चतुर्थः सर्गः


अथानुजज्ञेऽजकुलावतंसो जगन्निवासं जगतीहिताय। वनाय वन्द्यं वनतामनिन्द्यं कनिष्ठमादित्यमिवाब्जजन्मा॥ ४-१ ॥ उवाच वाचं वदनद्विजेशद्विजावलीमञ्जुमयूखकान्त्या। द्विजात्मजध्वान्तमयं निरस्यन् द्विजाग्र्यपूज्यो द्विजचक्रवर्ती॥ ४-२ ॥ कुटीरमद्येहि पितुर्द्विजन्मन्न विस्मरन्मां गिरिजां गणांश्च। गुरावुषित्वा शुचिसंस्कृताढ्यः परिष्कृतोऽग्नाविव हेमदण्डः॥ ४-३ ॥ तवैव निःश्वासमयान् हि वेदान् जगाद मां वेदनिधिर्विधाता। तथापि मच्छात्त्रमुपेयिवांस्त्वं समं समर्थे घटते गुणाय॥ ४-४ ॥ अजानता त्वन्महिमानमीश प्रमादतो वा गुरुकर्मतो वा। विमानितश्चेन्महनीयधामन् क्षमस्व चैषा गुरुदक्षिणा मे॥ ४-५ ॥ स बाष्पनेत्रो गिरिशं प्रणम्य प्रदक्षिणीकृत्य निपीड्य पादौ। शिवां तथापृच्छ्य गुहेभवक्त्रौ जगाम गां भार्गववंशकेतुः॥ ४-६ ॥ तमातिथेयीव तमालनीला हरिं हरिच्छस्यनमस्यशीला। पयोदसङ्गर्जनहृद्यवाद्यैर्वर्षा सहर्षा वटुमभ्यनन्दत्॥ ४-७ ॥ सा ब्रह्मचर्यव्रतलब्धदीक्षं शर्वात्समासादितशास्त्रशिक्षम्। घनाम्बराच्छन्नमुखी समार्चद्विलज्जिता कापि कुलाङ्गनेव॥ ४-८ ॥ तमर्घ्यपाद्याचमनाभिषेकैः पयःप्रधानैः शिशिरैः पयोभिः। वृष्ट्वाथ वर्षा वरवर्णिनं वै श्रान्तं महान्तं मृडयाम्बभूव॥ ४-९ ॥ उत्पाद्य भूमौ भुवनैकधाम्ने मुञ्जं कुशां कर्मसु कौशलाय। मौञ्जीमयीं मङ्गलमेखलां वै तद्यज्ञसूत्रं सपवित्रमार्च्छत्॥ ४-१० ॥ सा मृत्तिकायां किल भारतस्य पयोमुचामागमनच्छलेन। संस्थाप्य गन्धं ननु नन्दनीयं नवार्चिषोऽदान्नवमीं सपर्याम्॥ ४-११ ॥ समीरकारङ्कजुषां लघूनां सुशीतलानां पृषतां छलेन। पुष्पैः किरन्तीव मुनीन्द्रसूनुं प्रावृड्जगामर्तुमचर्चिकात्वम्॥ ४-१२ ॥ सान्द्रैः पयोदैर्ननु धूमवर्णैर्ब्रह्मद्विडालातकधूमकेतुम्। विप्रर्षिदेवर्षिमहर्षिमान्यं सा धूपयामास च जामदग्न्यम्॥ ४-१३ ॥ प्रावृट्पयोदापगमे कदाचित्समुद्यदादित्यकरैर्मनोज्ञैः। सादीपयत्तं भृगुवंशदीपं स्वयञ्च दीप्त्या द्युमतो दिदीपे॥ ४-१४ ॥ क्वचित्तरुच्छायनिषण्णमेनं समाहृतं काननदेवताभिः। आनन्दकन्दं फलमूलकन्दं सा भोजयामास मुदेव रामम्॥ ४-१५ ॥ सस्वर्ग्यगन्धैः शिशिरैः सुमन्दैस्त्रिभिः समीरैर्धृतगाङ्गनीरैः। गुरोः कुले श्रान्तमनन्तसत्त्वं सावीजयच्चामरकल्पकैश्च॥ ४-१६ ॥ क्षणप्रभाकल्पितवर्तिकाभिः कादम्बिनीभाजनसम्भृताभिः। तं दीपिकाभिर्द्विजवंशदीपं निराजयामास रजोविमुक्ता॥ ४-१७ ॥ निदाघसन्तापितलोकतापं जहार वर्षा पयसां प्रवाहैः। संसारतापत्रयतापितस्य सा ब्रह्मविद्येव सतो मुमुक्षोः॥ ४-१८ ॥ वेगेन वारां सरितस्सरांसि समुद्रमेव स्म जवाद्द्रवन्ति। त्यक्त्वा प्रबोधे निजनामरूपे बुधा यथा राममिहाविशन्ति॥ ४-१९ ॥ जगर्जुरुच्चैरभिभूमिमेघा वारानताः श्यामलकान्तयस्ते। सारूप्यमाप्ता इव रामभक्तास्तत्पादपाथोरुहनम्रचेष्टाः॥ ४-२० ॥ विनम्रशाखाजलबिन्दुभाराद्धीरं समीरेण विकम्प्यमानाः। पत्त्रैस्स्पृशन्ति स्म वटुं तमाला विद्याविनीतं ननु मानयन्तः॥ ४-२१ ॥ सारङ्गवर्याः कृषका मयूराः प्रमोदिताः प्रावृषि भूरिभागाः। बद्धाश्च मुक्ता ननु नित्यसञ्ज्ञा जीवा इवैते रघुनाथभक्तौ॥ ४-२२ ॥ रुरोध वर्षा निखिलोद्यमानि वणिक्परिव्राण्नृपभिक्षुकाणाम्। चतुःसृणामाश्रमवर्तिनीनां यथा प्रजानां भगवत्प्रपत्तिः॥ ४-२३ ॥ वर्षाञ्च वर्षाभ्व उदारशोभां सान्द्रैर्विरावैः कलमभ्यनन्दन्। श्रौतीं प्रपत्तिं प्रकटां खरारेरुद्गीथगानैरिव सामविज्ञाः॥ ४-२४ ॥ कादम्बिनीं वीक्ष्य कलं कदम्बाः केकां गृणानाः कृतपक्षपाताः। मत्ता ह्यनृत्यन् प्रवणा इवैत्य श्रीवैष्णवा राघवभक्तमालाम्॥ ४-२५ ॥ पर्यक्रमीद्बर्हिवरं मयूरी नृत्यन्तमानन्दनिधौ निलीनम्। साध्वीव कान्ता गृहिणी गृहस्थं रामं श्रयन्तं विरता भवाधेः॥ ४-२६ ॥ क्वचिद्घटाटोपमयातिसान्द्रा मिथ्याम्भसः श्यामघना जगर्जुः। मोघक्रियाडम्बरदर्शितेहा वाचाटलोका इव हीनसाराः॥ ४-२७ ॥ सम्प्लाव्यमाना विपुलैर्जलौघैर्भग्नाः क्वचित्क्वापि पयोनिमग्नाः। स्पष्टा न मार्गाः कलिकालमध्ये पाखण्डवादैरिव वैदिकार्थाः॥ ४-२८ ॥ खद्योतमालाथ विदिद्युते खे क्वचिद्घनध्वान्तवितानतम्याम्। कुतर्किणां बालिशसंसदीव प्रावेदिता वेदविरुद्धवार्ता॥ ४-२९ ॥ प्रावृड्भवा दंशमुखाः कुकीटा ग्राम्यान् प्रकामं तुतुदुर्मलेष्टाः। वैदेहिभर्तुर्विमुखं विषण्णं संसाररोगा इव भीमभोगाः॥ ४-३० ॥ माहेन्द्रमुच्चैर्धनुरब्दवर्णं मध्येनभो नूनमदश्चकासत्। स्वरास्यमाणेषुवृषाभिरामरामच्छविं सूचयति स्म रामम्॥ ४-३१ ॥ झञ्झाविनिर्धूतपयोदवृन्दे कदाचिदर्को वियति व्यलोकि। स्वरूपबोधो मनसीव शान्ते वेदान्तविद्या विहता विवेके॥ ४-३२ ॥ मेघा जगर्जुर्नभसि प्रघोरं सौदामिनीमण्डितचारुवल्शाः। नवीचिकीर्षन्त इवात्तशल्या दूरप्रियाणां विरहव्रणानि॥ ४-३३ ॥ क्षणे क्षणे व्योमनि दामिनीयं प्रादुर्बभूवाथ तिरोबभूव। सीतेशपादाब्जपरागरागविरक्तचित्तस्य चलेव सम्पत्॥ ४-३४ ॥ नम्रीभवन्तोऽभिमहीमवर्षन्मेघा मनोज्ञा पयसो भरेण। विद्याविनीता इव जीवलोकं शुभैश्चरित्रैः सुखयन्त आर्याः॥ ४-३५ ॥ कृषीवलाः क्षिप्रतरैः क्षुरप्रैः कृषीं तृणौघैः स्म वियोजयन्ति। सन्तो मनोवृत्तिमिवात्मभावै रागादिदोषैः कुविकारजातैः॥ ४-३६ ॥ बभूव भूमिर्गतधूलिलेशा जलाप्लुता क्वापि च पङ्कमग्ना। अनागसो भागवतस्य बुद्धिः कारुण्ययुक्तेव रजोविमुक्ता॥ ४-३७ ॥ स्वल्पावकाशाः सरितः सरांसि तीराणि भित्त्वा स्म जलैर्वहन्ति। मध्येसभं वल्गुवचोविलासैः फल्गूनि वल्गन्त इवाल्पविद्याः॥ ४-३८ ॥ झिल्लीरवेऽनारतमेधमाने पुंस्कोकिलो मौनमगात्सखेदम्। वैतण्डिके जल्पति कल्पतल्पे विग्नो विपश्चिद्बुधसंसदीव॥ ४-३९ ॥ दैवे प्रवर्षत्यबलं स्वशावं कृतात्मपक्षच्छदमप्यवन्ती। शुकी स्वनीडे प्रबभौ प्रपत्तिः पान्ती भयाद्भक्तमिवाजनप्तुः॥ ४-४० ॥ मही महिष्ठा हरितैः सुशस्यैः श्यामाकवज्रान्नसुशालिमुद्गैः। वेदैश्चतुर्भिश्च तुरीयतत्त्वैर्विपश्चितां गौरिव गोपतीष्टा॥ ४-४१ ॥ द्रुमेषु पर्णानि तृणानि भूमौ सर्गं निसर्गे धृतसौख्यसर्गे। सान्वीक्षिकीव त्रितयं बुधेषु वर्षा सहर्षोपजहार भूत्यै॥ ४-४२ ॥ पी पी पिबेयं क्व इति ब्रुवाणः सारङ्ग एषोऽर्दति कृष्णमेघम्। स्वातीजलं शुष्कगलस्तृषार्तः कृपामिवाम्भोजदृशं भृशार्तः॥ ४-४३ ॥ अनारतं वारिदवृष्टियोगात्केदारतस्तोयमुवाह बाह्ये। प्रेमेव सम्प्राप्य हरेः प्रवृत्तिं वृत्तिं तिरोभाव्य दृशः प्रवृत्तः॥ ४-४४ ॥ सुदर्शनाख्यः शुभदर्शनो विर्न दृश्यते भीषणवृष्टिहेतोः। कलौ प्रवृत्ते हृतशीलवृत्ते ग्रन्थेषु गूढा इव वेदधर्माः॥ ४-४५ ॥ क्वचित्क्वचिद्दारुणवज्रपाताः श्रुती विदारं स्म पतन्ति भूमौ। दुष्कर्मिणां प्राक्तनजन्मपापकुपाकविस्फूर्जथुवत्प्रघोराः॥ ४-४६ ॥ प्रावृट्प्रयोगात्तपने पयोदैश्छन्ने दिनं दुर्दिनमन्वभावि। वेदान्तबोधेऽपि हरेः कथाभिर्नृजीवनं हीनमिवातिदीनम्॥ ४-४७ ॥ गावश्चरन्ति स्म सुखं तृणानि कामं प्ररूढानि मृदूनि मह्याम्। कुयोगिनां भावगतान् विकारान् दुरन्तपारानिव दुष्टगव्यः॥ ४-४८ ॥ मध्येदिनं प्रावृषि शाद्वलेषु संरोध्य गा विश्रमयाम्बभूवुः। गोचारणाश्चारणमेत्य रामं व्यापारतः खानि बुधा इवाप्ताः॥ ४-४९ ॥ इत्थम् ऋतूनां प्रसमीक्ष्य राज्ञीं वर्षां समासादितरोमहर्षाम्। कर्षं जहद्धृष्टतनोरुहोऽसौ रेमे भृगूणामृषभो भवाढ्यः॥ ४-५० ॥ तां मानयन्मानवतां महिष्ठो धानुष्कधुर्यार्धितधन्विनिष्ठः। विद्वद्वरिष्ठो वशिनां वशिष्ठः स जामदग्न्येषु ययौ यविष्ठः॥ ४-५१ ॥ स ग्राम्यलोकैः पथि पूज्यमानस्त्रिभिस्समीरैरनुवीज्यमानः। सुरैः प्रसूनैरभिवृष्यमाणो नवो विवस्वानिव दृश्यमानः॥ ४-५२ ॥ घोषेषु तं वर्तितवेदघोषं स्वाध्यायमेधामहिताशुतोषम्। विद्याव्रतस्नानविनीतरोषमस्पृष्टदोषं स्म नमन्ति जोषम्॥ ४-५३ ॥ अपूपुजंस्तं जनपूज्यपादं शम्भुप्रसादार्दितदेहसादम्। हैयङ्गवीनेन फलैस्तदर्हैः प्रियातिथिं मूर्तमिव स्वधर्मम्॥ ४-५४ ॥ गुरोःकुलाल्लब्धसमस्तविद्यं गुणानवद्यं भववन्द्यहृद्यम्। विलोकयन्तो हरिणा हरिं तं फलं ययुर्लोचनविस्तरस्य॥ ४-५५ ॥ केचिच्चिदानन्दमयं तमीशं पाद्यादिभिर्वन्यफलैः प्रसूनैः। सम्पूज्य पूज्यं सुखिनो बभूवुर्माङ्गल्यमूलं ननु पूज्यपूजा॥ ४-५६ ॥ केचित्तदीयाङ्घ्रिसरोजयुग्मे साष्टाङ्गपातं प्रणताः प्रणेमुः। एकोऽपि भूम्नो विहितः प्रणामः संसारपाथोनिधिकुम्भजन्मा॥ ४-५७ ॥ केचिज्जगुस्तं जगतोऽनवद्यं सूक्तैश्च पौराणिकसिद्धवाक्यैः। एनांस्यशेषाणि हरत्यमोघा जेगीयमानाच्युतकीर्तिगाथा॥ ४-५८ ॥ केचित्परिश्रान्तमवेक्ष्य पान्थं गङ्गाजलैरम्बुजतालवृन्तैः। वाक्योपचारैः श्रुतिमातृकाणां विश्रामदं विश्रमयाम्बभूवुः॥ ४-५९ ॥ इत्थं जनेभ्योऽम्बकलाभमिष्टं त्रैयम्बकस्त्र्यम्बकशिष्टशिष्यः। प्रीत्या प्रयच्छन् पितुराजगाम स्निग्धाश्रमं भग्नभवश्रमं सः॥ ४-६० ॥ श्यामाकसम्पुष्टकुरङ्गवृन्दं वृन्दारकावन्दितविप्रवृन्दम्। सदाग्निहोत्रोत्थितधूमकेतुधूमावलीध्वंसितपापवृन्दम्॥ ४-६१ ॥ अशिक्षितभ्रूलतिकाविलासप्रफुल्लपाथोरुहलोचनाभिः। अरण्यलक्ष्म्या इव पालिताभिर्गामागताभिर्वनदेवताभिः॥ ४-६२ ॥ विशुद्धकौमारविनम्रमारकृशाङ्गयष्टीभिरदम्यभाभिः। मधुव्रतापीतपरागमाध्वीमनोज्ञचम्पाकलिकानिभाभिः॥ ४-६३ ॥ असाधनाज्जूटजटीभवद्भिर्विराजिताभिश्चकुरैर्मनोज्ञैः। शैवालजम्बालसरोजमीनां शोभां जयन्तीभिरदभ्रभाभिः॥ ४-६४ ॥ पदे पदे भारतसंस्कृतिं स्वां संस्कुर्वतीभिश्चरितव्रताभिः। सवल्कलाभिर्विकसत्कलाभिर्विलक्षणाभिः शुभलक्षणाभिः॥ ४-६५ ॥ श्यामाकनीवारसुशालिधान्यान्यन्यानि वन्यानि तुषैर्विमोक्तुम्। अन्तःक्षिपन्तीभिरथो विशोष्य बाह्याः प्रवृत्तीरिव योगिनीभिः॥ ४-६६ ॥ समन्मथं यौवनमप्युदग्रं नालं विकर्तुं सुमनांसि यासाम्। अल्पापगातीरभिदम्बुवाहास्पृष्टाब्धिवेलासमतां गतानाम्॥ ४-६७ ॥ ताभी रताभिर्विबुधव्रतेषु स्निग्धैणशावैः सह वर्धिताभिः। मैत्रेयिगार्गिप्रमुखाभिधाभिः संसेव्यमानं वनकन्यकाभिः॥ ४-६८ ॥ दिनात्यये तीव्रजवेन नीडान्यागच्छतां व्योम्नि वयोवराणाम्। पक्षप्रभारञ्जितदिक्तटानामापूर्यमाणं विमलैर्विरावैः॥ ४-६९ ॥ क्वचिन्मुहुस्तापसतल्लजेभ्योऽभ्यस्ताखिलश्रौतरहस्यमन्त्रैः। सान्द्रस्वराढ्यैर्बटुभिः प्रगीतवेदध्वनिं मिश्रविहङ्गकूजम्॥ ४-७० ॥ क्वचिन्मुदा गोमयलिप्तवेदीप्रदीप्तवैश्वानरविस्फुलिङ्गैः। संव्रीडितास्ताचलगन्तुकामदिनेशबिम्बं च सदावलम्बम्॥ ४-७१ ॥ क्वचिद्विगाढैस्सलिलं मुनीन्द्रैर्विधीयमानामलसान्ध्यसन्ध्यम्। उद्बाहुभिर्ब्रह्मगृणद्भिरुच्चैरुपस्थितादित्यमबन्धसत्त्वम्॥ ४-७२ ॥ क्वचित्परिष्कारितहोमवेदीदेवीभिरारात्सममासिताभिः। द्विजैः समानुष्ठितपञ्चयज्ञतृप्ताग्निवल्गद्बलिवैश्वदेवम्॥ ४-७३ ॥ क्वचित्समाधिस्तमिताक्षियुग्मैः सन्ध्यायमानाच्युतमञ्जुमूर्तिम्। निद्राणरोलम्बलसन्निशीथनीरोद्भवोत्सङ्गसरायमाणम्॥ ४-७४ ॥ निरस्तकामादिविकारजातं सुकोकिलाकल्पितसुप्रभातम्। तपोधनानां तपसा विभातं श्रमापहं पार्थिवपारिजातम्॥ ४-७५ ॥ सदा मुदा यत्र वसन् वसन्तः स्वकौसुमामोदितदिग्दिगन्तः। विनापि सख्यास्तसुखं जुषाणो दुःसङ्गभङ्गो हि सतां प्रसङ्गः॥ ४-७६ ॥ निसर्गदुर्वैरधियोऽपि जीवा यस्मिन्समानोदरका इवासन्। न निर्बलं क्वापि बली बबाधे हिनस्ति हिंसां हि महात्मयोगः॥ ४-७७ ॥ मिथश्चरन्ति स्म हरीभशावा महीयतेऽहिं नकुलः कुलीनः। मार्जारकन्याः सहजानिवाखून् संलालयन्ति स्म शिरोधुनानाः॥ ४-७८ ॥ कदापि दाहो न ददाह दावं श्येनः कदाचिन्न लुलाव लावम्। शिखी स सर्पस्य सुषाव शावं श्रिताः समेऽप्यार्षतपोऽनुभावम्॥ ४-७९ ॥ निरामिषोऽभूद्धरिरप्यदान्तो हरिर्जहौ प्राकृतचापलञ्च। कालेयपौत्त्रीयमगाच्च पूर्वः प्राभञ्जनिं चाप्यपरोऽन्वयासीत्॥ ४-८० ॥ ऋक्षाः स्वपृष्ठेष्वबलानृषीन्द्रानारोप्य तीरं स्म नयन्ति वाराम्। मर्काश्च तद्दत्तकरावलम्बान् संस्नापयन्ति स्म विधानविज्ञाः॥ ४-८१ ॥ एवंविधारण्यमसौ शरण्यं मनस्विनां वेदविदां वरेण्यः। प्राप्तोऽथ रामो मनुजाभिरामो ब्राह्मं मनो वेद इवाप्तबोधः॥ ४-८२ ॥ तमाव्रजन्तं वृजिनापहारं हारं हराल्लब्धबुधोपहारम्। ददर्श पुत्त्रं जमदग्निराराद्वैश्वानरं तूर्यमिवात्तदेहम्॥ ४-८३ ॥ ब्राह्मं महो मूर्तिमदेष किं वा आहो अयं वीररसः शरीरी। पुञ्जीभवद्वा सुकृतं भृगूणामितीति लोकैः परितर्क्यमाणम्॥ ४-८४ ॥ वहन्तमापिङ्गजटाविलासं मूर्ध्ना त्रिपुण्ड्रं निटिलप्रकाशम्। उषोदिनेशोस्ररमाधवास्त्रसमुल्लसच्छृङ्गमिवाद्रिराजम्॥ ४-८५ ॥ नवीनराजीवदृशोरभीक्ष्णं वैरव्रतं तेज इवोत्सृजन्तम्। प्रफुल्लपाथोजमुखस्मितश्रीर्द्विजालिमुष्टद्विजराट्कराभम्॥ ४-८६ ॥ आसञ्जयन्तं हरिसम्मितांसे धर्मद्रुहां शोणितपानगृध्नुम्। महेन्द्रवज्रामितकोटितीक्ष्णधारं द्विजद्विड्दहनं कुठारम्॥ ४-८७ ॥ प्रबिभ्रतं तूणयुगं सचापं शरं शरारण्यभवप्रतापम्। साङ्ग्रामिकं ग्रामसुखाद्विमुक्तं मूर्तं यथा वीररसं प्रविष्टम्॥ ४-८८ ॥ आजानुसंलम्बितपीनबाहुं ब्रह्मद्रुगम्भोनिधिजन्मराहुम्। विद्याविनीतं कलितोपवीतं गुणैः परीतं श्रुतिगीतगीतम्॥ ४-८९ ॥ आषाढदण्डं प्रथितं प्रचण्डं कमण्डलुं मौञ्ज्यजिने दधानम्। पवित्रयन्तं चरणारविन्दविन्यासतोऽरण्यमदभ्रशोभम्॥ ४-९० ॥ तमागतं भार्गववंशदीपं सुवर्णिनं वीक्ष्य वटुं समीपम्। गृही गृहीताम्बुजनेत्रनीरपादार्घ्य उत्थानमियेष तातः॥ ४-९१ ॥ तावत्तमालम्ब्य पदारविन्दग्राहाद्गृहानुग्रहशीलवृत्तम्। रामः पितुः प्रेमपयोधिमग्नः पाथोजपादप्रपदं प्रपेदे॥ ४-९२ ॥ पिता हि विप्रोष्य चिरादुपेतं गुरोःकुलेतान्तशरीरयष्टिम्। प्रगृह्य तं प्राप्तपरस्वरूपमीशज्ञमात्मानमिवाप मोदम्॥ ४-९३ ॥ तं वन्दमानो विगताभिमानः पुनः पुनः पादपयोजयुग्मम्। जिघ्रन् जुघुक्षन्निजहार्दगेहे मोदं गतो रङ्क इवाप्तरत्नः॥ ४-९४ ॥ स रेणुकायाः पदपद्मरेणुं दधार मूर्ध्ना निजकामधेनुम्। समस्तकल्याणकरं वदन्ति मातुर्बुधाः पादपयोजपांशुम्॥ ४-९५ ॥ तं पादमूले प्रणमन्तमर्भमुत्थाप्य दोर्भ्यां परिषस्वजे सा। प्रवृत्तदृक्पङ्कजकोष्णनीरैः कादम्बिनीवाभिववर्ष शैलम्॥ ४-९६ ॥ तं वीक्ष्यमाणाश्रुकलाकुलाक्षी पुत्त्रं चिरान्नैव ततर्प तन्वी। सुस्राव तत्पीनपयोदयुग्मं स्तन्यं विदुर्वत्सलतावतारम्॥ ४-९७ ॥ बन्धूंश्च मित्राणि तपस्विनश्च क्रमान्मिलित्वा भृगुवंशकेतुः। प्रश्नोत्तरैः प्रह्वविनीतवाक्यैः शशीव तापं स जहार सौरम्॥ ४-९८ ॥ एवं निवृत्य शशिमौलिपदारविन्दान्निर्वर्त्य वेदविधिना च गुरूपसत्तिम्। स ब्रह्मचर्यमथ नैष्ठिकमाजुषाणो रामस्तपोधनजनान् रमयाम्बभूव॥ ४-९९ ॥ शुश्रूषणेन जननीजनकौ स्वविद्यां स्वाध्यायतो व्रतबलेन मनःकुवेगान्। सत्येन स त्रिभुवनं जनतां चरित्रैर्मित्राणि वल्गुवचसैव जिगाय जैत्रः॥ ४-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः श्रियै स्तात्कविरामभद्राचार्यप्रणीते सुधियां तुरीयः॥ ४-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये समावर्तनं नाम चतुर्थः सर्गः।