द्वादशः सर्गः


रामोऽथ कौमारमतीत्य हारं सभ्रातृकः कल्पितकाकपक्षः। क्रीडन्नयोध्येशगृहाजिरेषु क्रमेण पौगण्डवयः प्रपेदे॥ १२-१ ॥ षड्भिः शरद्भिः शरदिन्दुवक्त्रो निदर्शयिष्यन्निव षड्भगानि। मन्ये षडैश्वर्यमयत्वमेवावतारयन् षष्ठमगात्स वर्षम्॥ १२-२ ॥ तं चक्रवर्ती व्रतबन्धनाम्ना संस्कारयामास विधानकेन। सुसंस्कृतं सानुजमीश्वरस्य लोकोपदेशाय हि मर्त्यलीलाः॥ १२-३ ॥ शोभापरीतः कनकोपवीतो मौञ्जीधरो लब्धपलाशदण्डः। गायत्र्यमास्थाय महानुभावो व्रतं व्रतज्ञः स गुरावुवास॥ १२-४ ॥ अल्पेन कालेन समस्तविद्या आसादिताः सादविवर्जितेन। भावा इव प्राक्तनजन्मनिष्ठा उद्बोधिता बोधकसाहचर्यात्॥ १२-५ ॥ विद्याव्रतस्नानविधाविनीतो रामः स वीथीष्वपराजितायाः। भ्राम्यन् धनुर्बाणधरो धराया भारावतारं स्म विशंसतीव॥ १२-६ ॥ स सप्तमं बालकसत्तमोऽब्दं प्रविश्य बालैर्भरतादिभिश्च। क्रीडन् सरय्वाः पुलिनेषु लोकं रामोऽभिरामो रमयाम्बभूव॥ १२-७ ॥ सीतापि भूमानमथानुगन्तुमियेष धर्तुं ललनावतारम्। देवी विदेहेषु वसुन्धरातो वीचीं विना वारि कथं हि तिष्ठेत्॥ १२-८ ॥ साकेतलोकस्य च याधिदेवी सौन्दर्यसंव्रीडितकामवामा। सा शिक्षयन्ती पतिदैवताख्यं व्रतं भुवश्चावततार साक्षात्॥ १२-९ ॥ पद्भ्यां धरण्यामटतीह नाथो वन्द्या ततो मे वसुधानवद्या। मूर्ध्ना निवोढुं प्रभुपादरेणुं सीतेति भूमेः प्रकटा बभूव॥ १२-१० ॥ न मे पतिः स्यात्कुपतिः कदाचित्पालो भुवोऽप्यस्तु पतिर्ममेति। सापत्न्यमस्या इव वारयन्ती चकार सीता जननीं महीं स्वाम्॥ १२-११ ॥ सीरध्वजो नाम महान्महात्मा विदेहवंश्यो मिथिलाधिपोऽभूत्। यं याज्ञवल्क्यो विधिनानुशिष्य संसारभोगाद्विरतञ्चकार॥ १२-१२ ॥ आसन् भविष्यन्ति नृपाश्च सन्ति मिथ्याभिधाना वसुधाधिनाथाः। यथार्थनामा जनकस्तथैकः प्रमाणयिष्यत्यचिरेण सीता॥ १२-१३ ॥ भूमिं स भूपो बिभराम्बभूव पत्नीमिवार्यां बहुमन्यमानः। प्रलप्स्यतेऽतः प्रथमां प्रसूतिं सीताभिधानां श्रियमादिशक्तिम्॥ १२-१४ ॥ यो याज्ञवल्क्याब्जपदप्रसादाद्देहे सुगेहेऽप्यभवद्विदेहः। नारीकुचे हव्यभुजस्फुलिङ्गे किञ्चिद्विशेषं न विवेद विद्वान्॥ १२-१५ ॥ यं ब्रह्मवेत्तारमदभ्रबोधं सर्वे प्रणेमुर्भुवि योगिवर्याः। शुकोऽपि यद्वक्त्रविधुप्रसादसुधां प्रपीयाप विमुक्तिमीड्याम्॥ १२-१६ ॥ एवं प्रजाः पालयतः सतोऽस्य त्रेतायुगेऽप्यास्त कृतो महिम्ना। वेदान्तशास्त्रार्थगभीरपङ्क्तीर्धीरो जगादास्य गृहे सुकीरः॥ १२-१७ ॥ यस्याः सभा ब्राह्मणवृन्दजुष्टा पुर्यास्तुरीयं स्म मनत्युदारा। मिथेन कॢप्तां मिथिलापुरीं तां सोऽपालयद्दुग्धमतीप्रतिष्ठाम्॥ १२-१८ ॥ भोगी बहिश्चान्तरतो वियोगी रागी बहिश्चान्तरतो विरागी। यो योगभोगामलसम्पुटस्थमजूगुपद्राघवभक्तिरत्नम्॥ १२-१९ ॥ स एकदा कल्पितसोमयागः सीरध्वजो हस्तगृहीतसीरः। पत्नीद्वितीयो नृपतिश्च पुण्यारण्यं कृतारण्यमथाजगाम॥ १२-२० ॥ वप्तुं वशी सोमलतां धरण्यां सौम्यः शुचिः सोमसमानशीलः। क्षेत्रं समाक्रष्टुमना मनस्वी जग्राह जाम्बूनदलाङ्गलं सः॥ १२-२१ ॥ कृषीवलो दिव्यकृषेः कृशार्तिः कृषन् स भूमीमनुभूतभूमा। निर्मायमाणः स्वहलेन सीतां सीरी बभौ व्यूह इव द्वितीयः॥ १२-२२ ॥ यावन्महीमेष इयेष ईषत्क्रष्टुं नृपो लाङ्गलफालकेन। तावद्विदार्यावनिमेव साक्षात्सीता किशोरी प्रकटा बभूव॥ १२-२३ ॥ पूर्णामृतेवेन्दुकला पयोदात्प्रभेव भानोस्तुहिनान्महान्धात्। क्षीराम्बुधेः श्रीरिव रूपिणी सा सीता महीतः प्रकटा चकासे॥ १२-२४ ॥ सौवर्णसिंहासनमाश्रयन्ती विद्युन्निभा भूषणभूषिताङ्गी। सा षोडशी षोडशवर्षदेश्या सखीभिरष्टाभिरुपास्यमाना॥ १२-२५ ॥ तां चारुशीलाप्रमुखाश्च भेजुः सेवोपचारे कुशलाः कुमार्यः। गृहीतबालव्यजनातपत्राः सापत्रपाः स्मेरमुखारविन्दाः॥ १२-२६ ॥ शम्पासहस्रादधिकप्रकाशा कौशेयवासा शुकतुण्डनासा। पुर्णेन्दुहासा विलसद्विलासा सीता बभौ मण्डितभावनाशा॥ १२-२७ ॥ तां ब्रह्मविद्यामिव वन्दनीयां राकेन्दुलेखामिव चन्दनीयाम्। साम्राज्यलक्ष्मीमिव नन्दनीयां ननन्द दृष्ट्वा मिथिलाधिराजः॥ १२-२८ ॥ आश्चर्यविस्फारितनेत्रपद्मः कन्याललामेदमभीक्षमाणः। वितर्कयामास बुधस्तदीयरूपाब्धिसम्मग्नविवेकनौकः॥ १२-२९ ॥ केयं स्वलावण्यललामलक्ष्म्या कोटीन्दिरासौभगभागधेयम्। धत्ते तिरस्कृत्य पदं दृशोर्मे स्नेहास्पदं वत्सलमौरसीव॥ १२-३० ॥ निसर्गवैराग्यमयं मनो मे इमां समालोकयतोऽतिमात्रम्। पयोनिधेः पूर इवानुरक्तं राकामयीं सोममरीचिलेखाम्॥ १२-३१ ॥ गौरप्रभा षोडशवर्षदेश्या सत्कल्पनासर्ग इवाब्जयोनेः। अयोनिजापीयमशेषयोनिर्मनो हरन्तीव निसर्गसौम्या॥ १२-३२ ॥ सिंहासनस्था धृतधर्मसंस्था सयौवनापीयमनङ्गबाणैः। अस्पृष्टगात्रा रतिकोटिशोभा विधातुरेषा ननु सृष्टिबाह्या॥ १२-३३ ॥ ततोऽभवद्व्योमगिरा गिरीशगिरो महिम्नोऽतिशयेन नित्या। गरीयसी चारुविचारविज्ञमुर्वीशमुद्दिश्य महार्थगुर्वी॥ १२-३४ ॥ अलं महीशातिविचार्य चारुस्मिता सुतेयं तव मैथिलेन्द्र। प्रदाय तुभ्यं तनयां धरण्या त्वमेव तस्याः पतिरित्यसूचि॥ १२-३५ ॥ इयं महालक्ष्मिमयी च माया मायापतेर्माधवगेहलक्ष्मीः। भूत्वा सुता ते ननु माधवेयी त्वामेधयिष्यत्युदधिं रमेव॥ १२-३६ ॥ इमां सुतां लालय लब्धलाभः सञ्जीवनीं वैष्णवपुङ्गवानाम्। आचार्यवर्यां प्रथमामनिन्द्यां स्वां ब्रह्मविद्यामिव सर्वशक्तिम्॥ १२-३७ ॥ इतीरितायां गवि गागनेय्यां प्रशस्यमाने जनकाधिराजे। बभूव शब्दस्तुमुलस्त्रिलोकीव्यापी जनानां जय जानकीति॥ १२-३८ ॥ नेदुर्दिवो दुन्दुभयश्च भेर्यः शङ्खा मृदङ्गानकगोमुखाश्च। पेतुः प्रसूनानि च नान्दनानि सृष्टानि भक्त्या विबुधाङ्गनाभिः॥ १२-३९ ॥ जगुः कलं किन्नरचित्रसेनगन्धर्वमुख्याश्च सुगेशवर्याः। सीतावतारं सुविचित्रगीतं समुल्लसन्मङ्गलरागरक्तम्॥ १२-४० ॥ जय जय जनककिशोरि भुवनत्रयभाविनि हे। सीते जय रामचन्द्रचकोरि पतितकुलपावनि हे। चम्पकवर्णसमाभे सुजनभयवारिणि हे। जाता भुवनहिताय विदेहगृहे स्ववशविहारिणि हे। मिथिलाधरणिरतिधन्या सकललोकचन्दिनी हे। यत्र खेलति धृतबालरूपा जनककुलनन्दिनी हे। धन्या धन्या राज्ञी सुनयना माता जनकसुकृतमति हे। यस्या सुता भूता गिरिधरस्वामिनी सीता मुदा विलसति हे॥ १२-४१ ॥ अत्रान्तरे नारद आजगाम वीणां प्रवीणो रणयन्नुदाराम्। सत्सङ्ग ईड्यश्च यथा शरीरी प्रफुल्लराजीवसमानवक्त्रः॥ १२-४२ ॥ शरन्मृगाङ्कांशुनिसर्गगौरः स रौरवघ्नो धृतरौरवश्च। धृतोपवीतो महसा परीतो मूर्तो बभौ ब्राह्म इवेड्यधर्मः॥ १२-४३ ॥ प्रणन्तुकामो रघुनाथपत्नीं कृताञ्जलिर्मन्त्रविदां वरिष्ठः। आर्यां समुद्दिश्य परेशभार्यां मुनिर्जगौ मञ्जुलषोडशार्याः॥ १२-४४ ॥ आर्ये रघुवरभार्ये कृतसुरकार्ये नितान्तमविकार्ये। सकलसतीकुलवर्ये द्रव मैथिलि मद्विधेऽनार्ये॥ १२-४५ ॥ हीनं भवनिधिलीनं पीनं पातकपयोनिधेर्मीनम्। नारदमेनं खिन्नं पालय मातः शिशुं दीनम्॥ १२-४६ ॥ क्लिन्नं श्रमतः खिन्नं क्षुण्णं मात्रेषु सर्वतः खिन्नम्। रक्षतु राघवमहिषी क्षीणं विषयेष्वनिर्विण्णम्॥ १२-४७ ॥ भ्रष्टं शाश्वतमार्गात्प्लुष्टं त्रितापप्रचण्डदावाग्नौ। नष्टं क्लिष्टं चैनं स्वं बालं जानकी पातु॥ १२-४८ ॥ गीते श्रुतिछन्दोभिः स्मृतिभिर्मुनिभिश्च मानिशं भक्तैः। नीते परमविनीते सीते शीघ्रं शिशुं पाहि॥ १२-४९ ॥ मातर्यदि मम दोषान् कलयिष्यसि विमलमानसे कदाचित्। आकल्पं भवसिन्धोः पारं नाहं गमिष्यामि॥ १२-५० ॥ मातर्नृपवरदयिते मयि ते करुणा कथं न जायेत। करुणाब्धे करुणापः किं वा ते शुष्कतां याताः॥ १२-५१ ॥ क्रन्दत्येष विनाथः श्रीरघुनाथप्रियापुरो बालः। पालय राघवभामिनि भवयामिन्यां चिरं सुप्तम्॥ १२-५२ ॥ श्रुत्वा तव महिमानं श्रुतिकृतगानं त्वदीयपदपद्मम्। शरणागतं शरण्ये पालय मामम्ब करुणार्द्रे॥ १२-५३ ॥ मातस्तव तनुशोभां नहि गदितुं पारयेन्महेशोऽपि। सकलकलानिधिरामो यत्परमाणौ निमग्नोऽभूत्॥ १२-५४ ॥ नयनहरिणमलकाङ्कं सुदशनकान्तिसुकौमुदीसनाथम्। दृष्ट्वा यन्मुखचन्द्रं राघवनयनं चकोरोऽभूत्॥ १२-५५ ॥ मृद्वी मृणालगौरी जनककिशोरी किशोरमृद्वङ्गी। प्रभुमुखचन्द्रचकोरी सीता मां पातु भवभीतेः॥ १२-५६ ॥ जानकि जलरुहनेत्रे मित्रान्वयकञ्जमित्रपरमेष्टे। ईष्टे को मम दुःखं नाशयितुं त्वां विना मातः॥ १२-५७ ॥ धरणिसुते रमणीये रमणीजनवन्दनीयचरणाब्जे। सीते परमविनीते नाशय मे भीमभवभीतिम्॥ १२-५८ ॥ सुस्मितवदनसरोजे असितशिरोजैर्विलज्जदलिवृन्दैः। विगलदुरोजपयोभिः प्रीणय तोकं निजं मातः॥ १२-५९ ॥ रघुवरभामिनि भद्रे हृदिधृतशिशुममतामहासमुद्रे। वात्सल्यभावसान्द्रे मयि करुणां किं न विदधासि॥ १२-६० ॥ रूपं ह्यदो निन्दितकामवामं सङ्क्षिप्यतां राममनोऽभिरामम्। समागते स्वामिनि रामभद्रे भूयस्त्वमीदृग्भवितासि भद्रे॥ १२-६१ ॥ विधेहि भोः सम्प्रति बाललीलां प्रपन्नसङ्खेदविभेदशीलाम्। पुत्त्रीसुखं देहि नराधिपाय वेदान्तविद्येव विवित्सवे कम्॥ १२-६२ ॥ निशम्य वाचं जगदेकमाता सा नारदस्यार्थविशारदस्य। भूत्वा शिशुर्भावितबालभावं रुरोद कन्या कलकण्ठरावम्॥ १२-६३ ॥ उत्थाप्य कन्यां रुदतीं महर्षी राजद्रजोराशिनिगूढदेहाम्। ददौ विदेहाय बुभुत्सवेऽसौ वेदान्तविद्यामिव तामनिन्द्याम्॥ १२-६४ ॥ प्रकाशमानां कमनीयकन्यां समग्रहीन्नारदतो नरेन्द्रः। उपासिताद्भानुमतोऽथ शुक्लयजुःश्रुतिं स्वामिव याज्ञवल्क्यः॥ १२-६५ ॥ सा पांसुभिर्गुण्ठितसर्वगात्रा विद्युन्निभा दीपितदिग्दिगन्ता। भेजे श्रियं भूपतिहस्तयुग्मे स्थिताब्जखण्डे युवबालहंसी॥ १२-६६ ॥ भूयोऽवदन्नारद आर्द्रनेत्रपाथोरुहो रुद्धगलो गभीरम्। धन्योऽसि भूपालमणे त्रिलोक्यां न त्वादृशः सञ्चितपुण्यपुञ्जः॥ १२-६७ ॥ दिष्ट्या महाराज विवर्धसे त्वं विद्यामिवासाद्य परां विपश्चित्। इमां मुदा लालय लालनीयां पुत्त्रीं धरित्र्या जगतो जनित्रीम्॥ १२-६८ ॥ इयं तवेज्यातपसोः श्रुतस्य स्वेष्टस्य पूर्तस्य तथा मखानाम्। मूर्तं फलं रामकरारविन्दे समर्प्य योगीव भव प्रपन्नः॥ १२-६९ ॥ साक्षादिदं यच्चिदचिद्विशिष्टाद्वैतं परब्रह्ममयं च तत्त्वम्। तदेव ते भक्तिवशं महात्मन्मायासुतात्वं समुपेत्य भाति॥ १२-७० ॥ वैशाखमासे शुचि शुक्लपक्षे तिथौ नवम्यां शुभभौमवारे। मध्याह्नभानावभिजिन्मुहूर्ते सीतावतारक्षणमाहुराप्ताः॥ १२-७१ ॥ कान्तं गुणौघैः सिनुयात्सतीयं सीयेत कान्तेन भुजान्तराले। कुर्वंश्च सीतां त्वमिमामपश्यः सीतेति नाम्ना जगति श्रुता स्यात्॥ १२-७२ ॥ इत्युक्तवत्येव तदा सुरर्षौ मुदा गते गागनिकीं गवीशः। ननन्द दृष्ट्वावनिनन्दिनीं तां स नन्दिनीमेत्य यथा पयोधिः॥ १२-७३ ॥ इत्थं नृपः कल्पितसोमयागे कुर्वन् स सीतां समवाप्य सीताम्। सम्पाद्य यज्ञं स तयाथ पुण्यारण्यात्पुरं प्रापदिवात्मपूर्त्या॥ १२-७४ ॥ स ज्येष्ठपत्न्यै च पतिव्रतायै कन्यां कलाकान्तिकनत्कपोलाम्। ददौ पतिः प्रत्ययवान् प्रियायै स्वात्मेव मत्यै भगवत्प्रपत्तिम्॥ १२-७५ ॥ सुश्रोणिरेषा तनया पितॄणां नरेन्द्रतः प्राप्य सुतामनिन्द्याम्। यशस्विनी चातिबभौ भवानीं नारायणीमेत्य सुमेरुजेव॥ १२-७६ ॥ सा दम्पतीभ्यां परिलाल्यमाना सीता लसन्ती मिथिलानगर्याम्। दिने दिनेऽवर्धत शुक्लपक्षे चान्द्रीव लेखा नतसर्वलेखा॥ १२-७७ ॥ लक्ष्मीः स्वयं सेवितुमेव सीतां निजांशिनीं नम्रनदीशरीरा। कल्लोलसङ्गैः कमलाभिधाना तत्पादपद्मं कमलैः समार्चत्॥ १२-७८ ॥ ततस्तु सीतानुगतानुजाभिर्वृता सखीभिः सुमुखीभिरीड्या। चिक्रीड कन्या मिथिलानगर्याः कुञ्जेषु वीथीषु च वाटिकासु॥ १२-७९ ॥ यतो यतस्तामरसायताक्षी प्रवालचारू चरणौ स्म धत्ते। ततस्ततो भूमिरुरः सपद्मासनं शनैः सन्तनुते स्म मृद्वी॥ १२-८० ॥ क्वचिद्रहो राघवमञ्जुमूर्तिं हृत्स्थां मुदा पूजयितुं शुभाङ्गी। श्यामाब्जनेत्रासितवारिभिस्तां निनाय नीलामपि नीलिमानम्॥ १२-८१ ॥ आन्दोलिकाभिर्गुटिकाभ्रमर्या सा घोटकैर्नेत्रनिमीलिकाभिः। प्रसिद्धकेलीभिरमन्दसौख्या रेमे रमालालितपादपद्मा॥ १२-८२ ॥ क्वचिद्विवाहं पटपुत्त्रिकाणां तथाविधैश्चापि वरैर्विधाप्य। प्रतीक्ष्यमाणापि खरारिणा सा स्वकीयपाणिग्रहणं जहर्ष॥ १२-८३ ॥ सा चैकदा सर्वसखीसमेता सीता परीता महसाद्भुतेन। प्राचीं पुरः शारदशर्वरीशलेखेव लेखानुमता जगाम॥ १२-८४ ॥ ददर्श सा तत्र सुयज्ञशालामध्यासितं भूपतिमावनेयी। सीता धनुर्विज्यममन्दभक्त्या सम्पूजयन्तं पतितं पुरारेः॥ १२-८५ ॥ विज्ञातवृत्तापि च कौतुकाय पप्रच्छ पुत्त्री पितरं निदानम्। किं दैवतं ह्येतदहो धरण्यां निरस्तसत्त्वं भवतार्च्यतेऽद्धा॥ १२-८६ ॥ देवाः कदाचिन्न महीं स्पृशन्ति श्रुतं ममैतद्भवतो मुखाब्जात्। रजस्सखं ह्येतदहो विनाथं किं पूज्यते पूजितसर्वभूपैः॥ १२-८७ ॥ जगाद राजा परिलाल्य पुत्त्रीं नेदं सुते दैवतमीशचापम्। अवेहि चैतद्भृगुनन्दनेन संस्थापितं मे मिथिलाधरण्याम्॥ १२-८८ ॥ विज्यं प्रविध्वंसितधातृजेज्यं शम्भोः कराम्भोजसुखोचितं च। समस्तचैतन्यमयोऽपि यस्मै जडत्वमेवोपजहार विष्णुः॥ १२-८९ ॥ न्यासीकृतं कामविनाशिनेदं श्रीदेवराते हरिणेव कं के। ततः प्रभृत्येव समस्तभूपैः सम्पूजितं तद्धि मयापि भद्रे॥ १२-९० ॥ इत्युक्तवत्येव महामहीशे सीता विहस्येदमुवाच वाक्यम्। किमत्र संस्थेन जडेन तात निर्वास्यतां तन्मिथिलाधरण्याः॥ १२-९१ ॥ एवं निगद्याथ मरालगत्या गत्वा धनुर्वामकरे गृहीत्वा। चकर्ष सीता तरसाप्यभीता बालो यथा छत्त्रकदण्डमुच्चैः॥ १२-९२ ॥ सखीजने पश्यति भूपमौलौ निरीक्षमाणे धृतविस्मये च। भूमौ चकर्षातितरां हसन्ती कृत्वा स्वकं घोटकमेव चापम्॥ १२-९३ ॥ तां वारयामास वशी वराङ्गीं गृहीतपादां सहसा समेत्य। मा मा विकृष्येदममोघसत्त्वं सीते निधेहीति विनम्रवाचा॥ १२-९४ ॥ निधाय तत्तादृशमीशचापं प्रदर्श्य लोकोत्तरविक्रमञ्च। पितुः प्रमोदामलकैरवस्य सा कौमुदी मातृगृहं प्रतस्थे॥ १२-९५ ॥ सुरासुरा दानवयक्षनागा गन्धर्वविद्याधरकिन्नराश्च। न यत्क्षमाश्चालयितुं प्रयत्नान्नाम्ना पिनाकं श्रुतनामनाकम्॥ १२-९६ ॥ तदेव सीता करपङ्कजेन प्रकृष्यमाणं रजसातिधूम्रम्। रराज राजीवमिवातिमात्रं क्लिष्टं बलात्कुञ्जरराजपुत्त्री॥ १२-९७ ॥ तत्कर्म लोकोत्तरमत्युदारमभूतपूर्वं रिपुसैन्धवोर्वम्। देवाः शशंसुर्ववृषुः प्रसूनैर्जगाद लोको जय जानकीति॥ १२-९८ ॥ उदन्तमाकर्ण्य सखीजनोक्तं पुत्त्र्या बलं वासवविस्मयाढ्यम्। चुचुम्ब माता महनीयकीर्तिं सुतां समागूह्य निजाञ्चलेन॥ १२-९९ ॥ इदमवनिसुताया दिव्यवृत्तं समाधौ महति मनसि रामो दृष्टवाञ्छक्रशैले। उषसि जनकपुत्त्रीं तां नमस्कर्तुकामो रविरिव मिथिलां द्यां भार्गवः सम्प्रतस्थे॥ १२-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गोऽर्कसञ्ज्ञः कविरामभद्राचार्यप्रणीतेऽस्तु श्रियै जनानाम्॥ १२-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीमैथिल्यवतरणं नाम द्वादशः सर्गः।