्मपदपूजनपुण्यपूगैः। लोकान् समाञ्जयसि यद्गुणलेशलुब्धा गायन्ति जागरगिरः श्रुतिभृङ्गराज्ञ्यः॥ ९-५३ ॥ त्वं कर्तृभर्तृभवहर्तृमयोऽच्युतात्मा ब्रह्माद्वयं प्रथममानमितं महात्मा। त्रीन् वै गुणानथ तनूः समयं च शक्तीस्तिस्रो ह्यतीत्य भजसेऽगुणतां गुणाढ्यः॥ ९-५४ ॥ सम्पूजितः परिणये प्रथमं शिवाभ्यामाद्योऽपि तद्विमलवत्सलभाववश्यः। आप्थास्तयोस्तनयतां तनुवर्जितोऽपि भावो भवे ननु भवस्य भवेन्निदानम्॥ ९-५५ ॥ तद्दर्शयाशुभहरं हरमाशुतोषं भूभृत्सुतावरमनिन्द्यगुणैककोषम्। बालेन्दुमौलिमनघं विकटेड्यवेशं कालार्दनं धृतकपालमुरःस्थशेषम्॥ ९-५६ ॥ प्रस्थापितं चरणचारणभूभृता त्वं पुर्याः पुरा पुरहरं ह्यविमुक्तनाम्नः। नष्टं स्म रत्नमिव ढुण्ढसि ढुण्ढिराजः सर्वंसहो हि भगवान् जनचाटुचुञ्चुः॥ ९-५७ ॥ तन्मेऽर्भकेन्दुमुकुटाननशारदेन्दोश्चक्षुश्चकोरय चकोरचराम्बुजाक्ष। तत्पादपद्ममकरन्दमधुव्रतोऽहं दृष्ट्वा तमद्य सुचिरादुपयामि शान्तिम्॥ ९-५८ ॥ इत्यूचिवांसमपि भार्गवमत्युदारं रोषाग्निदग्धकुनृपावलिभूरिभारम्। मन्दस्मितं गणपतिः पतितैकबन्धुः प्रेम्णा बभाष इममादृतमर्थपूर्वम्॥ ९-५९ ॥ स्वस्त्यस्तु ते द्विजसरोरुहचित्रभानो सुस्वागतं कुनृपवंशमहाकृशानो। विश्रम्यतामनुगृहाण गृहाण पूजां यावत्तवागममहं निगदामि पित्रे॥ ९-६० ॥ किञ्चिद्विरम्य रमणीयपदारविन्दं द्रक्ष्यस्यहो हरमरिन्दम तद्विमृश्य। माध्याह्निकीं गुरुरुपास्त उदारसन्ध्यां श्रैष्ठ्यं व्यनक्ति हि सतां श्रुतिवाक्यनिष्ठा॥ ९-६१ ॥ तद्भूतभर्तृपदपङ्कजदर्शनेच्छाव्यालोलमानस बलप्रवण प्रतीक्ष्या। माध्याह्निकी गुहगुरौ ननु कृत्यवेला हेला भवाय न सतां हि भवादृशानाम्॥ ९-६२ ॥ श्रुत्वा तमाह भृगुवंशगजो गजास्यं दद्भिर्दशन् दशनवास उदूढकोपः। आरक्तनेत्रनलिनो नलिनार्भपौत्त्रं गर्वो महानरिरुदात्तमहागुणानाम्॥ ९-६३ ॥ हेरम्ब साम्बभवडिम्भ न मामवैषि ब्रह्मद्रुगम्बुजतुषारकुठारपाणिम्। यद्वीर्यवारिधिसमुच्छलदुग्रवीचीष्वालीयतार्जुनमयी हतशक्तिनौका॥ ९-६४ ॥ तं प्राह पार्वतिसुतस्तरुणारुणार्कज्योतिर्विनन्दनपटूत्तमकान्तिकान्तम्। भासा विमुष्टतिमिरो द्विरदोत्थलम्बिबिम्बाधरेण मृडयन् भृगुवंशवर्यम्॥ ९-६५ ॥ जाने जनन्यसृगनुत्तमबिन्दुलिप्तमिथ्यावलेपपरशुं परुषाक्षरं त्वाम्। राजन्यगर्भदलने भटमुद्भटाग्रे स्वश्लाघिनं निजपथाद्रभसा विदूरम्॥ ९-६६ ॥ मातुः पिता किमु गुणैः श्रुतितो गरीयान् यद्वाक्यतः स्वजननीं पशुवज्जघान। निर्दोषणार्भकविघातिपरश्वधेन श्लाघाम्मुधा वहसि चेतसि जामदग्न्य॥ ९-६७ ॥ मा मावमत्य भृगुराम शिवेशशीलं न त्वादृशो हि विजहाति कदापि धर्मम्। वेलां पयोधिरतिलङ्घितुमुद्यतश्चेत्कस्तं नियच्छतु विना ननु कुम्भयोनिम्॥ ९-६८ ॥ लब्धावकाशमभिपश्य पितुः पदाब्जं निर्बन्धतो विरम राम नियच्छ मन्युम्। तुष्टे गुरौ सकलसिद्धय आत्तवेगाः शिष्यं व्रजन्ति विमलं सरितो यथाब्धिम्॥ ९-६९ ॥ इत्थं निवेद्य विरराम स यावदैशो भूतेशभावपुलकाञ्चितगात्रवल्लिः। तावद्रुषा स विगणय्य गणेशवाचं वीर्यावलेपविवशोऽन्तरुपेतुमैच्छत्॥ ९-७० ॥ तं धावमानमवमानहरं प्रचण्डमुद्दण्डमात्मगुरुगौरवगूढगर्वम्। तुण्डेन तुन्दिलवरस्तरसा निगृह्य व्यापोथयन् नलिननालमिवेभराजः॥ ९-७१ ॥ भूयस्तमुत्थितमवेत्य हसन् हरांशो विभ्रामयंस्तरुमयं स यथा पतङ्गम्। दूरेऽक्षिपत् क्षपितभूपवधोत्थगर्वं दण्डोऽप्यनुग्रह उदारचरित्रभाजाम्॥ ९-७२ ॥ तद्दर्पवार्धिमधिशोषयितुं पुनस्तं निक्षिप्तवान् स रभसा श्रुतिचन्द्रकेषु। लोकेषु लोचननिमीलनदक्षमैशो भूयः समाहरदमुं हरशैलमूलम्॥ ९-७३ ॥ तं त्यक्तपौरुषरुषं रुधिरावसिक्तं भग्नावलेपमथ मुक्तधनुष्कुठारम्। सङ्क्षिप्तवीर्यबलदर्पसुभीमराववार्धेः श्रियं दधतमैक्ष्य दयामगात्सः॥ ९-७४ ॥ देवः शिरस्यथ मुनेर्निजपाणिपद्मं क्लान्तिं नुनोद वृषकेतुसुतो दधानः। तस्थौ च संयति कुठारकरः स भूयः क्रोधान्धता न कुरुते कमहो कदर्यम्॥ ९-७५ ॥ स प्राहरत्कुपतिपद्ममहातुषारं कालालयं कुलिशकोटिकठोरधारम्। दुर्वारणं नृपकृपाकृपणं कुठारं हारौ हरौ दुरितदुर्मदवारणानाम्॥ ९-७६ ॥ तं भीषणाशनिशतायुतकोटिसारं ज्वालाज्वलत्प्रलयपावकदुर्निवारम्। लम्बोदरः परिकरप्रहितं कुठारं सभ्यः स सव्यदशनेन शशाक सोढुम्॥ ९-७७ ॥ माहिष्मतीपतिमहाद्रुमचण्डकाण्डदोर्दण्डखण्डनपटुः परशुः परस्य। वव्रश्च मूलिकमिवैश्वरदन्तमूलं वामं बलं नहि भवाय वरोन्मदानाम्॥ ९-७८ ॥ वृक्णं विषाणमथ भार्गवहेतिना तत्सद्यः पपात धरणौ कृतचण्डशब्दम्। कं कम्पयन् सह पयोनिधिभूमिवृक्षैर्वज्रेण वृक्णमिव शैलपदं मघोनः॥ ९-७९ ॥ तद्वृक्णदन्तखनितस्तरसातितीव्रा सुस्राव शोणितसरित्कृतघोरधारा। हा हेति घोरनिनदस्तुमुलस्तदानीं भूतेरितः समभवद्धतशष्कुलीकः॥ ९-८० ॥ एवं भृगूद्वहपरश्वधवृक्णशृङ्गो गोविन्दचेष्टितमसावभिमन्यमानः। भेजेऽहिवैरिवरवज्रविभग्नशृङ्गमातामहश्वशुरमित्रविभां गणेशः॥ ९-८१ ॥ रक्तं वमन् वदनतो वदनं न किञ्चित् स व्याहरन् हरसुतस्तमसह्यतोदम्। तूष्णीं निगृह्य धृतितस्तुहिनाद्रिसत्त्वस्तस्थौ क्षमैव हि सतां नितरां निधानम्॥ ९-८२ ॥ चक्रन्दुरैक्ष्य तमनर्हमहो रदाधेर्नाथं समे प्रमथभूतपिशाचयक्षाः। हा हा रुषं भृगुपतेर्धिगमुष्य शस्त्रं दुग्धं विषाय फणिनो हि सुदीर्घमन्योः॥ ९-८३ ॥ यस्तादृशे किल निरागसि लोकनाथे स्वाचार्यपुत्त्र इह वै विदधेऽरिदण्डम्। तद्धन्यतामयमसत्स्पृहणीयशीलो लीलामयैर्निशितधारतरैः स्वशस्त्रैः॥ ९-८४ ॥ इत्थं विवश्य कृतकिल्बिषमस्त्रशस्त्रानाधावतो मुनिसुतं स्वगणान् जिघांसून्। प्रत्यादिशत्स्वकरधूननतो गणेशः को वा विधित्सितमतिक्रमते विभूम्नः॥ ९-८५ ॥ कोलाहलं तदधिगम्य विभाव्य सूनोर्दुःसङ्कटं गिरिसुता समगात्सशोकम्। क्रान्तं मृगाधिपतिना स्नुवती स्तनाभ्यां प्रेम्णा पयः सपदि गौरिव तत्र गौरी॥ ९-८६ ॥ दृष्ट्वा द्विजायुधविभग्नविषाणमास्याद्रक्तं वमन्तमधिकं स्वसुतं प्रशान्तम्। काली करालवदना वदनोत्थवह्निर्ज्वालामयेन भृगुनाथमिवादिधक्षुः॥ ९-८७ ॥ नेत्रैस्त्रिभिस्त्रिशिखमुल्वणमुद्वमन्ती कोपेन विस्फुरितसौरभपल्लवौष्ठा। निर्भर्त्स्य रुद्रगृहिणी वटुमात्मभर्तुः सम्मूर्छिता सुतशुचा निजगाद रुष्टा॥ ९-८८ ॥ का ते कृता निजगुरोश्चरणाब्जसेवा तत्सूनुदन्तखनिशोणितकोष्णवार्भिः। लोका हता स्वमवता भवता न किं वै साधीयसी प्रणिहिता गुरुदक्षिणा भोः॥ ९-८९ ॥ त्वादृक्सहस्रमधुनैव निहन्तुमीशो हेरम्ब एव मम वत्सलवारिधीन्दुः। ब्रह्मण्यवल्लभतया स्वपितुः सुतेन क्षान्तोऽसि जीवसि ततः कृतपापकर्मन्॥ ९-९० ॥ वंशो द्विधा निगदितः श्रुतिसत्स्मृतीभिः सद्विद्यया द्विजवरस्य सुजन्मना वै। त्वं विद्ययैव स भवस्य युगेन वंश्यस्तस्मात्त्वदस्य गुणतो द्विगुणोऽधिकारः॥ ९-९१ ॥ त्वं मातरं गुरुतरां पितुरप्यहन् भो आपाततः परिचरन् निगमोक्तधर्मम्। आचार्यवद्बहुमतेऽपि सुते तदीये क्रोधान्धधीर्विहितवान् परशुप्रहारम्॥ ९-९२ ॥ एषोऽवगम्य तततो जननीगुरुत्वं नैवाभ्यनन्ददबलोऽपि भवातिचारम्। तच्छूललूननवचन्दिरकन्धरोऽसौ भेजे गजास्यमिव भूषणमाप्तशान्तिः॥ ९-९३ ॥ तद्दण्डये प्रबलचण्डप्रचण्डदण्डैरुद्दण्डमुन्मथितहैहयबाहुदण्डम्। शापाभिधैरहमुदग्रपराक्रमं त्वां त्वन्निग्रहस्तु भवताद्भवतो विभूत्यै॥ ९-९४ ॥ यस्मादुदूढगुरुगर्वपरश्वधेन त्वं वै बभङ्क्थ दशनं गणनायकस्य। तस्मादुपेत्य रघुनन्दनमागधेयौ लीयाद्घने तडिदिव प्रखरः कुठारः॥ ९-९५ ॥ त्वद्वीर्यवारिनिधिमन्दरदिव्यसत्त्वं रामं रमार्चितपदाम्बुजमभ्युपेतः। शेषावमानितचरो निजरूढदर्पं त्यक्त्वा समर्पितकलः शमुपैष्यसि त्वम्॥ ९-९६ ॥ धीरेण तीव्रतपसा भवता जिता ये लोकास्त्रिलोचनविधेयवरेण भव्याः। ते रामभद्रभवभावनबाणवह्नौ यास्यन्ति वै शलभतां सह पुण्यपुञ्जैः॥ ९-९७ ॥ त्वं सर्वदा परिभवानलविस्फुलिङ्गैर्दन्दह्यमानमनसा भवितास्यशान्तः। लम्बोदरः प्रथमपूज्यतमः सुराणां शान्तश्चरिष्यति समोदक एकदन्तः॥ ९-९८ ॥ शप्त्वा तमित्थमथ कृत्यभयेन भीतं चण्डी प्रचण्डवचनैरपि तर्जयित्वा। रामं पुनर्गणपतिं नयनाश्रुनीरैः प्रेम्णासिचद्गतभयं सुतमेकदन्तम्॥ ९-९९ ॥ रामः प्रसाद्य गुरुमातरमद्रिकन्यां प्रेम्णा गणेशमनुनीय शिवं प्रणम्य। कैलासतो निरगमन्निजकर्मखिन्नस्तप्यन्त एव विहिताघभरैर्हि सन्तः॥ ९-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। श्रियै सदा नः कविरामभद्राचार्यप्रणीते नवमोऽस्तु सर्गः॥ ९-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्य एकदन्तनाशनं नाम नवमः सर्गः।