तृतीयः सर्गः


ततश्चिकीर्षुर्ननु लोकसङ्ग्रहं निराचिकीर्षुः कुभुजामसद्ग्रहम्। समुद्दिधीर्षुर्द्विजधर्मविग्रहं जगाम रामो गिरिमैश्वरं गृहम्॥ ३-१ ॥ समानसं मानसरोगहारिणं सदा लसच्छैलसुताविहारिणम्। स्वसेविनां जन्मजरापहारिणं स्वकूटकूटातपतापवारिणम्॥ ३-२ ॥ मुनीन्द्रयोगीन्द्रसुरेन्द्रसेवितं तपस्विवर्चस्विमनस्विभावितम्। प्रफुल्लपाथोजपरागपावितं सुकोकिलामञ्जुलरावरावितम्॥ ३-३ ॥ पिनाकिचूडेन्दुमयूखमालिकासुधासमाकृष्टचकोरकूजितम्। अनेकसिद्धेश्वरनागकिन्नरामरेन्द्रगन्धर्वपुरन्ध्रिपूजितम्॥ ३-४ ॥ तपःप्रभावामलमूर्तिभूसुराग्निहोत्रधूमावलिधूम्रपल्लवम्। मुनीन्द्रबालोच्चरितश्रुतिस्वरप्रमुष्टपक्षीन्द्ररवं रसावहम्॥ ३-५ ॥ क्वचिद्भवालोकविशोकमानसाप्सरःसमारब्धनरत्रनर्तनम्। क्वचिन्महादेवपदाम्बुजासवप्रमत्तरोलम्बकदम्बकीर्तनम्॥ ३-६ ॥ क्वचिद्भवानीभवभावितव्रतप्रकॢप्तवैरोचनचित्रताण्डवम्। क्वचित्सहस्रार्जुनबाहुसञ्चलत्सरःपयःपूजितपार्वतीशिवम्॥ ३-७ ॥ क्वचिन्मृडानीमृगराजचुम्बितस्मितेभवक्त्राननमुक्तमोदकम्। क्वचित्कुमारासनबर्हचन्द्रिकाचकोरसम्भूषितभावभोगिकम्॥ ३-८ ॥ मरालपारावतबर्हिवल्गुवाग्रथाङ्गकारण्डवकीरसारिकाः। शिवेलया यत्र खगाः सदाशिवं समीडते शान्ततनुं सनातनम्॥ ३-९ ॥ तमालतालीदलनिम्बशालकैरशोककादम्बरसालबिल्वकैः। द्रुमैर्लसत्पुष्पफलाग्रपल्लवैः कृतातपत्रं विबुधोत्तमैरिव॥ ३-१० ॥ समस्तसौभाग्यकरं दुरासदं कुयोगिनां शम्भुजुषां प्रसाददम्। निरीक्ष्य कैलासगिरिं गिरातिगं मनोऽपि रामस्य गतं रिरंसितम्॥ ३-११ ॥ अथ प्रतीतः प्रयतः पवित्रितैः पवित्रपाणिर्भृगुवंशवर्धनः। गणेरितद्वा द्विजराजशेखरं ददर्श कैलासगिरौ गिरीश्वरम्॥ ३-१२ ॥ हिमालये लोध्रमिवात्तपुष्पकं यथाधिधारं शशिनं सुपाथसः। मृणालशैवालमरालमण्डितं यथासितं पङ्कजमामरे सरे॥ ३-१३ ॥ त्रिलोचनं साधकशोकमोचनं जटाधरं जह्नुसुताधरं हरम्। उमावरं दत्तवरं वरावरं वटेश्वरं भूतिकरं महेश्वरम्॥ ३-१४ ॥ सुखं समासीनमकुण्ठवर्चसं शरीरिणं शान्तरसं रसारसम्। भयङ्करं चाप्यभयङ्करं सतां शुभङ्करं शङ्करमादिशङ्करम्॥ ३-१५ ॥ तुषारकर्पूरसुगौरविग्रहं ग्रहर्क्षतारादितिपुत्त्रनिग्रहम्। समुल्लसच्छैलसुतापरिग्रहं समस्तकल्याणगुणैकसङ्ग्रहम्॥ ३-१६ ॥ दधानमब्जासनमाब्जशासनं प्रपन्नकीनाशविलासनाशनम्। गजेन्द्रकृत्त्यावसितं विषाशनं वृषासनं भग्नभवाब्धिवासनम्॥ ३-१७ ॥ विभूतिभासा परिभासुरं सुरं सुरेन्द्रवन्द्यं शिशुचन्द्रमेदुरम्। मनोजमारं घनसारसुन्दरं फणीन्द्रहारं भवसिन्धुमन्दरम्॥ ३-१८ ॥ त्रिभिस्स्वनेत्रैः शशिसूर्यपावकैः शुचं तमस्तोममघाटवीं नृणाम्। हरं हरन्तं हरिहारहर्षिणम् कृपासुधावर्षिणमाधिधर्षिणम्॥ ३-१९ ॥ जटाकलापे सितमालिकामिव स्वरापगां सङ्कलयन्तमादरात्। सुधामयूखं निटिले निशाकरं कृपाप्रतीकं दधतं दयापरम्॥ ३-२० ॥ त्रिलोकशोकक्षयहेतुसुस्मितस्फुरत्प्रभारञ्जितसुद्विजावलिम्। कलत्कपोलारुणपल्लवाधराहिकुण्डलालङ्कृतपञ्चवक्त्रकम्॥ ३-२१ ॥ करे त्रिशूलं भवशूलमोचनं भुजङ्गराजं वलयाय वासुकिम्। विधाय विद्याधरनागसुन्दरीप्रगीतदारं दरकुन्दसुन्दरम्॥ ३-२२ ॥ लसत्परिष्वङ्गमनङ्गमर्दनं मृणालमृद्व्या गिरिराजकन्यया। सुवर्णवल्ल्या वलितं सुरद्रुमं तिरस्करिष्यन्तममोघदर्शनम्॥ ३-२३ ॥ गले गरं गर्वहरं हरिद्विषां पिनाकपाणिं प्रणतार्तिनाशनम्। व्यभावयद्राजतशैलमीश्वरं सनीलकण्ठं भृगुनन्दनस्तदा॥ ३-२४ ॥ कुमारसंवाहितपादपङ्कजं सदम्बहेरम्बकृतप्रदक्षिणम्। स दक्षिणामूर्तिममूर्तिमव्ययं व्यलोकयल्लुब्धदृशा तृषापहम्॥ ३-२५ ॥ ललाममाधुर्यसुधाभिरामकं ललाममाधुर्यसुधाभिरामकम्। ललाममाधुर्यसुधाभिरामकं ललाममाधुर्यसुधाभिरामकम्॥ ३-२६ ॥ कपालमालाविकरालविग्रहं भुजङ्गहारं भुजगोपवीतिनम्। विचित्रवेशं विधिविष्णुवन्दितं गृहीतढक्कं भवभोगिभैरवम्॥ ३-२७ ॥ अघोरमप्यासुरघोरदर्शनं सदा सकामं ह्यपि कामकर्शनम्। अतीतभूतं ननु भूतभूधरं ह्यनाथमप्येतमनाथभीहरम्॥ ३-२८ ॥ अचेतनं चापि निसृष्टचेतनमकेतनं चापि वृषेशकेतनम्। असंश्रयं चापि समग्रसंश्रयमसंशयं चापि समस्तसंशयम्॥ ३-२९ ॥ पवर्गकॢप्तं ह्यपवर्गदं शिवं सभोगिनं चापि विभोगवर्जितम्। कलत्रिणं चापि कलत्रिमर्दनं पुरस्थितं चापि पुरार्दनं हरम्॥ ३-३० ॥ निरीक्ष्य दृग्स्वस्त्ययनं गुणायनं सुरायणं योगयुजां परायणम्। शिवं शिवालिङ्गितवामविग्रहं निराग्रहं मोदमवाप भार्गवः॥ ३-३१ ॥ जहौ बटुर्वाटपरिश्रमं भ्रमं शिवं समासाद्य गुरुं गिरीश्वरम्। वनाग्नितप्तः कलभस्तृषाकुलः सुखीव सम्प्राप्य सुधासरोवरम्॥ ३-३२ ॥ प्रणम्य तं योगिदुरापदर्शनं सुदर्शनं प्रीणितसत्सुदर्शनम्। अथोपसन्नः स समित्करो हरं गुरुर्गरीयान् हि हरेरपि स्मृतः॥ ३-३३ ॥ स नीलकण्ठस्तमपूर्वदर्शनं द्विजात्मजं ब्राह्मणशत्रुकर्शनम्। सभाजयामास वटुं वटेश्वरो विनम्रता हि प्रकृतिर्महात्मनाम्॥ ३-३४ ॥ विनीतवेशं विमलं विधुप्रभं प्रलम्बबाहुं दृढपीनवक्षसम्। मृगेन्द्रसत्त्वं वृषभेन्द्रकन्धरं शरीरवन्तं प्रथमं यथाश्रमम्॥ ३-३५ ॥ लसल्ललाटे भसितं भवार्चितं प्रबिभ्रतं तं ननु संशितव्रतम्। महानुभावं वरवर्णवर्णिनं प्रदीप्तवैश्वानरदेहमद्भुतम्॥ ३-३६ ॥ नवीनराजीवसमानलोचने कदाप्यविद्धे युवतीकटाक्षतः। कपोलदृक्कोणसमारुणीप्रभामखण्डवीरव्रतसंशिनीमिव॥ ३-३७ ॥ क्षणप्रभाकोटिशतच्छटाजटाः समुद्वहन्तं श्रुतिचारुकुण्डलम्। रतं श्रुतौ शास्त्रकृतौ सुसम्भृतं वरीयसा ब्रह्ममयेन वर्चसा॥ ३-३८ ॥ मुखेन बिम्बाधरपल्लवत्विषा विमोदयन्तं हि विधुं नवोदयम्। द्विजावलीश्वेतरुचा कुमुद्वतः करान् करिष्यन्तमिवाह्निकानहो॥ ३-३९ ॥ वसानमम्लानरुरुत्वचं कटौ दधानमाषाढपलाशदण्डकम्। धृतोपवीतं स्वकरे कमण्डलुं वहन्तमव्यग्रमतिं सुवर्णिनम्॥ ३-४० ॥ तमङ्गमङ्गीकृतवान् कृतान्तकृत्कृतप्रणामं सुकृतार्थमानिनम्। स्वशिष्यमीशो भृगुवंशवर्धनं गुरुं हि विद्यार्थिगुणोऽनुकर्षति॥ ३-४१ ॥ निवेद्य नन्दीश्वरविष्टविष्टरं हरो हरन्मौलिनवोडुपांशुभिः। शुचं शुचेः सौम्यरुचेः समब्रवीद्गिरा गिरित्रो वटवे शुभाशिषः॥ ३-४२ ॥ वटो विवर्धस्व विशिष्टवर्चसा समेधितायुर्मखहव्यवाडिव। समुन्नयन् भार्गवमन्वयं न्वयं शशीव सिन्धुं प्रथितः पयोमयम्॥ ३-४३ ॥ लभस्व दीर्घायुरपूर्वपौरुषं भजस्व भव्यं भवभूमिभूषणम्। घटस्व घोरो द्विजवैरिवृन्दहा रमस्व रामे ननु रामराम हे॥ ३-४४ ॥ भवाय भूयाः श्रुतिपारदृश्वनां द्विजन्मनां संयमशास्त्रशर्मणाम्। सुकर्मणामक्षतधर्मवर्मणां वनस्पतीनां द्विजराडिवामलः॥ ३-४५ ॥ निधत्स्व निष्ठां निगमे निरत्ययां विधत्स्व वेद्ये विशदं विवित्सितम्। मनः समाधत्स्व समे निजांशिनि प्रधत्स्व पाण्डित्यपरम्परामहो॥ ३-४६ ॥ अवैमि भूभारसमाजिहीर्षयावतीर्णमंशं त्रिशिरोद्विषो हरेः। भृगोः कुले ब्रह्मसमाजसङ्कुले भवन्तमेणाङ्कमुदन्वतीव भोः॥ ३-४७ ॥ स्वयं हि सर्वज्ञशिखामणिर्भवांस्तथापि मां शिष्यधियोपसर्पति। ननूदधिर्वारिनिषिक्तभोगिराडहो मुदा पूजयतीह पल्वलम्॥ ३-४८ ॥ परं प्रसीदामि निरीक्ष्य तेऽनघ त्रिलोकगेयं हि गुरूपसर्पणम्। समस्तशास्त्रार्थनिधेर्विधेर्विधेर्विनम्रतां शाश्वतसाधुभूषणम्॥ ३-४९ ॥ ममेह भूमन् यदुपैषि शिष्यतां तदस्ति ते मानवशिक्षणं हरे। प्रदित्सुकामो गुरुगौरवं हि मे बिभर्षि विद्यार्थिविडम्बनं विभो॥ ३-५० ॥ अधीष्व मत्तो मदमुक्तमानसः षडङ्गवेदान् सरहस्यकं धनुः। समस्तविद्यासु कृतश्रमोऽचिरात्समेधितासे द्विजशस्यनीरदः॥ ३-५१ ॥ भवाय भूत्यै महसे महात्विषे कृतप्रयत्नस्य पुमर्थमिच्छतः। श्रमं कठोरं ननु सम्बलं विदुः सतां सुसङ्कल्पवशा हि सिद्धयः॥ ३-५२ ॥ तमूचिवानेवमुदारदर्शनं जगद्गुरुर्भूसुरशत्रुकर्षणम्। नियोजयामास निजानुशासने त्रिलोचनो भृत्यभवार्तिमोचनः॥ ३-५३ ॥ सरौरवं रावितघौररौरवं सगौरवं गात्रगिरीन्द्रगौरवम्। उपेत्य रामं निजशासनानुगं गवा गवीशो मुमुदेऽनुलालयन्॥ ३-५४ ॥ वटोः समस्तानुपयोगिनो गुणान् शरीरिणस्त्वय्यवलोकये यथा। मुदा ददामीव पयोनिधिः श्रियं समस्तविद्या भवते मधुद्विषे॥ ३-५५ ॥ ततस्तु रामं रमयन् रमेशको गिरां गरिम्णा गुरुगौरवेण च। शिवस्तमध्यापयितुं प्रचक्रमे क्रमेण कानिष्ठमिवाम्बुजो हरेः॥ ३-५६ ॥ स पञ्चभिः पञ्चितपञ्चभिर्मुखैर्मुखप्रसूतात्मभुवो भुवं स्वरम्। विबोधयन् नो बुबुधे भवः क्लवं बुधो बुभुत्सा हि वटोः श्रमापहा॥ ३-५७ ॥ यदा यदा क्लान्तिमियाय भार्गवो गवेशगाम्भीर्यगवीर्गवेषयन्। तदा तदापीडनवेन्दुनिर्गलत्सुधाम्बुभिश्शीतलयन् बभौ भवः॥ ३-५८ ॥ यथा शरच्चन्द्रमरीचिमाधुरीसुधां पिबंस्तृप्यति नो चकोरकः। तथा न रामः शिशुचन्द्रशेखरश्रुतं जुषाणोऽपि ततर्प कर्हिचित्॥ ३-५९ ॥ सकृत्समाकर्ण्य शिवेरिताः श्रुतीः समध्यगच्छत्प्रतिभाधनी वटुः। अधीतपूर्वं ननु तेन वाङ्मयं गुरौ निवासस्त्विह मर्त्यशिक्षणम्॥ ३-६० ॥ प्रभात उत्थाय सदा सदातनं कृताह्निकः कारणमाणवो मुहुः। शिवं सिषेवे शिशिरांशुशेखरं वटुर्हि सेवैकधनोऽधिगण्यते॥ ३-६१ ॥ क्वचित्समाधिस्थमुमामनोहरं हरं हरिर्हारिगुणेन हर्षयन्। स पर्यचारीच्चमराङ्गसम्भवैर्भुजङ्गभूषं ननु दंशवारणैः॥ ३-६२ ॥ क्वचिच्छरच्चन्द्रमरीचिरोचिषो जटा जगज्जन्मजरापहारिणीः। स मण्डयन्नन्दनमल्लिकादिभिर्बभूव भूतेश्वरभूतिभूषणः॥ ३-६३ ॥ क्वचिद्भवं भावमयेन वारिणा दृगुद्भवेन स्नपयाम्बभूव सः। क्वचित्तदङ्घ्र्यम्बुजयुग्मरुक्मभूसुलिप्सया लिप्त इव व्यरोचत॥ ३-६४ ॥ क्वचिद्भवानीपतिपादपङ्कजं स पीडयन् पीडितकुव्यथोऽभवत्। मनोभवारेरपि निश्चलं मनो जहार शुश्रूषणशक्रजालतः॥ ३-६५ ॥ तुरीययामे यमिनां वरो वटुः सदा निशायाः स निशेशशेखरात्। श्रुतं श्रुतं चिन्तयते स्म चिन्मयं प्रभातबोधो हि वटोर्विभूतये॥ ३-६६ ॥ उषस्यथाप्लुत्य स मानसाम्भसि स्मरन् परब्रह्म जपन् युगायनम्। सुवर्णकिञ्जल्कसहस्रपङ्कजस्रजा जगद्देशिकमभ्यपूपुजत्॥ ३-६७ ॥ पुनः शुभैः श्रीफलपत्त्रकोटिभिर्मनोज्ञवर्णैस्त्रिदलैर्मनोहरैः। समाहृतैर्देववनात्प्रयत्नतः स मन्त्रवत्तोषयति स्म शङ्करम्॥ ३-६८ ॥ हरो हरिद्रत्नककामनीयकैरमुष्य काये ननु बिल्वकेश्वरः। शशीव सौम्यप्रतिरूपकोटिभिः समावृतः शारदशर्वरीभवः॥ ३-६९ ॥ पुनश्च मन्दारसुमैः सुगन्धिभिः स्वभक्तमन्दारममण्डयन् मुदा। निरस्तकामस्य सपर्यया हि किं समर्हणं छात्त्रविभूषणं गुरोः॥ ३-७० ॥ निवेद्य नैवेद्यममोघविक्रमे क्रमेण कन्दादिसमाहृतं स्वयम्। चकार नीराजनमभ्युमावरं पुरैव नीराजितमर्भकेन्दुना॥ ३-७१ ॥ दधौ तदम्भोजपदावनेजनीरपः पवित्रीकृतविश्वमण्डलाः। भवो यथा पूर्वभवे त्रिविक्रमे दधार मूर्ध्ना तदपः सरिन्मयीः॥ ३-७२ ॥ प्रपूज्य तं षोडशभिः प्रकारकैः स नन्दयामास गिरीशनन्दनम्। पपात साष्टाङ्गममुष्य पादयोः प्रणाम एवैशकृपाप्तिसाधनम्॥ ३-७३ ॥ कृताञ्जलिं पूजितपादपङ्कजं शिवः प्रियं छात्त्रमकुण्ठमेधसम्। मुदा समाहूय करैः परामृशन् जहार देवो दशमीं दशां वटोः॥ ३-७४ ॥ पुनस्तमध्यापितवान्महेश्वरः षडङ्गवेदं सरहस्यमन्त्रवत्। समं धनुर्वेदममोघविक्रमो व्यये हि विद्या विशदा विराजते॥ ३-७५ ॥ इति त्रिलोकैकगुरुर्द्विजर्षये प्रदाय विद्या द्विगुणा नवामलाः। स्पृशन् कराम्भोजमदोमुखाम्बुजे बभाष ईड्याक्षरमिन्दुशेखरः॥ ३-७६ ॥ असेवथा भार्गव मां दिवानिशं कुबुद्धिरात्मानमिवाक्षतव्रतः। समग्रशास्त्रार्णवपारमञ्जसा प्रजग्मिवान्मत्परितोषपोतवान्॥ ३-७७ ॥ विधाय शास्त्रेषु महापरिश्रमं विनिद्रमभ्यस्य विमोहवर्जितः। प्रसाद्य विद्यां स्ववशीचकर्थ भोः स्वमातरं सूनुरिवात्मतत्परः॥ ३-७८ ॥ विवेकविश्रम्भविनम्रसेवया विरञ्चिभूनन्दन मामनन्दयः। परं प्रसीदामि महात्मनि त्वयि प्रगल्भपाण्डित्यपरम्परापरे॥ ३-७९ ॥ गुरौ प्रसन्ने परमः प्रसीदति गुरौ विषण्णे वृषणो विषीदति। गुरौ च तुष्टे ननु लोकसम्पदो गुरौ हि रुष्टे विपदः पदे पदे॥ ३-८० ॥ तदद्य सन्तुष्टमना विसर्जये भवन्तमीड्यं भृगुवंशवर्धनम्। सुखाय भूयासुरिमा विभूतयः शिवोऽस्तु पन्थास्तव सत्यसङ्गर॥ ३-८१ ॥ अयातयामाः श्रुतयो भवन्तु ते स्वधीतमप्यस्तु फलाय नित्यशः। यथोर्वरायां भुवि सुप्तशालयः सुपात्रदत्तं द्रविणं यथाक्षयम्॥ ३-८२ ॥ भजस्व वीरव्रतमेव नैष्ठिकं लभस्व दीर्घायुरमोघविक्रमः। मनागपि स्कन्दय नो बहिर्मनः शिशुर्युवत्यामिव रुद्धसौरतः॥ ३-८३ ॥ त्वमूर्ध्वरेता भव सत्यसङ्गर सदैव मातापितरौ प्रमोदय। द्विजोडुमालार्चितपादपङ्कजश्चिराय शोभस्व शशीव शारदः॥ ३-८४ ॥ ददामि ते शात्रवसैन्यशातनं द्विजारिभूपालमहाब्धिवाडवम्। कुठारमत्युग्रमुदग्रविक्रमं यथाशनिं शैलजिते जनार्दनः॥ ३-८५ ॥ इदं धनुर्वैष्णवमज्यमुत्तमं सुदुर्वहं विष्णुविरुद्धतेजसाम्। गृहाण वेदान्तमिवात्मदर्शकं प्रतीक्षतामागमनं निजांशिनः॥ ३-८६ ॥ सहस्रबाहूद्धतसैंहिकेयकाद्विमोचयाशु द्विजराड्द्विजावलीः। यशस्सुधाप्रीणितमित्रकैरवः सगौरवं रावय घोररौरवम्॥ ३-८७ ॥ अहङ्कृतध्वान्तमिवात्मबोधिना जडीकृतं प्राक्किल चक्रपाणिना। पिनाकमास्ते प्रहितं पुरैव मे समर्चमानं मिथिलासु मैथिलैः॥ ३-८८ ॥ तदर्दनं भूमिसुतास्वयंवरे स्वशुल्कभूतं जनकेन धास्यते। तदेव रामः सहजं विभङ्क्ष्यति द्युमांस्तमस्तोममिवात्तविक्रमः॥ ३-८९ ॥ ततो भवांस्तत्र समागमिष्यति त्रिलोकभर्त्रा रघुनन्दनेन वै। निसर्गनीलोत्पलदामकान्तिना यदा ततश्शान्तिमुपैष्यति क्षणात्॥ ३-९० ॥ समर्प्य चापं रघुवंशकेतवे पराजयस्ते न भवेत्प्रलम्बनम्। विशालकीलाललसत्पयोनिधेः समक्षमृद्ध्यै सरसः समर्पणम्॥ ३-९१ ॥ विदन्नपि त्वं ह्यविदन्निवाचरेः समोऽपि रामे विषमेर्मृषारुषा। समं शरासेन समाप्तविग्रहो नभो नभस्वानिव राघवं विशेः॥ ३-९२ ॥ विरम्य रामानुजजिह्ममन्युतो निजावतारं विरमय्य राघवे। गिरौ महेन्द्रेऽथ महेन्द्रवन्दितः प्रभो प्रवर्तस्व महर्षिवर्त्मनि॥ ३-९३ ॥ निरस्तदण्डोऽथ निरुद्धसौरतो रतो व्रते ब्राह्मणधर्मकर्मणि। खगात्मजे जाग्रति चाष्टमे मनौ भवेर्ऋषीणां स्वपितेव सप्तमः॥ ३-९४ ॥ इत्थं निगद्य गदिताखिलशास्त्रसारो रोमाञ्चरोचिततनुर्निरुरोध रुद्रः। वीचीविलासमुदधिर्द्विजराजमीप्सुं प्रेमप्रकर्षमभिशिष्यमिवेत्य वेलाम्॥ ३-९५ ॥ लब्ध्वा परश्वधमरातिविघातचुञ्चुं चापं चलारुचिशिखान् विशिखान्निषङ्गम्। विद्या वटुर्वसुनभःप्रमिता मितार्णां वाणीं ववाण वनजानननम्रमुद्रः॥ ३-९६ ॥ लब्ध्वा दीक्षां नैष्ठिकीं मन्मथारेर्यावज्जीवं ब्रह्मचर्यं चरिष्यन्। मारासारं मारयिष्ये कुमारो दाराधारं त्वद्बलेनैव दैत्यान्॥ ३-९७ ॥ पूर्णोऽहं पशुपतिना त्वयानुशिष्टो धन्यो वा वनजभुवानुजो मघोनः। आपृच्छे निखिलगुरुं गुरुं प्रणन्तुं बिभ्रद्गां त्वमिव तव स्वमूर्ध्नि गङ्गाम्॥ ३-९८ ॥ उमोमाधवौ धारयन् धर्ममूलौ मनोमन्दिरे मन्दरौ शोकसिन्धोः। वरं ब्रह्मचर्याश्रमं मन्यमानो गृहं नो यथा चम्पकं चञ्चरीकः॥ ३-९९ ॥ पश्यंस्तातपदाब्जमुज्झितसुखं गार्हस्थ्यधर्मं विदन् निर्विण्णो द्विरदो नवोऽनलमिव त्रस्तो जिहासन् द्रुतम्। दुर्वारं शिशुमारमार्यविषदं मारं धिया धर्षयन् रामः प्रीतिमयो विनम्रशिरसा वन्द्यं ववन्दे शिवम्॥ ३-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गस्तृतीयः कविरामभद्राचार्यप्रणीते सुधियां श्रियै स्तात्॥ ३-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये गुरूपसत्तिर्नाम तृतीयः सर्गः।