एकादशः सर्गः


धर्मोत्तराधिधरमुत्तरदिग्विभागे पुष्यत्परागपरिपङ्कजपद्मरागे। पायोजपौत्त्रिपयउज्झितपापरागे भातीन्द्रनम्रनगरी नगरी अयोध्या॥ ११-१ ॥ साकेतधाम्नि समनाम्नि लसत्प्रतिष्ठा गन्धर्वनागनरकिन्नरलब्धनिष्ठा। वैकुण्ठतोऽपि विशदा विरजा वरिष्ठा या मोक्षदायकपुरां पुरतः प्रथिष्ठा॥ ११-२ ॥ विज्ञातरामरमणीयनरावतारा त्रेतायुगे भरतभूमिमिनञ्च पूर्वम्। ऊर्जे सितेऽभिनवमीमगमत्सरय्वा प्रत्युद्यियाषुरिव सेवकधर्म एषः॥ ११-३ ॥ वैवस्वतेन मनुनार्पितवाससीमा सीमन्तिनीव लसितामितसल्ललामा। सत्यव्रतेन महिता शुचिसत्यनामा मातङ्गवाजिरथरोचितदिव्यधामा॥ ११-४ ॥ या चायता तपनसङ्ख्यकयोजनानि शर्वाक्षियोजनसुविस्तरमण्डिताशा। सुव्यक्तचत्वरमहापथराजरथ्या वीथीव मस्तकमयी ललिता धरण्याः॥ ११-५ ॥ आदित्यवंशजनुषां क्षितिपेश्वराणां वैवस्वदादथ मनोः प्रभृति प्रतीता। प्रीतात्मनां स्वगुणजीवितजीवधानी याभूदपास्तरजसां शुभराजधानी॥ ११-६ ॥ या सूर्यकेतनविनन्दितसूर्यबिम्बा व्रीड्यच्छशाङ्ककलशालयसत्कदम्बा। कादम्बिनीव जगतीं स्वयशःपयोभिर्नित्यं निषिञ्चति निरस्तनिसर्गदोषा॥ ११-७ ॥ यस्या गृहान् रचितवानजविश्वकर्मा स्थापत्यनैपुणकलाकुलकौशलानि। हर्म्याणि रत्नखचितानि हिरण्मयानि स्वर्ग्याणि चापि जहसुर्दिनकृद्विभानि॥ ११-८ ॥ कीराश्च पञ्जरगताः सह सारिकाभिर्नित्यं जगुः श्रुतिप्रमाणमुदाहरन्तः। सीतापतेः पतितपावननित्यलीलालीलायिताः श्रितसुधाकरसारवाचः॥ ११-९ ॥ यस्यामयोवदचलीकृतदेहचिन्ता ध्यायन्ति राममनघं नृपतोकरूपम्। यायोहरिद्रुहिणशम्भुभिरात्तभावैर्ध्याता बुधा अत इमां निगदन्त्ययोध्याम्॥ ११-१० ॥ इक्ष्वाकुवंश्यरणचण्डमहीपमुख्यैर्या पालिताविरतमाप्तमहाप्रयासैः। नायोध्यते तत इयं सुदुरासदत्वाच्छत्रूञ्जयैररिभिरस्तपराक्रमैश्च॥ ११-११ ॥ ब्रह्मेन्दुशेखरकृपावरतीक्ष्णदर्पः पौलस्त्यवंशवरवैणववन्यवह्निः। यां रावणोऽपि न शशाक तिरोऽवधातुं श्रीराघवैः कृतदुरत्ययभीममार्गाम्॥ ११-१२ ॥ तस्या उदीचिदिशि भाति सदा सुधाम्बुः श्रीशाम्बकाब्जमकरन्दमयी मनोज्ञा। शाश्वत्प्रसन्नसलिला सरयूः सदाया संसारचक्रविनिबर्हणलब्धदीक्षा॥ ११-१३ ॥ यस्यास्तटेषु यतयोऽरतयो जगत्या धीराः सदा परमहंसगणा गरिष्ठाः। निर्माय पर्णतृणचारुकुटीरयूथं प्रेम्णा वसन्ति भगवन्तमुपाश्रयन्तः॥ ११-१४ ॥ यस्यां जनो निजकलेवरकं कथञ्चित्त्यक्त्वा पुनर्भवभयानकसिन्धुमुग्रम्। भूयो नहि प्रपतति प्रपितामहस्य सामीप्यमेति विनतासुतपक्षवाह्यः॥ ११-१५ ॥ तस्यां बभूव नृप ऐन्दुमतेय आजिराजावथाप्यतिरथः स सखा बलघ्नः। दानी दमी दशरथो दशमस्तकोऽपि यन्मस्तकं नमयितुं न शशाक यत्नात्॥ ११-१६ ॥ स्वायम्भुवो मनुरधिश्रितदाशरथ्यः पत्न्या च कोसलजया शतरूपयाद्यः। कौसल्यया कृतविवाहविधिर्विधिज्ञो रेमे महेश इव मामयमैरवेय्या॥ ११-१७ ॥ भूयोऽपि कैकयनरेन्द्रसुतां सुभामां सौन्दर्यसारचकितीकृतकामवामाम्। वामोरुमम्बुजदृशं वनितां व्युवाह प्रीत्या शशीव सुदतीं ननु रोहिणीं सः॥ ११-१८ ॥ राजा सुमित्रतनयां वनितां सुमित्रां गङ्गामिवामलधियं गुणतः पवित्राम्। तामग्रहीन्मगधवैभववैजयन्तीं देवीमिवादितिमसौ च मरीचिपुत्त्रः॥ ११-१९ ॥ इत्थं मुदा स तिसृभिर्गृहमेधिनीभिस्तुल्यान्वयाभिरनघाभिरमन्दभाभिः। राजा रराज रुचिताभिरिवात्तसारो नव्यो नयः समुदितः किल शक्तिभिः सः॥ ११-२० ॥ ताभिर्बभौ स रघुपौत्त्र उदारवृत्तो भार्याभिरात्मसदृशीभिरनुव्रताभिः। गङ्गादिनेशतनयान्तरिताम्बुभिर्वै युक्तः प्रशस्तमहिमेव परः पयोधिः॥ ११-२१ ॥ कौसल्यया स शुशुभे मघवानिवैन्द्र्या स्वामीव केकयजया पयसां प्रतीच्या। राजा सुमित्रसुतयोत्तरयेव शैवो भावं गतो दशरथस्तिसृभिस्त्रयाणाम्॥ ११-२२ ॥ अष्टाभिरीड्यचरितैर्नयवर्त्मविद्भिर्विज्ञैर्नृपानुगमनैः सुमहानुभावैः। वित्तो विनीतसचिवैः स सुमन्त्रमुख्यैरष्टाभिरात्मप्रतिमाभिरिवाष्टमूर्तिः॥ ११-२३ ॥ जित्वा दिशो दशरथो दश दस्युतापी तापिच्छनीलरुचिमच्युतमेव बिभ्रत्। चित्तेऽचिरेण भुवनानि चतुर्दशाप्त्वा यश्चक्रवर्तिपदवीं पुरुहूततोऽगात्॥ ११-२४ ॥ आस्थाय देवमहितां निजराजधानीमृद्धां प्रसन्नजनतां नगरीमयोध्याम्। भूपो बुभोज भुवनानि भुजप्रतापप्रोत्तप्तशत्रुनिकरो रविवंशकेतुः॥ ११-२५ ॥ वव्रे पुरोहितमृषिं स वसिष्ठमीड्यं यो ब्रह्मणोऽष्टमसुतः प्रथमेऽन्तरेऽभूत्। आथर्वणिः प्रथयिता प्रथमोऽग्निहोत्रशश्वद्विधेः सकलयज्वशिरोमणिश्च॥ ११-२६ ॥ मन्त्री सुमन्त्रसदृशः सुगुरुर्वसिष्ठः पत्न्यश्च कोसलसुताप्रमुखाः सुकोषः। एकातपत्रवसुधातलराज्यमृद्धं शक्रः सखा महति सर्वमपि ह्यपूर्वम्॥ ११-२७ ॥ राजा जुगोप सुतवत्प्रकृतीः पितेव वर्णाश्रमानुमतधर्मरताः प्रसन्नाः। काले ववर्ष मघवा मघवत्सहाये तस्मिन् रघुप्रवरराजनि राजमाने॥ ११-२८ ॥ इत्थं प्रजाः समनुपालयतो जितारेर्धर्मात्मनो दशरथस्य महारथस्य। जग्मुः समा अहह षष्टिसहस्रसङ्ख्या राज्ञः सदा स्पृहयतः सुतलालनाय॥ ११-२९ ॥ सोऽप्येकदा समनवाप्तसुतः फलर्द्धेर्हीनं यथा द्रुममिवावसथं विदीपम्। शून्यं सरोवरमिवाम्बुजसम्पदेव प्राणं विना तनुमसौ स्वमथो शुशोच॥ ११-३० ॥ दीर्घप्रजागरजडीकृतपक्ष्मपङ्क्तिरारक्तनेत्रनलिनो मलिनाम्बुजास्यः। पद्भ्यां जगाम गुरुमेव गुरुत्वमाप्तुं सत्सङ्गमो हि जनवाञ्छितपारिजातः॥ ११-३१ ॥ तं चारुचन्द्ररुचमाननचन्द्रहासपीयूषसीकरकरैर्हठतो हरन्तम्। श्रद्धावतां त्रिविधतापमथो कलापं घोरैनसां गुरुमुपोटजमभ्यपश्यत्॥ ११-३२ ॥ सिञ्चन्तमाम्रविटपान् सरयूपयोभिः पूर्णेन मृन्मयघटेन च वत्सलत्वात्। सानन्दमीड्यचरितं गृहिणीसहायं पश्यन्तमादरदृशा तमरुन्धतीं च॥ ११-३३ ॥ आजानुलम्बिवरबाहुमदीनसत्त्वं दिव्योपवीतकलितं शुचिनिम्ननाभिम्। व्यूढोरसं सुवदनं ललितोर्ध्वपुण्ड्रप्रोद्यल्ललाटपटलं श्रमबिन्दुभूषम्॥ ११-३४ ॥ तं चक्रवर्तिनमसौ नृपचक्रवर्ती स ब्रह्मणामनुपमं परिवीक्ष्य दूरात्। मोदं ययौ दशरथो विगताध्वखेदः सद्दर्शनं सफलयत्यभिलाषमारात्॥ ११-३५ ॥ पृच्छानि सिञ्चति गुरौ च तदङ्घ्रियुग्मं नूनं व्रजामि शरणं तनयाभिलाषी। देवो मदीप्सिततरुं कृपयाभिषिञ्चेत्सन्तानचारुफलमित्यभवत्प्रसन्नः॥ ११-३६ ॥ यावद्विलोक्य नृपतिं गुरुरुज्झितस्वव्यापार इच्छति सभाजयितुं महीपम्। तावद्द्रुतं दशरथोऽपि तदङ्घ्रिरेणुं मूर्ध्ना दधार हि महान् विनयी प्रकृत्या॥ ११-३७ ॥ तं वन्द्यमानचरणं समुवाच वाचं वाचंयमो महिपमौलिमणिं मनस्वी। स्वस्त्यस्तु ते नरपते भव पूर्णकामः सत्याशिषोऽप्यथ फलाढ्यगिरो हि सन्तः॥ ११-३८ ॥ आनीय नीपनिचितां निजपर्णशालां वेदीप्रदीप्तबलिवल्गितदीपमालाम्। दिव्याञ्च देवगविगोमयलिप्तभूमिं विप्रो नृणामिनमनामयमभ्यपृच्छत्॥ ११-३९ ॥ दिष्ट्या विवर्धस इनावनिमण्डलस्य राज्ये गृहे वपुषि कच्चिदनामयन्ते। हेमन्ततामरसकोषमिवाप्तशोषं पश्यामि ते वदनमत्र वदस्व हेतुम्॥ ११-४० ॥ तं पृष्टवार्तमिदमार्ततरं बभाषे भास्वत्कुलाम्बुरुहभास्कर उष्णवीर्यैः। आचार्यशीतलपदाब्जयुगं सतापं सन्तापयन् नयननिर्झरवारिपूरैः॥ ११-४१ ॥ सर्वत्र कोसलगुरो भवतः कृपाख्या कादम्बिनी समनुवर्षति कौशलाम्बु। एकं ममैव भवनं दुरवग्रहेण ग्रस्तं निदाघ इव शून्यसरो न भाति॥ ११-४२ ॥ आचार्यदेव महितासु तव स्नुषासु तुल्यान्वयासु तिसृषु ह्यनवाप्तपुत्त्रः। चेखिद्य एष जन आप्तसुरापगोऽपि सिन्धुर्यथा विरहितोऽहमनल्परत्नैः॥ ११-४३ ॥ किं तेन देवतरुणा बुधवन्दितेन स्निग्धप्रसूतिरहितेन निरर्थकेन। किं कृष्णया विरलया घनमालया भो या नो प्रवर्षति जलं स्तनति प्रघोरम्॥ ११-४४ ॥ एकोऽपि चेत्समनुवंशवधूप्रसूतः श्राद्धं सुतः प्रकुरुतां मुदितो गयायाम्। उद्धृत्य घोरनरकात्पितरं स पुत्त्रः स्वर्गे प्रमोदयतु मोदत आप्तकीर्तिः॥ ११-४५ ॥ तस्मादहं विगतपुत्त्रसुखो भृशार्तः श्रीमत्पदाब्जशरणं समुपैमि दीनः। त्रायस्व मां करुणया विधिवंशकेतो त्वं भास्करान्वयपयोरुहरश्मिराशिः॥ ११-४६ ॥ इत्थं निवेद्य गुरवे गुरुताभिलाषं बाष्पायमाणनयनो नयनाभिरामम्। निष्पन्दितेऽन्तरधरे रसपल्लवेऽसौ ज्योत्स्ना इवामृतजुषोऽथ जगाम जोषम्॥ ११-४७ ॥ जोषं गते धरणियोषिति तीव्रचिन्ते चिन्तामणिः पदजुषां स विचिन्त्य चित्ते। चिन्तां हरन् हरिसखस्य वचो बभाषे विद्वान् हरेर्हरिकुले मनुजावतारम्॥ ११-४८ ॥ राजन् प्रसीद मृदुमानस मा विषीद धैर्यं धरस्व शृणु मद्गिरमादरेण। क्षिप्रं जगद्गुरुगुरुर्भवितासि भूयो विष्णोरिवादितिपतिः पतिताघहर्तुः॥ ११-४९ ॥ राजन् तिसृष्वपि भवद्गृहिणीषु साक्षात्कृत्वा तनूरथ शुभा भगवांश्चतस्रः। पुत्त्रत्वमेत्य तव भूतलभूरिभारं हर्ता हरिर्हरिसुहृद्भव वीतशङ्कः॥ ११-५० ॥ एवं विसृज्य विधिजो विधिनामपुत्त्रमाहूय होमविधिवित्तममृष्यशृङ्गम्। आयोजयन्निजसुतोत्तरतीर आर्षं यज्ञं महेन्द्रसखपुत्त्रफलं स यज्वा॥ ११-५१ ॥ कौसल्यया दशरथः सह दीक्ष्यमाणश्चक्रेऽश्वमेधमधिराजमथो मखानाम्। येनैनसः प्रमुमुचेऽस्य सखा पुरैव त्वाष्ट्रप्रणाशजनितात्तुहिनात्पपीर्वा॥ ११-५२ ॥ बभ्राम वर्षमधिभूतलमस्य वाजी श्रीचक्रवर्तिजयसूचकपत्त्रकण्ठः। यं रावणोऽपि न शशाक बलान्निरोद्धुं सङ्कल्पसर्गमिव भक्तिमतो नरादः॥ ११-५३ ॥ भूयोऽगमत्समभिभूपतिह्रेषमाणः श्रीचक्रवर्तिविजयस्य यथा प्रमाणम्। पूर्णोऽभवद्दशरथस्य मखोऽश्वमेधो विप्रेन्द्रमन्त्रविधिविश्रुतदिग्विभागः॥ ११-५४ ॥ ईजे स विश्वजितमेव च राजसूयं सन्तोष्य विप्रचयमर्पितदानभूयम्। यज्ञैस्त्रिभिर्निहतपापकलापतापो राजा रराज विरजा मघवानिव स्वः॥ ११-५५ ॥ भूयो वसिष्ठमतमेत्य स ऋष्यशृङ्गः पुत्त्रेष्टिमारभत पुत्त्रफलां फलेप्सुः। भक्त्या जुहाव हुतहव्यभुजां वरिष्ठो मन्त्रैरथर्वशिरसो हविषेव धाता॥ ११-५६ ॥ तस्मिन्मखे हविषि मन्त्रिणि हूयमाने वह्निर्विशिष्टवपुषा प्रकटो बभूव। मन्दस्मितं दशरथं परिवीक्ष्यमाणः संसूचयन्निव समीप्सितकार्यसिद्धिम्॥ ११-५७ ॥ आरक्तवर्णवसनो दशनप्रभाभिर्निन्दन्नवेन्दुममलं तपनीयवर्णः। उत्सेधलज्जितहिमाचलशैलकूटः कूटं हरन्निव निसर्गनिरीक्षणेन॥ ११-५८ ॥ दोर्भ्यां वहन् कनकभाजनमप्रमेयं दिव्यान्नपायसयुतं रजतच्छदञ्च। यस्मिन् पुराणपुरुषः षडनूत्तमांशैः साक्षाद्रराज भगवान्नभसीव नादः॥ ११-५९ ॥ तं वीक्ष्य वीक्षणमहाक्षणमक्षणानामग्र्यं हिरण्यगुरुमग्रजमग्रजानाम्। नाथो नृणामनमदग्रजपुङ्गवानां ज्येष्ठं स सांसदगणैः सह पुण्यकीर्तिम्॥ ११-६० ॥ पूर्णा मखा द्विजगणैः परियाज्यमानाः पूर्णोऽभवन्मनुजराज मनोरथस्ते। पूर्णो विलोकयसि भोः सुततां गतानां पुर्णेन्दुसम्मितमुखानि सुरोत्तमानाम्॥ ११-६१ ॥ यद्यद्वसिष्ठ इहते मनसा भविष्यत्कार्यं व्यभावयदहो विबुधैरचिन्त्यम्। तत्तद्विलोकय नरेन्द्र निसर्गसिद्धं सङ्कल्पसिद्धमहतो ह्यनुयाति सिद्धिः॥ ११-६२ ॥ एतं चरुं कलितपूरुषसत्त्वमीड्यं पत्नीसु भूप विभजस्व यथानुपूर्व्यम्। आस्वेव लप्स्यस इमांश्चतुरस्सुपुत्त्रान् त्रय्याम्पुमानिव पुमर्थचतुष्टयं त्वम्॥ ११-६३ ॥ इत्येवमादि रघुवंशमणिं निदिश्य सोऽन्तर्दधे दहन एषु पवित्रकर्मा। पश्यत्सु सत्सु विबुधेष्वभितः प्रसूनैर्वर्षत्सु लब्धचरुरास्त नृपः कृतार्थः॥ ११-६४ ॥ लब्ध्वा वैश्वानराच्छ्रीहविरिव नृपतिः श्रोत्रियाद्ब्रह्मबोधं जिज्ञासुः प्रीतचेता अधिमखभवनं पूजितब्रह्मपुत्त्रः। ऋत्विग्विप्रर्षिवृन्दैः कृतसकलविधिं ब्रह्मगर्भं प्रियासु प्रीत्या धित्सुर्गुरूक्त्या शकलितविभवं भक्तितस्तद्विभेजे॥ ११-६५ ॥ कौसल्यायै तदर्धं सहरि दशरथः प्रादिशत्तच्चतुर्थं कैकेय्यै चेश्वराढ्यं कृतशकलयुगं तूर्यमाढ्यं विकाभ्याम्। कौसल्याकैकयीभ्यां प्रकृतिबहुमतां भोजयिष्यन् सुमित्रां विद्याभ्यां ब्रह्मणी द्वे मतिमिव मतिमान् राजराजो रराज॥ ११-६६ ॥ इत्थं राज्ञो महिष्यः सुचरितचरुतो लब्धगर्भा बभूवू रेजू राजीवनेत्रा नरपतिमणिना दत्तसौभाग्यभाराः। यज्ञं सम्पाद्य चेष्ट्वा रघुकिलतिलको ब्राह्मणानृत्विजांश्च मन्त्राशीर्वादवाद्यैरनुनदितनभा राजगेहं प्रतस्थे॥ ११-६७ ॥ कौसल्या त्यक्तशल्या जगदुदयकरं गर्भदेशे दधाना क्षौमं वासो वसाना नरपतिमणिना दत्तमाना ददाना। दानं मानं द्विजेभ्यो मगधनृपसुताकैकयीभ्यामुपेता रेजे राजीववक्त्रा त्रिदिवमभिगता देवमातेव मान्या॥ ११-६८ ॥ देवाश्चाप्याप्तसेवाः प्रमुदितमनसः शार्ङ्गिणस्त्यक्तभोगा- स्तिर्यग्योनिं प्रपन्ना धृतकपिवपुषो वन्यवृत्त्या चरन्तः। वीर्योद्रेकाल्लसन्तो रघुपतिपदवीं मार्गयन्तो वसन्तः सन्तः सौभाग्यवन्तः कृतविपुलबलाः शैलवृक्षप्रहाराः॥ ११-६९ ॥ शम्भुः श्रीरामसेवासुलभकपितनुं सादरं स्वीकरिष्यन् त्यक्त्वा कैलासवासं परमपशुपतिर्मारुतादञ्जनायाम्। जातो जाम्बूनदाभो भुवनहितकरो जातरूपाद्रिदेहो गेहः सौशील्यधाम्नोर्दनुजकुलरिपुर्वज्रसारो हनूमान्॥ ११-७० ॥ श्रीरामं पूर्णकामं खलकुलहतये भारतीमाव्रजन्तं ज्ञात्वा साकेतधाम्नो गुणगणमहितां ब्रह्मबोध्यामयोध्याम्। पुष्पै राशैः सहासैः नवकिसलयकैः फुल्लराजीवराजी प्रत्युद्यातुं समायान्मलयजमरुता मोदकान्तो वसन्तः॥ ११-७१ ॥ प्रातःपाथोजपुञ्जप्रथितरसमदा मञ्जुभृङ्गा जुगुञ्जु- स्तिष्ठन्नाम्रे नताम्रो मधुरतरगिरा कोकिलो ना चुकूज। मन्दं मन्दं समीरः शिशिरितसरयूनीरधीरो गभीर- स्तीरे तीरे कुटीरे निखिलमुनिगणान् सेवमानः स्म वाति॥ ११-७२ ॥ कौसल्यागर्भसिन्धौ विलसितवपुषः सत्यसन्धस्य जिष्णोः सानन्दं संव्यतीताः ससुखमिव विधोर्द्वादशैते हि मासाः। योगो लग्नं च वारो ग्रहकलिततिथिः सर्वमेवानुकूलं श्रीरामस्यावतारे दनुजवनभिदो भूमिभारापहारेः॥ ११-७३ ॥ मेषे श्रीमान् विवस्वान्मकरगतकुजो भानुपुत्त्रस्तुलायां कर्कस्थोऽतर्कसंस्थो विबुधकुलगुरुर्गीष्पतिश्चापि रेजे। शुक्रो मीनेऽप्यदीनो दनुजकुलगुरुः सोच्चसंस्था ग्रहा वै आगच्छत्याप्तकामे दशरथभवनं सर्वमासीत्प्रशस्तम्॥ ११-७४ ॥ चैत्रे शोभार्कजैत्रे कुभुवि मधुमये शुक्लपक्षे नवम्यां मध्याह्ने सन्निधाने वियति दिनमणौ लोकविश्रामकाले। स्वेष्टापूर्ते मुहूर्तेऽभिजिति स भगवान् ब्रह्म साक्षादिवैन्द्र्यां कौसल्यायां मृगाङ्कः प्रकटितविभवो राम आविर्बभूव॥ ११-७५ ॥ श्रीरामः कामकामो नवजलदरुची रत्नराजत्किरीटः केयूरासक्तबाहुर्दशवदनविधो राहुरुद्यत्प्रतापः। श्रीशार्ङ्गं सन्निषङ्गं खलकुलकदनं चण्डबाणं दधानः कौसल्यापुण्यराशिः स्मितवदनशशी मञ्जुमूर्तिर्बभासे॥ ११-७६ ॥ श्रीवत्साङ्कं मृगाङ्कं सुमसृणसुषमं भानुजागर्भसिन्धोः पूर्णं पूर्णावतारं प्रणतभयहरं कोटिकन्दर्पकान्तम्। दर्शं दर्शं सहर्षं विनिमिषनयना नागरी नम्रमूर्धा कौसल्या भग्नशल्या सुतमतिरुचिरं नैव तृप्तिं जगाम॥ ११-७७ ॥ आहैनं भक्तिनम्रा जय जय भगवन् ब्रह्म पूर्णावतारिन् जानामि त्वां पुराणं सकलविभुमहाविष्णुमीड्यावतारम्। संहृत्यैतत्स्वरूपं जननयनसुखं बालरूपं भजस्व स्निग्धा ते बाललीला सततमथ बुधैर्गीयतां कोसलेन्दो॥ ११-७८ ॥ श्रुत्वा मातुर्वचोऽसौ स्मितमुखकमलो भक्तभावानुगामी भूत्वा बालोऽप्यबालः सुधितकलगिरं मन्दमन्दं रुरोद। कौसल्याङ्के विराजन् लघुघनवपुषा बाललीलां वितन्वन् ब्रह्माण्डानेककर्ता सदयहृदयया चुम्बितास्यो जनन्या॥ ११-७९ ॥ कौसल्यायां स रामो धृतमनुजतनुर्बाल आविर्बभूव पश्चाच्छ्रीकैकयीतः शुभरतभरतो जन्म लेभे सुशीलः। एका देवी सुमित्राजनयदथ सुतौ लक्ष्मणं लक्ष्मभाजं शत्रुघ्नं भूपवर्योऽभवदतिमुदितः पुत्त्रकैस्तैश्चतुर्भिः॥ ११-८० ॥ तूर्यं शङ्खाश्च भेर्यः पणवसुपटहा दुन्दुभिश्चापि नेदु- र्भक्त्यागायन् व्यनृत्यन् विबुधकुलवधूकिन्नरा यक्षनागाः। दिव्यैः पुष्पैरसङ्ख्यैर्ववृषुरतितरामुत्सवोऽभून्महान् वै प्रादाद्दानञ्च राजा धनमणिकनकं पुत्त्रतीर्थे प्रसन्नः॥ ११-८१ ॥ कुर्वन् दिव्यामयोध्यां पदकमलरजोराशिभिर्भूरिभाग्या- मुर्वीं गुर्वीं वितन्वन् नवनलिनदृशा पापतापं विधुन्वन्। श्यामः कन्दाभिरामो रमितदशरथो भ्रातृभिश्चिन्त्यमानः कौसल्यास्तन्यपायी स इह विजयते राघवो रूपराशिः॥ ११-८२ ॥ अथ ध्याने रामो विदितरघुरामावतरणो गिरौ हृष्टो दृष्टोत्तमपुरुषबालानुचरितः। प्रभुं दर्शं दर्शं नयनजलवर्षं प्रबलयन् जगौ द्व्यष्टौ भक्त्या रघुतिलककीर्तीः शिखरिणीः॥ ११-८३ ॥ विमुष्णंस्तापिच्छं शिरसि शिखिपिच्छं विलसयन् कदम्बं रोलम्बं चिकुरनिकुरम्बैर्विगणयन्। अहो दृग्भ्यां वर्षन्नमृतमथ चित्तं चपलयन् मयूरेण श्यामः क इह पुरतः खेलति शिशुः॥ ११-८४ ॥ म्रदिम्ना पाथोजं शतशतमनोजं तनुरुचा शुचा लिम्पन् लिम्पन् वपुरतसिनीलं सुरजसा। रजो धुन्वन्मातुर्मनसि परमानन्दजलधिं विधुस्तन्वन् रिङ्गन् क इह पुरतः खेलति शिशुः॥ ११-८५ ॥ रुचां राशिः किं वा किमुत निचयोऽयं सुमहसां श्रुतीनां सारो वा किमुत कलहारः सुमनसाम्। सुखं पुञ्जीभूतं किमुत कृतिनः कोसलपते- रहोहोरातो मे क इह पुरतः खेलति शिशुः॥ ११-८६ ॥ चमत्कुर्वन् किञ्चित् तडिदिव मुहुर्योगिमनसि स्फुरंश्छ्यामो रामो रमितजितकामः कमलदृक्। नमस्कुर्वन्नुर्वीपतिगृहिणिभाग्यं जलभुवं तिरस्कुर्वन् कान्त्या क इह पुरतः खेलति शिशुः॥ ११-८७ ॥ क्षणं नृत्यन्नङ्गं क्षणमथ रजोभिश्च रजयन् क्षणं लुण्ठन् धावन् क्षणमथ पतन् सस्मितमुखः। क्षणं काकैर्हंसैः क्षणमथ मयूरैस्स्वसखिभिः क्षणं पङ्कक्लिन्नः क इह पुरतः खेलति शिशुः॥ ११-८८ ॥ प्रभाते सुस्नातः सुरभिपयसा कज्जलकलाः कपोले बिभ्राणः कमपि सकलङ्कं विधुमिव। विभूषार्हो भूषामणिगणसमालङ्कृततनु- र्विकर्षन् मे चेतः क इह पुरतः खेलति शिशुः॥ ११-८९ ॥ क्षिपन् स्वीयां छायां किमपि कमनीयां मणिमये गतो रोषं तोषं कमपि सुखकोषं पदजुषे। किरन् क्रीडन् भावैर्मधुररसमूर्तिः स्मररिपो- र्मनो विन्दन् नन्दन् क इह पुरतः खेलति शिशुः॥ ११-९० ॥ कलं कौसल्याया मृदुममृतवल्लीं सुफलयन् पितुर्मोदामोदं मलयमिव वातः परिवहन्। अयोध्यासौभाग्यं विधुरिव पयोधिं प्रगुणयन् कवीनां सर्वस्वं क इह पुरतः खेलति शिशुः॥ ११-९१ ॥ वितन्वन् वैराग्यं किमपि कलभाग्यं स्थितिमतां तृषस्तर्षं तर्षन् हृदयमथ कर्षन् कृतिमताम्। सतां माधुर्याम्भोरुहरुचिपरागान्तरगतो मरन्दो मानन्दो विलसति पुरो राघवशिशुः॥ ११-९२ ॥ अयं मेघश्यामो मुनिदृगभिरामो रमयतां वरो वारां राशिः सुखसुयशसोश्चामलरुचाम्। रुचं मुष्णन् पुष्णन् परमसुषमामोषधिपुषः पुरारातेः पूज्यो विलसति पुरो राघवशिशुः॥ ११-९३ ॥ असौ सौन्दर्याब्धेश्छविशुचिसुधापार्वणविधु- र्द्विषत्कान्ताराग्निः प्रणतकुलपाथोरुहरविः। सृजन् शोभासर्गं सुरभयविसर्गं परिसृजन् नवं कन्दं निन्दन् विलसति पुरो राघवशिशुः॥ ११-९४ ॥ नमन्तो यं सन्तो नयनचषकैः सौभगसुधां पिबन्तो माद्यन्तो मधुलिह इवार्या दिशि दिशि। भ्रमन्तो भ्राम्यन्तो रचितभवभङ्गा विदधते जगत्स्वीयं सोऽयं विलसति पुरो राघवशिशुः॥ ११-९५ ॥ क्वचित्क्रीडन् नृत्यन् क्वचिदथ मयूरैश्चलचटैः क्वचिद्धावन् काकैः क्वचिदथ मरालैर्मृदुपदः। महिम्ना मानिन्या विदधदुरुमानं किल भुवो मुनीनां मानार्हो विलसति पुरो राघवशिशुः॥ ११-९६ ॥ पिबन् कौसल्यायाः स्नुतमथ पयोदं कररुहैः स्पृशन् सव्यं सव्यैर्जनितजननीमोदमहिमा। मुकुन्दः कन्दाभो भवभवभवानीभवभवो भवन् भव्यो नव्यो विलसति पुरो राघवशिशुः॥ ११-९७ ॥ तमालाभो लाभो मुनिजनयतीन्द्रामलदृशां पटं पीतं प्रीतो रविकरनिभं बिभ्रदनघः। घनश्यामो रामो जनदृगभिरामो रघुवरो ममायं सर्वस्वं विलसति पुरो राघवशिशुः॥ ११-९८ ॥ महत्पुञ्जीभूतं परममथ पूतं सुकृतिनां सुखं मूर्तं स्फूर्तं विमलमनुरागं स्ववपुषा। वहन्मन्दं मन्दं कलमृदुवदन् वै चिदचितो- र्विशिष्टाद्वैतं तद्विलसति पुरो राघवशिशुः॥ ११-९९ ॥ कौसल्यास्तनपानलालसमना मन्दस्मितोऽव्यक्तवा- गेकं ब्रह्म गुडालकावृतमुखाम्भोजो घनश्यामलः। खेलन् पङ्क्तिरथाजिरे रघुवरो बालानुजैः सुन्दरो देवो धूलिविधूसरो विजयते रामो मुकुन्दः शिशुः॥ ११-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गः शिवाख्यः कविरामभद्राचार्यप्रणीतेऽस्तु सतां श्रियै शम्॥ ११-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये श्रीराघवावतरणं नामैकादशः सर्गः।