– अभिराजराजेन्द्रमिश्राः (त्रिवेणीकवयः)
इदानीमेव सङ्कलय्य प्रकाशिते स्वोपज्ञे विंशशताब्दीसंस्कृतग्रन्थसूचीपत्रे (Catalogue of the Twentieth Century Sanskrit Creative Works) मया संस्कृतमहाकाव्यानां १९०१ तः २००० तमावधिप्रणीतानां काऽपि बृहती विस्मयकारिणी च सूची सम्प्रस्तुता सहृदयानां परितोषाय। तत्र विंशशताब्द्याश्चरममहाकाव्यकृतिर्वर्तते महाकविश्रीरामभद्राचार्यप्रणीता श्रीभार्गवराघवीयाभिधाना। अस्याः प्रशस्ताया महाकाव्यसृष्टेः त्वरितप्रकाशनाय मयैव प्रयतितमासीत्। अत एव रचनाया द्विसहस्रतमख्रिस्ताब्द एव प्रकाशनोपक्रमे ममासीद्द्रढीयान् विश्वासः। परन्तु स्वचिन्तितं क्व तिष्ठति निष्प्रत्यवायम्। सैव महीयसी महाकाव्यकृतिरिदानीं द्व्युत्तरद्विसहस्रतमे ख्रैस्तेऽब्दे प्रकाश्यते। श्रीभार्गवराघवीयाभिधमिदं सकलसाहितीसद्गुणनिकषभूतं महाकाव्यं प्रतिभापटिष्ठैर्हृद्यानवद्यकविकर्मनदीष्णैः श्रीचित्रकूटस्थरामानन्दाचार्यपीठाधिपतिभिस्तुलसीपीठस्थैः परमसमर्चनीयैः श्रीमद्रामभद्राचार्यपादैः प्रणीतं संस्कृतरामगाथापरम्परायाः प्रत्यग्रतमं सारस्वतपुष्पमिति सप्रणयं संसूचयन्नहं निश्चप्रचमान्तराह्लादस्य परां काष्ठामुपैमि। अनेन महाकाव्येनाचिरोपजातेन चरितार्थतां भजते भगवन्तं प्राचेतसं वाल्मीकिं प्रति प्रकटिता वैरञ्चिवाणी –
यावत्स्थास्यन्ति गिरयस्सरितश्च महीतले। तावद्रामायणकथा लोकेषु प्रचरिष्यति॥
इति। सहस्रधारा भगवती भागीरथीव सन्दृश्यते रामकथापरम्परा। त एव स्वादमनुभूतवन्तोऽस्याः कथाया येऽस्यां निमग्नाः। यथाऽपरिमेयसलिलाकरस्सागरश्शतशतावर्तैः प्रनृत्यन्नीरचक्रवालैः कशाभिघातप्रतीकाशैस्तरङ्गोच्चयैर्डिण्डीरबुद्बुदशुक्तिशङ्खादिभिश्च विलक्षणमेव किमपि हरिचन्दननयनासेचनकं जनयन् महतीमभिख्यामुपयाति तथैव भगवतो रामभद्रस्य सुचरितप्रवाहोऽपि कविप्रतिभाप्रसूतनूतनप्रस्थानैः प्रकरणवक्रताभिश्च काप्यपूर्वामेव सारस्वतीं विच्छित्तिं जनयति। कियद्भिरेव प्राचेतसोत्तरवर्तिभिः कविपुङ्गवैर्भासकालिदासभवभूतिकुमारदासाभिनन्दभट्टिमुरारिमायुराजराजशेखरभोजदेवजयदेवमहादेवशक्तिभद्रविरूपाक्षरामभद्रदीक्षितमल्लिनाथप्रभृतिभिः दृश्यश्रव्यराघवकथाकारैः साभिनवकल्पनं स्वकाव्यानि प्रणीतानि। हन्त। न तथापि निरवकाशा जाता दशरथनन्दनयशश्चन्द्रिका। रामकथा अद्यापि कविभिः प्रणीयन्ते प्रणेष्यन्ते च भविष्यत्कालेऽपि। यतो हि सार्वकालिको रामः। सार्वदेशिको रामः। सर्वधर्मव्याख्येयो रामः। सर्वसम्प्रदायसमाधेयो रामः। सर्वभाषासाहित्यसङ्कीर्तनीयो रामः। एतादृशं लोकवन्दनीयं लोकमर्यादाप्रतिमानभूतं निष्कलङ्कं चरितं क्वान्यत्र सन्दृश्यते। पदे पदे सन्ति समराङ्गणसूत्रधारा इतिहासवर्णिताः। वदान्यानां लोकोपकारप्रवणानां दानदाक्षिण्यकलावतंसानां महीपानां लोकधुर्याणाञ्चापि नैयून्यं न संलक्ष्यते। तथाऽप्यप्रतिमो रामः। अतुलनीयो रामः। सर्वथाऽनिर्वचनीयो रामः प्रतिभाति। इदमेवास्ति रामचरितस्य सनातनत्वम्। इदमेवास्ति