सङ्क्षिप्तसमीक्षा


– देवर्षिकलानाथशास्त्रिणः

  व्याकरण­वेदान्त­न्यायादि­विविध­शास्त्र­पारदृश्वनां कवि­सार्व­भौमानां विद्वत्कुल­चक्रवर्तिनां महा­महो­पाध्यायानां जगद्गुरु­श्रीराम­भद्राचार्याणां चित्रकूटस्थ­रामानन्दीय­तुलसी­पीठाधीशानां नूतनं महा­काव्यं श्रीभार्गव­राघवीयं सपद्येव प्रकाशमायातं यत्रैकविंशति­सर्गेषु परशुरामेण सम्बद्धानां राम­कथा­घटनानां सुरुचिरं वर्णनं निबद्धं तैः। महाकाव्यस्यास्य लोकार्पण­मक्टूबर­मासस्य त्रिंश्यां तारिकायां भारत­प्रधान­मन्त्रिणा श्री­अटल­बिहारी­वाजपेयिना नव­देहल्यां कृतमभूत्। प्रौढायां प्राञ्जलायां हृदयावर्जिकायां च शैल्यां विविधेषुच्छन्दःसु निबद्धमिदं विशालं महा­काव्यं तत्प्रणेतु­र्विपश्चिदग्र­गण्यस्य महाकवे­र्बन्धनैपुण्यं वर्णन­कौशलं च तु व्यनक्त्येव, पर्यन्त­गतेषु सर्गेषु घनाक्षरी­सवैया­प्रभृतीनां लोक­भाषाच्छन्दसां “जयति तेऽधिकं जन्मना व्रजः” (भागवते १०-३१-१) इत्यादि श्रीमद्भागवतीयाना­मिन्दिरा­प्रभृतिच्छन्दसां च प्रयोगश्छन्दःशास्त्रीय­मनिर्वचनीयं नैपुण्यमपि प्रमाणयति। “काककाक ककाकाक” (२०-९३) इत्याद्येकाक्षर­पद्यानां योजनमपि चित्रकाव्य­च्छटां प्रस्तौति। महा­काव्ये प्रतिपद्यं स्वयं महा­कविना लिखिता कृपा­ख्या हिन्दी­टीकाऽस्य सर्वजन­सुलभतां वितनुते। जगद्गुरु­रामभद्राचार्या न केवलं संस्कृतेऽपि तु चतुर्दश­भाषासु विलक्षण­मधिकारं बिभ्रति। अष्टाध्यायी­प्रस्थानत्रयी­प्रभृतीनां पाठस्तेषां कण्ठ­गतः। तुलसी­कृतं राम­चरित­मानसं हृदयस्थं तेषामिति विदन्तः स्युः सुधियः। सर्वमिदं वैदुष्यं शैशवे नेत्र­ज्योतिषो विलोपे सत्यप्यमीभि­रभिगतमिति विज्ञाय विस्मिता एव जायन्ते जनाः। तदिदमेषा­मलौकिक­शक्ति­सम्पन्नता­मवतारितां च व्यनक्त्येव। एतैः खलु “लघुरघुवरम्” खण्डकाव्यं समस्त­ह्रस्व­(लघु)­वर्ण­घटितं प्रणीतं प्रकाशितं चाभूदित्य­स्माभि­र्भारत्यां सूचितचरम्। एतत्पूर्व­मेतै­र्हुतात्मनः श्रीचन्द्रशेखर­आजादस्य जीवन­मवलम्ब्य “आजाद­चन्द्रशेखर­चरितम्” खण्डकाव्यं विलिखित­मभूत्। तथा च “श्रीराघवाभ्युदय”­नामकमेकाङ्कि­नाटकमपि प्रणीतमभूद्यत्र श्रीराघवस्य बाल्य­कैशोर्ययोः कथा विश्वामित्र­यज्ञ­रक्षादि­घटना­मयी जानकी­पाणिग्रहणात्पूर्व­वर्तिनी निबद्धाऽस्ति। सर्वाणि काव्यानि नाटकानि च हिन्दी­भाषानुवाद­सहितानि प्रकाशितचराणि। एतदतिरिक्त­मनेकानि स्तोत्राणि प्रस्थान­त्रयी­भाष्यादी­न्यनेकानि भाष्याणि च संस्कृत आचार्य­चरणै­र्विलिखितानि। हिन्दी­भाषायामनेकानि महा­काव्यानि खण्ड­काव्यानि राम­कथा­विवेचका ग्रन्थाश्च श्रीमद्भि­र्विलिखिताः। अनेके प्रकाशिता बहवश्च प्रकाशनं प्रतीक्षन्ते। जगद्गुरूणामेषां राष्ट्रभक्तिः सुप्रथिता। सर्वातिशायि श्रीमतां कृतित्वमस्ति देशे सर्वप्रथमस्य जगद्गुरु­रामभद्राचार्य­विकलाङ्ग­विश्वविद्यालयस्य चित्रकूटे स्थापना यत्र विकलाङ्गानां कृते सर्वविधा शिक्षा समुप­लब्धाऽस्ति। श्रीमतां कथा­प्रवचनमत्यन्तं सरसं हृदयावर्जकं च भवतीति सर्वे भारतीया विजानन्त्येव। गत एव मासे जयपुरनगरेऽपि श्रीमतां रामकथा­प्रवचनं परःसहस्र­श्रोतृषु पीयूषवर्षां चक्र इति जयपुरीया जानन्ति। श्रीमन्तो भारतीपत्रिकायाः संरक्षकास्तु सन्त्येव भारत्यै समये समये सारस्वतः प्रसादोऽप्येभिर्दास्यत इति विज्ञाय प्रसीदेयुः पाठकाः।

– “भारती” (जयपुरम् – भारतीयसंस्कृतप्रचारसंस्थानम्), ५३ (३), जनवरी २००३, पृ. स. २१–२२।