समधीतसमस्तवाङ्मयो भवतो विश्वभवाय भार्गवः। पितुराश्रम एव संवसन् शुशुभे सत्फणिनीव सन्मणिः॥ ५-१ ॥ वनमूलफलेन वर्तयन्नसुवृत्तिं स निवृत्तसौरतः। चकमे न कदापि कामिनीं विषवल्लीमिव सोमपानकृत्॥ ५-२ ॥ मदनोऽमदनोऽथ निष्क्रियः समभूत्तत्र जिताखिलेन्द्रिये। न तुषेऽपि तुषारसारता प्रबले ह्याज्यबले महानले॥ ५-३ ॥ अनुवासरमेव मातरं पितरं स्वैश्चरितैरतूतुषत्। इयमेव सुतस्य पुत्त्रता यदि मातापितृतोषणं ततः॥ ५-४ ॥ अपराननपेक्ष्य दम्पती सुतवत्ताममुनैव जग्मतुः। शतयज्ञमुखेषु सत्स्वपि ह्यघहन्त्रादितिकश्यपाविव॥ ५-५ ॥ अथ वीक्ष्य विहीनविक्रमं समवाप्ताखिलशास्त्रसम्पदम्। गुरुणा प्रहितं स्वसद्मने विगतालानमिवेभशावकम्॥ ५-६ ॥ घनसारतुषारचन्द्रमोगिरिशाद्रिद्युतिनिन्दकच्छविम्। धृतजूटजटंस्तडिद्वतश्शरदभ्रस्य हरन्तमीमिव॥ ५-७ ॥ उदयेन्दुसमास्यमुन्नसं नवराजीवदृशं द्विषत्कृशम्। सुकपोलविलोलकुण्डलं तरुणाम्राधरपल्लवाञ्चितम्॥ ५-८ ॥ वृषभांसमखण्डितव्रतं दरकण्ठं शितिकण्ठरातया। वररुद्रसुवर्णमालया विलसद्वक्षसमक्षमालया॥ ५-९ ॥ परशुं परुषं लसद्रुषं वरतूणीसशरौसुकार्मुकम्। ननु वीररसस्य दीपिनो दधतं मूर्तिमतो विभावकान्॥ ५-१० ॥ तमनातपमातपापहं तपसा दीप्तिमिवार्कमुष्णगुम्। जमदग्निरभाषतात्मजं वचनं वाग्मिवरं स वत्सलः॥ ५-११ ॥ ननु राम ममैव भूतयेऽजनयत्त्वां मम रेणुका प्रिया। श्रुतमद्भुतकर्मकं युतं यशसा पूर्णमिवोडुपं गुणैः॥ ५-१२ ॥ कृतकृत्यमभूद्भृगोः कुलं भवता भाग्यवता धनुष्मता। हरिणा बलिबन्धकारिणा शुचि मारीचमिवार्च्यमन्वयम्॥ ५-१३ ॥ अधुना तव रूढयौवनं वपुरद्धा गृहिणीग्रहक्षमम्। वनजातसुमं मधुव्रतसुलभं दिव्यमिवात्तसौरभम्॥ ५-१४ ॥ व्रततीसुलभोऽपि चैकलो विटपी चेद्विपिनेऽस्ति माधवे। किमु तस्य विशालशाखया विधुरस्येव विधोर्विशाखया॥ ५-१५ ॥ किमु तेन पुनः पयोधिना यदमुष्यापि तटे पिपासवः। किमु चन्द्रमसा कुमेधसा यदिमं न स्पृशति स्म कैरवी॥ ५-१६ ॥ नववार्षिकमम्बुदं मुहुर्यदुपेता चपला न चुम्बति। नहि तस्य समग्रता तदा विरसं तद्रसितं तृषे त्रसे॥ ५-१७ ॥ तदहं हि भवन्तमात्मजं प्रयतिष्ये प्रिययैव योजितुम्। द्रुहिणो मतिमानिवाम्बुजो निरमीवं शिवया सदाशिवम्॥ ५-१८ ॥ इति तातवचोऽपि शीतलं न सुतस्यास्य सुखाय वर्णिनः। हिमखण्डमहो विधुच्युतं किमु कल्पेत भवाय वार्भुवः॥ ५-१९ ॥ विषसाद तदैन्द्रियो गणः प्रचचालापि कुशासनादसौ। प्रसमीक्ष्य दवाग्निमुल्बणं भयविग्नो ननु गोव्रजो यथा॥ ५-२० ॥ विललाप स बाष्पगद्गदं सशिरस्ताडमपारवेदनः। व्यथितः प्रसमीक्ष्य वागुरां पुरतश्चेव कुरङ्गशावकः॥ ५-२१ ॥ निजगाद गदाभृतोंऽशको विमनाः स्वं पितरं प्रतोषयन्। परिपीड्य पदाम्बुजं पितुः स्नपयन्नेत्रकवोष्णवारिभिः॥ ५-२२ ॥ कतमस्य ममागसः पितर्विहितं दण्डविधानमीदृशम्। यदहं धृततूलधर्मको दहनं दारमयं प्रवेशितः॥ ५-२३ ॥ यदि चेत्समभीप्सिता प्रजा ननु दारग्रहणं तदा वरम्। निरपेक्षसुतस्य योगिनो विपदे स्यात्किल पाणिपीडनम्॥ ५-२४ ॥ श्रितसङ्ग्रहिणीरुजः कृते यदुदस्वित्सुधया समं विदुः। पुनरेव च सन्निपातिने तदु तक्रं गरतोऽपि गर्हितम्॥ ५-२५ ॥ क्षुधितस्य यदेव भोजनं रुचये स्वादकृते स्वसम्पदे। तदिदं विगतक्षुधस्य वै रचयत्याशु विनाशभूमिकाम्॥ ५-२६ ॥ तदहं सुनिरस्तमन्मथो विहताशेषविकारशात्रवः। प्रयतेय निरुद्धसौरतो विरतो लोकमिमं प्रशासितुम्॥ ५-२७ ॥ वसुधैव कुटुम्बकं स्वकं यदिदं भारतसंस्कृतीरणम्। प्रयते ह्यनुसर्तुमेव तत्तदलं मे परिवारसङ्ग्रहैः॥ ५-२८ ॥ परिवारयतीशभक्तितः परितो जीवमसौ वृणोति यत्। परिवार इतीर्यते ततः परिवारात्स्वमतो निवारये॥ ५-२९ ॥ तदहं परिवारपङ्कतो नितरां दूर इवाब्जपत्त्रकम्। प्रयते जगदेव सेवितुं भविता भारतभूमिभूषणम्॥ ५-३० ॥ निजपुत्त्रकलत्रपोषणे सततं सक्तधियः कुटुम्बिनः। जगतीजनतापमोचने किमु दध्युः क्षणमेकमप्यमी॥ ५-३१ ॥ न परोपकृतेः समं क्वचिच्छ्रुतिभिः पुण्यमगादि कर्हिचित्। न परापकृतेश्च तुल्यता सह केनापि यदेनसा श्रुता॥ ५-३२ ॥ कठिनं परिवारबन्धनं दुरपोहं ननु योगिनामपि। अहमल्पबलो न च क्षमो भगवन् भङ्क्तुमतः पलायितः॥ ५-३३ ॥ नहि विप्रशरीरमुत्तमं घटते क्षुल्लकभोगभुक्तये। तपसे व्रतकृच्छ्रकर्मणे परतः प्रेत्य सुखाय शान्तये॥ ५-३४ ॥ प्रविधाय तपो महद्विधी रचयामास मुदा महीसुरान्। पितृदेववितृप्तये श्रुतेः परिरक्षार्थमधोक्षजाप्तये॥ ५-३५ ॥ तदिदं द्विजदेहमन्तिमं न वयं ब्रह्ममयं दधीमहि। विषयान् परिभोक्तुमाविलान् समभीष्टान्मलविड्भुजामपि॥ ५-३६ ॥ मुखतश्चतुरश्चतुर्मुखो रचयित्वा द्विजमित्यपैक्षत। यदसौ मुखवन्निजार्जितैः सकलाङ्गानि जनानिवावतु॥ ५-३७ ॥ द्विजवर्यसमाजसङ्घटो घटते राष्ट्रविपत्तिनुत्तये। तमहं परिपालयन् पितः सदृशं ह्यात्मकुलस्य वर्तये॥ ५-३८ ॥ सततं परदुःखदुःखितं परसौख्ये सुखि यद्भृगोः कुलम्। अत एव भृगोः पदं गदी निजवक्षस्यदधात्समादरात्॥ ५-३९ ॥ न मया जनपावनी तनूः सुखभोगाय भवे नियोक्ष्यते। किमु कामगवी विनह्यते विषवापाय हले कदाचन॥ ५-४० ॥ इति पुत्त्रवचोऽमृतोपमं जमदग्निर्जनकोऽथ शुश्रुवान्। प्रचुचुम्ब तदीयमाननं तनयं प्रेमभरेण सस्वजे॥ ५-४१ ॥ जय राम जय त्रिविक्रम जय जेतः सुदुरासदं स्मरम्। इति देवगणाः प्रतुष्टुवुः कुसुमैश्चाभिविकीर्य नान्दनैः॥ ५-४२ ॥ अपि देववधूवरूथका ननृतुर्दुन्दुभयः प्रणेदिरे। जगतुर्जगदीड्यकीर्तनं प्रमुदा नारदतुम्बुरू तदा॥ ५-४३ ॥ अथ कर्हिचिदम्बरेऽम्बरे विहिते चाभ्युदितेऽरुणेऽरुणे। मिहिरेण विनाशितेऽधरे तिमिरे सम्मुखरेखगाकरे॥ ५-४४ ॥ मलयाचलमन्दमारुता चलितासु व्रततीततिष्वपि। भ्रमरीमुखरीकृतेक्षणं शिशिरे सन्निकरे द्रुमाजिरे॥ ५-४५ ॥ शुचिवेदविशारदेऽरदे प्रतिभाभावितभव्यशारदे। वटुवर्यगणे गतभ्रमं निगदत्यद्भुतसंहिताक्रमम्॥ ५-४६ ॥ क्वचिदाश्रितबर्हिषां सतां स्वरवन्मन्त्रवतां द्विजन्मनाम्। हविरेव मुहुः प्रजुह्वतां विमले तृप्यति जातवेदसि॥ ५-४७ ॥ हरिरश्मिविनीतनिद्रया कमलिन्या स्मितया सभाजिते। अलिबाललसद्दलाञ्चलैर्दयिते प्रोष्य रवाविवागते॥ ५-४८ ॥ निजशृङ्गकरैः शनैः शनैः कलकण्डूतिविधाविशारदे। परिबोधयति स्वनागरीं नगराजोपगमे कुरङ्गमे॥ ५-४९ ॥ परिवीक्ष्य विभातभामिमां कृतशौचा जमदग्निगेहिनी। सलिलाहरणाय हर्षिता वनतीरं ननु रेणुका गता॥ ५-५० ॥ सहसा सलिलान्तिके गणैर्ननु गन्धर्ववरो वरार्हया। प्रियया स शशीव चित्रया विहरंश्चित्ररथो व्यदृश्यत॥ ५-५१ ॥ सुकुमारकिशोरसुन्दरो दरकण्ठः कलकण्ठबन्धुरः। कमलायतलोचनो युवा युवतीनां स्पृहणीयविग्रहः॥ ५-५२ ॥ मृदुहासविलासलीलया वरया वल्लभया वरार्चितः। कृतबाहुवितानकण्ठकः सकरीवाश्रितसत्करेणुकः॥ ५-५३ ॥ जमदग्निवधूरवेक्ष्य तं चकिता चित्ररथस्पृहावती। सरजाः समभूदसिन्धुगा बहुलाषाढगता नदीव सा॥ ५-५४ ॥ अबुधा बुबुधे न हावनीं शुचिवेलामपि रेणुका तदा। अतिरूढमनोभवो मतिं परिमृद्नाति करीव कामलीम्॥ ५-५५ ॥ अभि सा स्म निवर्तते वनं दधती चित्ररथे मनोरथम्। सघटाम्बुरुपस्थिता पतिं गजगाधाल्पजलेव पल्वली॥ ५-५६ ॥ जमदग्निरवेक्ष्य भामिनीं चलितां पिप्पलवल्लिकामिव। दयिताधिनिदानमञ्जसा मृगयामास मृगैरजर्यकृत्॥ ५-५७ ॥ प्रणिधाय विवेद वृत्तविद्दयितां चित्ररथस्पृहावतीम्। मगधेष्विव जह्नुकन्यका न परिस्प्रष्टुमियं मयोचिता॥ ५-५८ ॥ यदि चेत्परिरक्ष्यतामियं महते स्याद्धि दया तदेनसे। निजबाहुलतापि कर्कटी कुरुजा भग्नबलेव भूषिता॥ ५-५९ ॥ अथवा प्रणिहन्यतामियं तदलं स्त्रीवधपातकं महत्। इति निर्णयमूढधीर्मुनिश्चलपत्त्रस्य सधर्मतां ययौ॥ ५-६० ॥ मनसा परिभाव्य भामिनीभयमाशङ्क्य भवाय भावुकः। न ययौ परिनिश्चयं तदा विजगर्हे विधिमेव विस्मितः॥ ५-६१ ॥ किमु दैव विचेष्टितं त्वया विषमं दीनदयेन दारुणम्। यदिदं मम मन्दिरं शुभं निमिषार्धेन च मन्दुरीकृतम्॥ ५-६२ ॥ शिरिषं शिरसा न धारितं कुलिशेनाथ तदेव टङ्कितम्। शुचिशारदचन्द्रचन्द्रिकां यतितं ग्रासयितुं विधुन्तुदम्॥ ५-६३ ॥ कुलटा किमभूत्कुलाङ्गना कुलकान्तिः कुलिकायिता कथम्। किमु तुङ्गतरङ्गगङ्गया विधियोगादिह कर्मनाशितम्॥ ५-६४ ॥ मधुरा मम मन्दिरेन्दिरा मधुरा मञ्जुमृणालमेदुरा। विधुरा क्रियते कथं विधे मधुराका विधुरा विधोरिव॥ ५-६५ ॥ जनिता जनिका जगत्पतेर्जननी जन्तुजरामयच्छिदः। ननु चित्ररथस्पृहा कथं श्रितरेणुर्मम रेणुकाभवत्॥ ५-६६ ॥ यदि चेत्परिरक्षये गृहे गृहिणीं स्वां कृतकिल्बिषामपि। जनवादविषाननस्तदा प्रदशेन्मे कुलनाकुलं क्षणात्॥ ५-६७ ॥ नहि हातुमिमां समुत्सहे निजजायाञ्च विधुः सुधामिव। परिहाय तनुं सुखं वसेत्किमु देही निरुपाश्रयोऽबलः॥ ५-६८ ॥ प्रणिधाय चिरं चिरन्तनं चिदचिद्भ्याञ्च विशिष्टमद्वयम्। जमदग्निरनु स्म मन्यते वरमस्या वधमेव जीवनात्॥ ५-६९ ॥ यदि चेद्धरिरात्महेतिना परिकृन्तेत्किल रेणुकाशिरः। वृजिनार्णवमुत्तरेदियं श्रितनौकेव निराश्रयाबला॥ ५-७० ॥ हरिरेव समस्तदेहिनां स्मृतमात्रोऽघविनाशने प्रभुः। क्षपणे रविरेव वै क्षमस्तमसो नेन्दुशतानि निड्भुवः॥ ५-७१ ॥ हरिहेतिविधूतकल्मषा विरजा मां समुपैतु रेणुका। गलिताघशिलेव गौतमं रघुनाथाङ्घ्रिरजोभिरेष्यति॥ ५-७२ ॥ तदिमां हरिणैव घातये पितृभावेन निदिश्य साम्प्रतम्। तदनन्तरमस्य शासनं शिरसा बिभ्रदहं निराग्रहः॥ ५-७३ ॥ मुनिवर्य इति व्यवस्य वै निजपुत्त्रत्रितयं समादिशत्। जननीमसितुं न ते पितुः सनकाद्या इव मेनिरे वचः॥ ५-७४ ॥ अथ वीक्ष्य तुरीयमौरसं स तुरीयांशकलं कलापिनम्। जमदग्निरभाषतादराज्जितजीमूतगभीरया गिरा॥ ५-७५ ॥ जहि पुत्त्र निजाञ्च मातरं सह बन्धुत्रितयेन गर्हिताम्। स्वकुठारकठोरनेमिना गजशावो नलिनीमिवालिनीम्॥ ५-७६ ॥ जननी जननी न तेऽजन जननीयं समभून्महैनसाम्। जननीरजलेशवर्जिता जननीरागकरीव भीसरित्॥ ५-७७ ॥ क्व वयं भृगवो वशीश्वराः क्व नु चैषा विवशा मनोभुवः। विषवल्लिकया सुरद्रुमो विषमं सङ्गमितोऽब्जयोनिना॥ ५-७८ ॥ क्व नु मे जननीह कौशिकी क्व पुनर्भोगपरा हि रेणुका। विमलामथ जाह्नवीं कथं प्रसभं भूषयतां च कासरित्॥ ५-७९ ॥ तदलं दयया दयानिधे मम वाक्यादथ हन्यतामियम्। इदमेव हि तद्भवं भवेन्नहि धर्मस्य तव व्यतिक्रमः॥ ५-८० ॥ पितृवाचमसौ विशुश्रुवान्स बभूवाम्बुसमाप्लुताम्बकः। प्रममज्ज शुगम्बुधौ बुधो विललापाक्षरगद्गदं सुतः॥ ५-८१ ॥ भगवन् किमिदं विधाप्यते स्वकलांशेन मयाद्य दारुणम्। मनुजो मनुजादवत्स्वयं जननीं स्वां प्रणिहन्तुमुद्यतः॥ ५-८२ ॥ तदिदं मम कर्म कुत्सितं जगदेतद्ध्यपकीर्तयेद्यदि। तदलं भृगुरामसञ्ज्ञिना ह्यवतारेण निरर्थकेन मे॥ ५-८३ ॥ अवतारफलं जगुर्बुधा जगतीमानवमात्रशिक्षणम्। तदहं हतमातृकः खलः किमु लोकं परिशिक्षये विधे॥ ५-८४ ॥ जठरेऽजनमेतमर्भकं जननी या नवमासमत्यगात्। दधती सहते स्म वेदनां किमु हन्यां कुकृतज्ञपाशवः॥ ५-८५ ॥ तदिमां नहि हन्तुमुत्सहे श्रुतिसिद्धां प्रथमां स्वदेवताम्। निजमातरमाविलामपि पितरं चानुनयामि यत्नतः॥ ५-८६ ॥ अथवा मम नास्ति दूषणं पितुराज्ञा परमा मता मम। न हि तस्य वचोऽतिलङ्घितुं निजवेलामिव वारिधिः क्षमे॥ ५-८७ ॥ अथ पङ्क्तिगुणाधिका स्मृता जननी चेत्पितृतो महर्षिभिः। तदिमां प्रसभं हि मां कथं जनको ज्यासयितुं नियुक्तवान्॥ ५-८८ ॥ तदिमां कृतशास्त्रनिश्चयो न हनिष्यामि निजां हि मातरम्। ननु वेदविरुद्धकर्मकृद्द्विशिराः कः सुखमावसेज्जगत्॥ ५-८९ ॥ अथवा मम तर्कितं वृथा पितुराज्ञा परिपाल्यतां मया। स तु वेत्ति रहस्यमव्ययं न हि मे स्यादथ धर्मविक्लवः॥ ५-९० ॥ इति निश्चितधीरथात्मवान् भृगुरामः स्वकुठारनेमिना। चतुरश्चतुरोऽपि मूर्धतो विकलान् विश्वकलोऽकलोऽकरोत्॥ ५-९१ ॥ तदपूर्वममुष्य कर्म वै प्रशशंसुर्मुनयश्च देवता। ववृषुः कुसुमानि चादृता भृगुरामो विमना इवाभवत्॥ ५-९२ ॥ अथ वीक्ष्य पितापि विस्मितः पुलकाङ्गः प्रशशंस पुत्त्रकम्। परिषस्वज एनमादरान्नयनाद्भिश्च सिषेच भाववित्॥ ५-९३ ॥ वरैश्छन्दयामास तं भार्गवेन्दुं पिता प्रीतिमान् कर्मणा तेन सूनोः। स वव्रे हतानां पुनर्जीवदानं वधस्यास्मृतिं हीश्वरः कौतुकाढ्यः॥ ५-९४ ॥ तथास्त्वित्यवोचत्पिता प्रीतचित्तः प्रसुप्तोत्थितास्ते यथा लब्धसञ्ज्ञाः। पुनः पूर्ववत्स्वप्रवृत्तौ प्रवृत्ता विचित्रं चरित्रं हि लोकोत्तराणाम्॥ ५-९५ ॥ एतच्चित्रं चित्रकीर्तेश्चरित्रं मायामूर्तेः सौख्यमाङ्गल्यसीम्नः। गायं गायं निर्जराणां वधूट्यः सौमङ्गल्यं सौमनस्यं च चेरुः॥ ५-९६ ॥ सा रेणुका परशुरामपरश्वधास्त्रदग्धाखिलाशुभनिरस्तशरीररेणुः। रेजे रजोरहितराजतशृङ्गशोभा स्नातेव गाङ्गसलिले ससुता करेणुः॥ ५-९७ ॥ तां ताम्रतामरसपादतलां तरस्वी प्रीत्या ननाम नमनीयशुभाङ्गकान्तिम्। भ्रातॄन्मुदा प्रणतिवल्गुवचोऽभिरामै रामो विनीतचरितै रमयाम्बभूव॥ ५-९८ ॥ पितुश्च परितोषणं जननिजीवदानं तथा विरुद्धमुभयं मिथो मिहिररात्रिसङ्गं यथा। विधाय परमेश्वरो विबुधवृन्दवन्दीगणाभिगीतविरुदावलिर्विजयते भृगूणां वरः॥ ५-९९ ॥ पिता तुष्टः पुष्टा पुनरपि च माता शुचितया लसत्प्राणत्राणा विरजवपुषो भ्रातर इमे। विरुद्धं यत्सर्वं युगपदविरुद्धं तदभवत्प्रभोरेषोऽनन्तो भृगुकुलपतेर्भाति महिमा॥ ५-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। बाणोऽस्तु सर्गः कविरामभद्राचार्यप्रणीते जगतां श्रियै नः॥ ५-१०१ ॥ इति धर्मचक्रवर्तिमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यप्रणीते श्रीभार्गवराघवीये महाकाव्ये पित्राज्ञापालनं नाम पञ्चमः सर्गः।