भार्गवे सुरपशैलमुपेते भक्तिनम्रशिरसेडितसीते। सीतया तदनुकॢप्तसमर्चे पूजिते त्रिदशकिन्नरनागैः॥ १५-१ ॥ पार्थिवी परिवृता सुसखीभिर्वन्द्यमानचरणा सुरवृन्दैः। आययौ पितृगृहं मुदितास्या दिव्यदेवयजनादिव लक्ष्मीः॥ १५-२ ॥ रामचन्द्रमुखचन्द्रचकोरी मन्दिरे जनकराजकिशोरी। रूपदीपशिखयाखिललोकदीपिकेव नृपतेः प्रदिदीपे॥ १५-३ ॥ मैथिलोऽपि गृहमेत्य गृहस्थः श्रीस्वयंवरसमाकुलचित्तः। मन्त्रिमण्डलपुरोहितमध्येऽमन्त्रयन्मथितशत्रुविकारः॥ १५-४ ॥ ऊर्ज ईड्यशशिशोभितराकाराजिते रजतरोचिषि राजा। श्रीस्वयंवरदिनं स्वसुताया निश्चिकाय कमनीयकलायाः॥ १५-५ ॥ योऽपि कोऽपि शिवचापमधिज्यं तोलयेच्छकलयेत्किल मध्यात्। जानकीं स कलयेज्जयमालालब्धलक्ष्मविभवो गृहलक्ष्मीम्॥ १५-६ ॥ शम्भुचापमभिभज्य भुजाभ्यां दर्शयेज्जनकसंसदि शक्तिम्। आदिशक्तिरपि तं जयमालाश्रीविभूषितगलं विदधीत॥ १५-७ ॥ इत्यनेन समघोषि धरायां द्वीपसप्तकसमुद्रभरायाम्। स्वर्गपन्नगभुवोश्च सुतायास्तत्स्वयंवरमुदन्तमपूर्वम्॥ १५-८ ॥ देवदैत्यनरकिन्नरनागाः श्रीस्वयंवरनिरूपितभागाः। आययुश्च मिथिलां विहिताशाः सिन्धुमन्थ इव तेऽबहुपुण्याः॥ १५-९ ॥ तत्र तत्र सुभटा उपकार्या आवसन् जनकराजनिदिष्टाः। सैंहिकेय इव ते स्पृहयन्तः श्रीकरग्रहणसौख्यसुधायै॥ १५-१० ॥ राघवोऽपि नवकन्दशरीरः कोसलेन्द्रसदने श्रितधीरः। वर्धते स्म महितो जननीनां स्नेहसान्द्रसुधयेव सुरद्रुः॥ १५-११ ॥ काकपक्षकलितो वनमाली पुण्ड्रधृक्कनककुण्डलशाली। कीरतुण्डसममञ्जुलनासः कामकार्मुकसमभ्रुविलासः॥ १५-१२ ॥ पूर्णचन्द्रसुषमाननशोभो मन्दहासमुनिमानसलोभः। पल्लवाधरपुटाधिनिवासकुन्दकुड्मलसमद्विजपङ्क्तिः॥ १५-१३ ॥ पीतवस्त्रमखसूत्रमनोज्ञः कण्ठसक्ततुलसीवनमालः। चन्दनच्छुरितनीलशरीरः कोटिकामसुषमो रणधीरः॥ १५-१४ ॥ पद्मपाणिधृतसायकचापस्तूणधृक् तपनकोटिप्रतापः। बालकेलिकृतकेलिकलापः शान्तमूर्तिहृतसज्जनतापः॥ १५-१५ ॥ रूपवित्तविफलीकृतमारं मन्मथारिमृदुमानसहारम्। हारिणं दशरथस्य कुमारं रामभद्रमतिसीसुकुमारम्॥ १५-१६ ॥ राघवञ्च रघुराजकिशोरं विश्वविश्वजनलोचनचोरम्। मञ्जुमप्यसुरवृन्दकठोरं श्रीमुखेन्दुकृतनेत्रचकोरम्॥ १५-१७ ॥ तं दृगुत्सवमवेक्ष्य जनानां पौरपान्थनयनामृतराशिम्। बालवृद्धवनिता मुदितास्याः संविलोक्य न ययुर्हृदि तृप्तिम्॥ १५-१८ ॥ चक्रवर्तिवरलोचनतारं भानुजाजठरसोममुदारम्। वीक्ष्य पौरवनिता रघुचन्द्रं मेनिरे कुसुमसायकमग्र्यम्॥ १५-१९ ॥ वीक्ष्य तं दशरथोऽपि गवाक्षाद्राममाप्तधनुषं सुकिशोरम्। नेत्रलाभमनघं लभमानो भूपतिश्च सुविचारपरोऽभूत्॥ १५-२० ॥ एष नीलनलिनाभशरीरो राघवश्चरणकिङ्करधीरः। कोटिकामसुषमो रघुवीरः किल्ललामललनाख्यमुपेयात्॥ १५-२१ ॥ एतदाननसुधाकरसोमं का पिबेदिहह भूतलनारी। नूनमब्धिभवकौस्तुभकान्तं सिन्धुजैव हरिमर्हति नान्या॥ १५-२२ ॥ एवमादि बहुशो रघुराजोऽचिन्तयन्मनसि रामविवाहम्। तावदेव कुशिकान्वयकेतुर्यष्टुमैच्छदनघा हि सदिज्या॥ १५-२३ ॥ ताटकापि सह दुष्टसुताभ्यामभ्यवर्षदनघां मखवेदीम्। मांसशोणितकपूयपदार्थैर्यज्ञविघ्नकुशला हि खलास्ते॥ १५-२४ ॥ यत्र यत्र निजयज्ञविधानं कर्तुमैच्छदथ गाधिसुतोऽसौ। तत्र तत्र खलसैन्यसहाया राक्षसी स्म तुदति व्रतनिष्ठम्॥ १५-२५ ॥ गाधिसूनुरथ शीघ्रमयोध्यां यज्ञनाशकविनाशकृतेच्छः। चिन्तयन्नगमदम्बुजनाभं चक्रवर्तिजमधोक्षजमेकम्॥ १५-२६ ॥ भक्तिभूमिमधिभूमिविशिष्टाद्वैतमेकमनवद्यमखण्डम्। लब्धदिव्यनृपबालकरूपं भग्नभक्तभवभीषणकूपम्॥ १५-२७ ॥ भक्तभाववशगं भगवन्तं मायया मनुजमञ्जुशरीरम्। न्यस्तहेयगुणकं त्रिगुणातो दूरमीड्यशुभसद्गुणसिन्धुम्॥ १५-२८ ॥ विश्वजन्मभरणाप्ययहेतुं स्वप्रपन्नभवसागरसेतुम्। राघवं दिनकरान्वयकेतुं भक्तभावमवतीर्णमुपेतुम्॥ १५-२९ ॥ कामचारुतरुमात्मजनानां कामधेनुमुदजाङ्घ्रिजुषाञ्च। कामरत्नमपि चिन्तयतां तं कामकोटिसुषमं रघुचन्द्रम्॥ १५-३० ॥ द्वाःस्थितं प्रणिनिशम्य स विश्वामित्रमित्रमवितुं रघुचन्द्रम्। अन्तरङ्गकृतहर्षतरङ्गोऽदर्शसिन्धुसमतां च नृपोऽगात्॥ १५-३१ ॥ भक्तितो दशरथो मधुपर्की तं मुनिं समभिवन्द्य सविप्रः। सन्निनाय नृपतिर्निजगेहं पूज्यपूजनममोघफलं हि॥ १५-३२ ॥ भुक्तवत्यथ मुनाववनीशो रामभद्रमनुजैः सह भक्त्या। गाधिसूनुपदपङ्कजयुग्मेऽपातयत्पतितपावनकीर्तिम्॥ १५-३३ ॥ राममिन्द्रमणिनीलशरीरं मन्मथारिहृदयालयहीरम्। सर्वलोकजनुषामभिरामं वीक्ष्य विस्मित इवास्त मुनीशः॥ १५-३४ ॥ रूपसिन्धुरथवा सुमधन्वा मूर्तिमान् किमुत एष रसेशः। चन्द्रमाः किमुत भानुसुताब्धेर्योगिनेति बहुधा समतर्कि॥ १५-३५ ॥ पृष्टमागमनहेतुमथासौ कौशिको दशरथेन सुहृष्टः। तं जगाद वचनं च निजार्थं नो बुधोऽवसरमेत्य जहाति॥ १५-३६ ॥ धन्यधन्यमनघञ्च रघूणां सत्कुलं विमलमाप्तमहस्कम्। यस्य गायति भगीरथपुत्त्री विश्वविश्रुतयशस्त्रिजगत्याम्॥ १५-३७ ॥ यत्र भो दशरथस्त्वमथाभूर्भूमिपालमहिताङ्घ्रिसरोजः। नाकपालकनकासननेमभागभाजममराः प्रणिनेमुः॥ १५-३८ ॥ त्वं महीश यशसा मनुमाद्यं कश्यपञ्च गुणतो ह्यतिशेषे। यत्सुतोऽथ भगवान् परमात्मा लोकलोचनशुचं परिमार्ष्टि॥ १५-३९ ॥ रक्षसामथ गणोऽतितरां मां क्लेशयत्यवनिपाल बलाढ्यः। पद्मपत्त्रमिव पौषतुषारस्त्वामितोऽस्मि भयतो नृप भिक्षुः॥ १५-४० ॥ श्यामतामरसदामशरीरं देहकान्तिजितयामुननीरम्। लक्ष्मणेन सहितं रणधीरं देहि मे नरपते रघुवीरम्॥ १५-४१ ॥ ताटकाञ्च ससुतां विनिहन्तुं राम एव रणमूर्ध्नि समर्थः। अन्तरेण गरुडं क्षमते को भीमभोगभुजगावलिमत्तुम्॥ १५-४२ ॥ पूर्णतां व्रजतु मे व्रतचर्या राक्षसाः प्रभुशरेण म्रियन्ताम्। त्वद्यशो भवतु सर्वदिगन्ते दीयतां सपदि मे रघुनाथः॥ १५-४३ ॥ इत्युदीरितगिरं गिरिजेशतेजसं कुशिकनन्दनमेत्य। मूर्छितः क्षितिपतिः क्षितिमागात्पारिजात इव मारुतनुन्नः॥ १५-४४ ॥ यत्नतश्च समवापितसञ्ज्ञो बाष्पबिन्दुकलुषीकृतनेत्रः। ऊचिवान् दशरथो मुनिराजं प्रेमविह्वलमना भयभीतः॥ १५-४५ ॥ किं ददामि भगवन् रघुचन्द्रं प्राणतः प्रियमनाप्तमहास्त्रम्। रक्षसाञ्च समरे शिशुरूपं हस्तिनामिव करे मृदुपद्मम्॥ १५-४६ ॥ सेनया सह शरासनपाणिः योत्स्य एष रजनीचरमुख्यैः। किन्तु नीलजलदाभशरीरो नीयतां नहि मुने मम रामः॥ १५-४७ ॥ गृह्यतां द्रविणवाजिगजादिः स्थीयतामृषिपते निजसत्त्वे। हीयतामहह घोरहठोऽयं नीयतां न मम लोचनतारः॥ १५-४८ ॥ किं फणी मणिमपेत्य ध्रियेत किं झषोऽपि सुखितो वनहीनः। आत्मनाथरहितः किमु देहः किं भवेद्दशरथो हरिशून्यः॥ १५-४९ ॥ एवमादिकरुणं प्रविलप्य बाष्पगद्गदगलः स गवीशः। रामचन्द्रविरहातुरचेताः कौशिकाब्जचरणे निपपात॥ १५-५० ॥ इत्थमश्रुनयनं विलपन्तं रामभद्रविरहं ह्यसहिष्णुम्। गाधवारिझषराजमिवार्तं सान्त्वयन् वचनमाह वसिष्ठः॥ १५-५१ ॥ किं जिहाससि सुधामिव शक्रः सार्वभौम इव भूमिमकण्टाम्। जीवनीमुपगतामिव जीवः स्वां प्रतिश्रुतिमहो रघुराज॥ १५-५२ ॥ प्राकृतं त्वमवगच्छसि रामं स्वात्मजं दशरथोत्पलनीलम्। अच्युतं चिदचिदात्मकमीशं व्यापकं भुवनकोटिनिधानम्॥ १५-५३ ॥ गोसुरद्विजगवां हितहेतोर्मायया धृतमनुष्यशरीरम्। पुत्त्रवत्सलतया न हरिं त्वं वेत्सि हीरकमिवाश्मकबुद्धिः॥ १५-५४ ॥ याचते स्वधनमेव मुनिस्त्वां रामनामनिहितं तव कोशे। कोसलेश दिश रामममुष्मै सर्गमेव तनुते हि विसर्गः॥ १५-५५ ॥ इत्यपाकृतमहाभ्रमताम्यः श्रीवसिष्ठमुनिनावनिपालः। दत्तवानसुमिवामलगोभ्यः कौशिकाय रघुनाथमिवात्मा॥ १५-५६ ॥ काकपक्षधरमम्बुदनीलं धन्विनं नरललाम सुशीलम्। आजुहाव सहलक्ष्मणमाराद्राममिन्द्रमिव वामनवन्द्यम्॥ १५-५७ ॥ पादयोः प्रणतमद्भुतसत्त्वं पुत्त्रकं समनुलाल्य मनस्वी। व्याजहार वचनं वचनीयं स्नेहगद्गदगभीरगिराकम्॥ १५-५८ ॥ रामभद्र कुशिकात्मभुवे त्वमर्प्यसे मखरुजां कदनार्थम्। श्रेयसे त्रिजगतां व्रज वृद्ध्यै भूतये च पुनरागमनाय॥ १५-५९ ॥ कौशिकः सततमप्यनुगम्यो धन्विना वियति भानुरिवाह्ना। पालयेश्च वचनानि महर्षेर्वेदवाक्यमिव हेतुमपृष्ट्वा॥ १५-६० ॥ इत्यनेकविधदत्तसुशिक्षं स्वप्रपन्नजनरक्षणदीक्षम्। बाष्पविन्दुकलुषो विससर्ज रामभद्रमिव लोचनतारम्॥ १५-६१ ॥ तं वसिष्ठमुखभूसुरवर्या लक्ष्मणानुचरमाप्तधनुष्कम्। स्वस्तिवाचनपुरःसरमीड्यं स्नेहबाष्पनयना व्यसृजन् स्म॥ १५-६२ ॥ तं तमालरुचिमेत्य ववन्दे सानुजो भरत आकुलनेत्रः। मित्रमण्डलमथेत्य हरिं तं व्याहरत्करुणमङ्गलवाचम्॥ १५-६३ ॥ तं व्रजन्तमनुवीक्ष्य महर्षिं देवताश्च ववृषुः कुसुमैश्च। मन्दमन्दमलयानिल आर्यः संस्पृशन्नथ सखेव सिषेवे॥ १५-६४ ॥ शङ्खतूर्यपटहप्रमुखाणि वादितानि गगने सहसैव। रामचन्द्रगमने हि कृतार्थं मङ्गलं भवति मङ्गलमूर्तौ॥ १५-६५ ॥ अग्रतः कुशिकनन्दन आगाद्राघवस्तमनु दिव्यशिखण्डः। लक्ष्मणस्तमनु कार्मुकपाणिः कार्तिकेयमिव कुञ्जरवक्त्रः॥ १५-६६ ॥ कौशिकेन सह राघवमेनं लक्ष्मणानुगमवेक्ष्य हि यान्तम्। पौरवर्गवनिता नयनाश्रु व्यारुधन् परममङ्गलभीताः॥ १५-६७ ॥ पादपङ्कजचरं गुरुसेवालब्धनिष्ठमथ वारिदनीलम्। केलिकार्मुकशरं शरजन्मकोटितुल्यमथ राममवेक्ष्य॥ १५-६८ ॥ नेत्रलाभमुदिताः पथि वृद्धा बालवृन्दवनितासहिताश्च। हृत्सरोजसदनेषु समोदा रामभृङ्गमिव गोपितवन्तः॥ १५-६९ ॥ तत्र तत्र पथि विप्रपुरोगैः पूजितौ कुसुमचन्दनमाल्यैः। रेजतू रुचिरवेषशिखण्डावश्विनाविव च तौ रघुपुत्त्रौ॥ १५-७० ॥ ताटकाथ ददृशे विकराला रामलक्ष्मणपथव्यवधाना। आस्थिता विटपपर्वतवर्षा कालरात्रिरिव भीमशरीरा॥ १५-७१ ॥ तां विलोक्य मुनिराड्भयभीतो योगिराडिव नितान्तमविद्याम्। पाहि पाहि भगवन्नतिवादं राममेव शरणं मरणेऽगात्॥ १५-७२ ॥ मा प्रभोऽतिदययेयमघायुर्नीयतां निशितसायकतीर्थम्। त्यक्तदेहवसना पिशिताशा स्वर्गमेतु मम भीतिरपैतु॥ १५-७३ ॥ ताटकापि गिरिपादपवर्षैर्व्यावृणोद्रघुवरं कुटिलाशा। बालभानुमिव घोरतमोभिः सिंहिकासुतमयीव विभीषा॥ १५-७४ ॥ राघवोऽपि विहसन् शरजालैर्नाशयंस्तम इवार्ककराग्रैः। राक्षसीमथ शिलीमुखराजत्पञ्जरेऽपि स रुरोध रुषेव॥ १५-७५ ॥ भूय एवमभिमन्त्र्य महात्मा सन्दधे धनुषि बाणमथोग्रम्। ताटकारुधिरविन्दुपिपासुं भीमवज्रमिव कालदुरन्तम्॥ १५-७६ ॥ रामचापप्रणवाभिप्रयुक्तो ब्रह्मबोध इव शायक उग्रः। ताटकाभिधमनन्तमविद्याध्वान्तमन्तमनयत्स निमेषात्॥ १५-७७ ॥ ताटकां च विनिहत्य खलारिः पूजितो विबुधकिन्नरनागैः। ग्राहतो गजपतिं स पुरेव कौशिकं मरणतः परितत्रे॥ १५-७८ ॥ स्वां बलामतिबलामिति विद्यासिन्धवेऽपि स ददावथ विद्ये। तर्तुकाम इव मोहमहाब्धिं मानबीजजनिके परिचिन्त्य॥ १५-७९ ॥ आयुधानि सकलानि महात्मा राघवाय निदिदेश महान्ति। स्वं समर्प्य परमात्मनि सर्वं भाति भक्तिमहितो ह्यपवर्गः॥ १५-८० ॥ आनिनाय निजपर्णकुटीरं स्वातिथिं परमसंयुगधीरम्। लक्ष्मणेन सहितं रघुवीरं सिन्धुकोटिशतघोरगभीरम्॥ १५-८१ ॥ तं तमालमहसं स समार्चत्कन्दमूलफलपत्त्रसुमौघैः। तन्मिषेण निजसर्वफलानि प्रार्पिपद्भगवते स हि योगी॥ १५-८२ ॥ प्रातराविशदृषिर्मखदीक्षां सर्त्विजं दहनदीपितवेदीम्। राघवौ विहितसज्जधनुष्कौ रक्षतः स्म षडहानि मुनीज्याम्॥ १५-८३ ॥ सप्तमेऽहनि मखं विजिघांसू ईयतुः स्म मृगबाहुसुबाहू। राघवत्रिशिखतोऽप्यचिरेण प्राप्स्यमानशलभीयनिसर्गौ॥ १५-८४ ॥ मानवायुधनिराकृतवीर्यमग्रजञ्च शतयोजनसिन्धोः। पारमक्षिपदपारबलाढ्यं नास्तिकं नरकवासमिवाद्यः॥ १५-८५ ॥ यावदग्निविशिखाग्निमभीतः शालभीं गतिमवाप सुबाहुः। श्रीहरेर्हरिणकानिव तावल्लक्ष्मणो हरिरहन् पिशिताशान्॥ १५-८६ ॥ ध्वस्तराक्षसबलौ रघुवीरौ पूर्णकौशिकमखौ मखभाजौ। वृष्टदेवकुसुमौ मुदितास्यौ रेजतुर्गजरिपू इव धीरौ॥ १५-८७ ॥ मैथिलेन विनिवेदितपूर्वः कौशिको दशरथस्य कुमारौ। आनिनाय मिथिलामथ चैत्रमाधवाविव स मेषदिनेशः॥ १५-८८ ॥ तत्र वर्त्मनि निवर्तितमायो मायया महितमानवदेहः। दृष्टवान् हरिरवद्यमहल्यामर्दयत्तम इवैन्दवलेखाम्॥ १५-८९ ॥ शक्रभुक्तविभवामयुताब्दभोग्यभूरिभयगौतमशापात्। लब्धदारुणशिलामयदेहां पद्मिनीमिव समावृतपङ्काम्॥ १५-९० ॥ वीक्ष्य विस्मितमनाः समपृच्छद्राघवस्तमवदत्करुणार्द्रः। कौशिकः कसमलं कनकाङ्ग्याः पापनाशमिव प्रार्थयमानः॥ १५-९१ ॥ पावयस्व पदपद्मरजोभिः पापिनीं पतितपावनकीर्ते। कः क्षमोऽघहरणे त्वदृतेऽस्या ध्वान्तहा हि हरिरेव न चान्यः॥ १५-९२ ॥ इत्यसौ कुशिकवंशधरेण प्रार्थितः पतितपावनरामः। पादपद्ममधिमस्तकमस्याः प्रादधान्निखिलभाग्यमिवेड्यम्॥ १५-९३ ॥ सा रामचन्द्रपदपङ्कजतीर्थराजे प्रध्वस्तपातकशिला ललिताङ्गयष्टिः। आविर्बभूव गुणसौभगदुग्धसिन्धुलक्ष्मीरिवामलरुची रतिकोटिशोभा॥ १५-९४ ॥ दृष्ट्वा धनुर्धरमनन्तगुणैकराशिं राजीवलोचनमनङ्गसहस्रशोभम्। रामं रमार्चितपदं नवकन्दकान्तिं कान्तालकं मदनमोहनमार्तबन्धुम्॥ १५-९५ ॥ नेत्रोत्सवं सुमनसां करुणैकसिन्धुं नेत्राश्रुभिश्च सुमुखी स्नपयाम्बभूव। तुष्ट्वाव गद्गदगिरा गिरिशैकगद्यमिन्दीवरद्युतिमलं मुदिता ह्यहल्या॥ १५-९६ ॥ नवजलधरनीलं वेदविख्यातलीलं धृतकरशरचापं भानुकोटिप्रतापम्। तरुणतुलसिमालं भावगम्यं रसालं सकलगुणसमुद्रं भावये रामभद्रम्॥ १५-९७ ॥ दिनकरकुलकेतो भीमविश्वाब्धिसेतो भुवनजननहेतो योगिनां ध्यानसाक्षिन्। भयद खलजनानां सज्जनाह्लादकारिन्मुनिमनसि विहारिन् हे हरे त्वां प्रपद्ये॥ १५-९८ ॥ यदमलमनसां वै योगिनां ध्यानमूलं विधिहरिहरनम्यं ज्ञानगम्यं सताञ्च। तदनघपदपद्मं मूर्ध्नि मेऽधाः कृपालो किमहह कथयेयं मामकं भागधेयम्॥ १५-९९ ॥ इति स्तुत्वा नत्वा प्रभुपदपयोजातरजसा पवित्रा सन्तृप्ता रघुतिलकसौन्दर्यसुधया। अहल्या श्रीरामं जनदृगभिरामं सुमुदिता मनोगेहे धृत्वा प्रथितपतिलोकं गतवती॥ १५-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। बाणैकसर्गः कविरामभद्राचार्यप्रणीते विदुषां श्रियेऽस्तु॥ १५-१०१ ॥ इति धर्मचक्रवर्तिमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यप्रणीते श्रीभार्गवराघवीये महाकाव्येऽहल्योद्धरणं नाम पञ्चदशः सर्गः।