दशमः सर्गः


निहत्य तं संयति कार्तवीर्यं सपुत्त्रपौत्त्रामितसैन्यवीरम्। रामो रमेशांशकलाकलापो निर्विज्यचापो गिरिमध्युवास॥ १०-१ ॥ गिरौ वसन् वल्कलवस्त्रवासी राशीभवन् ब्राह्मणसद्गुणानाम्। काशीशपादाम्बुजचित्तवृत्तिराशीरिवासीद्द्विजदेवतानाम्॥ १०-२ ॥ अव्याहता शम्भुवरप्रसादाद्गतिर्गतिज्ञस्य महामहिम्नः। ब्रह्माण्डकोटिष्वपि नो विजघ्ने भूतेष्विवोत्सङ्गभुवो द्विजेन्दोः॥ १०-३ ॥ अनेकशः शुद्धसुविप्रबालान् स शिक्षयन्नास्त समस्तशास्त्रम्। अध्यापनं वेदमुखं द्विजानां निर्हैतुकं धर्ममुदाहरन्ति॥ १०-४ ॥ निःस्वार्थविप्रः सुबटुं कुलीनं प्रध्यापयेच्चेच्छ्रुतिमूलशास्त्रम्। वैकुण्ठलोके स महीयमानो ब्रह्माप्नुयाच्छास्त्रधनो हि विद्वान्॥ १०-५ ॥ ये छात्त्रतः किञ्चिदिहाहरन्ति विप्रा न ते ब्राह्मणलाञ्छनानि। पुत्त्रीयति च्छात्त्रममोघविद्ये विप्रे श्रुतिर्वर्षति वत्सलाम्भः॥ १०-६ ॥ अभेदबुद्धिः सुतशिष्ययोर्यः षट्कर्मसन्त्याजितषड्विकारः। त्रिकालसन्ध्यो विहिताग्निहोत्रः स ब्राह्मणो देव इहास्ति साक्षात्॥ १०-७ ॥ एवं भृगूणां प्रवरोऽनवद्यो मुखप्रभाव्रीडितपार्वणेन्दुः। समाचरन् ब्राह्मणवर्णधर्मान् जिगाय लोकान्तपसा समस्तान्॥ १०-८ ॥ स ब्रह्मचर्यव्रतिनां वरिष्ठो जितेन्द्रियो ब्राह्मणधर्मनिष्ठः। गतस्पृहस्त्यक्तसमस्तभोगो रोगानशेषान् विनिनाय चैत्यान्॥ १०-९ ॥ दिने भ्रमंस्तापसवृन्दगेहान् लोकान् पुनानः पदपङ्कजाभ्याम्। रात्रौ गिरावास्त स कश्यपाज्ञां सम्मन्यमानो जननीमिवाद्यः॥ १०-१० ॥ कदाचिदास्थाय विविक्तदेशं मतिं समाधाय महानुभावः। विचारयन् विग्नमना मनस्वी स्वपूर्वकृत्यं न स साधु मेने॥ १०-११ ॥ अहो मयाकार्यमकारि नूनं क्रोधौर्वसंशुष्कशमार्णवेन। यद्ब्रह्मणः शाश्वतसारभूतां क्षमां जहामि स्म मणिं फणीव॥ १०-१२ ॥ क्षमा धनं ब्राह्मणपुङ्गवानां तामत्यजं क्रोधवशंवदोऽहम्। सोऽयं निरस्ताखिलसारसत्त्वो भस्त्रेव जीवामि मृतो जगत्याम्॥ १०-१३ ॥ तातं हतं जीवयितुं क्षमोऽपि यत्क्षत्त्रियाणां कदनं ह्यकार्षम्। तन्नानुरूपं विमलान्वयस्य धिङ्मां नृशंसं कृतजीवहिंसम्॥ १०-१४ ॥ सर्पोऽपि बालेषु दयां करोति क्रूरं प्रकृत्या परमं यमाहुः। गर्भार्भकाणां प्रविधाय हत्यामहं ततः क्रूरतरोऽस्मि जातः॥ १०-१५ ॥ त्रिसप्तकृत्वो जगतीमनिन्द्यां विधाय वीर्याद्विधवामिवाहम्। तदश्रुधाराकलुषीकृतात्मा वाच्यो न किं स्यां भुवनेषु मन्दः॥ १०-१६ ॥ पिताऽपि सप्तर्षिगणं प्रविष्टो दीर्घायुराप्तो विशदप्रतिष्ठः। परं यशश्चन्द्रगतं कलङ्कं निर्दोषहत्याख्यमहं बिभर्मि॥ १०-१७ ॥ यद्वा न चैते पतयो धरण्या भारायमाणाः कृतकिल्बिषाश्च। तानेव हत्वा निशितैः क्षुरप्रैः लघूकृतो भूमिभरो मयाऽयम्॥ १०-१८ ॥ तथापि तत्खेदविनोदनार्थं विनिश्चितो मे परमः प्रयत्नः। भूत्वा परब्रह्म मनुष्यलिङ्गं रामाख्यमेतत्तनयापतिः स्यात्॥ १०-१९ ॥ भूमेश्च जामातृवराय भूम्ने शस्त्रच्छलेनार्पितकार्यभारः। तं क्षामयन् पूर्वकृतापराधान् वात्सल्यपात्रं भविता क्षमायाः॥ १०-२० ॥ यद्यप्ययं संयति कार्तवीर्यो नीतो मया वीरगतिं तथापि। भारो हि भूमेरधुनापि जाग्रत्स रावणो रावयति त्रिलोकीम्॥ १०-२१ ॥ न रावणो व्यक्तिविशेष एष प्रतीकभूतः खलसंस्कृतेश्च। तन्नाशने नाहमलं लघुत्वाद्ध्वान्तं न चोडुः क्षमते निहन्तुम्॥ १०-२२ ॥ रामः स्वरूपं हि मनुष्यताया राष्ट्रस्य वै मङ्गलनामधेयम्। स एव हत्वा दशकण्ठमाजौ लोकान् समस्तान् सुखिनो विदध्यात्॥ १०-२३ ॥ हे राम हे राघव रावणारे हे जानकीनेत्रचकोरचन्द्र। हे दीनबन्धो करुणैकसिन्धो त्रायस्व लोकं ननु राक्षसेन्द्रात्॥ १०-२४ ॥ इति व्यवस्यात्मनि भार्गवेन्द्रः प्रणम्य रामं प्रभविष्णुमीशम्। तेपे तपस्तापितषड्विकारस्तपःप्रधानं किल विप्रमाहुः॥ १०-२५ ॥ तस्मिन् हते संयति कार्तवीर्ये कुठारहस्तेन च भार्गवेण। लङ्केश्वरोऽपास्तसमस्तशङ्को निरङ्कुशो मत्तकरीव जातः॥ १०-२६ ॥ क्रीडामृगो येन कृतोऽङ्गनानां वन्दीकृतो भग्नबलावलेपः। तस्मिन्मृते राक्षसराजराजो निष्कण्टकं लोकमिमं स मेने॥ १०-२७ ॥ हते प्रतिद्वन्द्विनि हैहयेशे स रावणो घोरतरो बभूव। राहूपरागापगमे पपीर्वा पापी प्रभावोद्धतभूरिबाहुः॥ १०-२८ ॥ पुलस्त्यवंशामलचन्द्रमोऽङ्कः पौलस्त्यपुत्त्राम्बुधिनीचपङ्कः। विरञ्चिसृष्टीन्दुकलाकलङ्को लोकान् समस्तान् स्म रुजत्यशङ्कः॥ १०-२९ ॥ मन्दोदरीकम्रकलत्रकान्तः स्ववीर्यसङ्क्षोभितदिग्दिगन्तः। उत्खातदिक्कुञ्जरदिव्यदन्तो दशाननोऽभूद्बलवान् दुरन्तः॥ १०-३० ॥ विरञ्चितो लब्धवरोऽतिधृष्टः स्वमौलिमालार्चितचन्द्रचूडः। प्रवृद्धपङ्क्तिद्वयबाहुदण्डसिन्धुष्वमर्त्यान् जलयाम्बभूव॥ १०-३१ ॥ सकुम्भकर्णानुजवीर्यविश्वविश्वासकृच्छक्रसपत्नपुत्त्रः। रेजे विषाणद्वयदत्तदर्पो दशाननो दानकरीव मत्तः॥ १०-३२ ॥ जहार यक्षामरनागकन्या लुलुण्ठ रत्नानि दिवौकसां सः। विरावयन् रावण आर्तलोकान् तृणाय मत्वा विबुधान् बबाधे॥ १०-३३ ॥ राजद्भवानीभवभूतभव्यं कैलासमुत्तोल्य कुतूहलेन। स्वकन्दुकीकृत्य कलं कराग्रैः खेलन् सखेलं भ्रमयाम्बभूव॥ १०-३४ ॥ एवं विजित्यामरराजलोकं स बाधमानोऽखिलजीवलोकम्। दशाननावग्रह उग्रवीर्यः संशोषयामास मरुत्सुशस्यम्॥ १०-३५ ॥ निर्मथ्य देवान् स विजित्य राज्ञो निहत्य वीरान् दशतीव्रधन्ध्वा। लङ्केश्वरो रोषणविक्रमोऽयं सुधर्मशीलान् व्यथयाम्बभूव॥ १०-३६ ॥ नैनं प्रकामं सविता तताप तदङ्गनामण्डनतान्तिभीरुः। रात्रौ निशेशोऽपि निशाचरेशं सुधामयूखैः शिशिरैः सिषेवे॥ १०-३७ ॥ अशोकपत्त्रावलिपातभीत्या मन्दं ववौ वायुरतीव तस्य। निजातपत्रप्रहितः प्रचेतास्तं वारयामास सदातपेभ्यः॥ १०-३८ ॥ न यज्ञयागा न च धर्मचर्या न वा पुराणानि न वेदपाठः। अधर्ममूलां जगतीं विधाय धर्मस्य चक्रे निरपेक्षवादम्॥ १०-३९ ॥ तस्मिन् प्रधावत्यभिदेवलोकं वीर्योद्धते रावण उग्रवेगे। भूमिर्जले मत्तगजेन्द्ररूढा प्रकम्पिता नौरिव वातमूढा॥ १०-४० ॥ जाता यदा धर्ममयस्य हानिः सुदुःसहा कारणपूरुषस्य। तदैव गोरूपधरा धरित्री शृङ्गं सुमेरो रुदती जगाम॥ १०-४१ ॥ ब्रह्मा तया साकमथेन्दुमौलिं निवेद्य तेनापि सहाजगाम। साकेतलोकं विरजं विशोकं करीव तप्तश्च सुधातडागम्॥ १०-४२ ॥ स रत्नसिंहासनमादिदेवं देवाधिदेवं श्रितसर्वसेवम्। ददर्श नीलाब्जघनावदातं सीतापतिं सेवकपारिजातम्॥ १०-४३ ॥ दूर्वादलाम्भोजतमालकन्दकलिन्दजातीसिमयूरकण्ठैः। दत्तोपमां कोटिमनोजशोभां प्रबिभ्रतं श्यामलमूर्तिमीड्याम्॥ १०-४४ ॥ मुनीन्द्रसन्मानसराजहंसनीडायितं रामपदारविन्दम्। मन्दाकिनी यन्मकरन्दभूता पूता समस्तं भुवनं पुनाति॥ १०-४५ ॥ वसन्तबालार्ककराभिरामं कदम्बकिञ्जल्कलसल्ललामम्। सुकिङ्किणीमण्डितचारुकट्या पीतं वसानं पटमप्रमेयम्॥ १०-४६ ॥ कलिन्दजावर्तसमाननाभिं स्वल्पोदरं तं त्रिवलीमनोज्ञम्। निगूढजत्रुं हतसर्वशत्रुं निसर्गदृक्स्वस्त्ययनं सुराणाम्॥ १०-४७ ॥ सीतासमालिङ्गनलब्धरोमश्रीवत्सलक्ष्माङ्कितविप्रपादम्। वक्षो लसत्कौस्तुभसक्तकण्ठं केयूरमालादिविभूषणाढ्यम्॥ १०-४८ ॥ आजानुबाहुं रिपुचन्द्रराहुं शुभे निषङ्गेऽसुरदर्पभङ्गे। दधानमिभ्यारिसमप्रभावस्कन्धं यथा वीररसं धृताङ्गम्॥ १०-४९ ॥ सुवर्णपुङ्खाशुगमण्डिताभमधिज्यचापं स्वकरे दधानम्। सुरेन्द्रचापाश्रितसौभगश्रीप्रावृट्पयोवाहमिवात्तदेहम्॥ १०-५० ॥ कठोरराकेन्दुसमाभिरामं समुल्लसत्कुण्डलसत्कपोलम्। नवीनराजीवदृगाननं यन्मन्दस्मितं तस्य जनस्पृहार्हम्॥ १०-५१ ॥ लसल्ललाटे रुचिरोर्ध्वपुण्ड्रं श्रीमध्यगं सादरमादधानम्। नीलाद्रिमुच्चैः कलितत्रिवेणीं सम्भावयन्तं ननु तीर्थराजम्॥ १०-५२ ॥ किरीटमध्यादथ तस्य केशाश्चकासिरे वक्रतयाभिरामाः। मन्ये सुधालोभत एव भृङ्गा अभीन्दुमेते चटुला बभूवुः॥ १०-५३ ॥ विराजमानामथ वामभागे सीतां लसच्चम्पकचारुशोभाम्। नीलाम्बुदं भूषयितुं च शम्पां स्थितामिवाश्रित्य सुतारकालीम्॥ १०-५४ ॥ निरीक्ष्य तं योगिदुरापमूर्तिं सीताभिरामं नरदेवलिङ्गम्। ब्रह्मा चतुर्भिर्वदनैश्च भक्त्या प्रचक्रमे स्तोतुमनल्पवृत्तैः॥ १०-५५ ॥ जय जय जानकीनयननीरजमेषरवे चरितसुधाब्धिमग्नमुनिसिद्धसुरेन्द्रकवे। जहि जहि रावणं समिति पादनमत्त्रिदशं हर हर भूतलस्य भरमीश निरस्तरसम्॥ १०-५६ ॥ जय जय जानकीवदनचन्द्रचकोर विभो जय जय जाह्नवीजनकपादपयोज प्रभो। तव चरणारविन्दशरणान्मरणाभिमुखा- नव भवभाववश्य विबुधान् हृतसर्वसुखान्॥ १०-५७ ॥ जय जय जानकीहृदयहर्षपयोधिविधो त्रिदिवमनाथमात्मशरणं हृदि विद्धि विधो। सदय विधत्स्व धत्स्व करुणां नृपमौलिमणे दमय दशाननं दमितदूषण घोररणे॥ १०-५८ ॥ जय जय जानकीश करुणावरुणालय हे त्रिजगदिदं विनष्टविभवं परिपालय हे। विततमनाथनाथ विरुदं विनिभालय हे धरणिमुपेहि दीनजनतामनुलालय हे॥ १०-५९ ॥ जय जय जानकीरमण माधव माधिपते निजजनशोकसिन्धुघटज व्रतमञ्जुमते। सुरकुलशालिमम्बुभिरलं सुजनैकगते भुवमभिवर्ष तर्षमभितो हर हाररते॥ १०-६० ॥ जय जय जानकीसरसिजाननभृङ्गमनः कुरु करुणां सुरेषु भवतात्तव तेषु मनः। अलमधमेषु राम दयया दमयस्व खलं निशितशरैर्निहत्य निशिचारिणमात्तबलम्॥ १०-६१ ॥ जय जय जानकीहरिवधूवरवीर हरे त्वयि वयमाश्रिता सुरवरे रणधीरवरे। जहि जहि जिह्ममेनमिव जम्भममर्त्यपतिः पुनरुदियात्सुरेषु तव पादसरोजरतिः॥ १०-६२ ॥ जय जय जानकीमधुरमानसमन्दिर हे भव भवभीमवारिनिधिमङ्गलमन्दर हे। प्रणतपदाब्जदेवनिकरे करुणा क्रियतां शितशरतीर्थमेत्य दशमौलिरयं म्रियताम्॥ १०-६३ ॥ अगुणमलेपमेकरसमद्वयमेकमजं तदिह विदुः सरूपगुणधाममुपास्तगुणम्। भिदमुभयोर्वदन्ति यदिहाश्रुतिसारविदो नरकममी पतन्ति परमेश्वरभेददृशः॥ १०-६४ ॥ जलहिमतुल्यमेकमुभयं सगुणं ह्यगुणं यदगुणमेकमनादि तत्सगुणमप्यमलम्। प्रकटगुणं सगुणं वदन्ति भवकन्तममी अगुणमतस्तिरोहितगुणं कथयन्ति बुधाः॥ १०-६५ ॥ यदि सगुणो भवान् सकलसद्गुणवान् न भवे- द्वयमिव तन्महाभवसमुद्रनिमग्ननराः। कथमु तरेयुरीयुरथ पारमपारनिधेः किमु खलु कोऽपि कूपमपि रज्जुमुपेक्ष्य तरेत्॥ १०-६६ ॥ यदगुणमस्तसर्वगुणकं प्रलपन्त्यबुधा- स्तदिह न जानते विमलवेदनिगूढगिरः। यदगुणकं तदेव सगुणं द्वयमेकमहो द्रुतघनयोर्जलस्य वपुषोः किमु तत्त्वभिदा॥ १०-६७ ॥ प्रकटयसे यदा स्वजनभावरिरक्षिषया गुणनिकरांस्तदैव सगुणं समुयन्ति जनाः। भवसि यदा निलीनगुणकस्त्वमहेतुतया विबुधगणास्तदाहुरगुणं भवकन्तमिमे॥ १०-६८ ॥ त्वमसि समाकृतिमांस्त्वमेव च निराकृतिक- स्त्वमगुणकस्त्वमेव सगुणः श्रुतिसारमिमम्। इति मुनयो विभाव्य भगवंस्तव पादयुग- प्लवमधिरुह्य तेरुरथ घोरनिधिं मुदिताः॥ १०-६९ ॥ नहि खलु मायिका भवति देव समस्तगुणा भुवनभवाय भान्ति भवतीव नभस्युडवः। गुणगुणिनो स्वरूपमनुबन्धमयुः श्रुतयः प्रजहति नो भवन्तमिव वारि रसः सुगुणाः॥ १०-७० ॥ त्वयि सगुणत्वमेव भगवंस्त्वयि चागुणता द्वयमपि मङ्गलाय भवतः पदकञ्जजुषाम्। सगुणतनौ तथापि रमते मम राम मनः किमु मधुपो विहाय वनजं मधुकेऽभिरमत्॥ १०-७१ ॥ अकलमयुर्दुरूहमगुणं सुलभं सगुणं तदिह वयं भजाम सगुणं भवभीतिमयाः। भवसि यदा निरस्तपरिहेयगुणोऽप्यगुणः पुनरथ भासि दिव्यसुगुणैर्भगवन् सगुणः॥ १०-७२ ॥ तव विहितावतारमपि रूपमखण्डमजं विकृतिमुपैति नैव भगवन् क्वचिदप्यनघम्। नहि विरजञ्च नीरमपि नीरजसङ्कुलितं कमलमलं जलं प्रकुरुतेऽमलमालिकुलम्॥ १०-७३ ॥ अवतरणञ्च ये यदरणं भवभीतिमतां यदि न भवेद्भवाय भगवन्मघवानघवान्। कथमिव पालयेज्जगदसौ खलभग्नबलो वयमपि किं भवेम सुखिनो हृतगेहधनाः॥ १०-७४ ॥ अनवतरन् भवानहह वेत्तु किमार्तजनान् कथमथ तारयेत्पतितलोकमशोकमनाः। चरितमहामृतामरनदीमवगाह्य कथं वयमथ रामभद्र भवतोऽभिभवेम रुजम्॥ १०-७५ ॥ नहि तव जन्म कर्म परिपाकवशं भगवं- स्त्वमथ न लिप्यसे वियदिवाखिलकर्मफलैः। इति सुधियो धिया धृतभवत्करुणैकबला- स्तृणमिव कर्मबन्धमपि भङ्क्तुमिभाः प्रभवः॥ १०-७६ ॥ नहि तव नामरूपगुणजन्मचरित्रकथाः कथयितुमीष्ट एष जन ईष्टनिसर्गतया। यदि शतकोटिशेषशिवनारदवेदगिरो गदितुमलं रजांसि धरणेर्ननु को गणयेत्॥ १०-७७ ॥ भवदवतारचारुचरितं श्रुतिसोममयं सकृदपि ये पिबन्ति महदिन्दुमुखाद्गलितम्। तृणमिव ते जहत्यहह मोक्षमुत त्रिदिवं क्वचिदपि किं चकोर इह निम्बरसे रुचिमान्॥ १०-७८ ॥ तदलमहो विलम्ब्य करुणाघनसोमघटा घटयतु वृष्टिसृष्टिमभिभारतशस्यकुलम्। दमय दशास्यनामदुरवग्रहकं भगवन् शमय शुचातपं तपनवंशकृतप्रभवः॥ १०-७९ ॥ तव करुणा न चेद्भवति देवगणे भगवन् कथमथ मुच्यतां सुरचयो दशकण्ठवशात्। शरणमुपेत्य किं विबुधवृक्षमनाप्तफलो म्रियत इलाभयाप्तविभवैः परिभूतमनाः॥ १०-८० ॥ भवदवतारहेतुरधिमर्त्यमनार्यवध इति य इहामनन्ति किल तेऽज्ञशिरोमणयः। भृकुटिविलासमात्रविहिताण्डकटाहलयः किमु मशकं जिघांसुरवनावथ सोऽवतरेत्॥ १०-८१ ॥ निजजनकञ्जभावमकरन्दपिपासुरलं मधुपवरोऽवतीर्य तनुषे विरुदं विशदम्। तव चरितानिमेषसरिति प्रनिमज्ज्य जनाः सुखमुपयन्ति भग्नभवभानुशुचः शुचयः॥ १०-८२ ॥ अवसि जनान् जनार्दन जगद्विषयानलतः पतितकुलञ्च तारयसि घोरभवाम्बुनिधेः। इममवतारसारमवधार्य वयं विबुधा- स्तव पदपद्ममेत्य निभृता विगताभिभवाः॥ १०-८३ ॥ रघुवर रामभद्र भवभावन भावनिधे त्वमसि पिता त्वमेव जननी त्वमथासि सखा। सदय दयस्व दत्स्व विभयं पदपद्मजुषां त्वमसि कृपानिधान शरणं भवभीतिमताम्॥ १०-८४ ॥ जलधरनीलशीलसुषमासमतासदनं शरदमलेन्दुवारिजविभाविलसद्वदनम्। अशरणसिद्धयोगिमुनिनाकसदां शरणं चरणसरोजमेत्य विनताः समजाहरणम्॥ १०-८५ ॥ अवतर भारतेऽपहर भूतलभूरिभरं विघटय कुञ्जरारिरिव वैरिगजेन्द्रघटाम्। दशमुखमौलिमञ्जुतरमस्तकमालिकया गिरिशमपीह पूजयतु ते रणताण्डवकम्॥ १०-८६ ॥ इति निगद्य गिरो गिर ईश्वरो रुचिररोचिषमम्बुदसुन्दरम्। प्रणिननाम ननाम मरुद्गणो गणितरावणबाणतनुव्रणः॥ १०-८७ ॥ तमगदद्गदिताक्षरगद्गदं गतसुखं सुखमुक्तचतुर्मुखम्। विधिमलोकितरावणभीविधिं बुधमिवाथ विधुर्विहसन् विधुः॥ १०-८८ ॥ दशनदीधितिभिर्विदिशो दिशो वितिमिरा विदधत्करुणालयः। स्मितमिषेण समांस्त्रिदशानसौ विमृडयन् सुधयेव जगत्पतिः॥ १०-८९ ॥ अलमहो विबुधाः परिदेवनैर्भवत लब्धसुखा मयि तिष्ठति। पितरि जीवति सत्यपि सूनवो भययुता यदि धिक्पितरं तदा॥ १०-९० ॥ भवत विज्वरका ज्वरकातरास्तरत भीषणशोकमहाम्बुधिम्। सपदि पश्यत पांशुविगुण्ठितं दशमुखं मुखभिन्नशिलीमुखम्॥ १०-९१ ॥ अहमजोऽपि निरस्तमलोऽपि सन् प्रकृतिमास्थित एव गुणाश्रयः। अगुणकोऽपि मुदा सगुणो भवन्नवतरेयमहो ह्यधिकोसलम्॥ १०-९२ ॥ भरतलक्ष्मणशत्रुनिषूदनैस्त्रिभिरथो स्वशुभांशकविष्णुभिः। समवतीर्य च भारतमेदिनीं धवलयेयमलं गुणरश्मिभिः॥ १०-९३ ॥ दशरथस्य गृहे गतविग्रहे नरपतेश्च लसद्गुणसङ्ग्रहे। समवतीर्य तदीयसुतो भवन्निहतरावणको भवितास्मि भोः॥ १०-९४ ॥ सपदि मामनुशक्तिमयी मम प्रियतमेव विधुं किल रोहिणी। अवतरिष्यति भूजननी भुवि जनकृतेऽशिथिला मिथिलापुरे॥ १०-९५ ॥ व्रजत मेऽनुचरा ससुखाः सुरा भवत वानरदेहभृतो वने। मम सदागमनं प्रतिपाल्यतां मकरभानुरिवोत्तमवासरैः॥ १०-९६ ॥ परिविभूषयितुं च मनुष्यतां सपदि दूषयितुं खलसंस्कृतिम्। अवतरामि चरामि च भूतलं प्रविचरामि चरामि सुखं सताम्॥ १०-९७ ॥ अवधधाम्नि सुधाम्नि धराशिरोवरललाम्नि सुनाम्नि शिशुर्भवन्। सुखयितास्मि ततं जननीं तथा विमलभारतवर्षवसुन्धराम्॥ १०-९८ ॥ इति रघुपतिवाक्सुधासनाथाः कमभिनतामृतजीविताः सुरास्ते। चरणनलिनसौरभाभितृप्ता दिवस इवालय आगता स्वधाम्नः॥ १०-९९ ॥ श्रीरामः सह सीतया स भगवान् सम्मन्त्र्य साध्व्या रहः संहर्तुं दुरवग्रहं गुरुभरं रक्षोमयं रावणम्। कर्तुं चापि विनिश्चिकाय जननीभूमीमयोध्यां जनेः कौसल्यां सह नीरदस्य तडिता बिभ्रद्विरेजे श्रियम्॥ १०-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः प्रणीते कविरामभद्राचार्येण भूयाद्दशमः श्रियै नः॥ १०-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीराघवाविर्भावो नाम दशमः सर्गः।