अथ प्रभातेऽरुणचूडवन्दिभिर्विबोधितः कोसलराजनन्दनः। पुरःस्थितं प्राञ्जलिमेत्य लक्ष्मणं जगाद गां गामिव गापयन् गवा॥ १७-१ ॥ तमालनीलो द्विजनायकत्विषां करैर्द्विजानां तिमिरं हरन् हरिः। निदर्शयन्नन्वयमब्दचन्द्रयोः समन्वयाध्यायमिवोद्गिरन् गिरा॥ १७-२ ॥ मुखानिलेनामरपद्मगन्धिना विलुब्धरोलम्बकदम्बकाननः। कृपार्द्रदृष्ट्या सदयं विलोकयन् शरन्मयूखाढ्यकुमुत्समाननः॥ १७-३ ॥ उदीक्षतां प्रागुदितोऽरुणोऽरुणः प्रवालवर्णो नवकुङ्कुमच्छविः। पुरन्दराशाललनाललाटके प्रलिप्तसिन्दूर इवाद्भुतद्युतिः॥ १७-४ ॥ नवीनराजीवनिभस्त्वदाकृतिस्तमो निरास्यत्प्रथमं खगोदयात्। यथा त्वमाजौ सुभुजं मयि घ्नति क्रुधाखिलानक्षपयः क्षपाचरान्॥ १७-५ ॥ अहो सुधन्योऽरुण ऊरुवर्जितोऽप्यनन्तपारं नभ उष्णदीधितिम्। रथेन चाह्नैव नयत्यमोघदृक् सतां हि सङ्कल्पदृढत्वमादृतम्॥ १७-६ ॥ जगाद सौमित्रिरथान्तरं वचो रवेरयं स्यान्महिमा न सारथेः। क्व वैनतेयः करपादविक्लवः क्व सूर्यसौत्यं ह्यसमञ्जसं महत्॥ १७-७ ॥ क्व सप्तसप्ते रथ एकचक्रको नभो निरालम्बमनन्तयोजनम्। गतोरुकस्यापि नियन्त्रिता क्व च श्रितः समर्थं हि समर्थ उच्यते॥ १७-८ ॥ इति प्रभाष्यैव नरेन्द्रनन्दनौ विधाय पौर्वाह्णिकमीड्यतेजसौ। गुरुं समागत्य मुदा प्रणेमतुर्विनीतवेषौ ननु रामलक्ष्मणौ॥ १७-९ ॥ शुभाशिषा गाधिकुलावतंसकः समर्चयत्तौ रघुवंशवर्धनौ। जगाम ताभ्यां सहितः स जानकीस्वयंवरं भूपतिनाभिमन्त्रितः॥ १७-१० ॥ स्वरङ्गभूमिं मुनिना सहागतौ नरेन्द्रसूनू ननु रामलक्ष्मणौ। निशम्य पौराः प्रमुदा समाययुः सुधाकरं चारुचकोरका इव॥ १७-११ ॥ सबालवृद्धास्तरुणास्तपस्विनः स्त्रियस्तरुण्यो वनिता वनप्रियाः। रघूत्तमालोकनलोलचक्षुषः सरस्तृषार्ता इव रङ्गमाययुः॥ १७-१२ ॥ स्थितेषु भूपेषु यथोचितासनं सुदानदर्पेषु गजायितेष्वथ। समाययौ राघवबालकेशरी स्वयंवरारण्यविभां विवर्धयन्॥ १७-१३ ॥ सलक्ष्मणो लक्ष्मणपूर्वजो जनान् जनार्दनो जिष्णुजनेशतल्लजान्। प्रसादयन् सादितताटकाग्रहो ग्रहर्क्षतारा इव तारकेश्वरः॥ १७-१४ ॥ विलोभितास्तेन कुजैकलोभिना विलोभिना कोटिमनोजशोभिना। विलोलचित्ता मिथिलामृगीदृशो दृशो न्यषेधन्न ततो दृशोऽबलाः॥ १७-१५ ॥ तमालनीलं स्मरकन्दसुन्दरं प्रलम्बबाहुं मृगराजकन्धरम्। सुनासिकं कञ्जविलोललोचनं भ्रुवा स्मरेषुक्षिपदर्पमोचनम्॥ १७-१६ ॥ विशालभाले कलितोर्ध्वपुण्ड्रकं समावहन्तं तिलकं तिलार्चितम्। कलिन्दजाक्रोडगतां सरस्वतीं त्रिमार्गगायुग्ममयीमिवादरात्॥ १७-१७ ॥ मनोजकेतूपमलोलकुण्डलोल्लसत्कपोलस्मितपल्लवाधरम्। द्विजावलीदाडिमकुन्दकुड्मलच्छविं शरच्चारुसुधाकराननम्॥ १७-१८ ॥ स पाञ्चजन्योपमकण्ठमालिकालसल्ललामेभमनोज्ञमौक्तिकम्। विशालवक्षस्तुलसीसुमालिकासमेधितामोदवशप्रियालिकम्॥ १७-१९ ॥ अशेषविघ्नौघवनद्विजाग्रभूकरप्रतीकाशकरारविन्दयोः। करालकालानलबाणभास्वरप्रचण्डकोदण्डधरं धराधरम्॥ १७-२० ॥ कटौ निषङ्गं शरसङ्गि बिभ्रतं कदम्बकिञ्जल्कसमानवाससम्। प्रतप्तचामीकरदाममण्डितं मखोपवीतं दधतं धृतव्रतम्॥ १७-२१ ॥ मुनीन्द्रपत्नीदुरितक्षयक्षमं त्रिमार्गगासम्भवपादपङ्कजम्। समस्तसौन्दर्यनिधानविग्रहं निराग्रहं श्रीसदनुग्रहाग्रहम्॥ १७-२२ ॥ महोमहोरस्कमनन्तपौरुषं महानुभावं महनीयविक्रमम्। दशास्यबाहूदधिमन्दरोल्लसन्महामहाबाहुमखण्डमच्युतम्॥ १७-२३ ॥ समं समत्राखिलभूतसौहृदं निगूढजत्रुं रणचण्डविक्रमम्। महाबलं वैष्णववंशवत्सलं स्थलं श्रुतीनामिव लब्धसद्बलम्॥ १७-२४ ॥ त्रिलोकलावण्यललामलालितं महेशसन्मानसहंसपालितम्। जनाः समस्ता ददृशुर्जनप्रियं जगन्निवासं जगदेकमङ्गलम्॥ १७-२५ ॥ विदेहराजोऽपि विलोक्य विस्मितो दिगीशदृक्स्वस्त्ययनं नरोत्तमम्। अनुव्रतं गाधिसुतं सहानुजं सुमूर्तिमद्ब्रह्मसुखं यथाव्ययम्॥ १७-२६ ॥ विचारयामास विचारणाचणो विविक्तमास्थाय विविक्तविन्नृपः। अहो अपूर्वो नरदेवनन्दनो विधातृवैचित्र्यकलातिगद्युतिः॥ १७-२७ ॥ कथं हि सीता प्रवृणीत राघवं रमेव विष्णुं ह्यनुरूपसौभगम्। अयं ह्यमुष्या इयमस्य धीमतो विना रविं को रमयेत पद्मिनीम्॥ १७-२८ ॥ निरीक्ष्य नूनं सकृदेव जानकी वृणीत चैनं रघुवंशवर्धनम्। न कर्हिचित्क्वापि जहाति कौमुदी शरत्कुमुद्वन्तमखण्डमण्डलम्॥ १७-२९ ॥ परं प्रतिज्ञा मम बाधिका विधे पिनाकभङ्क्ता हि भवेत्सुतावरः। कथं नु रामो नवकञ्जकोमलो जवाद्धनुर्द्यात्पविकोटिनिष्ठुरम्॥ १७-३० ॥ स आशुतोषः सुदृढौ भुजौ क्रियान्ममास्य रामस्य मरालमञ्जुलौ। यथा ह्ययं वज्रकठोरकार्मुकं मृणालभञ्जं प्रभनक्तु राघवः॥ १७-३१ ॥ तथैव सर्वे मिथिलानिवासिनः शिवं मुदा प्रार्थितवन्त ईश्वरम्। धनुर्द्यतु श्यामसरोजसुन्दरस्तवेश रामो भवतानुमन्यताम्॥ १७-३२ ॥ इयञ्च रामं हरिमब्धिजा यथा वरं वरार्हार्हति हंसगामिनी। तथैव रामोऽपि रमामिवाच्युतो वधूमिमामर्हति हंसवंशजः॥ १७-३३ ॥ विशां पतिः कौशिकरामलक्ष्मणान् सभाजयित्वा बहुमानभाजनान्। निदर्शयामास सुतास्वयंवरं सतो हि सम्मान्य नरः शमञ्चति॥ १७-३४ ॥ ततः समेभ्यश्च महत्तरे वरे सुवर्णमञ्चे गुरुणा गुरुर्भुवः। भुवो भुवो भारहरौ वृषाकपी समं विधात्रेव नृपो न्यवीविशत्॥ १७-३५ ॥ समस्तराजासनमौलिपासने स राघवो लक्ष्मणलक्षितोऽलघुः। रराज राजन्यकुमारसम्मतो गुहो यथा क्रौञ्चगिरौ सपावकः॥ १७-३६ ॥ बभौ मुनिर्मध्यगतः कुमारयोर्महोच्चमञ्चे रघुवर्ययोरथ। सुमेरुशृङ्गेऽसितपीतपद्मयोः स मध्यवर्ती रविरंशुमानिव॥ १७-३७ ॥ उभौ कराभ्यां श्रितकाकपक्षकौ विशुद्धवात्सल्यधिया स लालयन्। द्विजोऽरुणाभ्यां द्रुहिणो यथा बभौ पयोरुहाभ्यामिह बालमन्मथौ॥ १७-३८ ॥ समस्तदिग्भ्यः समुपागता नृपाः सदेवदैत्यासुरनागकिन्नराः। महाबला दर्पयुताश्च जानकीस्वयंवरे प्रोद्धतपीनबाहवः॥ १७-३९ ॥ तमेव तापिच्छतनुं तमोहरं हरार्चितं चन्दनचर्चितं हरिम्। निसर्गसौन्दर्यलसत्कलेवरं व्यलोकयन्निश्चलपक्ष्मचक्षुषा॥ १७-४० ॥ स्वभाववैचित्र्यविभिन्नदृष्टयः समेऽभ्यपश्यंस्तमशेषशेखरम्। पृथक्पृथङ्नो विविधे तथाप्यसौ घटेष्वनेकेष्विव भानुरेकलः॥ १७-४१ ॥ नृपप्रवीरास्तमनन्तपौरुषं व्यलोकयन् लोहितकञ्जलोचनम्। प्रचण्डदोर्दण्डलसच्छरासनं शरीरिणं वीररसं यथा रसम्॥ १७-४२ ॥ विलोक्य भीताः कुटिला महीक्षितो भयङ्करं कोटिकृतान्तभीकरम्। अनन्तकण्ठीरवभीमविक्रमं त्रिविक्रमासङ्ख्यलसत्पदक्रमम्॥ १७-४३ ॥ छलावनीशाश्च शरासुरादयस्तमभ्यपश्यन् रघुवंशवर्धनम्। करालकालानलसन्निभाननं प्रतर्जयन्तं निर्ऋतिं भयावहम्॥ १७-४४ ॥ निसर्गसौम्या मिथिलानिवासिनो व्यलोकयन् राममलोललोचनम्। अदूषणं मानवमात्रभूषणं महाद्भुतं भानुकुलाब्जपूषणम्॥ १७-४५ ॥ ततस्तमैक्षन्त तमालसौभगं पुरः पुरन्ध्र्यः पुरुहूतपूजितम्। त्रिलोकलावण्यललाममामयं निरामयं मूर्तमिव स्मरं स्वयम्॥ १७-४६ ॥ व्यलोकि विद्वद्भिरनन्तशीर्षवान् विराट्प्रभुः कोटिसहस्रविग्रहः। अनन्तबाहूदरनासिकाननः सहस्रपात्सादितदैत्यकाननः॥ १७-४७ ॥ महीपतिज्ञातिजना जनार्दनं प्रियं सखायं निजभावबन्धिनम्। व्यलोकयन् लोलविलोचना हरिं सुहृद्वरं प्रीतिकरं तनूभृताम्॥ १७-४८ ॥ अमुष्य राज्ञ्योऽप्यमुना महीभुजा व्यलोकयंस्तं करुणार्द्रचेतसः। शिशुं यथा ब्रह्मशिशुं स्नुतस्तनाः पयोऽभिरामा रमणीयविग्रहम्॥ १७-४९ ॥ अयं कथं स्यान्ननु कन्दसुन्दरो धनुर्धरोऽस्मत्तनयावरो विधे। क्व शम्भुचापं पविकोटिनिष्ठुरः शिशुः क्व चायं नवकञ्जकोमलः॥ १७-५० ॥ तमब्जकान्तं ददृशुश्च योगिनः परं पुमांसं तमसः परं प्रभुम्। विभुं स्फुरज्ज्योतिरखण्डवैभवं स्वयं प्रकाशं श्रितशान्तिमीश्वरम्॥ १७-५१ ॥ हरेश्च भक्ता भजनीयविग्रहं समस्तकल्याणगुणैकसङ्ग्रहम्। दृशा समानीय हरिं मनोगृहं स्वमष्टिदेवं ह्यभजन् सदाग्रहम्॥ १७-५२ ॥ अथासुनाथं तमनाथसंश्रयं गवाक्षतो गोतनया गवेषयत्। रहोगतं तं परिरभ्य निर्वृता निसर्गनव्यं निमिवंशकन्यका॥ १७-५३ ॥ अवादयन्मङ्गलवाद्यदुन्दुभीर्जगुः कलं किम्पुरुषाः सुमङ्गलम्। सुराः प्रसूनैर्ववृषुश्च जानकीस्वयंवरेऽनृत्यदथाप्सरोगणः॥ १७-५४ ॥ अथेङ्गितज्ञा जनकस्य जानकी सखीजनालङ्कृतचारुभूषणा। कराब्जराजज्जयमालिका कलं जगाम सीता शनकैः स्वयंवरम्॥ १७-५५ ॥ यतो यतो गच्छति मैथिली शनैः पयोजपद्भ्यां जयमालिकामयी। ततस्ततो भूपगणा हताशका भवन्ति दीपप्रभयेव वञ्चिताः॥ १७-५६ ॥ परिस्फुरत्काञ्चिसुनीलशाटिकासमावृता मैथिलराजकन्यका। वियद्गताम्भोदतडिन्मयच्छविं सतारकां चापि जिगाय जानकी॥ १७-५७ ॥ समेऽप्यपश्यन् जगदेकसुन्दरीं श्रियं महीपाश्च निमेषवर्जिताः। महीसुता तूत्पलनीलराघवं चकोरिका चन्द्रमिवापपौ दृशा॥ १७-५८ ॥ गृहीतवीरासनमम्बुदच्छविं गुरोश्च सव्येतरभागमास्थितम्। समीपमाहूय दृशानुजं किमप्युदीरयन्तं स्मितमञ्जुलाननम्॥ १७-५९ ॥ तमीक्षमाणा नवमेघमेदुरं जगन्निवासं जगदेकसुन्दरम्। विदेहकन्या रघुवंशदीपकं बभौ मृगाक्षीव मृगी मृगीप्सिता॥ १७-६० ॥ नृपेषु तिष्ठत्सु यथोचितासनं जनेषु पश्यत्स्वथ राममैथिलीम्। क्षमामिवेष्टां समजूघुषत्क्षमापतिः प्रतिज्ञां विरुदेन वन्दिभिः॥ १७-६१ ॥ शृणुध्वमेते महिता महीक्षितः स्वयंवरे पर्वणि वै समागताः। विदेहराजस्य महीमिवाचलामिमां प्रतिज्ञां दुहितुः कृते कृताम्॥ १७-६२ ॥ विदन्ति सर्वे शिवचापमद्भुतं पुरा विदेहेषु शिवेन चार्पितम्। पुरान्तकं मन्मथधूमकेतुना सुपूजितं मैथिलवंशराजभिः॥ १७-६३ ॥ सदेवदैत्यासुरयक्षराक्षसा न मानवास्तोलयितुं च यत्क्षमाः। नरेन्द्रबाहूद्धतवीर्यचन्द्रमोनृसिंहदासस्वसृसूनुसम्मितम्॥ १७-६४ ॥ तदीशचापं पविकोटिनिष्ठुरं करेण सव्येन सहेलमुद्धृतम्। नरेन्द्रकन्या बहुशोऽप्यनर्तयत्करीन्द्रकन्येव मृणालदण्डकम्॥ १७-६५ ॥ विलोक्य लोकोत्तरमात्मजाकृतं चकार भूपो महतीं प्रतिश्रुतिम्। पिनाकभङ्क्तैव सुतावरो भवेद्धृताद्रिरम्भोनिधिजाधवो यथा॥ १७-६६ ॥ तदद्य यः कोऽपि विभज्य कार्मुकं प्रदर्शयिष्यत्यथ विश्रुतं बलम्। स राजकन्याजयमालया तया जयश्रिया शीघ्रमलङ्करिष्यते॥ १७-६७ ॥ उदेतु वा भानुरुपेत्य पश्चिमां जहातु वेलां यदि वा पयोनिधिः। तथापि भो भूपवरा निबोधत स्वकां प्रतिज्ञां जनको न हास्यति॥ १७-६८ ॥ निशम्य तद्वन्दिवचो महीक्षितः समुत्थिता वेपितबाहवस्समे। गता न तच्चालयितुं क्षमा बलात्पुनर्निवृत्ता अबला इवाहताः॥ १७-६९ ॥ अथैन्द्रसेनिः समुपेत्य विस्मितः प्रदक्षिणीकृत्य शनैः प्रणम्य तत्। अवाप्तनिर्वाण इवात्ममन्दिरं शरासुरस्तूणमिवागतः शरः॥ १७-७० ॥ ततो भुजानां निचयेन विंशतेरियेष तच्चालयितुं स रावणः। प्रभग्नवीर्यो धनुषैव तत्क्षणं दशाननो वीतविभाननोऽगमत्॥ १७-७१ ॥ ततो नृपाणामयुतं रुषोत्थितं प्रयत्नवत्तोलयितुं शरासनम्। न चाचलद्ध्वान्तमिवोडुभिश्चिरं श्रिया हतास्ते कुटिलाः पराङ्मुखाः॥ १७-७२ ॥ इति स्मरारेर्धनुषा स्वयंवरे प्रभग्नवीर्येषु नृपेषु सत्स्वथ। मलीमसास्येषु हतेष्विव श्रिया दशामवाप्तेषु निशीथपक्षिणाम्॥ १७-७३ ॥ जगाम चिन्तां जनको जनाधिपः स्वयंवरीं वीक्ष्य दशां भयङ्करीम्। प्ररूढरोषः स्फुरिताधरोत्तरो विगर्हयन् राजसभां व्यभाषत॥ १७-७४ ॥ समस्तदिग्भ्यो बलवीर्यदर्पिताः सदेवदैत्यासुरयक्षराक्षसाः। मनुष्यवेषास्तनयाभिलाषिणश्चरोर्यथा ध्वाङ्क्ष उपागता समे॥ १७-७५ ॥ अहो अलं यूयमनाप्तपौरुषाः कुशासकाः क्लीबविडम्बनापराः। कुयोगिनः स्वान्तमिवामलात्मनो न वै धनुश्चालयितुं यतः क्षमाः॥ १७-७६ ॥ मनोरमाया दुहितुर्जयश्रियस्त्रिलोककीर्तेरुपलब्धिभाजनम्। न चापभङ्क्तारमथोऽपि सृष्टवान् विधिर्विसर्ज्यो हि मया स्वयंवरः॥ १७-७७ ॥ निराशका गच्छत भूभृतो गृहान् न वा प्रतिज्ञां जनको विहास्यति। न वा विधात्रा मिथिलेशमण्डपे व्यलेखि वैदेहिविवाहमङ्गलम्॥ १७-७८ ॥ न चाधुना कोऽपि मुधा विकत्थतां हठाद्भटम्मन्य इवातुरो जनः। प्रवीरशून्यामवधारये महीं स्वयंवरं चापि विसर्जयाम्यहम्॥ १७-७९ ॥ यदि ह्यवेत्स्यं भटवर्जितां महीं नपुंसकान् या हि दधाति वक्षसा। तदाकरिष्यंश्च कथं प्रतिश्रुतिं वृथागमिष्यं परिहासपात्रताम्॥ १७-८० ॥ विधे त्यजेयं यदि चेत्प्रतिश्रुतिं तदा व्रजेन्मे सुकृतं चिरार्जितम्। सुता कुमार्येव गृहे विराजतां विदेहराजस्य विडम्बनं ह्यदः॥ १७-८१ ॥ निशम्य चैतज्जनकस्य भाषितं विभाव्य रामस्य कृतां तिरस्कृतिम्। प्ररूढकोपस्फुरितारुणाधरो जगाद सौमित्रिरथोत्तरं परम्॥ १७-८२ ॥ मुखाम्बुजं तस्य सतो विवक्षतः प्रवालताम्रं भ्रकुटीभयङ्करम्। करालकालानलसन्निभं लसज्जिघित्सयेव त्रिजगत्कृतश्रमम्॥ १७-८३ ॥ प्रणम्य रामस्य पदाम्बुजद्वयं भुजौ समुत्थाप्य निबोध्य भूभृतः। प्रमाणयिष्यन् रघुवीरभूषितां वसुन्धरां भूपतिमभ्यभाषत॥ १७-८४ ॥ भवेद्रघूणां यदि कोऽपि संसदि प्रवक्तुमीशीत तदा क ईदृशम्। प्रविद्यमानेऽपि रघूद्वहे हरौ प्रसह्य यद्भूपतिना प्रभाषितम्॥ १७-८५ ॥ अहं पिनाकं परिभङ्क्तुमुत्सहे तृणायमानं शतसन्धिजर्जरम्। कृता प्रतिज्ञा विषमा महीभृता ततोऽत्र पापं परिशङ्कते मनः॥ १७-८६ ॥ प्रदीयतां मे भवतानुशासनं मृणालतोलं परितोलयन् धनुः। प्रधाव्य वेगाच्छतयोजनं बलाद्विपोथये कन्दुकितं भुवि क्षणम्॥ १७-८७ ॥ इतीरयन्तं प्रसमीक्ष्य लक्ष्मणं निरीक्ष्य सीतां धृतहर्षचेतसम्। निवारयामास वशी दृशानुजं महत्प्रतीक्ष्यं ह्यनुशासनं सताम्॥ १७-८८ ॥ विश्वामित्रमुनिः समीक्ष्य धनुषा भग्नात्मवीर्यान् नृपान् चिन्तासागरमग्नचेतसमथो दृष्ट्वा विदेहाधिपम्। प्रेमोत्फुल्लविलोचनाम्बुजयुगः स्निग्धस्वरं सस्पृहं भङ्क्तुं शम्भुशरासनं रघुवरं श्रीराममभ्यादिशत्॥ १७-८९ ॥ उत्तिष्ठ प्रभुराम भूमितनयां लिप्सूंश्च शत्रूञ्जय शार्वं कामठपृष्ठवज्रकठिनं शीघ्रं धनुर्भञ्जय। चिन्ताशोकदवाग्निदग्धविभवं सीरध्वजं रञ्जय सीतां प्राप्य जयश्रियं त्रिभुवने ख्यातिं चिरं व्यञ्जय॥ १७-९० ॥ इत्युक्तो गुरुणा जगद्गुरुरसौ श्रीकौशिकं ब्राह्मणान् नत्वा नन्दनपुष्पपूजितपदः प्रीतो जनान् नन्दयन्। उत्तिष्ठन्नधिमञ्चमात्ममहसा पूर्णः प्रकाशोज्ज्वलः शोभां बालरवेरथोदयगिरौ रामोऽजयत्तस्थुषः॥ १७-९१ ॥ गच्छन्मत्तमतङ्गमञ्जुगमनः सोपानतः पार्थिवीं पश्यन् पद्मपलाशसम्मितदृशा हर्षं वितन्वन् सताम्। वर्षन् वारिजनेत्रतः सुखसुधां तर्षं हरन् प्राणिनां कर्षन् मञ्जुमनांसि चञ्चलदृशां रामो विरेजे विभुः॥ १७-९२ ॥ देवाः पन्नगयक्षकिन्नरनरा नार्यो नृपो मैथिलो गन्धर्वासुरराक्षसा मुनिगणाः प्रेमप्रकर्षोत्कटाः। भङ्क्तुं शम्भुशरासनं भगवते मञ्चादधो गच्छते श्रीरामाय नवीननीरदरुचे सर्वेऽब्रुवन्मङ्गलम्॥ १७-९३ ॥ दृष्ट्वा व्यालमिवाल्पकं स गरुडः स्पृष्ट्वा धनुः पाणिना पृष्ट्वा शङ्करमात्मकिङ्करवरं हृष्ट्वा हरिर्लाघवात्। आदायाब्जकरेण रोपितगुणं कृष्ट्वा च कर्णान्तिकं श्रीरामस्तृणभञ्जमीश्वरधनुर्मध्याद्बभञ्जाञ्जसा॥ १७-९४ ॥ शेषोऽभूद्वधिरो विधिश्च विकलो भ्रष्टाः पथो वाजिनो भानोः कच्छपदिग्गजैः प्रचलिता भूमिर्दिशः कम्पिताः। त्रैलोक्यं भयसम्भृतं वधिरितं शम्भुस्समाधिं जहौ श्रीरामेण विभज्यमानधनुषः श्रुत्वातिघोरं ध्वनिम्॥ १७-९५ ॥ सीताधिं मिथिलापतेर्विकलतां राज्ञीभयं देवता- चिन्तां भार्गवगर्वमाभिनयिकं संसारिणां संशयम्। दर्पं मूढमहीभुजां स भगवान् साकं पिनाकेन वै दोर्दण्डोद्धतवीर्यघोरजलधौ सर्वान् समामज्जयत्॥ १७-९६ ॥ नेदुर्दुन्दुभयो दिवि प्रमुदिता गन्धर्वमुख्या जगु- र्देवा नन्दनपुष्पकैः प्रववृषुर्भेजुर्मुनीन्द्राः पदम्। सर्वो मैथिलनागरः प्रमुमुदे प्रीतिं ययौ लक्ष्मण- स्त्रैलोक्ये च विजृम्भितं हरियशश्शार्दूलविक्रीडितम्॥ १७-९७ ॥ अथ दशरथसूनुर्देशिकादिष्टदिव्यप्रबलभुजबलाब्धौ चापपोतं निमज्ज्य। कुधरदुहितृभर्तुस्स्तूयमानः सुरेन्द्रैः कुशिकसुतपदाब्जे भालभृङ्गं जुगूह॥ १७-९८ ॥ प्रणिगदति मुनीन्द्रे सस्वरं वेदमन्त्रान् कलितकुसुमवर्षे देववर्षे प्रहर्षे। सरसिजजयमालां जानकी जैत्रलक्ष्म्या रघुवरवरकण्ठे प्रार्पयत्प्राप्तकाला॥ १७-९९ ॥ तदा जयजयध्वनिध्वनितमास्त लोकत्रयं रघूत्तमकृपासुधाक्षपितपापतापं जगत्। गृहीतजयमालिनी जनकजा महश्शालिनी नमोऽस्त्विति समभ्यधाद्रघुवराय पृथ्वीपतिः॥ १७-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। श्रियेऽस्तु सर्गः कविरामभद्राचार्यप्रणीते दशसप्तमोऽयम्॥ १७-१०१ ॥ इति धर्मचक्रवर्तिमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यप्रणीते श्रीभार्गवराघवीये महाकाव्ये सीतासवयंवरं नाम सप्तदशः सर्गः।