चतुर्दशः सर्गः


वन्दे बालमरालमन्मथलसन्मातङ्गिनीगामिनीं शोभाव्रीडितचन्द्रचम्पकशरत्सौन्दर्यसौदामिनीम्। भौमीं भावितमैथिलावनितलां रामप्रियां भामिनीं काञ्चित्कोसलराजराजमहिषीं सीतां स्वकां स्वामिनीम्॥ १४-१ ॥ वन्दे देववधूविभास्वरशिरःसीमन्तगुच्छोद्गल- न्माद्यन्मञ्जुमिलिन्दनन्दनवनोद्भूतप्रसूनोत्करैः। श्रद्धाभ्यर्चितपादपद्मयुगलां साध्वीं सतां वत्सलां दिव्यां श्रीमिथिलाधिराजतनयां सीतां जगन्मातरम्॥ १४-२ ॥ श्यामां श्यामसरोजसम्मितदृशं श्यामाम्बरां श्यामलां रामां रामगुणावलीं हृदि सदा सञ्चिन्तयन्तीं मुदा। वामां राघववामभागमहितां द्यन्तीं विधेर्वामतां कामादिभ्य उदारसेवकशिशून् पान्तीं भजे जानकीम्॥ १४-३ ॥ सौन्दर्यामृतसारसागरमहालक्ष्मीजनिं जाह्नवी- कीलालोपमपूतचारुचरितां सीमन्तिनीं मैथिलीम्। रामाम्भोधरचातकीं गुणवतीं मेधावतीं जानकीं जायां श्रीरघुनन्दनस्य नृपतेर्वन्दे विदेहात्मजाम्॥ १४-४ ॥ यस्याः पादपयोरुहोज्ज्वलनखप्रोद्यन्निशेशस्मित- ज्योत्स्नादीधितितो भवन्ति शतशो गौरीन्दिराशारदाः। सौम्यां शारदशर्वरीशवदनां नित्यं नतां नाकिभि- र्भीतेः पादजुषो जनेन्द्रतनयां तां त्रायमाणां भजे॥ १४-५ ॥ मातर्जानकि जन्मदुर्जरजराकीनाशसन्त्रासितं ग्रस्तं घोरविकारभीमभुजगैर्निर्णाशमासादितम्। क्रन्दन्तं निरये पतन्तमबलं बालं विहीनं दृशा मान्तं पापपयोनिधौ करुणया त्रायस्व मां मैथिलि॥ १४-६ ॥ मातर्मैथिलि मामनाथमशुचिं निश्चेतनं निष्क्रियं निष्प्राणं निरुपायमात्मकुमतौ निघ्नं निरानन्दकम्। निर्द्रव्यं निरुपाश्रयञ्च निचितं नित्यं मलैर्निर्गुणं निर्लज्जं क्षमसे न किं क्षमतया क्षामं क्षमायाः सुते॥ १४-७ ॥ मातर्मन्मथरोषलोभलुलितं कृत्तं कृतान्तासिना निर्वृत्तं व्यथितं विषण्णमनसं चापल्यदोषान्वितम्। लग्नं दुर्जयवासनासु सततं मग्नं विषादार्णवे दृष्ट्वा नो दयसे दयालुहृदये मातुः क्व याता दया॥ १४-८ ॥ मातस्ते हृदये कृपासुरधुनिर्नैसर्गिकी नित्यशो राजन्ती रजसां विमार्ष्टि मनसां राशिं स्वरातात्मनाम्। हृत्वा भोगतृषं कृशं वितनुते संसारघोरश्रमं दुर्भाग्यस्य ममैव पापहृतये तत्राऽपि किं नो जलम्॥ १४-९ ॥ मातर्मैथिलि यापराधशतकं नक्तंदिवाऽनुष्ठितं निस्यन्दं सहसेन वा वितनुषे क्रोधं कदाचिन्मयि। तस्माल्लब्धपशुप्रवृत्तिरनिशं नीचो ह्यभीकोऽभयो जातस्ते तनयः शठः कुटिलधीः कस्ते क्षमाया गुणः॥ १४-१० ॥ मातर्दण्डय मां प्रचण्डविधिभिर्यष्ट्या मुहुर्भीषय तूर्णं भर्त्सय घर्षय स्वपदयोः कृत्वा तले पीडय। कामं ताडय पाणिकञ्जकरजैर्मा देहि मे भोजनं स्वस्मात्किन्तु पदारविन्दयुगलात्पुत्त्रं न दूरं कुरु॥ १४-११ ॥ यां शैवाः शिवमामनन्ति गिरिजां शाक्ता हरिं वैष्णवाः सौराः सूरमिभाननं गणपतेर्भक्ताश्च यं योगिनः। ईशं साङ्ख्यविदः प्रधानपुरुषौ ब्रह्मेति वेदान्तगा- स्तां स्वीयां जननीं मुकुन्दरमणीं सैरध्वजीं चिन्तये॥ १४-१२ ॥ यस्याश्चारुसुधाकराननविभाराजच्चकोरश्चिरं श्रीरामोऽपि बभूव भूरिविभवस्त्रैलोक्यलक्ष्मीमयः। सौन्दर्यामृतवर्षिणी भगवती सौभाग्यभूषावती सीदन्तं कलिकालदारुणभयात्सा जानकी पातु माम्॥ १४-१३ ॥ आर्ये त्वत्सुयशो महात्ममुखतः श्रुत्वा सदोषोऽप्ययं ज्ञात्वा त्वां शिशुवत्सलां धृतिमतीं त्वत्पादमूलं श्रितः। दारिद्र्यानलदग्धकुञ्जरमनाः संसारतापाकुल- स्तिष्ठन् श्रीरघुराजराजमहिषीद्वारे द्विजो भिक्षते॥ १४-१४ ॥ दीनोऽदीनदवाग्निधर्षिततनुस्ताम्यंस्तमोयुक् शठः संसारेण निराकृतो विधिवशाद्भ्राम्यन् यथा कुक्कुरः। आत्मन्येव समाश्रयन् विकलतां बालो बुभुक्षुर्हरेः पत्नीं कोसलनायकस्य भवतीं भक्त्यन्नमुच्चैर्वृणे॥ १४-१५ ॥ मातस्ते विनियोगतो ननु मया भ्रान्तं जगद्योनिषु प्रारब्धानुमतेन संसृतिमता वात्सल्यमुत्पश्यता। सन्तुष्टा नहि चेद्ब्रवीतु पुरतः किं वापराद्धं हि मे तुष्टा चेन्निजनाथपादकमलं रातूपहारं हि मे॥ १४-१६ ॥ आर्ये त्वं करुणालया सहृदया श्रीरामचन्द्रप्रिया सीते पावितचित्रकूटविपिना भावान्विता भामिनी। राक्षस्योऽपि सनाथिताः करुणया वात्सल्यवत्या त्वया हा हा देवि मदुद्धृतौ कथमहो जाता भृशं निर्दया॥ १४-१७ ॥ भद्रे त्वद्गुणगौरवं निगदितुं वेदावतारो हरिः श्रीरामोऽपि न शक्यते पुनरमी ह्यल्पज्ञजीवाः कथम्। किं मे कैतवविक्लवा मतिरसौ त्वत्कीर्तिगाने क्षमा तस्माद्बालकचापलं कृतमिदं देव्या त्वया क्षम्यताम्॥ १४-१८ ॥ सीते सीदति सेवके मयि जने ध्येया स्वका कारुणी मातर्मा समुपेक्षथाः सुतमिमं दुर्भाग्यभावं भवे। भद्रे भर्जय भोगबीजनिकरं सौशील्यमाविष्कुरु विप्रं प्राहि मुकुन्दभक्तिसुधया मां पाहि भो मैथिलि॥ १४-१९ ॥ भावैः परीता श्रुतिगीतगीता रामप्रिया दण्डकभूमिनीता। सती विनीता सरला प्रतीता चित्ते मदीये विचकास्तु सीता॥ १४-२० ॥ त्रैलोक्यलक्ष्मीं वपुषा जयन्तीं कुन्दत्विषं दन्तरुचा हरन्तीम्। रामेण साकं सततं लसन्तीं सीतां स्तुवे मैथिलवैजयन्तीम्॥ १४-२१ ॥ विश्वोद्भवस्थाननिरोधलीलां सौन्दर्यशीलां विमलां सुशीलाम्। नीलाम्बरां दत्तवरां वरेण्यां श्रयामि सीतां जननीं शरण्याम्॥ १४-२२ ॥ सीते त्वदीयं चरणाम्बुजं मे भवत्वघघ्नं निजदासनिघ्नम्। मग्नं भवाब्धौ विषयेषु लग्नं पुषाण मातः शिशुमेव भग्नम्॥ १४-२३ ॥ सञ्जीवनी कोसलराजधान्याः स्वसृप्रिया राघवधर्मपत्नी। विलोक्य कारुण्यविलोकनेन निहन्तु दैन्यं मम जानकीशा॥ १४-२४ ॥ विषयासक्तचित्तस्य निर्घृणस्य जनस्य मे। हृद्गतं विततं कामकश्मलं मथ मैथिलि॥ १४-२५ ॥ श्रीराघवेन्द्रदयिते तेजसा जितपावके। सीते सीदति वात्सल्यवारिभिर्वर्ष शावके॥ १४-२६ ॥ अयोध्यां सुमनोबोध्यां चरणाम्बुजलक्ष्मभिः। मण्डयन्ती विजयते राज्ञी राघववल्लभा॥ १४-२७ ॥ रामप्राणप्रिये रामे रमे राजीवलोचने। राहि राज्ञि रतिं रम्यां रामे राजनि राघवे॥ १४-२८ ॥ कमनकाञ्चनचम्पकसौभगा भगवती भवती भगवत्परा। पतितपावनभावनिभालिका विजयते मिथिलाधिपबालिका॥ १४-२९ ॥ जननि ते पतितं पदपङ्कजे जनमिमं परिपाहि परेश्वरि। हर मनोभवकैतवपावकं मृडय डिम्भमिमं धृतदावकम्॥ १४-३० ॥ भवदवानलदग्धमसद्व्रतं पतितनाथमनाथमनीश्वरम्। विषयवारिधिमीनमसज्जनं जननि लालय लालय लालय॥ १४-३१ ॥ त्रिविधतापरतं धृतपातकं मलिनभोगपयोधरचातकम्। शिशुमसंस्कृतमार्तिगतं खलु क इह पातु विना जननीं श्रियम्॥ १४-३२ ॥ जननि जन्मजराभयपीडितं भवपयोनिधिमज्जनतत्परम्। भृगुसुतं ह्यवितुं निजकिङ्करं कथमहो जगदम्ब विलम्बसे॥ १४-३३ ॥ त्वमसि मे जननी ममतामयी करुणया महिता सहिता व्रतैः। ध्रुवममुष्य समुद्धरणे विधौ सफलयत्नवती भव मैथिलि॥ १४-३४ ॥ तव पुरो रचिता वृहती तती कुटिलकर्मसमुल्लसदेनसाम्। कथमहं धृतपङ्ककलङ्ककं निजमुखं ससुखं तव दर्शये॥ १४-३५ ॥ जय मुकुन्दमुखोडुपकौमुदीकलचकोरि किशोरि महीपतेः। जय जगत्पतिचित्तसरोरुहोरविविभेऽब्जनिभे जय जानकि॥ १४-३६ ॥ धरणिमण्डनमण्डनमण्डने सुखितशैवशरासनखण्डने। वदनकान्तिकलाधरनिन्दिनि मृडय मां मिथिलाधिपनन्दिनि॥ १४-३७ ॥ त्वमसि देवि परा प्रकृतिः पुमांस्त्वमसि निर्गुणचिन्मयचेतना। त्वमसि मञ्जुमतिर्जनदेहिनी त्वमसि कोसलनायकगेहिनी॥ १४-३८ ॥ न जननी जनको न जनः क्वचिज्जननि मे जगतीह सहायकः। अशरणोऽकरणश्चरणस्तव प्रभवतादरणं शरणं मम॥ १४-३९ ॥ त्वमपि मामिह मातरुपेक्ष्यसे शरणमेमि कमाशु निवेदय। रिपुपरिग्रहवत्सलता तव त्रिभुवनेऽनुपमा क्व गता वद॥ १४-४० ॥ सरलता तव मैथिलकन्यके अतिजिगाय रघूत्तमकारुणीम्। अशरणा रजनीचरयोषितस्तव कृपाप्लवतो भवतोऽतरन्॥ १४-४१ ॥ तव दया भुवनत्रयविश्रुता पतितपावनशीलमपि श्रुतम्। मम समुद्धरणे कथमालसा भवति रामपदेक्षणलालसा॥ १४-४२ ॥ सुनयनानयनामृतवर्त्तिके दशरथान्वयमन्दिरदीपिके। प्रणतकामदकल्पलते मते जय सदा विनते नृपतेः सुते॥ १४-४३ ॥ नहि जपो न तपो न मखो व्रतं न हि कदापि शुभं हि मया कृतम्। प्रतिपदं पतितो विपदां पदं पदमुपैमि तवैव सुखप्रदम्॥ १४-४४ ॥ हृदि विभाव्य विशिष्टकुलान्वयं कलितकल्मषदोषसमन्वयम्। परमपातकिमौलिसमाह्वयं द्विजमिमं कुरु जानकि निर्भयम्॥ १४-४५ ॥ अबलदेहमनाश्रितसाधनमृतुविकारघनं ममतावनम्। विकलितं चलितं विधनं जनं मलभरं कुरु लब्धधनुर्धरम्॥ १४-४६ ॥ जननि ते तरुणां करुणां विना रमयितुं ननु रामपदे मनः। कथमहं प्रभवेयमसाधनो हरति नेक्षुरसो मधुलिट्तृषम्॥ १४-४७ ॥ पतिरते रघुनन्दनभामिनि क्षपितजातकपातकयामिनि। स्वपदपद्मनखोडुपरोचिषा मम मनोगमनं परिभाषय॥ १४-४८ ॥ सीतादेव्या मृदुलचरणं मञ्जुलं कञ्जकान्तं सौन्दर्यान्तं विमलरजसा काननान्तं पुनान्तम्। घ्नन्तं ध्वान्तं नखमणिरुचा सौम्यसन्तं महान्तं स्वान्तं शान्तं विदधतमहं भावये भावनान्तम्॥ १४-४९ ॥ श्यामा वामा हरिणनयना दिव्यवेणीं दधाना रामा रम्या सुरमुनिनरैर्यक्षसिद्धैः प्रणम्या। दीव्यन्ती सा नृपतिभवने नीलवासो वसाना कौसल्यायाः सुखदवचना मैथिली मां मिमीताम्॥ १४-५० ॥ मन्दं मन्दं चलितचरणा दक्षिणे केशपाशं वामे पाणौ जवचलतया स्वाञ्चलं धारयन्ती। श्वश्र्वाहूता त्वरितगतिका अम्ब आयामि चेत्थं सीता प्रीता भवतु मधुरं भाषमाणा भवाय॥ १४-५१ ॥ लज्जाभूषा विनतनयना रत्नसिंहासनस्था दिव्यं वासः परिधृतवती नव्यसीमन्तचूडाम्। सानन्दाभिर्युवतिभिरलं वीक्ष्यमाणा मुखाब्जं सीता सा नो रघुकुलवधूः सन्ततं शं तनोतु॥ १४-५२ ॥ क्रीडन्ती सा चकितनयना कन्दुकैः केलिभूमौ राजत्सिञ्जच्चरणविलसन्नूपुरा भूमिपुत्त्री। उत्फुल्लाम्भोरुहमृदुमुखी हासयन्ती हसन्ती भूयाद्भव्या रघुवरसखी मोदयन्ती मुदे नः॥ १४-५३ ॥ रम्योद्याने कुसुमकलिते दुग्धमत्यास्तटे सा श्रुत्वा सीता स्वपतिचरितं कोकिलैर्गीयमानम्। एकान्तस्था प्रकृतिसरला सैकतीं राममूर्तिं कृत्वा प्रेम्णा नयनसलिलैः पूजयन्ती पुनीयात्॥ १४-५४ ॥ तत्रैकान्ते हरितहरिते शाद्वले कुञ्जकान्ते शिष्टा हृष्टा सखिगणवृता सोपविष्टा मुहूर्तम्। ध्यानप्राप्तं रघुकुलमणिं गूहयन्ती हृदब्जे प्रेमोद्रेकात्सजलनयना जानकी मे पुरोऽस्तु॥ १४-५५ ॥ मज्जन्ती सा पयसि विमले दुग्धमत्याः सखीभि- र्गायन्ती श्रीरघुपतिगुणान् साश्रुनेत्रा सुकेशी। चित्तागारे प्रियपतिनिधिं गोपयित्वा दधाना कन्याभावं समनुदधती राजतां राजकन्या॥ १४-५६ ॥ बाल्ये बाला विरचितपटीदम्पतीनां विवाहं लब्धोत्साहा ललितललितं कुर्वती कौतुकाढ्यम्। लीलाशीला प्रियपरिकरीर्लालयन्ती वचोभिः सीता देवी जयति सततं मैथिली वैजयन्ती॥ १४-५७ ॥ प्रासादस्था मधुरमधुरं पावनं रामनाम भर्तुर्दिव्यं कनककलिते पिञ्जरे लालयन्ती। स्निग्धान् मुग्धान् शुकशिशुगणान् सारिकाः पाठयन्ती सा वै सीता विलसतितमां योषितां रत्नभूता॥ १४-५८ ॥ जय मैथिलि मैथिलवंशमहासरसीजनिता सुखदा नलिनी। रघुवंशविभूषणपूषविभाविहिताननपद्मविकासवती॥ १४-५९ ॥ जय जानकि जीवभयापहृते धृतनारितनो तनुतापहते। निजभक्तमनोरथकल्पलते जय रामरते मिथिलेशसुते॥ १४-६० ॥ जय रामनवेन्दुचकोरवधु रघुचन्द्रचकोरशशाङ्कमुखि। जय भूमिसुते मुनिदेवनुते हरिभामिनि भावनते वनिते॥ १४-६१ ॥ तव पादसरोजपरागजुषो न म्रियन्त इहामृतयूषपुषः। तव नाम जपन्त उदारधियः क्षपयन्ति सदैव भवाब्धिभियः॥ १४-६२ ॥ जय मैथिलनायकपुण्यमहासुरपादपचारुलते विनते। जगदम्ब दयामयि पापरते करुणां कुरु दीनसुते प्रणते॥ १४-६३ ॥ रघुनन्दननीरदचातकि हे प्रकृते वनितोत्तमशीलव्रते। ललनाजनलालितमञ्जुमते स्वशिशुं परिपाहि विदेहसुते॥ १४-६४ ॥ अवलम्बय मां भवनीरनिधौ पतितं स्वसुतं बहुपापविधौ। जगदम्ब विलम्बयसे किमहो दयनीयजने प्रकुरुष्व दयाम्॥ १४-६५ ॥ मिथिलाधिपसीरविकर्षणतो महिमण्डलतः समभूद्गुणतः। शिशुभावमिता सुरसिद्धनता जनकाङ्कगता सुहिता दुहिता॥ १४-६६ ॥ कलकुञ्चितकेशकलापवृता मधुराधरपल्लवपद्ममुखी। ललिताङ्घ्रिकराम्बुरुहा सुषमा वरविग्रहिणीव सुता समभूत्॥ १४-६७ ॥ सितमाधवमासमहानवमी महिता हितयाश्रितजन्मतया। अवलोकय मां निजकौतुकतः शिशुरूपमिते जनकेन्द्रसुते॥ १४-६८ ॥ मिथिलाधिराजवंशवैजयन्ति सीते विनयानि भवतीं निखिललोकस्वामिनि। जनककिशोरि रामचन्द्रसुचकोरि गौरि शृणु मम प्रार्थनामयोध्याभूपभामिनि। जगदुपकारहेतोर्मिथिलेशकुले जाता पुत्त्रीभूता भूतभवभूतिनाशकारिणी। कोसलकिशोरवधूः कोसलां सनाथयसि रामभद्रभव्यमञ्जुमानसविहारिणी। वेदशेषशङ्करगणेशशारदाभिरपि वक्तुं नहि शक्यते त्वदीयगुणमालिका। अञ्जनातनयशीलविनयप्रणयप्रीता सीता मयि करुणां करोतु भूमिबालिका। जानन्निजक्रूरकर्म जननीं शरणमितो देवि मा विधेहि रोषं शिशौ मलदेहिनि। भृगुसुतमबलमनाथमन्धमज्ञमेनं पाहि पाहि पाहि सीते कोसलेन्द्रगेहिनि॥ १४-६९ ॥ वन्दे वन्दितचरणसरोजां मधुकरनिन्दितकुटिलशिरोजाम्। चम्पकसरसिजसमतनुशोभां विगलितसेवकमन्मथलोभाम्। रघुनन्दनमुखचन्द्रचकोरी जयति सदा श्रीजनककिशोरी॥ १४-७० ॥ धरणिसुता हरिगृहिणी श्यामा नारिललाम सतामभिरामा। रावणकुलपङ्कजहिमयामिनि पाहि शिशुं मां रघुवरभामिनि। भरतवत्सले भावविनीते जननि शिशुं परिपालय सीते॥ १४-७१ ॥ महाघोरशोकाग्निना दह्यमानं पतन्तं निरासारसंसारसिन्धौ। अनाथं जडं मोहजालेन बद्धं शिशुं पातु मां मैथिली मन्दभाग्यम्॥ १४-७२ ॥ व्रतं नो तपो नो जपो नैव पूजा न चेष्टं श्रुतं नो हुतं नैव दत्तम्। अशक्तोऽधमः पापकर्मा मदान्धः श्रये सीरकेतोःसुतापादमूलम्॥ १४-७३ ॥ त्वमेवासि माता पिता त्वं हितैषी सुहृत्त्वञ्च बन्धुः सखा त्वं हि वित्तम्। अतस्त्वां श्रयेऽहं शरण्ये वरेण्ये न हातव्य एषश्शिशुर्दीनहीनः॥ १४-७४ ॥ अरुणकमलदललोचनि हे नतसुरमुनिवृन्दे। सज्जनशोकविमोचनि हे कृतदामिनिनिन्दे। हिमकरवदनसुदशने हे विकसितमुखकञ्जे। रघुवरगृहिणि वदान्ये हे धृतगुणगणकुञ्जे। लक्ष्मणलालितचरणे हे श्रुतिविश्रुतगीते। करुणय देवि शुभं नय हे सीदति मयि सीते। मारुतिमोदविवर्धिनि हे पदविलसदरण्ये। शरणमितं भृगुभवमव हे मम जननि शरण्ये॥ १४-७५ ॥ जय जय जय जगदम्ब जनावनि रघुपतिभामिनि सीते। जय जय जानकि भवभवभामिनि जय जय भावविनीते। विहरसि दुग्धमतीमृदुपुलिने कुरुषे मोदप्रमोदम्। साकं रसिकराजरघुपतिना तनुषे विविधविनोदम्। मिथिलोपवनसघनतृणपल्लवविरचितमञ्जुलकुञ्जे। रमसे रामचन्द्रमुखचन्द्रे अर्पितलोचनकञ्जे। भृगुसुतमव हे बालवत्सले मथ मैथिलि मम कामम्। विहर मदीये मानससदने सन्दर्शय श्रीरामम्॥ १४-७६ ॥ अशेषसौन्दर्यविलाससम्भ्रमा विभग्नभक्ताखिलभेदविभ्रमा। समस्तकल्याणनिधानविग्रहा चकास्ति सीता कृतदोषनिग्रहा॥ १४-७७ ॥ अनादिकालीनकुभोगवासनाशनं महापापभयं मलाशनम्। सुभक्तिरज्ज्वा प्रभुपादपङ्कजे सिनोतु सीता मम वै मनःपशुम्॥ १४-७८ ॥ भ्रमन् महाघोरभवाटवीं मनो बुभुक्षितं लोभतृषा भृशं कृशम्। विशीर्णसत्त्वं विषयस्पृशं भृशं धिनोतु सीता वरभक्तिवारिणा॥ १४-७९ ॥ प्रपन्नतापोपशमातपत्रितं प्रवालताम्रं नखचन्द्रदीधितिम्। कुमस्तके मे कृतपापपङ्किले निधेहि सीते निजपाणिपल्लवम्॥ १४-८० ॥ भ्रमन्तमस्पृष्टसुखं सुदुर्मुखं विकारजग्धं झषकेतुकिङ्करम्। जगच्छरण्ये शरणागतं हि मां विधेहि दासं निजनाथपादयोः॥ १४-८१ ॥ सदापराध्यामि निरङ्कुशः शठो हठी खलो दर्शितसाधुसम्भ्रमः। तथापि मां मर्षय मैथिलात्मजे न पुत्त्रदोषान् गणयन्ति मातरः॥ १४-८२ ॥ प्रसीद सीते कृतकिल्बिषे मयि निषीद चित्ते सह राघवेण मे। विषीद मा दृष्टमदीयकल्मषा क्षमस्व मातर्मम बालचापलम्॥ १४-८३ ॥ पुण्यारण्ये वरेण्ये लसदवनितलात्सीरफालाग्रपूता- त्प्रादुर्भूता स्वभासा विगलिततमसा द्योतयन्ती दिगन्तम्। सौन्दर्याढ्या सुशीला गुणगणनिलया चित्रकूटं पुनाना चित्तं नीता विनीता सुरगणमहिता श्रेयसे मेऽस्तु सीता॥ १४-८४ ॥ यस्याः सौन्दर्यलक्ष्मीललितलघुलसल्लोललीलाकटाक्ष- व्याक्षेपाक्षिप्तचित्तो रघुकुलतिलकः स्वीयलावण्यदर्पम्। न्यूनं मत्वा तदीयस्मितिमुखशशिनो लिप्सयाभूच्चकोरः सा सीता रामभार्या निवसतु सततं मानसे मन्दिरे मे॥ १४-८५ ॥ नाहं जाने जपाख्यां न मखविधिमहो नैव योगव्रतं नो नो वेदं नो पुराणं बृहदुपनिषदो गूढवेदान्ततत्त्वाः। पापी मिथ्याप्रलापी पतितकुलमणिर्घोरतापी तथापि सीतां श्रीरामभार्यां त्रिभुवनजननीं जानकीमेव जाने॥ १४-८६ ॥ रे रे चेतो मदीयं भवगहनवनेऽनादिकालादजस्रं भ्रामं भ्रामं भ्रमेण ह्रसितबलमथो नो विरामं प्रयासि। छित्त्वा सम्मोहबन्धं विषमिव विषयं भोगभोग्यं विहाय श्रीसीतापादपद्मे मधुकर इव भो सानुरागं रमस्व॥ १४-८७ ॥ कोऽप्युपास्तां निराकारमाकारवद्ब्रह्म कोऽपि प्रपद्येत लीलामयम्। मन्मनोमन्दिरे किन्तु रामप्रिया राजतां रामराज्ञी सदा जानकी॥ १४-८८ ॥ हे हरेर्वल्लभे ज्ञानिनां दुर्लभे प्रेमपीयूषभाजां हृदिस्थे सदा। रक्ष मां राक्षसेभ्यो भृशं पीडितं रामभद्राय मे त्वं व्यथां वर्णयेः॥ १४-८९ ॥ कदाचित्पर्यङ्के छविजितशशाङ्के स्वरचिते शयानं श्रीरामं जनदृगभिरामं विदधती। द्रुतं चोक्त्वा काश्चित्करुणतमगाथा जननि मे शिशुं दीनं हीनं भृगुभवमपि स्मारय शुभे॥ १४-९० ॥ अमुष्मिन् पाथोधावमितसलिले दुष्कृतरणे निमज्जन्तं दीनं पतितपतितं मूढमनसम्। निराधारं बालं गलितनयनं पापमलिनं प्रभो त्रायस्वैनं द्विजसुतमनाथं रघुपते॥ १४-९१ ॥ तवोक्तं श्रुत्वा चेद्रघुपतिरनाथैकशरणः समालिङ्गेद्दोर्भ्यां पतितमपि मां दीनहितकृत्। तदाऽहं ते भर्तुर्भुवनविदितं मङ्गलयशो मुदा गायं गायं सुखमिव तरेयं भवनिधेः॥ १४-९२ ॥ पदं ध्यायं ध्यायं जननि तव पङ्केरुहसमं गुणं गायं गायं जनकतनयाजीवनहरेः। रसं पायं पायं तव पतिचरित्रेन्दुजनितं मनो धायं धायं सुखमनुभवेयं त्वयि शुभे॥ १४-९३ ॥ रमे रामे रम्ये कुशलवसुते राममहिषि महातेजोराशे पवनजनताम्भोजचरणे। अये सम्पूताग्ने दशवदनदर्पघ्नचरिते विनीते श्रीसीते जननि भवतापं शमय मे॥ १४-९४ ॥ हे रामचन्द्रमुखचन्द्रचकोरि सीते हे सीरकेतुकुलकैरवकौमुदीत्विट्। हे पादपद्मनतसेवकशोकहन्त्रि मातर्ममापि दुरितं हर हेमशोभे॥ १४-९५ ॥ ज्ञातं मया बुधजनात्तव भर्तृराज्ये दारिद्र्यवान्न सभयो निरयी न कोऽपि। किन्तु त्वदीयपतिजन्मसुवत्सलक्ष्मपादाब्जगोत्रभवकोऽहमहो विषण्णः॥ १४-९६ ॥ जनकनृपसुते त्वं भामिनी लोकभर्तुः सुविदितकरुणा ते राघवीं चातिशेते। मयि विगलितनेत्रे कारुणी किन्न जाता निजकृतपरिपाकं देवि भुञ्जेऽधुनापि॥ १४-९७ ॥ भगवति भवदीयं पादपद्मं निषेव्य सकलसुबलमौलिर्भक्तिवर्यो हनूमान्। निजवशमपि चक्रे रामभद्रं ममापि हर जननि दुरन्तां वेदनां वेदवेद्ये॥ १४-९८ ॥ शमय मम भवाधिं राघवं दर्शय त्वं रमय पतिपदाब्जे चञ्चलं चित्तभृङ्गम्। मम हृदयनिकुञ्जे रामचन्द्रेण साकं विहर जननि सीते नीरदेनेव शम्पा॥ १४-९९ ॥ इत्थं निवेद्य वरवर्षयुगेड्यवृत्तैः सैरध्वजीचरणपङ्कजलब्धभक्तिः। स्तोत्रं मुदा परशुराम उदारवृत्तां सीतां प्रणम्य समगात्कुधरारिशैलम्॥ १४-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः श्रुतीशः कविरामभद्राचार्यप्रणीते भवताच्छ्रियै नः॥ १४-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीसीतास्तवनं नाम चतुर्दशः सर्गः।