रामचरितस्याक्षुण्णत्वम्। सर्वेऽपि नायकत्वेनोपकल्प्यमानाः सुचरितविग्रहाः कालातीताः प्रतीयन्ते। परन्तु नित्यकीर्तनीयस्तिष्ठति केवलं वैदेहीजानिर्भगवान् दशरथनन्दन एव। येन रामकथानुशंसया न पवित्रीकृताऽऽत्मकाव्यप्रतिभा वृथैव जातं तत्कवित्वम्। तत एवाद्यापि कवीनुत्कयति रामकथा। भवतु प्रकृतमनुसरामस्तावत्। अस्मद्दीक्षागुरवो वन्द्यचरणाः श्रीरामभद्राचार्याश्चित्रकूटस्थतुलसीपीठाधिपतयः प्रणयन्ति सम्प्रत्येकविंशतिसर्गात्मकं श्रीभार्गवराघवीयं महाकाव्यम्। नाम्नैव परिस्फुटं जायते यदत्र भार्गवराघवयोर्हिमावदातचरितं मिथः प्रस्तूयते। महाकाव्येऽस्मिन् प्रसादगम्भीरपदे सौशब्द्यार्थगौरवमण्डिते प्रतिसर्गमेव किञ्चिदभिनवं परिलक्ष्यते। श्रुतेन यत्नेन चोपासिता भगवती वाक्कमप्यनुग्रहं करोत्येवेति दाण्डिप्रामाण्येन जानीमो वयम्। परन्तु क्वचित्कदाचिच्च वंशवदाऽप्यसौ भवतीति चित्रम्। वश्यवाणीकविचक्रवर्त्यासीन्महाकविर्बाणभट्ट इति सहृदयानाम्मतम्। तादृश्येव वश्यवाणीकविचक्रवर्तिता श्रीमद्रामभद्राचार्यपादेष्वपि सन्दृश्यते। अस्यैव जन्मनस्समुपलब्धिरियमाहोस्वित्पूर्वजन्मनां कश्चिदप्रतिहतप्रातिभकवित्वसंस्कारस्समवाप्तावसरः सम्प्रति निरर्गलं समुज्जृम्भतेतरामिति निश्चेतुं न शक्यम्। शैशवादेवापगतदृष्टिः कविः। श्रावणप्रत्यक्षमहिम्नैव सर्वोऽपि वैशारदीसम्भारो विद्यावितानश्च तेनाधिगतौ। सम्पूर्णानन्दसंस्कृतविश्वविद्यालये त्रिपुरहरनगरीस्थ ऋषिकल्पानामाचार्याणामन्तेवासित्वमुपगतेन कविना शास्त्राण्यधीतानि। अत्रैव सम्पादितं तेन विद्यावारिधिशोधकार्यम्। विद्याधिगमान्तेऽत्रैव विद्यावाचस्पतिरपि सञ्जातोऽसावष्टाध्यायीं नूतनया दृशा प्रसमीक्ष्य समीक्ष्य च। चतुःसहस्रेण स्वोपज्ञश्लोकसमवायेन स्वाभिप्रायं गद्यमयं सरसमसौ विदधाति स्म। सोऽपि शोधप्रबन्धो विपश्चित्कण्ठहारायमाणस्सम्प्रति ममैव कुलपतित्वे प्रकाश्यते विश्वविद्यालयप्रकाशनकेन्द्रेणेति प्रकाशयन्नमन्दानन्दमनुभवामि। चतुरस्रं परिलक्ष्यते श्रीमद्रामभद्राचार्यपादानां सारस्वतं क्षेत्रम्। क्व वेदवेदाङ्गानां रहस्यमयं स्वरूपम्। क्व पुनर्विविधशास्त्राणां नारिकेलकठिनकलेवराश्चूडान्तसिद्धान्ताः। क्व चाप्यबोधविकलग्राह्या भक्तिरसरसायनमाधुरी श्रीरामकृष्णचरितनिस्यन्दिनी। हन्त। सर्वत्राप्यकुण्ठा गतिर्भार्गवराघवीयकाराणाम्। रामकथाप्रसङ्गान् प्रस्फुटीकुर्वन् कविर्यथा श्रोतॄन् साधारणीकरणापहृतकथेतरसंसृतिभावान् रोदयति तथैव तदधिकं स्वयमपि रोदतीति चित्रम्। सर्वाण्यपि शास्त्राणि श्रीरामभद्राचार्यवशंवदानीत्यत्र न काऽपि संशीतिः। अकिञ्चित्करकिङ्करकल्पाः शास्त्रपङ्क्तयः स्मरणसमकालमेव तद्बुद्धौ समवभासन्ते। एवं हि सर्वविद्यामयं प्रतिभाति श्रीमत्तुलसीपीठाधीश्वरव्यक्तित्वम्। कवित्वं श्रीमद्रामभद्राचार्याणां ललितोचितसन्निवेशचारु प्रतिभापरिणतञ्चावलोक्यते। शब्दार्थप्रत्यभिज्ञानकुशलः कविः। किञ्च –
सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन। यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः॥
इति प्रतिपादयन् ध्वन्यालोकप्रथमोद्योते यल्लक्षणं महाकवेः स्थापितवान् श्रीमदानन्दवर्धनाचार्यस्तदपि सर्वथा घटतेऽस्मद्दीक्षागुरुपक्षे। महाकविरसावित्यत्र न कोऽपि सन्देग्धि। महाकाव्येऽस्मिन् तन्महाकवित्वप्रमाणमनुस्यूतं परिलक्ष्यते सहृदयाधियाऽनुभूयमानम्। हिन्दीकाव्यप्रचलिताः सपादिकाः (सवैया इति) घनाक्षरिकाश्च (घनाक्षरीति) यथायथं प्रयुज्य प्रस्तौति यथा छन्दोविचितिप्रागल्भ्यं कविस्तथैव रामकथाया नूतनाभिप्रायानपि समुपन्यस्यति। मन्य एभिरेवाभिप्रायैः प्रकरणवक्रतासौख्यं संसृजती भार्गवराघवीया रामकथा सहृदयानां मनांस्यावर्जयिष्यति। नात्रावकाशो महाकाव्यस्यास्य बृहत्समीक्षणस्य। तत्तु प्रकाशनानन्तरं पृथक्तया कदाचित्करिष्यते मयाऽन्यैश्चापि विपश्चिचद्भिः। परन्तु ममायं दृढो विश्वासो यत्प्रशस्तेयं कृतिः संस्कृतमहाकाव्यपरम्परायां महतीमभिख्यां समज्ञाञ्चोपयास्यति। महाकाव्यान्यद्यापि भूयस्त्वेन प्रणीयन्ते। परन्तु न क्वचिल्लक्ष्यन्ते काव्यगुणाः। व्याकरणदोषाः पुनः पदे पदे मनःक्लेशान् जनयन्ति। प्रचलितवृत्तस्य संस्कृतभाषया परिणमनमात्रमेव न भवति महाकाव्यम्। महाकाव्यं भवति ध्वनिवक्रोक्तिवैशिष्ट्यमण्डितं नूतनाभिप्रायप्रचुरपदगुम्फसंवलितं रसच्छन्दोऽलङ्काररीतिवृत्त्यादिप्रयोगरुचिरं किमपि विलक्षणमेव सारस्वतं कविकर्म। परन्तु विरलसंस्कृतप्रचारेऽस्मिन् युगे त्वेरण्डा अपि द्रुमायन्ते। शब्दार्थसंयोजनकलाज्ञातारोऽपि महाकवीयन्ति पुरस्कृताश्च जायन्ते स्वयमप्यपुरस्कृतैः पुरस्कारसमितिसदस्यैः। विपर्यस्तमेव परिलक्ष्यते सारस्वतक्षेत्रम्। मन्ये श्रीभार्गवराघवीयमहाकाव्यमिदं तस्य विपर्यासस्यापवादो भविष्यति। यतो हि महाकाव्यमिदं प्राक्तनीं काव्यसृष्टिसरणिं सर्वतोभावेन पुष्णाति। अलङ्काराणां समुपसर्जनीकृतवाच्यार्थानां प्रयोगे रसाभिव्यञ्जने चमत्कारातिशयसंवलितविकटाक्षरबन्धायोजने मुद्राशय्यापरिपाकादिकाव्यशास्त्रीयतत्त्वोन्मीलने नवार्थप्रकाशने हृद्यानवद्यजीवद्बिम्बसङ्घटने च महीयत एवेदं महाकाव्यम्। तदहं विश्वसिमि यद्भगवत्या वागधिष्ठात्र्याः शेवधिः समुपचीयत एव महाकाव्येनाऽनेन। कवयोऽन्ये यल्लिखन्ति तद्भवति तत्सारस्वताध्यवसायमूलकम्। तदेव तत्काव्येषु परिलक्ष्यते क्वचिदक्षमत्वमपि। परन्तु महाकाव्यमिदमार्षपरम्परां पुष्णाति। नात्राध्यवसाय ऐहलौकिकः कश्चित्प्रभवति मूलीभूय। प्रत्युत कवेर्ऋषित्वमेवात्र प्रभवति। न किमपि वाङ्मयं कविना भौतिकलोचनाभ्यां परिशीलितम्। तथापि न किमपि वाङ्मयमदृष्टं तिष्ठति तस्य। तदेवास्य कवेर्ऋषित्वम्। किञ्चर्षिप्रणीतं काव्यं सर्वथैव सामान्यकविसृष्टिमतिशेते। तद्दृष्ट्याऽपि परमपूज्यचरणेन्दीवराणां श्रीमद्रामभद्राचार्याणां कृतिरियमभिनन्दनार्हा। धन्यतामुपयाति रचनयाऽनयाऽर्वाचीनसंस्कृतसाहित्यम्।
कुलपतिनिवासः, विद्वद्वशंवदो विजयदशमी २००२ ई०, मिश्रोऽभिराजराजेन्द्रः