त्रयोदशः सर्गः


सीता पितृभ्यां परिपाल्यमाना स्नेहामृतेनेव समेधिताङ्गी। विलङ्घ्य पौगण्डवयः किशोरी बभूव चित्रं न जगज्जनन्याम्॥ १३-१ ॥ स्वलीलयासादितसर्वविद्या विज्ञा विनाचार्यकुले निवासम्। सा शिक्षयामास सखीः स्वसॄस्ता लोकोत्तराणां सकलं ह्यपूर्वम्॥ १३-२ ॥ अथ स्थलीं कामसखेव वन्यां शाखामिवाम्रस्य फलप्रसूतिः। तनुं च शालीनतयेव तस्याः पदं दधौ यौवनमार्जवाढ्यम्॥ १३-३ ॥ सा षोडशी वार्धितषोडशार्यकला कलाहोभिरमोघसत्त्वा। श्रीरामचन्द्रेण समायियासुः पूर्णाभवत्पार्वणपौर्णमासी॥ १३-४ ॥ वाचा पिकीं मञ्जुमृगीं दृशीभ्यां ज्योत्स्नां स्मितैर्वारिशयं शयाभ्याम्। गत्या मरालीं रतिमात्मकान्त्या सा लज्जयन्ती ललना ललास॥ १३-५ ॥ निसर्गबालोचितसर्वचेष्टाः सचापला नद्य इवाप्तपूराः। तस्या निलिल्युर्नवयौवनाब्धौ रामेन्दवे प्रेमतरङ्गसङ्गे॥ १३-६ ॥ समेधमानं रघुवंशकेतौ भावञ्च विन्ध्याद्रिमिवाप्रमेयम्। सारूरुधत्कुम्भभुवेव भव्या धैर्येण कन्या हि पितर्यधीना॥ १३-७ ॥ सदान्तिकस्था अपि चान्तरङ्गाः सख्यः स्वसारोऽपि तदन्तरालिम्। रामाब्जसङ्गं नहि चावजग्मुर्निसर्गगूढा हि महद्विचेष्टाः॥ १३-८ ॥ सीमन्तसंवेष्टितकुन्तलानि वक्राणि मूर्ध्ना प्रमुदा वहन्ती। प्रपन्नजीवोपधिकालिमानं सदैव सा स्मापजिहीर्षतीव॥ १३-९ ॥ सुचञ्चलाभ्यां श्रुतिकुण्डलाभ्यां मीनाकृतिभ्यामिव मीनकेतुम्। श्रीरामपादाब्जयुगप्रपत्त्या संयोज्य तस्मै विभयं दधाना॥ १३-१० ॥ नवीनराजीवमृगीदृगाभे दृशौ च वात्सल्यवृषौ वराङ्ग्याः। पत्त्रीभविष्यद्विभवे भविष्यत्यानन्दकन्देन्दुकृते कृतार्थे॥ १३-११ ॥ तस्याः प्रवालोपमिताधरोष्ठे तारुण्यजन्मारुणिमास्मितश्रीः। पीयूषकृद्दीधितिविष्टरस्थभौमश्रियं शुक्ररुचा बभार॥ १३-१२ ॥ तस्याः सरोजाभकपोलमध्ये तिलोत्तमः श्यामरुचा चकासे। शङ्के प्रियोऽभूदितराभिलाषतिलाञ्जलिर्लब्धतिलस्वरूपः॥ १३-१३ ॥ कीराङ्गनानिन्दकचारुनासावलम्बिमुक्ता वदनोत्तरोष्ठम्। चुचुम्ब चान्द्रीं सुषमां दधाना प्रवालपत्त्रीमिति मे वितर्कः॥ १३-१४ ॥ ऐश्वर्यमाधुर्यमयौ मनोभूमृणालमालोपममञ्जुबाहू। कमेष्यतो यौ नवकञ्जमालाजयश्रिया राममलङ्करिष्णू॥ १३-१५ ॥ कपोतकण्ठ्या दरचारुकण्ठो बभौ भवानीभवभावितायाः। मन्ये तदानन्दनिमित्तपाणिपयोजदाम्ने स्पृहयालुरस्याः॥ १३-१६ ॥ वक्षोरुहोत्सेधनिरन्तरालं वक्षो लसद्वत्सलवारिधारम्। यत्कौस्तुभाघट्टविमर्दहृद्यसुमञ्जुमालं लसिता प्रियेण॥ १३-१७ ॥ हारं हरिन्नीलमणिप्रवेकमुक्तामयं तद्धृदये स्म भाति। सौन्दर्यमाधुर्यगुणाभिरामं रामं द्विधैषेव हृदा स्म धत्ते॥ १३-१८ ॥ सा नीलशाट्यां प्रविलीनगात्रा नीलांशुका कुञ्चितनीलकेशी। रेजे चिरं नीलसरोरुहाक्षी नीलाम्बुदानीकगतेव विद्युत्॥ १३-१९ ॥ त्रैलोक्यलावण्यललामलक्ष्मीर्लक्ष्म्याश्च लक्ष्मी रघुराजलक्ष्मीः। लक्ष्मीर्लसन्तीव विदेहगेहे लक्ष्मीसहस्रं लघयाञ्चकार॥ १३-२० ॥ सा मत्तमातङ्गसुतासमानगतिर्गतिज्ञा जगतामभिज्ञा। स्वपादचारैर्विविधोपचारैर्मुदा व्यहार्षीन्मिथिलेशगेहे॥ १३-२१ ॥ षड्वर्षदेश्यापि हरेर्निदेश्या व्यदर्शि सा षोडशवर्षकल्पा। सङ्कल्पसङ्कल्पितसर्वसृष्टिर्मायामहीपालसुतायमाना॥ १३-२२ ॥ तामेकदा वीक्ष्य विदेहराजः कन्यां किशोरीं जितकोटिगौरीम्। भर्त्रे वृषस्यद्वपुषं विभाव्य व्यचिन्तयद्विग्नमना विविक्ते॥ १३-२३ ॥ अहो सुता मे सुभगा सुयोग्या विवाहयोग्या भवभव्यभोग्या। कस्मै प्रदेया नितराममेया वेदान्तविद्येव सतां सुवेद्या॥ १३-२४ ॥ अयोनिजा सर्वगुणैः प्रशस्ता लोकोत्तरेयं तनया मदीया। सामान्यपुंसेऽनुमता कथं स्यात्किं सिंहकन्या शशकाय देया॥ १३-२५ ॥ या शम्भुचापं कुतुकाद्गृहीत्वा व्यकर्षदुर्व्यां तृणवद्वराङ्गी। सामान्यकन्या तनया कथं मे सा चादिशक्तिः प्रतिभाति भूम्नः॥ १३-२६ ॥ संसारिणे नैव ददामि कन्यां त्रिलोकधन्यां वनितां वदान्याम्। किं वैनतेयस्य बलिं बलार्हां काकाय दीयेत खगाधमाय॥ १३-२७ ॥ नूनं वरोऽस्या भगवान्मुकुन्दः श्रीवत्सलक्ष्मा सकलावतारी। आविर्भवेदत्र कथं भवेऽसौ निराकृतिः सर्वविकारशून्यः॥ १३-२८ ॥ किं व्यापकं व्याप्यतनुं दधीत निर्धर्मकं धर्ममयं कथं स्यात्। किं निर्गुणं स्यात्सगुणं कथञ्चित्किं सर्वदेशि प्रविशेच्च गर्भम्॥ १३-२९ ॥ यद्वा ममायं किल पूर्वपक्षः सिद्धान्तपक्षस्तु विलक्षणोऽतः। श्रुतिष्वपश्यं ह्यवतारवादं न युक्तितः साधयितुं क्षमेऽहम्॥ १३-३० ॥ बुद्धिप्रधानस्य कुतर्कभाज एष स्वभावः सहजो हि दुष्टः। न युक्तितः साधयितुं क्षमो यत्तस्मिन्ननास्थां कुरुते विमूढः॥ १३-३१ ॥ अतो मया प्रत्यय एव कार्यः प्रष्टा च हेतोर्ननु नास्तिकः स्याम्। न नास्तिकस्तुष्यति जीवलोके तथा परत्रेव वयो विनीडम्॥ १३-३२ ॥ न वेदवाक्ये विचिकित्सितव्यं तथाकृते नास्तिकताप्रसङ्गः। न नास्तिकस्येह परत्र वापि शान्तिर्यथाब्धावतरेर्जनस्य॥ १३-३३ ॥ यो हेतुवादात्कुमतिः कुतर्की वेदं विनिन्दत्यतिबुद्धिवादी। स कल्पकोटीर्नरकेऽतिघोरे पापी तपन् क्रन्दति क्रन्दितात्मा॥ १३-३४ ॥ वेदो व्यलीकं न वदेत्कदाचिन्निश्वासभूतः स हरेर्यतो हि। चतुर्षु वेदेष्ववतारमन्त्रा विजृम्भिताश्चेत्तदलं कुतर्कैः॥ १३-३५ ॥ स्वतः प्रमाणं भगवान् हि वेदो नापेक्ष्यते तत्र परं प्रमाणम्। प्रामाणिकत्वे किमु चण्डरश्मेः खद्योतवृन्दं विबुधो वृणीते॥ १३-३६ ॥ प्रत्यक्षतो वाप्यनुमानतो वा मातुं न यद्वै प्रभवन्ति धीराः। तत्तत्त्वमेकं चिदचिद्विशिष्टाद्वैतं परब्रह्म विदन्ति वेदात्॥ १३-३७ ॥ यः श्रद्धधानो वचने श्रुतीनां स मोदते मोदितबन्धुवर्गः। न संशयालुर्ननु जीवलोके सुखी परत्रेह यथा त्रिशङ्कुः॥ १३-३८ ॥ यो निर्गुणो नित्यनिरस्तहेयगुणत्वहेतोर्विरजो विभूमा। समस्तकल्याणगुणास्पदत्वात्स एव देवः सगुणोऽपि नित्यः॥ १३-३९ ॥ निराकृतिर्लीनसमाकृतित्वात्साकार इच्छाकलिताकृतित्वात्। निराकृतिः साकृतिरेव चैकः स चावतारः स किलावतारी॥ १३-४० ॥ स सर्वशक्तिर्जगदेकनाथः कर्तुं ह्यकर्तुं प्रभुरन्यथापि। स्वमाययेदं ननु शक्रजाली सृजत्यवत्यत्ति न लिप्यतेऽत्र॥ १३-४१ ॥ गुणा विकुर्वन्ति न तं कदाचिद्विभूषणान्येव त ईश्वरस्य। न कञ्जमामोदविलुब्धभृङ्गमपाम्मलं तद्धि विभूयतेऽपाम्॥ १३-४२ ॥ यथा न माधुर्यमपो जहाति न कौमुदीं क्वापि यथा कुमुद्वान्। तथा गुणा नो भगवन्तमेते जहत्यमून्नो भगवान् कदापि॥ १३-४३ ॥ गवां द्विजानां धरणीसुराणां हितं विधित्सुः स जगन्नियन्ता। अजोऽपि सन् स्वीकृतदिव्यदेहः कृतावतारो रमयत्यथो स्वान्॥ १३-४४ ॥ ये नित्यसन्ध्या न न शास्त्रनिष्ठा न रामभक्ता न भवाद्विरक्ताः। ते किं प्रजानीयुरिमान्निगूढान् वेदस्य भावान् दिवसानिवान्धाः॥ १३-४५ ॥ अतोऽहमप्यच्युतपादपद्मप्रपत्तिमान् विप्रतिपत्तिशून्यः। याचे वरं भूमिसुतानुरूपं हरिर्हि भक्तेप्सितपारिजातः॥ १३-४६ ॥ इत्यास्त राजा व्यवसायविग्नः सीताविवाहस्य विचारणायाम्। तदापवर्गोदयशैलमाप्तं द्वाःस्थस्तमाख्यद्भृगुकञ्जभानुम्॥ १३-४७ ॥ निशम्य राजा ननु सीरकेतुर्दौवारिकाद्वै पुरि भार्गवेन्द्रम्। समागतं सम्मुमुदे सतां हि समागमः क्षेमशतं विधत्ते॥ १३-४८ ॥ अहो अकस्मात्किमुपागतोऽयं क्षत्त्रान्तकारी ननु चण्डकोपः। निरस्तदण्डस्य महात्मनोऽत्र को हेतुरेतेषु निरापदेषु॥ १३-४९ ॥ तमातिथेयो मधुपर्कपाणिः प्रत्युद्ययौ विप्रपुरोगमोऽसौ। आगन्तुके वर्णिनि विप्रवर्गे परात्मबुद्धिर्हि सतां निसर्गः॥ १३-५० ॥ ददर्श दूराद्द्विजदेवशस्यपर्जन्यरूपं प्रणिशान्तकोपम्। दुर्धर्षसत्त्वं दुरवापमन्यैर्दुरासदं दारुणजामदग्न्यम्॥ १३-५१ ॥ जटाः शरच्चन्द्रमरीचिशुभ्राः शुभ्रत्विषं मूर्ध्नि समुद्वहन्तम्। क्षुरद्विभूतिं श्रितमारभूतिं विडम्बयन्तं वटुवेशमीशम्॥ १३-५२ ॥ नवोदयेन्दुप्रतिमानवक्त्रं ललाटपट्टे लसितत्रिपुण्ड्रम्। अपाङ्गशोणामललोचनाभ्यां द्रुतं यथा वीररसं वमन्तम्॥ १३-५३ ॥ दृप्यत्सहस्रार्जुनकोष्णरक्तधाराकृतस्नानमहाकुठारम्। अक्षय्यवाणाञ्चिततूणयुग्मं विज्ञं धनुश्चण्डशरं दधानम्॥ १३-५४ ॥ धृतोपवीतं महसा परीतं कमण्डलुं चापि शुभं वहन्तम्। मन्दस्मितं क्षत्त्रविनाशचुञ्चुं विलोकयन्तं करुणार्द्रदृष्ट्या॥ १३-५५ ॥ विशालवक्षःकलिताक्षमालं ब्रह्मद्विषां दुर्धरकालकालम्। ब्रह्मण्यभूपालकृते कृपालं त्विषा करालं जमदग्निबालम्॥ १३-५६ ॥ अखण्डकौपीनधरं धरायाः सौभाग्यभूतं सुनिसर्गपूतम्। पूतात्मभिः पूजितपादकञ्जं मूर्तीभवद्भार्गवपुण्यपुञ्जम्॥ १३-५७ ॥ गौरत्विषा व्रीडितहैमशृङ्गं श्रीरामरङ्गं हृतसर्वसङ्गम्। जपेन चेषच्चलिताधरोष्ठं सविग्रहं भूसुरवर्णधर्मम्॥ १३-५८ ॥ श्रीखण्डदारूत्तमपादुकाभ्यां पद्भ्यां स्पृशन्तं शनकैर्भयेन। सीताभुवं भूमिमिवानमन्तं भक्त्या विनम्रेण मनोज्ञमूर्ध्ना॥ १३-५९ ॥ आविष्कृतं मूर्तमिवातिभव्यं सद्भागधेयं मिथिलाधरण्याः। पश्यन् परार्घ्यं परमात्मबुद्ध्या जगाम तृप्तिं न नराधिनाथः॥ १३-६० ॥ विन्यस्तभूपालसमस्तलक्ष्मा लक्ष्मीश्वरांशं स ननाम नम्रः। नाथो नराणां नरलोकनम्यं सन्तं हि सत्ता प्रणिनम्य नित्या॥ १३-६१ ॥ तं पादपद्मे प्रणतं परात्मा प्रीतः समुत्थाप्य महाभुजाभ्याम्। त्रिसप्तकृत्वोऽवनिदेवताभ्यो भूमिप्रदानाक्षतभूषिताभ्याम्॥ १३-६२ ॥ तस्मै निवेद्यार्घ्यमनर्घ्यधाम्ने स आतिथेयोऽतिथयेऽतिथिज्ञः। गृहं समानीय समन्त्रिबन्धुरपूपुजत् षोडशभिः प्रकारैः॥ १३-६३ ॥ तं भुक्तवन्तं विभया विभान्तं संवाहयन् पादपयोजयुग्मम्। पप्रच्छ राजा कुशलं कुशाग्रधियं धिया ध्यातधनुर्धराङ्घ्रिः॥ १३-६४ ॥ कच्चित्प्रभो त्वन्निहितारिनारीनेत्राम्बुभिः क्षालितधूलिपङ्का। भूयः कुरुक्षेत्रमही महीशबलोच्छलत्पांशुभिरभ्यशोषि॥ १३-६५ ॥ कच्चिन्मुनिस्त्वादृशपुत्त्रपुण्यसप्तर्षिमध्यास्पदलाभतुष्टः। सम्मोदते मोदितविप्रवर्गो ज्योतिर्गणाभ्यर्चितपादपद्मः॥ १३-६६ ॥ कच्चिद्द्विजद्विड्बलवारिराशिकुम्भोद्भवो भग्नसहस्रबाहुः। नित्यं कृपायाः कृपणः प्रियस्ते निशातधारः कुशली कुठारः॥ १३-६७ ॥ कच्चिन्महेन्द्रस्य दरीषु धीमन्निरस्तदण्डः परितप्यमानः। न खिद्यसे कर्हिचिदन्तरायैः सन्तः सहन्ते हि सुखेन विघ्नान्॥ १३-६८ ॥ मातापितृभ्यां गुरवे हिताय ऋणानि तेषां सहजं समाप्य। समाजसेवाव्रतलब्धदीक्षः कस्ते त्रिलोक्यां सदृशोऽस्ति धन्यः॥ १३-६९ ॥ कच्चिन्मुने त्वच्चरणारविन्दमाध्वीं मुदा पातुमनल्पपुण्याः। आयान्ति दिग्भ्योः बटवः सुशीला विप्रं हि विद्यार्थिधनं धिनोति॥ १३-७० ॥ इत्येवमुक्त्वा विरते गवीशे वाचंयमो वाचमुवाच वाग्मी। द्विजो द्विजालिद्विजराजकान्त्या प्रकाशयन् राजसभां ससभ्याम्॥ १३-७१ ॥ वचस्तवैतत्सदृशं कुलस्य विदेहवंशाम्बुजचित्रभानोः। यद्ब्राह्मणे दर्शितदेवभक्तिरादर्शभूतोऽसि महीपतीनाम्॥ १३-७२ ॥ गृहे वसन् भोगमथापि योगं सम्पादयन् सर्वविकारशून्यः। देहे विदेहो वरबोधगेहो धन्योऽसि भूपालमणे महात्मन्॥ १३-७३ ॥ तवैव सौशील्यवशंवदत्वात्कलत्रभूता वसुधा त्वदीया। पुत्त्रीं ददौ तुभ्यमनादिशक्तिमान्वीक्षिकीं योगयुजे त्रयीव॥ १३-७४ ॥ यस्याः कृपाकम्रकटाक्षकामास्तपश्चरन्तोऽपि न लब्धवाञ्छाः। सा श्रीस्त्वदीयाजिरमन्दिरेषु भूत्वा सुता क्रीडति बालकेलिः॥ १३-७५ ॥ त्वं क्षत्त्रियो भूयकुलीन एव यद्ब्राह्मणेष्वर्पितदेवभक्तिः। ये क्षत्त्रियाः संस्कृतभूसुरेभ्यो द्रुह्यन्ति ते वै न कुलप्रसूताः॥ १३-७६ ॥ न भानुवंश्या निमयोऽवनीशा मत्कोपभाजः सरलाः कदाचित्। ते सर्वदा ब्राह्मणपादपद्मनिस्यन्दपूता अत एव धन्याः॥ १३-७७ ॥ सीतां प्रणंस्यन्नभिनन्दयिष्यंस्त्वामागतोऽपूर्वमिवावनीन्द्र। धनुर्दिदृक्षे निहितं मया यत्त्वत्पूर्वजे न्यासमिवेन्दुमौलिः॥ १३-७८ ॥ ओमित्युभौ भूपतिभूसुरेन्द्रौ सबन्धुवर्गौ ननु यज्ञशालाम्। सहर्त्विजं ब्राह्मणवृन्दजुष्टां प्राचीमिवाभीयतुरर्कसोमौ॥ १३-७९ ॥ दिव्यस्थलीं वह्निविदीप्तवेदीं प्रस्तोतृसम्प्रस्तुतवेदनादाम्। शास्त्रानुशिष्टां विधितो विशिष्टां स्वर्गापवर्गामपि चापवर्गाम्॥ १३-८० ॥ तत्रैव ताभ्यां स्वसृभिः परीता सखीभिरष्टाभिरसौ विनीता। प्रीता प्रणीता सुभगा च नीता वेदेषु गीता ददृशेऽथ सीता॥ १३-८१ ॥ अश्वायमानं शिवचापमज्यं ज्याभीषुसम्पादितवेगनाट्यम्। करेण वामेन विना प्रयासं चकर्ष सोच्चैःश्रवसं रमेव॥ १३-८२ ॥ आरुह्य केलौ च तथावरुह्य सानन्दमुर्वीतनया तदुर्व्याम्। सा भ्रामयामास महेशचापं करीन्द्रकन्येव मृणालदण्डम्॥ १३-८३ ॥ इत्थं हसन्तीसु सखीषु सीता विद्युद्यथा वासवकार्मुकेण। चिक्रीड चापेन पुरान्तकर्तुर्विस्मापयन्ती नृपतिं मुनिञ्च॥ १३-८४ ॥ यतो यतो धावति धारणेयी धनुर्गृहीत्वा स्म मृणालतन्वी। ततो ततो भूमिरिवोढविद्युत्पाथोदशोभा स्म वियद्विभाति॥ १३-८५ ॥ दृष्ट्वा श्रियं शैवधनुर्वहन्तीं सौदामिनीं चापमिवाहिशत्रोः। विशां पतिं विस्मयवान् सुविप्रो विस्पष्टितार्थां समुवाच वाचम्॥ १३-८६ ॥ विलोकयस्येतदभूतपूर्वं वृत्तं महाराज निजात्मजायाः। धनुर्गुरोर्मन्दरतो गरीयो मुदा वहन्त्याश्च मृणालतन्व्याः॥ १३-८७ ॥ यं देवदैत्यासुरनागयक्षा वीरा न शेकुर्बलतो विगाढुम्। तमेव कामेश्वरकार्मुकाब्धिं गोकन्यका गोष्पदमातनोति॥ १३-८८ ॥ नारायणीयं न नरेन्द्र नारी माता जगत्या न कुजा कुमारी। बाला न चेयं नितरामबाला साकेतसीतेयमहो न सीता॥ १३-८९ ॥ अहो विचित्रं ननु मानवेन्द्र दृष्टं त्रिलोक्यां यदभूतपूर्वम्। मयापि यद्दुर्धरमीशचापं सीता तदेवाद्य बलादकर्षत्॥ १३-९० ॥ किं राजहंसी धृतमन्दरेयं किं सैन्धवीयं द्विभुजा द्विनेत्रा। किं मैथिलानां ननु पुण्यराशिः सीता विनीता विचकास्ति भूमौ॥ १३-९१ ॥ राजन्नतोऽस्याश्च पतिंवरायाः स्वयंवरं कारय वीर्यशुल्कम्। तस्मिन् समाकारितराजलोके सीतामुपस्थापय वीरभोग्याम्॥ १३-९२ ॥ यो वा पिनाकं तरसा विभज्य द्वेधा भवेद्दर्शितबाहुशक्तिः। विन्यस्य तस्योरसि जैत्रमालां सीता वरं स्वं वृणुयात्तमेव॥ १३-९३ ॥ नेदं त्रिलोक्यां तनुभृत्कथञ्चिच्छैवं धनुश्चालयितुं समर्थः। रामादृते दाशरथेर्महात्मन्मनोऽब्जपाणेरिव सिन्धुजायाः॥ १३-९४ ॥ चिन्ता न कार्या नरदेव भौम्याश्चिन्तामणिश्चिन्तितपारिजातः। आयास्यतीहैव नवाब्दनीलः श्रीराघवो लक्ष्मणपूर्वजन्मा॥ १३-९५ ॥ स एव भङ्क्त्वा शशिमौलिचापं तृणाय मत्वा रघुवंशकेतुः। पयोधिपुत्त्रीमिव चक्रपाणिः सीतां प्रसीदन् परिणेष्यतीह॥ १३-९६ ॥ अहं समागत्य तदैव राजन् निदर्शयिष्यन् कपटक्रुधं भोः। सौमित्रिणा प्राप्तवचो विवादः प्रोज्झद्विषादो भवितास्मि भव्यः॥ १३-९७ ॥ तस्मै समर्प्यैव मुरारिचापं प्रेम्णा महाविष्णुमयाय चाहम्। रामाय विस्राणितकार्यजातो निरस्तदण्डो भवितास्मि पूर्णः॥ १३-९८ ॥ इदं सुगोप्यं गदितं मया यन्न क्वापि वाच्यं हृदि चिन्तनीयम्। षट्कर्णकः स्याद्यदि कोऽपि मन्त्रो भिद्येत खिद्येत तदाधिकारी॥ १३-९९ ॥ इत्यादिश्य दिगीशवन्दितपदः सीरध्वजं धीधनः सम्मन्त्र्याखिलमन्त्रशास्त्रनिपुणो राज्ञा रहो रामवित्। आमन्त्र्य प्रणतो महीपमणिना यास्यन्नवाचीं दिशं सीतां श्लोकशतेन भक्तिविनतोऽस्तौषीन्मुदा भार्गवः॥ १३-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। लोकेशसर्गः कविरामभद्राचार्यप्रणीतेऽस्तु नृणां श्रियै नः॥ १३-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीभार्गवमिथिलागमनं नाम त्रयोदशः सर्गः।