सीतारामयशोमञ्जुमुक्तामोदमुदं मुदे। वन्दे वाग्देवतानाम्नीं मरालीं मानसाश्रयाम्॥ १-१ ॥ प्रत्यूहव्यूहशैवोहाहारहारस्रगच्युत-। ध्वजं वार्षध्वजं वन्दे हेरम्बं बुद्धिवल्लभम्॥ १-२ ॥ वन्दे वन्दारुवृन्दानां पारिजातपदाम्बुजौ। प्रभाभानू इवाभिन्नौ भवानीभूतभावनौ॥ १-३ ॥ नीलपाथोजसङ्काशकान्तये श्रितशान्तये। रामाय पूर्णकामाय जानकीजानये नमः॥ १-४ ॥ गौरश्यामौ जनारामौ रामौ भार्गवराघवौ। भगवन्तौ भजे भव्याववतारावतारिणौ॥ १-५ ॥ नाहं काव्यकलाचुञ्चुर्न मे बुद्धिर्बहुश्रुता। स्नपये स्वगवीं रामगाथागङ्गामृताम्भसि॥ १-६ ॥ क्वाहं मन्दमतिः क्वेमावीशौ भार्गवराघवौ। तत्पदाब्जप्लवः प्रेम्णा तरिष्यामि महार्णवम्॥ १-७ ॥ महाकाव्यकृतां पङ्क्तौ तिष्ठासाम्यच्युताश्रयः। धूमोऽपि सौरभं धत्ते ह्यगुरस्य प्रसङ्गतः॥ १-८ ॥ रामचन्द्रशरच्चन्द्रकीर्तिसत्काव्यकौमुदीम्। भजन्तो रौरवं घ्नन्तु कसन्तः साधुकैरवाः॥ १-९ ॥ रामौ गायन् स्मरन् रामौ रामभद्राह्वयो मुदा। क्षपयिष्ये कलिं राममहाकाव्यापदेशतः॥ १-१० ॥ इदं सन्तः समर्हन्ति महाकाव्यं निषेवितुम्। रसालस्य रसं नूनं पिको वेत्ति न वायसः॥ १-११ ॥ ब्रह्मसूनुर्भृगुर्नाम सप्तमो ब्रह्मसत्तमः। द्विजानामभवन्मान्यो द्विजानामिव विष्णुवाट्॥ १-१२ ॥ यदीया सन्ततिर्ब्राह्मी ख्यात्यां ख्यातिमजीजनत्। त्रय्यामिव त्रयी पूज्या गायत्री छन्दसामिव॥ १-१३ ॥ यद्वात्सल्यसुधालोभात्प्राक्सुधारत्नतस्ततम्। शिश्रिये श्रीर्यमीड्याङ्घ्रिपङ्कजं पङ्कजाश्रया॥ १-१४ ॥ धत्ते ब्रह्मण्यशीलत्वाद्यत्पदाम्भोजलाञ्छनम्। श्रीवत्साङ्क इवैणाङ्कं वत्सोऽत्रेरिव वत्सके॥ १-१५ ॥ ऋचामृचीकस्तनयः पारदृश्वा भृगोरभूत्। पितरं रोचयामास रोचिषेवोदधिं विभुम्॥ १-१६ ॥ स गाधितनयां वव्रे पत्नीं सत्यवतीं सतीम्। रूपशीलगुणोपेतां प्रभामिव मरीचिमान्॥ १-१७ ॥ द्योतिताशा सुताशा सा बभौ भासा भवे भवे। भवानीव भवाराध्या भामिनी भर्तृभाविता॥ १-१८ ॥ द्विजन्मधर्मपत्नी सा हव्यवाट्परिचर्यया। भर्त्रेऽदात्सौभगं साध्वी कौमुदीव कुमुद्वते॥ १-१९ ॥ विश्रम्भेणात्मशीलेन वर्णिनी वल्गुवाचया। अचूचुरन्मनः पत्युः पार्वतीव परेशितुः॥ १-२० ॥ अग्निशुश्रूषया देवी छात्त्रसंलालनेन च। अनुवृत्त्या गिरा भक्त्या भार्गवं समतूतुषत्॥ १-२१ ॥ प्रीणयन्ती पतिं पत्नी नान्तर्वत्नी ह्ययाचत। स्वसृत्वं चैव मातृत्वं स्वस्याः प्राणपतिं प्रति॥ १-२२ ॥ द्वावभावौ हि मां देव भ्रातुः पुत्त्रस्य चाश्नतः। व्याघ्रसिंहाविवाभ्येत्य सारङ्गीमिव कम्पिताम्॥ १-२३ ॥ त्रायस्व त्राणशौण्डे त्वं प्रियां स्वां वृजिनार्णवात्। कान्तायाः क्रमकामानां कान्तः कामतरुः किल॥ १-२४ ॥ चिन्तितं चेन्न चीयेत पुरश्चिन्तामणेश्चिरम्। हन्त हा प्राक्तनानां मे विपाको बलवत्तरः॥ १-२५ ॥ अलङ्कारास्त्रयः प्रोक्ताः सीमन्तिन्या मनीषिभिः। भर्ता भ्राता तथा पुत्त्रस्त्रिभिः सा भाति भूतले॥ १-२६ ॥ भगिनीजननीपत्नीत्यास्पदत्रितयी स्त्रियम्। चिरं सम्भावयत्येषा त्रिवेणीव वसुन्धराम्॥ १-२७ ॥ किन्त्वहं नास्मि जननी नाद्य यावत्स्वसा प्रभो। विषीदामि विपद्व्याप्ता कराभ्यां रहितेव भो॥ १-२८ ॥ धिङ्मे दौर्भाग्यरजनीं रान्तीं रामावमाननाम्। अप्रतीकृतसंरम्भां त्वद्विधेनापि भानुना॥ १-२९ ॥ इत्युक्त्वा मोघयामास कुचयोर्नेत्रवारिभिः। प्रियार्पितं प्रयत्नेन व्यापारं चैत्रपत्त्रकम्॥ १-३० ॥ सान्त्वयामास दयितां दयितो वचनैः कलैः। निदाघदग्धां धरणीं पर्जन्य इव वारिभिः॥ १-३१ ॥ तपस्वी कल्पयामास चरुं चारित्र्यवत्सलः। पत्न्यै ब्राह्मीविभोपेतं तन्मात्रे क्षत्त्रियोचितम्॥ १-३२ ॥ सत्यवत्याश्च विज्ञाय गाधिपत्नी कुगर्धिनी। प्रत्ययच्छत्स्वकात्पुत्त्रीचरुं चारित्र्यदूषिणी॥ १-३३ ॥ पत्न्या वेदितवृत्तान्तो मुनिः श्वश्रूं व्यगर्हत। लोभो लुनाति चारित्र्यं धीराणां किमचेतसाम्॥ १-३४ ॥ विव्यथे गदतो ज्ञात्वा विधिव्यत्यासजं फलम्। मणौ नष्टे विषण्णास्या भवाद्भोगिवधूरिव॥ १-३५ ॥ अनुनीय पतिं पत्नी पपौ पुत्त्रं च पातकात्। पौत्त्रे दुष्पाकजं दत्वा लोकोऽयं स्वार्थसाधकः॥ १-३६ ॥ तस्यां जज्ञे जगद्वन्द्यो जमदग्निर्जनार्चितः। जनार्दनोऽपि यं प्रीतः स्वीचक्रे पितरं गुणैः॥ १-३७ ॥ गौरदेहो दमिष्ठेहो गुणगेहो हरिप्रियः। बभावृचीकभवने ब्राह्मं मूर्तम्महो यथा॥ १-३८ ॥ षडङ्गवेदविदुषामग्रणीः शास्त्ररोचिषा। भार्गवं रोचयामास वंशं व्योम रविर्यथा॥ १-३९ ॥ प्रजार्थं प्रतिजग्राह रेणुकां सत्परिग्रहम्। रेणोरपत्यमापत्ये सत्स्त्रीसद्गुणसङ्ग्रहम्॥ १-४० ॥ सा समासाद्य दयितं जमदग्निममोदत। नलिनीवैत्य भास्वन्तं रेणुका रम्यरेणुका॥ १-४१ ॥ मध्यक्षामा शुभा श्यामा वामा वामविलोचना। वरं संवर्धयामास त्रिभिर्वेदैरिवात्मजैः॥ १-४२ ॥ पुत्त्रीयति स्म पूतात्मा जमदग्निर्जनार्दनम्। तुरीयमिव चैतन्यं श्रोत्रियो ब्रह्मविद्यया॥ १-४३ ॥ तपस्वी स तपस्तेपे तपनीयाङ्गया तया। भार्यया भगवद्भक्तिभावितो भद्रभावनः॥ १-४४ ॥ गह्वरे गह्वरिष्ठाय निराहारोऽहरद्रुचिम्। साधनाधनबोधस्य मूर्तस्य सपरिग्रहः॥ १-४५ ॥ दध्यौ ध्येयं जगद्ज्ञेयमप्रमेयं मयार्चितम्। मीनकेतुहराक्ष्यब्जनीराजितपदाम्बुजम्॥ १-४६ ॥ व्रीडयन्तं शरच्चारुचन्द्रमाननशोभया। प्रीणयन्तं वचोमाध्व्या प्रपन्नान् परमेश्वरम्॥ १-४७ ॥ कोटिकन्दर्पदर्पघ्नसौभगां गूढसौभगाम्। सिन्धुजासुमनःसिन्धुशरद्राकेशरोचिषम्॥ १-४८ ॥ आङ्घ्रिमस्तकमालम्बिवनमालाविभूषणाम्। अदूषणां महात्मालिजूषणां न्यस्तदूषणाम्॥ १-४९ ॥ दैत्यशोणितपङ्काक्तकालकौमोदिकीस्फुर-। च्चण्डचक्रसरोजन्मकम्बुकम्रचतुर्भुजाम्॥ १-५० ॥ सिद्धकिन्नरगन्धर्वलेखाधीशमुनिव्रत-। द्वन्दिवन्दितपादाब्जां स्मिताननसरोरुहाम्॥ १-५१ ॥ कोटिकोटिमनोजन्मजन्ममञ्जुमधुव्रत-। व्रातमन्दितमाधुर्यधुर्यमेचककुन्तलाम्॥ १-५२ ॥ कोटितोकांशुमत्कान्तिकमनीयकिरीटिनीम्। सत्कपोललसल्लोलमकराकृतिकुण्डलाम्॥ १-५३ ॥ इन्दिरानन्दनिस्यन्दचारुकैरवकौमुदीम्। सतां परमहंसानां मनोनयननन्दिनीम्॥ १-५४ ॥ आत्मारामजनारामां कन्दश्यामामलौकिकीम्। निरस्तहेयगुणकां सत्कल्याणगुणोदधिम्॥ १-५५ ॥ कुयोगिजनदुष्प्रापां ध्वस्तपापां महात्मनाम्। सर्वसाधनसत्पुष्पपारिजातफलोपमाम्॥ १-५६ ॥ भूतातीतां परीतां च सद्भिः श्रीनारदादिभिः। तीर्थैरिव वपुस्तीर्थैर्गङ्गां गामिव चाक्षरैः॥ १-५७ ॥ साकाराञ्च निराकारां सगुणां निर्गुणां सताम्। मनोरथपथापूर्तिं दधानं मूर्तिमद्भुताम्॥ १-५८ ॥ मायामयमनौपम्यं कञ्जकिञ्जल्कसौभगम्। वसानं पीतवसनं यज्ञसूत्रसमर्पितम्॥ १-५९ ॥ पक्षसामध्वनिं नित्यकिङ्करं नित्यभक्तिकम्। गाङ्गमम्भ इवाम्भोदं वैनतेयं समाश्रितम्॥ १-६० ॥ श्रीवत्साङ्कं सुहृद्भूतं विप्रपादाब्जमुज्ज्वलम्। वहन्तं वक्षसा कुन्दकाञ्चनाक्तमिवाम्बुदम्॥ १-६१ ॥ वामभागेऽनुरागाश्रुनीरनीरजया श्रिया। भूषितं हेमलतया तमालमिव वल्लितम्॥ १-६२ ॥ सर्वभूतमनोवासं कल्याणगुणमन्दिरम्। दध्यतुर्दम्पती विष्णुं विश्ववारिधिमन्दरम्॥ १-६३ ॥ एतस्मिन्नन्तरे वंशे हैहयानामभूत्खलः। कार्तवीर्योऽर्जुनो राजा वंशेऽनल इवाहितः॥ १-६४ ॥ दत्तात्रेयमथाराध्य स लेभे दिक्शतं रणे। दोषां दोषाय दुष्टर्द्धिर्भुजङ्गस्येव गोपयः॥ १-६५ ॥ राजधानीं विधाय स्वस्वभावानुगुणां नृपः। माहिष्मतीं समहिषी महीशो बुभुजे सुखम्॥ १-६६ ॥ रुरोध नर्मदाधाराः स कदाचित्स्वबाहुभिः। सहस्रबाहुरुस्रेशगवीरिव सरोजहृत्॥ १-६७ ॥ जग्राह कौतुकी क्वापि रावणं लोकरावणम्। दर्शयामास भार्याभ्यः शशशावमिवेभहा॥ १-६८ ॥ पुलस्त्यवचनाद्राजा मुमोच निगडैर्धृतम्। न मर्षयति वीर्याढ्यो वीरम्मन्यविडम्बनम्॥ १-६९ ॥ स च सप्ताङ्गसम्पन्नो दत्तात्रेयकृपाबलः। अर्जुनो नो रुजं लेभे कुतस्त्यामपि संयति॥ १-७० ॥ सहस्रकर उद्रिक्तो दीप्तैर्गोभिरिवाशुगैः। स रसां नीरसां चक्रे ग्रैष्मो ग्रस्तहरिप्रभाम्॥ १-७१ ॥ वीरम्मन्यान्स विबुधान्सह गोत्रभिदा मृधे। वीर्याब्धौ मज्जयामास सहस्रभुजवीचिके॥ १-७२ ॥ कार्तवीर्यो महावीर्यो महीं माहिष्मतीमिव। बुभोज भुजसाहस्रगाथागापितदिग्गजः॥ १-७३ ॥ सहस्रबाहुना तेन दिवो देवा निराकृताः। बुभुजे स हविर्भागान् बुभूषन् भगवान् भुवि॥ १-७४ ॥ चन्द्राग्निसूर्यमुख्याश्च सर्वे तेजस्विनोऽमराः। अन्वतिष्ठन् किरीटैस्ते नतैस्तदनुशासनम्॥ १-७५ ॥ ब्रह्मण्यम्मन्यमानेन मानिना तेन मानिताः। केचिद्भृग्वादयो विप्रास्तेजसा तपसाधिकाः॥ १-७६ ॥ अपीपिडत्प्रतापाढ्यो लोकं सर्वमहर्निशम्। क्षुद्रान् जन्तूनिवामर्षी मत्तनागेन्द्रहा हरिः॥ १-७७ ॥ स्वाहाकारमये विश्वे हाहाकारो महानभूत्। न शर्म लेभिरे लोका निदाघ इव हस्तिनः॥ १-७८ ॥ अथाब्जयोनिमाजग्मुः खिन्ना देवा महर्षयः। पर्जन्यं जन्यजीवेप्सा घर्मत्रस्ताः प्रजा इव॥ १-७९ ॥ देवेभ्यः सर्वमाकर्ण्य कार्तवीर्यविचेष्टितम्। अष्टाभिर्द्रुहिणो दृग्भिर्बाष्पबिन्दूनवासृजत्॥ १-८० ॥ अथाजगाम साकेतं श्रीनिकेतनिकेतनम्। रामाभिरामममलं सुरैः शतधृतिर्मुदा॥ १-८१ ॥ तत्र सिंहासनासीनं देवदेवं जगत्पतिम्। सीतया जुष्टवामाङ्गं श्रीवत्साङ्कं कृपाकरम्॥ १-८२ ॥ नीलोत्पलदलश्यामं रामं राजीवलोचनम्। द्विभुजं कोटिकन्दर्पदर्पघ्नममितप्रभम्॥ १-८३ ॥ मनोजमधुपव्रातनिन्दकालकमण्डितम्। भ्रूविलासजगत्सर्गं शरद्राकाधिपाननम्॥ १-८४ ॥ किरीटकुण्डलोपेतं शरदिन्दुसमस्मितम्। विभूतिनायकं दिव्यं राघवं रघुनायकम्॥ १-८५ ॥ वामकञ्जकरे चापं दधानं शार्ङ्गमाशुगम्। दक्षे दक्षं सदा लक्ष्यं योगिनां ब्रह्मवादिनाम्॥ १-८६ ॥ ददर्श तं तमालाभं ब्रह्मा ब्रह्म सनातनम्। अष्टाभिर्दृग्भिरष्टाभ्यः प्रकृतिभ्यः परात्परम्॥ १-८७ ॥ वीक्षमाणो हनुमता सेव्यमानाङ्घ्रिपल्लवम्। न ततर्पाब्जरागेण जुष्टं मारकतं यथा॥ १-८८ ॥ ववन्दे वरदं ब्रह्मा सर्वकारणकारणम्। लालयन् पादपाथोजं चतुर्मुकुटकोटिभिः॥ १-८९ ॥ वेदगर्भः प्रतुष्टाव वेदस्नातां स्वकां गिरम्। कञ्जकोशविनिर्लीनां प्रत्यूषे भ्रमरीमिव॥ १-९० ॥ वन्दे वन्दारुवृन्दानां पारिजातपदाम्बुजम्। सीतामानससारङ्गस्वातिवल्गुवलाहकम्॥ १-९१ ॥ स्तुवे तुहिनरूपं त्वां रक्षोवारिरुहां विभुम्। स्वस्तये भव देवेभ्यो महर्षिभ्यो महामते॥ १-९२ ॥ नमो भूतनिवासाय दासपाशच्छिदे नमः। नमस्ते ब्रह्मणे भूम्ने रामायाक्लिष्टकर्मणे॥ १-९३ ॥ श्रीसीताननराकेशचकोराय नमो नमः। नमो लोचनचौराय किशोराय नमो नमः॥ १-९४ ॥ नमो वेदान्तवेद्याय विशिष्टाद्वैतवर्त्मने। नमोऽभिन्ननिमित्तोपादानकारणरूपिणे॥ १-९५ ॥ जानासि सर्वविद्राम कार्तवीर्यविचेष्टितम्। तद्वधाय कृपासिन्धो कश्चनांशो नियुज्यताम्॥ १-९६ ॥ मा भैष्टेति समाश्वास्य मेघगम्भीरया गिरा। जगाद भगवांस्तेषां शुचः प्रशमयन्निव॥ १-९७ ॥ प्रेषयाम्यचिरात्स्वांशं द्विजोत्तंसं स्वनामकम्। जमदग्नेरपत्यत्वे कार्तवीर्याग्निनीरदम्॥ १-९८ ॥ दग्ध्वा बाहुसहस्रकाननमथो चञ्चत्कुठाराग्निना हत्वा तं द्विजभक्तमानिनमसौ दृप्तं नृपं चार्जुनम्। निःक्षत्त्रां बहुशो विधाय धरणीं दत्वा पुनः कश्यपे रामः शान्तिमुपैष्यति स्वममले रामेऽर्पयित्वा मयि॥ १-९९ ॥ इति निगदितवन्तं राममानम्य देवाः प्रतिययुरतितुष्टा ब्रह्मणा ब्रह्मधाम्नः। हरिरपि जमदग्ने रेणुकागर्भमागान्मनस इव विराजश्चन्द्रमाश्चारुपूर्वाम्॥ १-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सतां श्रियै स्तात्कविरामभद्राचार्यप्रणीते प्रथमो हि सर्गः॥ १-१०१ ॥ इति धर्मचक्रवर्तिमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यप्रणीते श्रीभार्गवराघवीये महाकाव्य उपक्रमाख्यः प्रथमः सर्गः।