अष्टादशः सर्गः


भार्गवोऽपि स महेन्द्रपर्वते न्यस्तदण्ड इव चास्थितस्तपः। निष्प्रयोजनतया न दीपयन् वेदिकामिव कृती क्रुधं निशि॥ १८-१ ॥ स्वातिमेघमिव चातकव्रती त्यक्तदिव्यभवभोगलालसः। तद्भवेरितमहो विभावयन् स्वावतारिचरणाब्जदर्शनम्॥ १८-२ ॥ तं निशम्य सहसा स उत्थितः कोटिकोटिपविपातदारुणम्। शम्भुकार्मुकविभङ्गजध्वनिं भग्नयोग इव योगि आतुरः॥ १८-३ ॥ वेपथून्मथितदेहयष्टिको भीतिभक्षितधृतिर्धरासुरः। स्वेदविन्दुवदनः समीरणभ्रामितोऽथ तृणराडिवापपत्॥ १८-४ ॥ क्रूरकर्मपरुषः परश्वधो नित्यरौद्ररससिन्धुमज्जनः। हस्ततोऽपतदमुष्य मानिनो मानसादिव परात्मनिर्णयः॥ १८-५ ॥ लब्धसञ्ज्ञ इव स व्यभावयद्भग्नमीश्वरधनुः परात्मना। सीरकेतुकलिते स्वयंवरे जानकीवरणलालसेन वै॥ १८-६ ॥ साम्प्रतं विजयमालयार्चितः सीतया चपलयेव वारिदः। भग्नचाप इह तारकस्रजा रङ्गभूमिमभिभाति राघवः॥ १८-७ ॥ मैथिलीप्रभुविवाहमङ्गलं बाधितुं लषति राजमण्डलम्। रोहिणीशशिसमागनं तमो नो सहेत शिरसाऽपि वर्जितम्॥ १८-८ ॥ तद्व्रजेयमधुना स्वयंवरं वीरवेषकलितः कुठारधृक्। कोपमाभिनयिकं प्रदर्शयन् दूरयेयमधिपान् दुराशयान्॥ १८-९ ॥ मैथिलीहरधनुर्भिदोरयं वैदिकः परिणयः प्रवर्तताम्। श्रीविवाहनवगीतमङ्गलं गीयतां सुकविभिर्निरन्तरम्॥ १८-१० ॥ लोक अज्ञ इति मां विगर्हतां क्वापि तन्न गणये न चिन्तये। सेवकस्य किमु मानवैभवं स्वामिनो हि विरुदं विजृम्भताम्॥ १८-११ ॥ निन्दिते मयि च रामसीतयोर्मङ्गलं निखिललोकमङ्गलम्। यद्भवेत्तदिह मे सुमङ्गलं स्वामिमङ्गलमशेषमङ्गलम्॥ १८-१२ ॥ तद्व्रजामि वृजिनार्दनं हरिं विश्ववार्धितरिपादपङ्कजम्। दुर्विभाव्यमथ योगिनां विभुं पारिजातमिव सेविनां सताम्॥ १८-१३ ॥ यत्पदाम्बुजपरागपाविता जाह्नवी त्रिजगतो विमार्ष्ट्यघम्। तं तमालवपुषं वपुष्मतां धुर्यमेव शरणं समाश्रये॥ १८-१४ ॥ सुप्रभातकमहोऽद्य मे शुभं धन्यमद्य मम जन्म भूतले। जीवनं विमलमद्य जानकीजीवनं वनरुहाननं भजे॥ १८-१५ ॥ नीलतामरसदामसुन्दरं विश्ववारिनिधिमन्थमन्दरम्। सर्वदिव्यगुणमञ्जुमन्दिरं राममीक्ष इविभं श्रितेन्दिरम्॥ १८-१६ ॥ ताम्रतामरसलोललोचनं स्वप्रपन्नभवभीतिमोचनम्। पूर्णपार्वणसुधाकराननं राममेमि हतकष्टकाननम्॥ १८-१७ ॥ शैवकार्मुकभिदं महाभुजं भग्नभक्तभवभीमहारुजम्। पाणिपङ्कजशराससायकं नायकं तनुभृतां समाश्रये॥ १८-१८ ॥ बालभानुकरपीतवाससं तेजसा विजितजातवेदसम्। ब्रह्म राममनघं च वेधसं भावयामि विरजं सुमेधसम्॥ १८-१९ ॥ सानुजं जनकजावरं हरिं भक्तवत्सलमनन्तपौरुषम्। देवदेवमविनाशिनं विभुं दीनबन्धुमभियामि राघवम्॥ १८-२० ॥ ब्रह्मधर्ममतिवर्त्य मूढधीः क्षात्त्रधर्ममवरं समाश्रितः। स्वं कलङ्ककलुषं मुखं कथं राघवाय सुमुखाय दर्शये॥ १८-२१ ॥ ब्रह्मधर्मविपरीतवेषकं वीक्ष्य मां स खलु किं कमेष्यति। ज्ञातमद्विवशतः परेश्वरो नूनमेव भगवान् द्रविष्यति॥ १८-२२ ॥ तं कृपालुहृदयं दयानिधिं शीघ्रमेमि शरणं कृपामयम्। स्वं समर्प्य रघुवंशकेतवे शंवसेयममुनानुमोदितः॥ १८-२३ ॥ दृष्टरामचरणो रणप्रियस्त्यक्तसर्वकदनप्रपञ्चकः। न्यस्तदण्ड इह भूतले चरन् भावयेय तमखण्डमद्वयम्॥ १८-२४ ॥ ब्रह्मबन्धुरपि बन्धुमात्मनः पापसिन्धुरपि सिन्धुमात्मनाम्। तं प्रपद्य इह दीनवत्सलं भार्गवोऽहमधुनैव राघवम्॥ १८-२५ ॥ इत्यनेकविधभाववीचिभिः क्षुब्धचित्तजलधिः स भार्गवः। आजगाम मिथिलां मनोजवो जानकीवरविभाविभूषिताम्॥ १८-२६ ॥ क्रोधमाभिनयिकं प्रदर्शयन् नाटकीयमिव नाट्यकोविदः। तर्जयन्निव बलोद्धतान्नृपान् केशरीव हरिणान् रुषा हरिः॥ १८-२७ ॥ रोषरक्तनयनाननस्फुरद्भ्रूविटङ्कविटपोऽतिभीषणः। मूर्तिमानिव कृतान्त आययौ क्षत्त्रियज्वलनमेघ उल्बणः॥ १८-२८ ॥ ताम्रतामरसभीमलोचनः क्षत्त्रियापसददर्पमोचनः। दुर्विभाव्य विकरालविग्रहो विज्ज्वलन्निव स रोषसङ्ग्रहः॥ १८-२९ ॥ गौरदेहभवभूतिभूषितां भूषयन्निव भुवं स्वभूषया। क्षत्त्रवंशकदनो विनिर्दयो दारुणो दमितदैत्यदानवः॥ १८-३० ॥ स त्रिपुण्ड्रतिलको जटाधरो रोषसंस्फुरितपल्लवाधरः। राजताद्रिरिव पाकपेशलाः शालिका दधदथो शरन्मयीः॥ १८-३१ ॥ मांसलांसमहितोपवीतको ब्रह्मवर्चसवृतो महाबलः। खण्डयन्निव नृपालकैतवं श्येनवत्खगकुलं समाययौ॥ १८-३२ ॥ शस्त्रपूगमथ पृष्ठतो वहन्नग्रतः श्रुतिततीर्विभूषयन्। क्षात्त्रवैप्रयुगधर्मविग्रहो भार्गवोऽथ ददृशे विदूरतः॥ १८-३३ ॥ तं दुरन्तदुरवग्रहग्रहं क्षत्त्रियापसदशस्यसञ्ज्ञिनाम्। दुर्भगा दुरधियः प्रदुद्रुवुर्मृत्युदूतमिव वीक्ष्य दूरतः॥ १८-३४ ॥ श्येनमेत्य लघवः खगा इव कुञ्जरा इव मृगाधिनायकम्। तं विलोक्य भृगुवंशभूषणं भूभृतो भयभृतः पलायिताः॥ १८-३५ ॥ तत्र केचन विमुक्तकच्छकाः केऽपि मुक्तशिखिनः शिखीश्वरम्। तं न शेकुरपि वीक्षितं नृपाः प्राप्तमृत्यव इवागतान्तकम्॥ १८-३६ ॥ चक्रवात इव पत्त्रवाटिकां स्वःप्रपात इव पापवापिकाम्। द्रावयन् दुरवनीशमण्डलीमागमद्भृगुवरः स्वयंवरम्॥ १८-३७ ॥ राजमण्डलविशिष्टमञ्चकं लक्ष्मणावितमभीष्टकौशिकम्। रामचन्द्रमुखचन्द्रचन्द्रिकाध्वंसितान्धतमसं जनाकुलम्॥ १८-३८ ॥ तं प्रणेमुरवनीभृतो मृतम्मन्यमानमनसोऽपि वेपिताः। रोषरक्तनयनो यथा यमो नान्वमोदत नृपान् दहन्निव॥ १८-३९ ॥ भार्गवोऽथ श्रितकालमालया ज्वालयेव च दृशा करालया। वीक्ष्य विघ्नबहुलानहन् पुरा प्रोद्यतान् जनकजाहृतौ हठात्॥ १८-४० ॥ तं विदेहनृपतिः समार्चयन्मन्यमान इव शान्तमन्युकम्। षोडशोपचरितैर्यतः सतां पूजनं सकलमङ्गलं श्रुतम्॥ १८-४१ ॥ जानकी प्रियसखीसमावृता बालहंसगमना तमागमत्। तत्पदं नमितमूर्धनिर्गलत्स्वःप्रसूनकरसेन चार्द्रयत्॥ १८-४२ ॥ मातरस्तु शतशो नमोऽस्तु ते पुत्त्रि पूरितमनोरथा भव। इत्यसौ प्रणतिभिस्तथाशिषा पूज्यपूजकभिदामपाकरोत्॥ १८-४३ ॥ कौशिकाब्जचरणौ महाव्रती प्राणमत्प्रणतिनम्रकन्धरः। सोऽपि तं मधुरवाक्प्रसूनकैरार्चयच्चरितसुव्रतं बुधः॥ १८-४४ ॥ राघवौ सपदि रामलक्ष्मणौ भार्गवीयचरणारुणप्रभाम्। शेखरस्थितशिखण्डरोचिषा तौ हरी सुहरितां प्रचक्रतुः॥ १८-४५ ॥ कौशिकेन परिचायितावुभौ नीलपीतजलजाभविग्रहौ। बालकौ दशरथस्य धीधनौ प्रेमपूर्णनयनो न्यहारयत्॥ १८-४६ ॥ राममम्बुधरकञ्जसुन्दरं कम्बुकण्ठमिभवैरिकन्धरम्। कोटिमन्मथसमानसौभगं निर्निमेषनयनो निरैक्षत॥ १८-४७ ॥ लोचने च चकिते सुलोचनाल्लोचनाभिमतपद्मलोचनात्। रामचन्द्रमुखचन्द्रमस्यभूद्भार्गवोऽपि च दृशा चकोरकः॥ १८-४८ ॥ रामरूपवरवारिधौ तदा मग्नभूपभयकोपकैतवः। भार्गवोऽप्यचलिताक्षिपक्ष्मको विस्मरन्निव चिकीर्षितं बभौ॥ १८-४९ ॥ भूय आत्मनि विभाव्य भार्गवो रोषवक्रभ्रुकुटीतटोत्कटः। निर्दहन्निव जगत्स्वचक्षुषा तर्जयञ्जनकमभ्यभाषत॥ १८-५० ॥ घोरकर्मपरशुञ्च चट्चटाध्वानपूरितदिगन्तरं रुषा। वामवामकरतो विवर्तयन् कालशूलमिव शूलधृग्लये॥ १८-५१ ॥ ब्रूहि रे जड विदेह देहभृक् कोऽद्यदद्य मम कार्मुकं गुरोः। तं निहत्य युधि हैहयानुगं तोषयेय पितृवन्मृडं मृधे॥ १८-५२ ॥ देवदैत्यनरनागकिन्नरव्यालयक्षपिशिताशनेष्वपि। योऽपि कोऽपि कृतकिल्बिषो गुरोर्वध्य एव मम हैहयो यथा॥ १८-५३ ॥ एकविंशतिरणाजिरेषु यो घोररक्तसरितोऽभ्यवर्तयत्। मां तमेव किल कोपयन् पुनः को जिजीविषति मूर्धयुग्मधृक्॥ १८-५४ ॥ कट्कटायितरदालिवज्रके वज्रवाक्यमभिधाय भार्गवे। मौनमास्थित इलापतिस्तदा भीतवत्किमपि नाभ्यभाषत॥ १८-५५ ॥ क्रूरकोपकलुषीकृताननं वीक्ष्य भार्गवममन्दवैशसम्। तत्क्षणं त्रिभुवनं भयार्दितं शोकसागरनिमग्नमाबभौ॥ १८-५६ ॥ वीक्ष्य भीतिविवशं जनाधिपं जानकीञ्च भयविग्नचेतसम्। वर्षवारिदगभीरया गिरा राम आह किल राममादरात्॥ १८-५७ ॥ ह्लादयन्निव जगच्चराचरं मोदयन्निव महीभृतः सतः। तोषयन्निव महीपतिं प्रियां सस्मितं वचनमाह राघवः॥ १८-५८ ॥ नाथ शङ्करशरासनार्दनः कोऽपि ते चरणसेवको मतः। कोऽन्यथा दहति कोटिभूतलं स्वां क्षिपेत्प्रलयपावकेऽङ्गुलीम्॥ १८-५९ ॥ दास एष भवता निदिश्यतां किङ्करोमि तव देव किङ्करः। मन्युमेतमधुना नियच्छ भो भार्गवेश विभयं प्रयच्छ मे॥ १८-६० ॥ भार्गवः– किं करोषि किल किङ्करो भवन् शङ्करोऽपि च सदैव शङ्करः। रङ्करोषि धनुरेव राघव त्वङ्करोषि न रिपुं पृथक्त्वमुम्॥ १८-६१ ॥ सेवकोऽसि यदि राम नो बको हंसवंशभव हंसतां व्रज। तत्पृथक्कुरु धनुर्भिदं सदः क्षीरनीरभिदयैव हंसता॥ १८-६२ ॥ अन्यथा सकलभूभृतोऽचिरं तिग्मनिष्कृपकुठारधारया। वृक्णबाहुशिरसो विधाय वै तोषयामि हरिणाङ्कशेखरम्॥ १८-६३ ॥ राममेवमवमानयत्यृषौ रामचन्द्रसुयशोध्वजोपमः। रोषदुर्गमकषायलोचनो लक्ष्मणोऽथ निजगाद भार्गवम्॥ १८-६४ ॥ लक्ष्मणः– साधु भार्गव विरम्यतां क्षणं पीयताममृतशीतलं जलम्। किं महर्षिकुलभूषणस्य ते मन्युना क्षपितभूपमौलिना॥ १८-६५ ॥ धन्विनो हि रघुवंशिनो वयं त्रोटितानि च धनूंषि शैशवे। तत्कदापि कुपितं न भूसुरैः किन्निमित्तमिह कुप्यते मुने॥ १८-६६ ॥ क्षत्त्रियो धनुषबद्धनिष्ठकस्त्वं यथा श्रुतिगणे समादृतः। कर्तुमेव गुणदोषनिश्चयं राघवोऽपि तदतूतुलद्धनुः॥ १८-६७ ॥ वंशखण्डमिव जीर्णजर्जरं तत्पिनाकमबलं पुरातनम्। स्पृष्टमात्रमथ रामपाणिना भग्नमास्त न हरेर्हि दूषणम्॥ १८-६८ ॥ ज्ञानवान् हि परिगद्यते भवान् भार्गवो जगति विश्रुतो बुधः। ज्ञानिनस्तु ममताविवर्जिताः किं ममत्वमिह जीर्णकार्मुके॥ १८-६९ ॥ शम्भुवल्लभतया यदि प्रियं तत्कृपालहृदयैः प्रतीक्ष्यताम्। आनयामि कमपीह वर्धकिं नूतनीकृतमुपाहरामि ते॥ १८-७० ॥ भार्गवः– कोटिकालकरवालदारुणं कार्तवीर्यभुजसिन्धुकुम्भजम्। ब्रह्मवैरिनृपरक्तपायिनं पश्य मे कटु कुठारमर्भक॥ १८-७१ ॥ बालकोऽसि न निहन्यसे ततो जल्पसि त्वमत एव निर्भयः। मां न विद्धि मुनिमेव केवलं कालवह्निमपि विप्रविद्विषाम्॥ १८-७२ ॥ लक्ष्मणः– कालवह्निरसि भूसुरद्रुहां ब्राह्मणार्चककृतेऽसि चन्द्रमाः। नो बिभेमि भवतस्ततः प्रभो किं बिभेति शशिनश्चकोरकः॥ १८-७३ ॥ त्वां विशुद्धजमदग्निरेणुकासम्भवं मुनिमवैमि केवलम्। कोटिवज्रसमदुर्वचांसि ते स्वस्तिवाचनधिया ततः सहे॥ १८-७४ ॥ ब्राह्मणो बहुविरुद्धधर्मवान् शस्यते नहि यतः स सङ्करः। ब्रह्मवल्लभतयैव भार्गवः शङ्करोऽस्ति न भवान् हि सङ्करः॥ १८-७५ ॥ रामचन्द्रमुखचन्द्रलोकने लोचने मम चकोरिते मुने। अन्यवीक्षणकृते कुतः क्षणः शक्र एव बहुनेत्रता श्रियै॥ १८-७६ ॥ गर्भकार्भकविनाशकारणादाविलं यदिह बालहत्यया। मातृमस्तकविघातपातकं किं कुठारमवलोकयानि ते॥ १८-७७ ॥ ब्राह्मणत्वमवलोक्य भार्गवे यज्ञसूत्रमपि वीक्ष्य ते शिखाम्। कालकूटमपि ते मुखोद्गतं स्निग्धकर्णपुटकः पिबाम्यहम्॥ १८-७८ ॥ दर्शयन् स्वपरशुं पुनः पुनर्भीषयन्निव शिशुं प्रतीयसे। नास्मि कद्रुफलकं म्रियेत यत्तर्जनीविहिततर्जनान्मुने॥ १८-७९ ॥ बालका अपि न बालपौरुषाः क्षत्त्रिया द्विजकुलैकसेवकाः। सर्वमेव भवतां सहामहे न द्विजेषु रघवो हि शस्त्रिणः॥ १८-८० ॥ भार्गवः– बालकोऽपि बहुधा विकत्थसे मां न वेत्सि समुपेतमन्तकम्। कौशिकायमधुना निवार्यतां लक्ष्मणो रविकुलेन्दुलक्ष्म वै॥ १८-८१ ॥ लक्ष्मणः– कालदूत इव भासि भार्गव त्वं कृते मम तमेव सूचयन्। तद्बुभुक्षितनिदानवित्तया सूपकार इव तन्नियोजितः॥ १८-८२ ॥ कालतोऽपि रघुवंशिनो वयं न त्रसाम इतरे नृपा यथा। धर्मनिष्ठधरणीसुरावलीप्रीणनव्रतनिरस्तमृत्यवः॥ १८-८३ ॥ नैव मां खरकुठारधारया छेत्तुमर्हसि कदाचन द्विज। ब्राह्मणर्षभवसिष्ठकौशिकप्रीतिवीतमरणामयं मुहुः॥ १८-८४ ॥ शेषितं कुटिलकालमालिना शेषिणा परिकृतौ च शेषितम्। शिष्टमेव गुरुभिः सदा श्रुतौ शेषमेष किमु केश कृन्तसि॥ १८-८५ ॥ भार्गवः– भूपबालक न वेत्सि मां कथं भूपवंशदमनं दवप्रियम्। विप्रशस्यविलसद्बलाहकं घोरशोणितनदीप्रवाहकम्॥ १८-८६ ॥ कौशिकाभिमतमेव मानयन् त्वां न हन्मि हननार्हमप्यहो। अन्यथा त्वदभिमूर्धपुष्पया शङ्करञ्च मृडये शिरःस्रजा॥ १८-८७ ॥ मूर्तिमन्तमिव कालमुल्वणं कार्तवीर्यबलसिन्धुवाडवम्। ब्रह्मशत्रुनृपसर्वनाशनं कोऽपि मां न परिकोप्य जीवति॥ १८-८८ ॥ गच्छ लक्ष्मण निजाग्रजं भज मा वृथैव परिकोप्य कोपनम्। अन्यथा मम शितैः शिलीमुखैर्नेष्यसे यमपुरीं सहानुगः॥ १८-८९ ॥ चारुचम्पकसमानसुन्दरं कम्रकेशरिकिशोरकन्धरम्। त्वां विलोक्य मयि निर्दये दया वर्धते त्वमत एव मोक्ष्यसे॥ १८-९० ॥ लक्ष्मणः– विक्रमस्तु भवतः श्रुतो मया मातरञ्च महितां विनिघ्नतः। स्वान्निपात्य किल बान्धवान् मुने गेहशूरविरुदं त्वयार्जितम्॥ १८-९१ ॥ ब्रह्मणां परिभवाद्गतायुषः क्षत्त्रियान् हि विनिहत्य कत्थसे। नो वसिष्ठवरदानवर्धितान् त्वं रघूनिह मनाक्प्रपीडयेः॥ १८-९२ ॥ शङ्करेण न कृता प्रतिक्रिया भग्नचापमपि राघवं प्रति। त्वं मुधैव भगवद्विनिन्दनैः पुण्यरत्नमपहातुमुद्यतः॥ १८-९३ ॥ त्वं क्षरं धनुरवेहि शाङ्करं यद्विभग्नमिह ताटकारिणा। तज्जडं ह्यचिदनाप्तचेतनं तत्र तेऽतिममता लघीयसी॥ १८-९४ ॥ अक्षरोऽहमिह ते पुरः स्थितो नित्यदासविभवः खरद्विषः। राघवेन्द्रपदपद्मकिङ्करो नो कदापि मम नाश ईप्सितः॥ १८-९५ ॥ राघवस्तु परतोऽनयोर्द्वयोर्निर्विकल्प इह सर्वकारणम्। त्यक्तहेयगुणको गुणालयो योग एष पुरुषोत्तमः स्मृतः॥ १८-९६ ॥ राम एष भगवान् परात्परो व्यापको जलदसुन्दरो हरिः। जानकी भगवती तदात्मिका किङ्करा वयमथो सह त्वया॥ १८-९७ ॥ त्वं तु मोहविवशो रघूद्वहं मन्यसे मनुजदारकं द्विज। नो दिवापि यदुलूकको रविं वीक्ष्यते किमु दिनेशदूषणम्॥ १८-९८ ॥ इति बहुविधवक्रवाक्यबाणैः समभिहतो भृगुराट्स लक्ष्मणेन। तमगमदनघं कुठारपाणिर्मृग इव हन्तुमिभारिमाप्तकोपः॥ १८-९९ ॥ सम्यक् सौमित्रिहोत्रा प्रतिवचनसरत्सर्पिषा हूयमानं मिथ्याहङ्कारमूलं बलमतिसमिधं ब्रह्मचर्यप्रकाशम्। सोत्कर्षज्वालयाढ्यं ज्वलितमतितरां भार्गवक्रोधवह्निं शान्तं कुर्वन् कृपालुर्वरवचनवनै राघवर्त्विक् सिषेच॥ १८-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गोऽष्टकेशः कविरामभद्राचार्यप्रणीते च सतां श्रियै वः॥ १८-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये भार्गवलक्ष्मणयोः संवादो नामाष्टादशः सर्गः।