द्वितीयः सर्गः


अथाच्युतं न्यस्तसमस्तहेयगुणं गुणानामुदधिं शुभानाम्। दधार गर्भे जमदग्निपत्नी प्राचीव पूर्णं विमलं विधुं सा॥ २-१ ॥ सा रेणुका केशमताङ्घ्रिरेणुं प्रपन्नकामार्पणकामधेनुम्। बभौ वहन्ती जठरेऽजनं तं शमीव विप्रद्विडरण्यवह्निम्॥ २-२ ॥ सम्भाविता भावभवेन भर्त्रा गुर्वीकृता गर्भजगौरवेण। रेजे वने ब्राह्मणधर्मपत्नी प्रत्यूषसन्ध्येव खगारुणाभ्याम्॥ २-३ ॥ तेजस्विनी वैष्णवतेजसाढ्या वर्चस्विनी ब्राह्मणगेहलक्ष्मीः। कौटीरदीपान् विभया निनाय दोषापि सख्यं दिनदीपकानाम्॥ २-४ ॥ सा सच्चिदानन्दमनन्तकीर्तिर्गर्भे वहन्ती द्विजराजपत्नी। नो बाधिता दोहदबाधयाद्धा साध्वी समासादितसाधुसत्त्वा॥ २-५ ॥ पुंसः पुराणस्य महोमयी सा माद्यन्मुखाम्भोरुहमा मनोज्ञा। लावण्यलक्ष्मीं वपुषः पुपोष प्रातस्तनी प्राग्दिगिवाम्बरस्य॥ २-६ ॥ प्रवालताम्राधरपल्लवा सा ससत्प्रसूतिः कचमञ्जुभृङ्गा। दिदेव देवीव धृताम्रगर्भा नता वसन्ते सहकारशाखा॥ २-७ ॥ सा तेजसा गर्भगतार्भकस्य तन्वी तनिम्ना च तनोरनिन्द्या। भेजेऽर्हणादीपविलासवीचेर्लक्ष्मीं निदाघीयसुरापगायाः॥ २-८ ॥ भूदेवसच्छस्यबलाहकेन गर्भेण तद्धामतडिन्मयेन। विद्योतिता द्यौरिव दुद्युते सा वर्षर्तुलक्ष्म्या महिता हिताशा॥ २-९ ॥ सा सुप्रसन्ना विरजा विशेषसत्त्वाम्भसा पोषितगर्भकार्भा। वव्रे शरद्बालमरालमाया मायाधवस्य श्रियमङ्घ्रिजायाः॥ २-१० ॥ ब्रह्मद्विडत्युद्धतराजवंशकञ्जानलप्रख्यमहोहिमान्या। गर्भश्रिया सा शुशुभेऽद्भुतश्रीर्हेमन्तसन्ध्येव वधूरवन्ध्या॥ २-११ ॥ स्वनीलकेशैरतसिप्रसूनं तनूरुचा सर्षपपुष्पशोभाम्। अर्भत्विषा वेपितशत्रुगात्रा जिगाय गेया शिशिरर्तुलक्ष्मीम्॥ २-१२ ॥ सा रेणुका केशवकेशवन्द्यपादाब्जरेणुर्गृहमेधधेनुः। ब्रह्मर्षिवर्यस्य बभार भासं प्रातर्दिवो दीप्तदिवाकरायाः॥ २-१३ ॥ व्यथाहरस्यास्य महीसुराणां गवां सुगर्भस्य महार्भकस्य। मातुर्व्यथायै न बभूव भारो हारो यथा पौष्प उदारकीर्तेः॥ २-१४ ॥ सा सूक्ष्मवासा विशदाखिलाशा पाशापहा वासववर्धितानाम्। मन्दस्मिता पादविलासलक्ष्म्या विप्राश्रमं सम्मृडयाम्बभूव॥ २-१५ ॥ नम्रीकृता गर्भजगौरवेण मधोर्मनोज्ञेव रसालशाखा। सच्छायया मण्डितमायया सा मोदं वितेने विबुधातिथीनाम्॥ २-१६ ॥ क्वचिद्विहङ्गान् दधती पयोभिः क्वचिद्रसालं रसितालवालम्। सा कुर्वती गर्भवतीव्रतानां पुण्याशिषा पुण्यचयं चिकाय॥ २-१७ ॥ पाथेयमुक्तानपि वासतेयी गेहागतान् सादरमातिथेयी। सा स्वापतेयी पतिचेष्टितज्ञा पुपोष पुत्त्रानिव मञ्जुमाता॥ २-१८ ॥ तृणाय मत्वा किल गर्भपीडां क्रीडानमन्मञ्जुलकन्धरा सा। प्रेम्णा सिषेवे स्वशिशोः शिवाय व्रतानि वेदे विहितानि साध्वी॥ २-१९ ॥ पदे पदे पद्मदलामलाक्षी प्रपूजिता देववधूवरूथैः। गर्भं वहन्ती हरिमादरेण श्रद्धावती त्रींश्च निनाय मासान्॥ २-२० ॥ तां भावयित्रीं भवभूतिभूम्नः पुंसः क्रियां पुंसवनाभिधानाम्। विधाय विप्रोऽदितितुल्यशीलां संयोजयामास भवेन भार्याम्॥ २-२१ ॥ अथोपसेदुः शकुनानि सौम्यां भौमानि दिव्यानि च दैहिकानि। अर्थापयन्तीव निजार्थवत्तां सान्निध्यतो गर्भगतस्य विष्णोः॥ २-२२ ॥ माकन्दमारन्दसुमन्दमन्दो लोलल्लतो दोलितदेवदारुः। भागीरथीनिर्झरबिन्दुवाही सेव्यां सिषेवे शिशिरः समीरः॥ २-२३ ॥ ऊधोभराक्रान्तगतिर्गवीशा गृष्टिर्गृहीतामरवासदेहा। हुङ्कुर्वती सम्मुखमेव तस्या वत्सं पयोऽपाययतालिहन्ती॥ २-२४ ॥ वामोरुवामादृगमोघभाग्या पुस्फोर संसूचितमङ्गलालिः। प्रदक्षिणां दक्षिणतश्चचार प्रदक्षिणामेत्य चमोरुमाला॥ २-२५ ॥ काकोऽनुवाको ननु दक्षिणेन ताम्राधरां तां ददृशेऽधिशस्यम्। पुस्फोर वामोऽपि भुजो भविष्णोर्ददर्श दृश्यं नकुलं कुलीना॥ २-२६ ॥ क्षेमं जगौ क्षेमकरी च तस्याः क्षेमावहं ह्यर्भकमावहन्त्याः। श्यामा पिकी श्यामसरोरुहाक्ष्या वामाङ्घ्रिपस्था च कलं चुकूज॥ २-२७ ॥ तां तिग्मरश्मिर्न तताप तिग्मं सद्गर्भभाराभिनताङ्गयष्टिम्। नवोन्मिषन्नन्दननालिनेया मोदेन तन्मोदलतां व्यतानीत्॥ २-२८ ॥ सुधामयूखो निशि नीरजाक्षीं सुधामयूखैः सुखयाञ्चकार। निशीथिनीपद्मपलाशशोभां निशीथिनीशो व्यदिशद्दृशेऽस्याः॥ २-२९ ॥ तां मङ्गलो माङ्गलिकीमकार्षीद्भुवं जगन्मङ्गलमङ्गलस्य। प्रवालरागेण पदं जगाम भौमोऽपि तद्भौमसुरार्भकस्य॥ २-३० ॥ सौम्योऽपि तद्ब्राह्मणसोमतेजः स्वतेजसा सङ्गमयाम्बभूव। समस्तशास्त्रार्थबुधत्वमर्भे समर्प्य धन्यं बुबुधे बुधः स्वम्॥ २-३१ ॥ जगद्गुरोर्गर्भगतस्य जिष्णोर्गुरुर्गरिम्णा गरयाम्बभूव। गीर्वाणसापत्नकृपाकृपाणीं वाणीं शिशोर्गीष्पतिराविवेश॥ २-३२ ॥ तदर्भकं भार्गववंशदीपं स भार्गवः स्वस्तिगिरा समर्च्य। अखण्डशुक्रत्वममुत्र बाले निधाय शुक्रः शुशुभे शुभंयुः॥ २-३३ ॥ शनैश्चरः स्वं शनकैस्स्थिरत्वमायुष्यधादर्भकभूषणस्य। स्वनीलतां नीलसरोजकान्तिः केशाननैषीत् किल केशवस्य॥ २-३४ ॥ राहुर्द्विजद्विड्द्विजराजराहुं सहस्रबाह्वब्जतुषारबाहुम्। संवर्धयामास समानशीलं समुल्लसच्छत्त्रविनाशलीलम्॥ २-३५ ॥ केतुश्च तं ब्राह्मणवंशकेतुमर्भं समाधित्सितधर्मसेतुम्। जगज्जनिस्थाननिरोधहेतुमपूपुजत्त्यक्तनिजस्वभावः॥ २-३६ ॥ अथोपतस्थे जमदग्निभार्यां सुस्वप्नमाला सुफला रसाला। महानुभावोद्भव एव नूनं प्रादुर्भवन्त्येव शुभानि भूत्यै॥ २-३७ ॥ तां स्वप्नकाले द्विजपर्णशाले सोमोऽथ राजा रजताद्रिगौरः। समर्हयत्सादरसामगानैः पीयूषकुम्भैः सितपुष्पपूगैः॥ २-३८ ॥ तामग्नयो योगिदुरापसूतिं त्रयोऽत्रयः स्वानुजतामुपेतम्। शक्रानुजं चाधिधरं प्रतीताः सत्कर्तुकामाः परितः प्रसेदुः॥ २-३९ ॥ सप्तर्षयः शप्तभृगूद्भवानां भवाय लक्ष्म्या प्रजनिष्यमाणम्। विज्ञाय विष्णुं कुशवारिभिस्तां गाङ्गैर्गदन्तः श्रुतिमभ्यसिञ्चन्॥ २-४० ॥ स्वप्ने गरुत्मान् ननु रेणुकां तां वहन् स्वपृष्ठे हरियोगनिष्ठे। स्वपक्षवातैजितमेघमालाव्यालोलितालं गगनं जगाम॥ २-४१ ॥ वक्षोलसत्कौस्तुभलक्ष्मलक्ष्म्या लक्ष्म्या शये भार्गवगेहलक्ष्मीः। मणिप्रदीपावलिभव्यभासा नीराजिता नीरजया निशीथे॥ २-४२ ॥ इत्थं शुभैः सूचितगर्भसम्पत्संसेव्यमाना शकुनैरघघ्नैः। निनाय मासान् ननु सप्त साध्वी वेदान्तविद्येव च सप्त भूमीः॥ २-४३ ॥ अथाष्टमेऽष्टौ प्रकृतीरतीता कलाष्टमीवामलशीतरश्मेः। गर्भे परब्रह्म शिशुं वहन्ती परेव रेजे प्रकृतिः सबोधा॥ २-४४ ॥ सीमन्तमुन्नेतुमथोपनिन्युः सीमन्तिनीं सानुनयां श्रुतिज्ञान्। वादित्रगीतैः श्रुतिभिः समेताः सख्यः सखीं पार्वणचन्द्रमुख्यः॥ २-४५ ॥ उन्नीतसीमन्तशिखा शिखेव प्रज्ञानदीपस्य मुखाब्जभासा। जहार जाया जमदग्निचित्तं वल्गुस्मितापाङ्गविसर्गितेन॥ २-४६ ॥ व्यतीत्य सानन्दमना महर्षेः प्रियानवद्या नवधेव भक्तिः। नवापि मासान् सुषुवेऽथ दारं शिशुं दशायां दशमे दशम्याम्॥ २-४७ ॥ सा माधवं माधवशुक्लपक्षे मायाधवं सञ्जनयाम्बभूव। या ख्यापिताक्षय्यतिथिस्तृतीया लोके जयन्ती हरिभार्गवस्य॥ २-४८ ॥ माध्याह्निके चाभिजिते मुहूर्ते मध्याह्नभास्वानिव तेजसाढ्यः। जैत्रे द्विजाम्भोरुहचित्रभानुर्नमत्कृशानुः करजुष्टजानुः॥ २-४९ ॥ स्वयं चतुर्थो विगलच्चतुर्थश्चतुष्टयस्याब्जभृतः कलानाम्। स भूतिभूतो भवभूतिपूतोऽद्भुतः सुतो रेणुकया प्रसूतः॥ २-५० ॥ देवाः प्रसेदुर्ननृतुश्च देव्यो जगुश्च गन्धर्वगणा विनेदुः। सुदुन्दुभीः पाणवशङ्खभेरीः सुरेन्द्रमुख्या ववृषुः प्रसूनैः॥ २-५१ ॥ पेठुः श्रुतीरष्टघनान्तपाठाः विप्राः सुमन्त्रानृषयः प्रजेपुः। भक्ताश्च भेजुः पदपद्ममस्य साष्टाङ्गनामं मुनयः प्रणेमुः॥ २-५२ ॥ वेदाः समस्ताः धृतवन्दिवेषा जगुर्विभूम्नो विरुदं विनीताः। त्रेसुस्समे विप्रविरोधिभूपाः पत्न्यस्तदीया विकला विलेपुः॥ २-५३ ॥ बभूव भूयो जमदग्निगेहे महामहो जातकजातिकर्म। संस्कारलीला न परात्मशुद्ध्यै शास्त्रप्रवृत्तिर्जनशिक्षणार्था॥ २-५४ ॥ चिच्छेद धात्री शिशुनाभिनालां यस्यां स्वयम्भूर्भगवान् बभूव। संस्नाप्य मन्त्रैरधिसूतिगेहं सख्योऽनयंस्तां भगवत्प्रसूतिम्॥ २-५५ ॥ अथो षडैश्वर्यनिधिं निधानं सुसद्गुणानां द्विषतां कृतान्तम्। षष्ठीविधानेन समर्च्य नार्यो जगुः कलं मङ्गलगीतकानि॥ २-५६ ॥ तं द्वादशादित्यसमं स्वसूनुं प्राप्तेऽहनि द्वादश आर्षमन्त्रैः। प्रस्नाप्य तातो हतसूतकाधिर्ननन्द निर्वाणकरः करीव॥ २-५७ ॥ ददौ तदानीं श्रुतिसारदानी द्विजो द्विजेभ्यो मधुलिड्वरेभ्यः। हस्तीव दानं ननु भूरिदानं धनेशसङ्कीर्तितकीर्तिगानम्॥ २-५८ ॥ ततो ग्रहैर्ग्राहितभूरिभागं करिष्यमाणायुधयुद्धयागम्। वपुर्विभाव्रीडितविष्णुरागं सुतं समासाद्य स सानुरागम्॥ २-५९ ॥ आहूय विप्रान् श्रुतिपाठचुञ्चून् तत्स्वस्तिवाचं किल वाचयित्वा। गुरुं भृगुं वंशकरं निवेद्य स पञ्चमी पाञ्चमिकं व्यधत्त॥ २-६० ॥ भृगुं सुकीर्त्या पितरौ गुणौघैर्विप्रान् स्ववीर्यै रमयिष्यतेऽसौ। पुत्त्रो विचार्येति पिता तदीयं वर्णद्वयं प्राह स रामनाम॥ २-६१ ॥ राष्ट्रस्य मामेधयिता सुतोऽसौ रास्यत्ययं मामपि भूसुरेभ्यः। अतोऽपि रामं जगदुस्तमेते वाक्किङ्करोऽर्थो हि भवत्यृषीणाम्॥ २-६२ ॥ सम्पाल्यमानोऽनुपलं पितृभ्यां गुहः शिवाभ्यामिव तीक्ष्णतेजाः। दिने दिनेऽवर्धत शुक्लपक्षे स भार्गवाम्भोधिशशी शशीव॥ २-६३ ॥ ततो बहिर्निष्क्रमणक्रियार्थं निनाय तं शम्भुनिकेतमम्बा। सखीजनोद्गीतपवित्रकीर्तिः क्रान्तत्रिनेत्राम्बकमासमर्भम्॥ २-६४ ॥ प्राणीनमत्तेन शिवं च माता भजिष्यता तत्पदकञ्जयुग्मम्। तं बालको बालकचन्द्रचूडं दृग्वारिधाराभिरलं सिषेच॥ २-६५ ॥ उत्थाप्य शर्वो दशभिर्भुजैस्तं बालं स्वसम्भूतिरसारसालम्। जटाटवीखेलदभङ्गगङ्गातरङ्गसङ्गप्रणयीचकार॥ २-६६ ॥ कर्पूरगौरेण मनोहरेण स्वकाङ्गसङ्गेन सुभस्मनेशः। विभूष्य तं भूषितभूमिदेवं देवोऽथ दिव्यो दिविजैर्दिदेव॥ २-६७ ॥ जगाद जीमूतगिरा गिरित्रो दित्सन् शिशुं ब्राह्मणधर्मपत्न्यै। स रेणुकापादपयोजरेणुं भक्त्या चिकीर्षंस्तरुणेन्दुभूषाम्॥ २-६८ ॥ जयत्वसौ ब्राह्मणवृन्दशस्यबलाहको वैदिकवाहकश्च। विपद्विरामो द्विजवंशरामो रामोऽभिरामो भृगुराम ईड्यः॥ २-६९ ॥ धन्यावमू भार्गववंशदीपौ जायापती मञ्जुमती अतीतौ। कुवासनां शीलगुणाशनां यौ भूमानमानीय भुवं विभातः॥ २-७० ॥ धन्या स्थली भूतलभागभूता सुभारती भारतभूमिरेषा। यत्रैव साक्षाद्भगवान् मुकुन्दः पुनः पुनश्चावतरत्युदारः॥ २-७१ ॥ दृष्टं विधात्रापि तुलां न याति जगत्समग्रं किल भारतस्य। तद्भारतान्न्यूनममुष्य नाम नेमाक्षरेणापि जगद्व्यधायि॥ २-७२ ॥ दिष्ट्याम्ब ते सूनुरभूत्स्वयम्भूरनन्तवीर्यो भगवान् मुरारिः। यन्मायया जीवजगच्च दारुयोषेव नट्या परिनर्त्यतेऽदः॥ २-७३ ॥ एषस्स्वयं नाशितभूसुरध्रुग्राजन्यवंशो भृगुवंशहंसः। वीरव्रती ख्यापितदिव्यकीर्तिर्दिक्पालकानां भविता प्रशस्यः॥ २-७४ ॥ सहस्रबाहूद्धतबाहुदण्डप्रचण्डदावानलमञ्जुमेघः। द्विजेन्द्रसारङ्गसमूहचित्ताकर्षी प्रवर्षी सुमुदोऽर्भको वाम्॥ २-७५ ॥ निशम्य तामाशिषमिन्दुमौलेर्देवैः कृताभ्यर्हणमभ्युपेत्य। पुत्त्रं पुतस्त्राणकरं सुखाब्धेस्तौ दम्पती तीरमिताविवान्त्यम्॥ २-७६ ॥ ततश्च रामो रमयाम्बभूव स्निग्धेक्षितैश्शैशवचेष्टितैश्च। वपुःप्रकर्षेण महोमहिम्ना मृगान् भृगून् स्वां जननीं जनित्रम्॥ २-७७ ॥ ततोऽन्नसम्प्राशनमाविधित्सुस्तं छन्दयामास पिता महान्नैः। आनन्दकन्दोऽपि स कन्दमूले मनोऽर्पयन्मानितवन्यवृत्तिः॥ २-७८ ॥ लोलालको बालकबालकोऽसौ क्रीडन् वने केसरिशावयूथैः। निषिद्ध्यमानोऽपि चिरं जनन्या व्याघ्रादिभिः सख्यमथो व्यधत्त॥ २-७९ ॥ परश्वधक्रीडनकेन रेमे बालो विहायान्यपरिच्छदान् स्वान्। अतो द्विजेन्द्रः परशूक्तपूर्वं रामेति नाम्ना सुतमाजुहाव॥ २-८० ॥ स जानुपद्भिः प्रचलन् पृथिव्यां माद्यन्मुखाम्भोरुहकुन्तलालिः। सुधासिचाव्यक्तरसाक्तवाचा रामोऽभिरामोऽथ बभूव पित्रोः॥ २-८१ ॥ क्रीडन् क्वचित्क्रीडितबालसिंहो विष्वग्विभाव्रीडितबालभानुः। पीडिष्यमाणाखिलभूमिभारः पीडाकरो भूमिरुजां बभूव॥ २-८२ ॥ तेजस्स्फुलिङ्गोऽन्वयभावसर्पिः संस्थापितः प्राङ्गणवेदिकायाम्। राजद्रजोधूसरधूम्रदेहो धूमध्वजोऽभूत्स पितुश्चतुर्थः॥ २-८३ ॥ रिङ्गन् गवि प्रांशुपलाशपद्भ्यां धावन् धरायां धृतिधामधूर्यः। परश्वधक्रीडनकोत्कचेताः क्षपां क्षपाटीं क्षपयाम्बभूव॥ २-८४ ॥ स वृत्तचूलश्चलकाकपक्षो वीर्याग्निविप्लुष्टविपक्षकक्षः। स्वधर्मसंरक्षणलब्धलक्ष्योऽलक्ष्यो द्विषां हृद्विलसद्दिधक्षः॥ २-८५ ॥ तत्कर्णवेधं विदधे विधाता समुद्गिरन्मङ्गलभद्रसूक्तम्। लोकोत्तराणां चरितानि नूनं लोकोत्तराण्येव भवन्ति भूमौ॥ २-८६ ॥ तमक्षरं राममथाक्षरज्ञाः समागताः शिक्षयितुं सशिक्षाः। अनेहसाल्पेन समध्यगच्छत्स नागरो निर्जरनागरीं ताम्॥ २-८७ ॥ इत्थं ककुप्कुञ्जरसंस्क्रियाभिः स संस्कृतो वैदिकसंस्कृतीड्यः। दशार्धवर्षं वयसा निनाय बालो दशार्धेषुसपत्ननिष्ठः॥ २-८८ ॥ अथोपनिन्ये नयनाभिरामं रामं रमाकान्तकलाललामम्। पित्रार्पिताशेषविपद्विरामं ब्रह्मद्रुहः संयति दग्धुकामम्॥ २-८९ ॥ तस्यारभन्त व्रतबन्धकर्म ब्रह्माण इज्यापरिपूतदेहाः। वेदा यथा मूर्तिधरा धृतेहाः प्रदीप्तवैश्वानररम्यगेहाः॥ २-९० ॥ आर्चीकिरार्चन्ननु वक्रतुण्डं शुण्डासमुत्पाटितवैरिमुण्डम्। तमेकदन्तं यशसा लसन्तं हेरम्बमम्बाङ्कगतं हसन्तम्॥ २-९१ ॥ अपूपुजत्पूरितमद्भिरद्धा प्रदीपकोद्भासिमुखं सुकुम्भम्। अनन्तरं मङ्गलवेदिकायां संस्थापयामास मुनिर्हुताशम्॥ २-९२ ॥ चतुर्मुखस्तत्र चतुर्भिरास्यैर्ब्रुवञ्छ्रुतिं स्वार्पितमूर्तिना तम्। यज्ञोपवीतेन च यज्ञमूलं द्विजन्मलक्ष्म्या समलञ्चकार॥ २-९३ ॥ ततः समाविष्कृतसौम्यमूर्तिः पूर्तिः सतां मञ्जुमनोरथानाम्। गायत्रिदीक्षां प्रदिदेश तस्मै शिवः शिवायास्य भृगूद्वहाय॥ २-९४ ॥ स मातृमान् वै पितृमान् महस्वानाचार्यवान् वन्दितपादपद्मः। बिभ्रद्विभां ब्रह्ममयीं विरेजे सरौरवीको जनरौरवघ्नः॥ २-९५ ॥ स ब्रह्मचर्यव्रतलब्धदीक्षो गुरूपदेशार्जितशिष्यशिक्षः। भिक्षां जिघृक्षुर्जननीं जगाम यथान्नपूर्णां भगवानुपेन्द्रः॥ २-९६ ॥ परिधाय स रौरवीं त्वचं धृतमौञ्जीमयमेखलो बटुः। जननीनयनाश्रुभैक्ष्यवान् सुमनाः शम्भुमुपेयिवान् गुरुम्॥ २-९७ ॥ राजत्पलाशतरुदारुणदारुदण्डो वीर्यातिरेकपविकल्पितबाहुदण्डः। श्रीचन्द्रचूडचरणार्पितदेहदण्डो रामो यतीव विबभौ विलसत्त्रिदण्डः॥ २-९८ ॥ देवैर्नन्दनपुष्पवर्षिभिरलं सम्पूजितः पुण्यवान् सानन्दं मुनिनागकिन्नरनरैस्तोष्टूय्यमानो मही। आपृच्छ्य द्विजदम्पती स्वपितरौ कैलाशधामाययौ गायत्र्यं व्रतमास्थितः स भगवान् वीरव्रती भार्गवः॥ २-९९ ॥ जगन्मङ्गलो धर्मरक्षैकदीक्षः स वीरव्रती छात्त्रशिक्षाप्रतीक्षः। बभौ भार्गवो देहधारीव धर्मो महोवर्मिणो वर्णिनो वर्चसाढ्यः॥ २-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गो द्वितीयः कविरामभद्राचार्यप्रणीते भवताच्छ्रियै नः॥ २-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये दीक्षाख्यो द्वितीयः सर्गः।