ऊनविंशः सर्गः


नाथ कृपा क्रियतां नतभाले लक्ष्मणमञ्जुलबालमराले। दीनदयालुतया क्षमितव्यं रोषभरादथ विश्रमितव्यम्॥ १९-१ ॥ लोकविनिन्द्यतमं यदशुद्धं वीक्ष्य मनागिव धर्मविरुद्धम्। यद्भणितं तव कष्टकरं मे बन्धुवरेण तदर्पय मह्यम्॥ १९-२ ॥ चापमभञ्जि मया गुरुवाक्यान्नापि विदेहसुतां लषताद्धा। नैव कदापि शशी सुधयार्थी सा तु तदीयतयैव निसृष्टा॥ १९-३ ॥ भञ्जयता मिथिलाधिपतापं रञ्जयता निखिलानथ लोकान्। धर्मरिपून् जयतावनिपालान्नाथ पिनाकमभञ्जि मयैव॥ १९-४ ॥ नात्र मनाक् शमलञ्च सुमित्रागर्भभुवो मम दूषणमेतत्। दण्डविधानमतो मयि कार्यं प्रस्तुत एष जनो नतमूर्धा॥ १९-५ ॥ कोपकृपावधबन्धभयेषु प्रह्वमिमं किमपीह यथेच्छम्। वा सकलं परिषाहय साधो त्वं हि गुरू रघवश्च विधेयाः॥ १९-६ ॥ ब्राह्मणवंशविरुद्धमशुद्धं वेशमिमं भवदीयमवेक्ष्य। लक्ष्मण आह किमप्यनपेक्षं शस्त्रधरं नहि मृष्यति शस्त्री॥ १९-७ ॥ वीक्ष्य कुठारलसद्विपुलांसबाणशरासनमण्डितपाणिम्। तूणधरं धृतरोषभरं त्वां वीरममन्यत वीरवरोऽसौ॥ १९-८ ॥ एकत एष भयङ्करवेषो भूय इयं कुलिशोपमवाणी। सर्वमिदं ह्यसमञ्जसमेतं क्रोधवशं व्यदधादनुजं मे॥ १९-९ ॥ अप्रतिरूपमनेन यदुक्तं ह्यज्ञतया समभूत्त्रुटिरेषा। तत्क्षमये क्षमया परिपूर्णं त्वां प्रणिपत्य महीसुररत्नम्॥ १९-१० ॥ यद्भगवन्मुनिराज इवेयाः सात्त्विकवेश उपासितकोपः। तत्तव पादपयोरुहधूलिं भूरि धरेच्छिरसाप्यनुजोऽयम्॥ १९-११ ॥ वीक्ष्य कुठारधनुश्शरचण्डं त्वां रणरङ्गलसद्भुजदण्डम्। वीरधिया विहिता वरिवस्या विप्रधिया च कृता न नमस्या॥ १९-१२ ॥ नाम शुभं श्रुतवान् स कनिष्ठो देव न वेद तथापि भवन्तम्। वंशनिसर्गतया समभाणीदुत्तरमत्र विमर्षय विप्र॥ १९-१३ ॥ बालवचो गणयन्ति न सन्तस्तैश्च विनोद्य सुखं हि लभन्ते। वानरबालकवृत्तसमत्वं प्रेक्ष्य भृगूद्वह सन्त्यज कोपम्॥ १९-१४ ॥ अस्ति समत्र मुकुन्दनिवासो बालतनौ स्फुट एव तथापि। निर्मलबालतनोसु परात्मा दृश्यत ईश इवाप्सु विवस्वान्॥ १९-१५ ॥ इत्थमसौ रघुनाथवचोभिर्यावदुपैति शमं हृदि किञ्चित्। तावदुमासमरोचिरनन्तः किञ्चिदुदीर्य पुनर्विजहास॥ १९-१६ ॥ प्रेक्ष्य हसन्तमिमञ्च कुमारं देहविनिन्दितचम्पकमारम्। भार्गव उग्ररुषा स्फुरदोष्ठो राम उवाच वचो रघुरामम्॥ १९-१७ ॥ पश्य रघूद्वह लक्ष्मणमेतं पापकृतं विहसन्तमभीकम्। मामवमान्य मनस्यतिमात्रं मोदमुपेतमपेतमिव त्वत्॥ १९-१८ ॥ वीक्ष्य दया मयि वर्धत एषा न प्रणिहन्मि ततस्तमसाधुम्। कुण्ठितधारकुठारकरो मे नोच्चलतीव चलोऽचलशृङ्गः॥ १९-१९ ॥ नैव भिनद्मि गलं तव बन्धोः सौहृदमेव तवात्र महात्मन्। तर्जय तर्जितमन्महसं तं नीलतमालरुचेऽवरजं स्वम्॥ १९-२० ॥ लक्ष्मण आह हसंस्तव धन्या देवदया शिशुरक्तनदीष्णा। रेणुकया च सभाजितपूर्वा किं दययात्र कृतागसि विप्र॥ १९-२१ ॥ छिन्धि गलं मम ते यदि शक्तिः किं रघुनाथमुपालभसेऽत्र। नैव भटाः प्रलपन्ति प्रतापं पौरुषमेव रणे घटयन्ति॥ १९-२२ ॥ भार्गव उग्र उदञ्चति यावद्धन्तुमिमं रघुराजकुमारम्। तावदयं तृणपत्त्रमिवारात्पृष्टमितः पवनेन विनुन्नः॥ १९-२३ ॥ वीक्ष्य समान् हसतोऽथ जनौघान् ध्वस्तमदो द्विजराज इवाज्ञः। क्रोधकषायितलोचनयुग्मो राममुवाच वचो भृगुरामः॥ १९-२४ ॥ राम तवाभिमतोऽनुज एषो मां तुदतीव शरोपमवाक्यैः। त्वं कपटी विहिताञ्जलिकोऽथ प्रार्थयसेऽर्थयसे च शमं माम्॥ १९-२५ ॥ त्वं च विभज्य शरासनमैशं यत्कृतवान् मम विप्रियमद्य। द्वन्द्वरणं कुरु चाद्य मया त्वं त्वां न तु हन्मि सहानुजमाजौ॥ १९-२६ ॥ राघव भग्नमहेशमहास्त्रो रूढमहामद एव विभासि। भिक्षुकविप्रधियैव वदान्यं स्वं ध्रियसे च निराद्रियसे माम्॥ १९-२७ ॥ नास्मि तथाविधविप्रवदज्ञ ये प्रतिगेहमसाधुचरित्राः। लोभजुषो मृगयन्ति कणान् वै चाटुकृतो धनदृप्तनृपाणाम्॥ १९-२८ ॥ राघव नास्मि कदापि च भिक्षुर्भूमिरियं विजिता परिदत्ता। ब्राह्मणकीर्तिविशुद्धिपताकां नित्यमहं चरितेन बिभर्मि॥ १९-२९ ॥ त्वं यदि शम्भुधनुः प्रविभज्य स्वं जगतीजयिनं परिवेत्सि। द्वन्द्वरणं घटयस्व मया तन्मामविजित्य कथं विजयी त्वम्॥ १९-३० ॥ इत्युक्तवन्तं भृगुवंशकेतुं रुषा समाकम्पितधर्मसेतुम्। प्रसाद्य शीलेन विनैव कोपं सीताभिरामः समुवाच रामः॥ १९-३१ ॥ प्रसीद मे भार्गवकञ्जभानो त्रायस्व मां धार्मिकसङ्कटात्त्वम्। किं द्वन्द्वयुद्धं भवते प्रदद्यां द्वन्द्वानि पूर्वं हि विनाशितानि॥ १९-३२ ॥ स्याद्द्वन्द्वयुद्धं समशीलमेव समानता का मम भार्गवेण। क्व मस्तकं चुम्बितपुष्पगुच्छं क्व तत्पदं पांशुविगुण्ठितश्रि॥ १९-३३ ॥ मैवं प्रवादीर्भृगुवंशदीप का चावयोर्धर्मसमानता भोः। क्व क्षत्त्रियोऽहं रघुराजपुत्त्रः को वै भवान् ब्राह्मणवंशरत्नम्॥ १९-३४ ॥ अहं च लोके युगलाक्षरेण ख्यातोऽस्मि नाम्ना किल राममात्रः। भवांस्तु रामः परशूक्तपूर्वः किं ते समत्वं रघुभिश्च दासैः॥ १९-३५ ॥ एको गुणो मे धनुरेव देव सन्निर्गुणो येन गुणालयोऽहम्। भवांस्तु दिव्यैर्नवभिर्गुणैः स्वैर्ग्रहैरिव व्योम्नि विधुर्विभाति॥ १९-३६ ॥ सर्वप्रकारैर्लघुरेष दासः पराजितो द्वन्द्वरणं विनापि। किं द्वन्द्वयुद्धेन महर्षिपुत्त्र प्रसादितस्त्वं शिरसा मयैव॥ १९-३७ ॥ यदात्थ विद्वन् द्विजदेवतानां निरादरं राघव आतनोति। तन्निर्व्यलीकं भ्रमजल्पितं ते रामः सदा ब्राह्मणपादनिष्ठः॥ १९-३८ ॥ निराद्रिये चेद्द्विजपुङ्गवान् भोस्तदा तु सत्यं शृणु भार्गवेन्द्र। को वा त्रिलोक्यां दिवि देवतासु साष्टाङ्गनामं यमहं नमेयम्॥ १९-३९ ॥ जगन्नियन्ताऽपि भवन्नियम्यः सदा समर्थोऽपि भवद्विधेयः। त्रिलोकनाथोऽपि च विप्रदासो रामोऽस्म्यहं दाशरथिर्द्विजेन्द्र॥ १९-४० ॥ बिभेमि नाहं पुरुहूतवज्रान्न विष्णुचक्रान्न महेशशूलात्। न वित्तपास्त्रान्न यमस्य दण्डाद्बिभेम्यहं ब्रह्मकुलापमानात्॥ १९-४१ ॥ सूर्यश्च चन्द्रो मरुतोऽनलश्च वायुस्त्रिदेवा निर्ऋतिश्च कालः। यद्भीतभीता निजकार्यलग्नाः सोऽहं सदा ब्राह्मणतो बिभेमि॥ १९-४२ ॥ यद्ब्राह्मणान् देव निराद्रियेय त्वत्पादपद्मं कथमानमेयम्। तदा गृहीतेषुशरासनोऽहं क्रुद्धो नियुद्धेय सह त्वयाद्य॥ १९-४३ ॥ देवेषु दैत्येषु निशाचरेषु गन्धर्वविद्याधरकिन्नरेषु। को मां त्रिलोक्यां युधि चण्डकोपं सहेत कालानलतुल्यवेगम्॥ १९-४४ ॥ स्रष्टा विधाता किल वेदवक्त्रो रथाङ्गपाणिर्भगवांश्च विष्णुः। त्रिशूलहस्तो वृषभध्वजो वा क्रुद्धाननं नालमपीक्षितुं माम्॥ १९-४५ ॥ एकोऽद्वितीयोऽप्यगुणोऽव्ययोऽपि त्रैलोक्यलक्ष्मीसुभगालयोऽपि। सोऽहं हृदा ब्राह्मणपादचिह्नं श्रीवत्सलक्ष्मानुचरं बिभर्मि॥ १९-४६ ॥ यस्याङ्घ्रिपद्मं परिचर्य धीरास्तरन्ति मृत्युं गतसर्वरोगाः। सोऽहं भवत्पादपयोजपांशुं बिभर्मि मूर्ध्ना द्विजदेवनिष्ठः॥ १९-४७ ॥ द्विजाः सदा नः कुलदैवतानि प्रत्यक्षरूपाणि महानुभावाः। तान् पूज्यपादान् परिपूज्य नित्यं स्वं मानये मङ्गलभागधेयम्॥ १९-४८ ॥ विप्रस्सदा वैदिकधर्मरक्षी श्रुतिप्रमाणैकरतः सुशीलः। तं वै तिरस्कृत्य नरस्त्रिलोक्यां क्षेमं कथं विन्दतु मन्दभाग्यः॥ १९-४९ ॥ यदैव विप्रो निजवर्णधर्मं त्यक्त्वा विधर्मे कुरुतेऽनुरागम्। तदैव लोकैरपमन्यतेऽसौ सौमित्रिणेवाद्य भवान् सभायाम्॥ १९-५० ॥ इति ब्रुवाणो ननु ताटकारिराविश्चिकीर्षन् परमात्मतत्त्वम्। स्वं दर्शयामास भृगूद्वहाय वक्षो लसद्ब्राह्मणपादलक्ष्म॥ १९-५१ ॥ साकेतसीताकुचकुङ्कुमश्रीसंलिप्तमासञ्जितकौस्तुभाभम्। सरस्वतीजह्नुसुताप्रवाहं वहद्यथा मारकताद्रिशृङ्गम्॥ १९-५२ ॥ सीतातनुत्विट्क्षुरितं सहारं मालां दधानं चलवैजयन्तीम्। शतप्रभातारकभूषि मध्यं नवाम्बुदं व्योम्नि यथा लसन्तम्॥ १९-५३ ॥ दक्षे लसद्विप्रपदाब्जचिह्नं नीलोत्पलस्यान्तरितं यथालिम्। संसूचयद्वामविभागभागं श्रीवत्सलक्ष्मार्जितभाग्यलक्ष्मि॥ १९-५४ ॥ विलोक्य वक्षो विततं विभूम्नः समुल्लसद्ब्राह्मणपादलक्ष्म। विज्ञाय नारायणदेवदेवं सविस्मयोऽवेपत जामदग्न्यः॥ १९-५५ ॥ निष्ठां गतं स्वाभिनयञ्च विप्रो विश्रामयंश्चापि निजावतारम्। रामे विपश्चिद्विपदां विरामे रामस्तु रामं रमयन् ररास॥ १९-५६ ॥ हे हेरम्बशराम्बशैलतनयासंसेव्य शोभानिधे हे हे त्र्यम्बकहृत्सरोरुहलसद्रोलम्ब रोचिर्मय। रम्यं राम रमापतेर्धनुरिदं विज्यं गृहाणाम्बुदो दैवं वा प्रगुणं विकृष्य सशरं निःसंशयं मां कुरु॥ १९-५७ ॥ इत्युक्त्वा स तथास्त्वितीरितवते पूर्णाय पुंसे मुदा सान्द्रानन्दपयोमुचे हरिधनुर्विज्यं विडौजा यथा। कौसल्यातनयाय तद्भगवते कस्मैचिदस्मै धनुः शार्ङ्गं स्वेन पिनाककोटिकठिनं रामाय रामो ददौ॥ १९-५८ ॥ श्रीरामं समकालमेव धनुषो दानस्य दानव्रती फुल्लेन्दीवरसुन्दरं सुरवरं सीतावरं श्रीधरम्। पूर्णं श्रीपुरुषोत्तमं किल महाविष्णुञ्च नारायणो विद्युत्पुञ्जमिवाविवेश जलदं श्रीराघवं भार्गवः॥ १९-५९ ॥ याते तेजसि राघवं मुनितनोर्दीपादिव ज्योतिषि निर्याते किल दिव्यशस्त्रनिकरे नष्टे कुठारे सति। निर्वीर्यो हतदर्पसाहसबलोऽदर्शेन्दुकल्पो मुनि- र्मन्दं मन्दमुदैक्षताम्बुजदृशं रामश्चिरं राघवम्॥ १९-६० ॥ श्रीरामो भगवांस्तदा भृगुपतेः शार्ङ्गं गृहीत्वा करा- त्सानन्दं प्रगुणं विकृष्य बलवत्सज्यं चकार क्षणात्। मुष्णन् सेन्द्रधनुर्नवाम्बुदरुचिं पुष्णन् सतो वैष्णवान् निघ्नन् भार्गवदर्पशैलशिखरं चापे शरं सन्दधे॥ १९-६१ ॥ शार्ङ्गे श्रीरघुनन्दनेन तरसा सन्धीयमाने शरे त्रेसुर्भूतगणानि धैर्यधरणी साद्रिश्चकम्पे धरा। वृत्तं भार्गवराघवीयमनघं द्रष्टुं दिवश्चागता देवा नन्दनपुष्पवर्षणपराः श्रीराघवं तुष्टुवुः॥ १९-६२ ॥ कृतकोसलजास्तनपान प्रभो धृतभारतभाग्यविधान विभो। अवलम्बय नः कलकञ्जकरे विजयी भव राघव राम हरे॥ १९-६३ ॥ धृतचापशराकरसायक हे रघुनायक मङ्गलदायक हे। कुरु देव कृपां सुरवृन्दकरे विजयी भव राघव राम हरे॥ १९-६४ ॥ रघुनन्दन नन्दितनन्दन हे जनचन्दन चन्दितचन्दन हे। महिजामुखचन्द्रचकोर प्रभो विजयी भव राघव राम विभो॥ १९-६५ ॥ नवनीलतमालसमानतनो गुणरञ्जितसिद्धमुनीन्द्रमनो। रघुकञ्जदिवाकर दिव्यमते विजयी भव राघव विश्वपते॥ १९-६६ ॥ हृतदूषण दूषणदूषण हे हनुमत्प्रिय भावविभूषण हे। परिपाहि सुरान् व्यथितान् विपदो विजयी भव राघव राम सदा॥ १९-६७ ॥ जनरञ्जन जानकिनाथ हरे परिपालय नः पतितान्नृहरे। बलवीर्यनिधान दयाजलधे विजयी भव राघव शीलनिधे॥ १९-६८ ॥ श्रितलक्ष्मण लक्षितलाघव भो रिपुवीर्यमहोदधिवाडव भो। भरतादिकसेवित शास्त्ररते विजयी भव राघव भूमिपते॥ १९-६९ ॥ भवभावन रावणसूदन हे खलसूदन हे मधुसूदन हे। प्रणिधेहि पदं मम नेत्रपथे विजयी भव राघव दाशरथे॥ १९-७० ॥ जडीकृतं विलोक्य लोकमाकुलं शुचाकुलं भयाकुलं विपक्ष्मणां शरेण शार्ङ्गपाणिना । भयङ्करोऽपि शङ्करो विनम्रकन्धरो हरो हरिं शिखण्डशेखरं जगाद चन्द्रशेखरः ॥ १९-७१ ॥ जयत्यनन्तकच्छमत्स्यभीमदंष्ट्रशूकरप्रचण्डनारसिंहविष्णुभार्गवावतारधृक् । व्यपेतकार्यकारणो धराभरापहारणः पिनाकपद्मदारणः प्रमत्तरामवारणः ॥ १९-७२ ॥ नमः प्रचण्डबाहवे नमोऽसुरेन्दुराहवे नमः सुबाहुशत्रवे नमो निगूढजत्रवे । नमः पिनाकदारिणे नमः समावतारिणे नमो विदेहनन्दिनीमनोवनेविहारिणे ॥ १९-७३ ॥ नवीनकन्दसुन्दरं हरिं भवाब्धिमन्दरं सुशीलसौख्यमन्दिरं पदेनमत्पुरन्दरम् । समस्तसद्गुणाकरं जिताननामृताकरं दिनेशवंशभास्करं ब्रुवे विदेहजावरम् ॥ १९-७४ ॥ मृगेन्द्रकम्रकन्धरं नियम्यपङ्क्तिकन्धरं सरोल्लसद्धनुर्धरं स्वधर्मभृद्धुरन्धरम् । सुराधरं धराधरं धराधराधराधरं चकोरबन्धुबन्धुरं स्मरामि रामसिन्धुरम् ॥ १९-७५ ॥ दयस्व भक्तवत्सल क्षमस्व दीनसम्बल प्रसीद जानकीश हे निषीद मे मनोगृहे । सपत्नवीर्यवाडवं प्रसिद्धहस्तलाघवं कृपादिसद्गुणार्णवं भजामि रामराघवम् ॥ १९-७६ ॥ अथ निजमहिमार्कतीव्रतापप्रगलितदर्पतमस्तनूतुषारम्। भृगुपतिमवलोक्य दीनसत्त्वं मधुरगिरा निजगाद रामभद्रः॥ १९-७७ ॥ जय जय जमदग्निसूनुरत्न त्रस नहि मद्ध्यभयं ददामि तेऽद्य। कथमपि नहि भूसुरं निहन्यां द्विजसुरधेनुसतां हितावतारः॥ १९-७८ ॥ अयमविफललक्षकः शरो मे विधिरिव वेदगिरामपूर्वहेतुः। क्व पततु कृपया दिशेषुदेशं पविरिव वृत्रजिघांसया मघोनः॥ १९-७९ ॥ कुशिकसुतवरीयसीप्रसूजं नहि भवकन्तमहं निहन्मि देव। तव गतिमभिहन्मि किं त्वया तान् सुकृतमयांस्तपसार्जितान् सुलोकान्॥ १९-८० ॥ पुररिपुकृपयाप्तसर्वविद्यो निहतसहस्रभुजादिविप्रशत्रुः। मदगज इव वै बभूविथ त्वं विगतविवेकदृशिश्च दानदृप्तः॥ १९-८१ ॥ पितृवधकृतकोपकालुषीकः परशुधरस्त्वमहन्निरागसोऽपि। नृपनृपतनयान् सगर्भबालान् कुलिक इवाल्पमृगान् कुलीनमानी॥ १९-८२ ॥ पुनरपि मिथिलास्वयंवरे त्वं यदखिलभागवताभिवन्दिताङ्घ्रिम्। अतिकटुवचनानि वै सुमित्रासुकृतमयं लघुलक्ष्मणं न्यगादीः॥ १९-८३ ॥ तदघपविविनष्टपुण्यराशिर्व्रज तपसे जगतां भवन् भवाय। सुरमुनिमहितं महेन्द्रशैलं नहि मम भक्तविमानना विभूत्यै॥ १९-८४ ॥ अविहतगतिरेवमूर्ध्वरेता द्विजकुलशस्यघनो मनोजजेता। विबुधवरलतामिवैत्य कीर्तिं त्रिजगति राम रमस्व पुष्पिताग्राम्॥ १९-८५ ॥ जगतां जननादिहेतुराद्योऽप्यहमेको विगुणो गुणैकसिन्धुः। श्रुतिभिर्मुनिभिस्ततोऽस्मि गीतो रघुरामो भगवान् न कोऽपि चान्यः॥ १९-८६ ॥ जननं मरणं नृणामविद्यामगतिं जीवगतिं तथापि विद्याम्। विदुषो भगवानिति स्म सञ्ज्ञा मयि रामे घटति श्रुतिप्रसिद्धा॥ १९-८७ ॥ ऐश्वर्यं सकलञ्च वेदविहितं धर्मं यशश्श्रीस्तथा ज्ञानं यच्चिदचिद्विशिष्टपरकं वैराग्यमेवामलम्। मय्येतानि भगानि षट् च सततं प्रोज्जृम्भितानीश्वरे तेनाऽहं भगवाञ्छ्रुतो दशरथापत्यं च रामः स्मृतः॥ १९-८८ ॥ इति निवेद्य वचो रघुनन्दनो नयननीरजनीरजधारया। भृगुपतेश्च पदाम्बुरुहद्वयं प्रणिपपात चिरं स समार्द्रयन्॥ १९-८९ ॥ तमभिवीक्ष्य पदे पतितं मुनेः पतितपावनमेव रघूद्वहम्। जय जयेति जनाः सदसः समे समुदिता मुदिता हरिमैडयन्॥ १९-९० ॥ अथाह रामं भृगुवंशनाथः प्रीतः परिष्वज्य बृहद्भुजाभ्याम्। धन्योऽसि काकुत्स्थ कृपाललामकल्लोलिनीकान्त कलालकान्त॥ १९-९१ ॥ ज्ञातोऽसि मे त्वं चिदचिद्विशिष्टाद्वैतं परं ब्रह्म निरस्तहेयम्। मायामनुष्यत्वमुपेत्य भूमन् सङ्क्रीडसे कोसलराजगेहे॥ १९-९२ ॥ रामोऽसि भूतेषु समेषु चान्तर्यामी स्वशक्त्या रमसे ह्यदोषः। लोकांश्च सर्वान् रमयन् निजेभ्योऽमृतं परेभ्यश्च मृतिं हि रासि॥ १९-९३ ॥ मरीचिपुत्त्रेण पुराहमुक्तो गामाददानेन नृपक्षये मत्। अधित्यकां शक्रगिरेरतीया रात्रावुदन्वानिव मा स्ववेलाम्॥ १९-९४ ॥ तदा प्रभृत्येव विभो यथा त्वं स्वकां प्रतिज्ञां परिपालयामि। भ्रान्त्वा दिने स्वैरगतिस्त्रिलोकी सायं यथार्को गिरिमेमि शाक्रम्॥ १९-९५ ॥ गतिर्न मे राम विनाशनीया यथा प्रतिज्ञा परिपालिता स्यात्। लोकान् जहीमान् मम लोकनाथ त्वद्भक्तहेलाघविनष्टपूर्वान्॥ १९-९६ ॥ इति ब्रुवाणे भृगुवंशकेतौ तथेति रामः प्रजघान लोकान्। बाणेन निर्वाणसुखावसानान् ज्ञानेन कर्माणि यथात्मदर्शी॥ १९-९७ ॥ ततः प्रहृष्टा विमला त्रिलोकी देवाः प्रसेदुर्ववृषुः प्रसूनैः। नेदुर्दिवो दुन्दुभयः प्रकामं जीवत्रयं मङ्गलमाप रामात्॥ १९-९८ ॥ रघुपतिरसौ वल्लीभञ्जं विभज्य शरासनं मनसिजरिपोः सीताचेतस्सरोजविकासकृत्। भृगुपतितमोहर्ता रामोऽधिरङ्गमशोभत प्रतिमथितमन्देहः प्रातः पतङ्ग इवांशुमान्॥ १९-९९ ॥ भृगुपतिरथो दृष्ट्वा रामं परात्परमीश्वरं रघुपतितनुं विष्टं तेजः स्वकं किल वैष्णवम्। सुरपतिगिरिं गच्छन् सायं दिनेश इवाल्पगुः सुललितलसद्वृत्तं रामोऽस्तवीत्प्रभुराघवम्॥ १९-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। अस्तूनविंशः कविरामभद्राचार्यप्रणीते श्रिय एष सर्गः॥ १९-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीराघवे भार्गवप्रवेशो नामोनविंशः सर्गः।