अष्टमः सर्गः


तीर्थयात्रां गते रामे विरामे ब्रह्मविद्विषाम्। त्रिलोक्याश्चाभिरामे च पद्मिन्या इव भास्वति॥ ८-१ ॥ कार्तवीर्ये महावीर्ये नीते वीरगतिं रणे। चञ्चत्कुठारयानेन रामेणाक्लिष्टकर्मणा॥ ८-२ ॥ कार्तवीर्यात्मजाः सर्वे भृगूणां कोष्णशोणितैः। निर्वापाञ्जलिदानेन निश्चिक्युस्तोषणं पितुः॥ ८-३ ॥ सम्भूयार्जुनयः सर्वे प्रभुजाः प्रतिजज्ञिरे। जामदग्न्यं चतुर्थं वै निहन्तुं कूटसंयुगे॥ ८-४ ॥ महत्या चतुरङ्गिण्या सेनया बालिशेनया। माहिष्मत्या विनिर्जग्मुरारादागतमृत्यवः॥ ८-५ ॥ पदातिस्यन्दनाश्वानां कुञ्जराणाञ्च धूलिभिः। छन्नज्ज्योतिर्दिवाप्यर्कः सायन्तन इवाभवत्॥ ८-६ ॥ अथापशकुनान्येषामुत्पेतुर्ब्रह्मघातिनाम्। हैहयव्यसनं प्राप्तं सूचयन्तीव दारुणम्॥ ८-७ ॥ गृध्रा अगृध्यंस्तन्मांसमुपर्युपरि तानथ। कालदूता उलूकाश्च करटाश्चुकुवुः कटुम्॥ ८-८ ॥ उल्कापातो दिवाप्यासीत्पस्पन्दे वामलोचनम्। शस्त्राणि पेतुर्हस्तेभ्योऽनुत्साहो योद्धॄणामथ॥ ८-९ ॥ नाजीगणंस्ते राजन्याः कालपाशवशंवदाः। अविवेकान्धचक्षुष्का मुमुर्षव इवौषधम्॥ ८-१० ॥ अथापतन् पातयन्तो वृक्षान् मुन्याश्रमं तदा। जामदग्नेन रहितं हरिणेव मृगाकरम्॥ ८-११ ॥ लुनीहि काननं वृक्षान् वृश्च शीघ्रं मुनीन् जहि। हर कन्या वटूंश्छिन्धि वदन्तश्चेत्थमाययुः॥ ८-१२ ॥ पलायन्ते स्म तान् वीक्ष्य तापसाः कूटयोधिनः। श्येनान्निरीक्ष्य चायातान् भीता इव विहङ्गमाः॥ ८-१३ ॥ तानापतन्त आलक्ष्य शस्त्रपाणीन्नराधमान्। मृगीव त्रस्तनयना रेणुका रेणुरूषिता॥ ८-१४ ॥ जमदग्निः समाधिस्थो ध्यानस्तिमितलोचनः। मीलन्मीन इवाम्बोधिस्तस्थौ शैल इवाचलः॥ ८-१५ ॥ तं हन्तुकामानाज्ञाय वारयामास तापसी। तस्थौ करिणमावृत्य करेणुरिव रेणुका॥ ८-१६ ॥ विललापातिकरुणं कुररीव सुमध्यमा। हा रामेति समाक्रोश्य पत्यौ संवीक्ष्य सङ्कटम्॥ ८-१७ ॥ शृणुध्वं क्षत्त्रियाः सर्वे निर्बन्धस्त्यज्यतामयम्। दयध्वं मम दीनायाः कान्तं मा हत मा हत॥ ८-१८ ॥ निर्दोषोऽयं सुशीलश्च ब्राह्मणो ब्रह्मवित्तमः। तं हन्तुमिव चायाता गवाशा गामनागसम्॥ ८-१९ ॥ प्रतीक्ष्यन्तां क्षणाः केचिद्युयुत्सानलमेव वः। शमयिष्यति चागत्य राममेघः शराम्बुभिः॥ ८-२० ॥ इत्येवं विलपन्तीं तां विनिर्भर्त्स्य विनिर्दयाः। क्षत्त्रियापसदाः खड्गैर्जमदग्नेः शिरोऽहरन्॥ ८-२१ ॥ हाहाकारो महानासीत्स्वाहाकारविवर्जितः। राजन्यघस्मरैः क्रूरैर्निहिते ब्रह्मवादिनि॥ ८-२२ ॥ महर्षेः शिर आदाय निर्मथ्याश्रमसम्पदः। विडाला इव ते जग्मुर्हत्वा रात्रौ वयोऽर्भकान्॥ ८-२३ ॥ कबन्धं भग्नसम्बन्धं गृहीत्वा रेणुका सती। पपात धरणौ झञ्झोद्धूतेव कल्पवल्लिका॥ ८-२४ ॥ एतस्मिन्नन्तरे तत्र भार्गवोऽपि समागमत्। उत्पपाताशुभं घोरं पितुः कदनकारणम्॥ ८-२५ ॥ वामदेवविधेयस्य वामं लोचनमस्फुरत्। वामं प्रदक्षिणं चक्रे मृगमाला सभीतवत्॥ ८-२६ ॥ नाधीयते स्म बटवो बाष्पोपहतचेतनाः। स्वाध्यायमपि शोकार्ता न पठन्ति स्म वेपिताः॥ ८-२७ ॥ नाध्यापयन्ति मुनयो न रटन्ति स्म सारिकाः। कीरा नैव स्म कूजन्ति न गायन्ति स्म कन्यकाः॥ ८-२८ ॥ नाग्निहोत्रवषट्कारौ स्वाहाकारविवर्जितम्। दावाग्निनेव सन्दग्धं वनं विषमतां गतम्॥ ८-२९ ॥ कबन्धं गतनिर्बन्धं पश्यतः पतितं पितुः। रामस्यापि महाधैर्यशिखरी व्यचलत्क्षणम्॥ ८-३० ॥ पप्रच्छ मातरं वीरो रोषसंरक्तलोचनः। क्रोधकारुण्यसम्पन्नः सन्दष्टदशनच्छदः॥ ८-३१ ॥ केन नीचेन मातर्मे तातः स्वर्गमितोऽधुना। कः क्रीडति कृतान्तेन मुमुर्षुः प्रलयाग्निना॥ ८-३२ ॥ मत्कुठारः कठोरोऽयं कस्य पास्यति शोणितम्। गृध्रेभ्यो ह्यर्पयिष्यन्ति मांसं कस्य ममाशुगाः॥ ८-३३ ॥ एवमुक्ता महाभागा रेणुका पतिदेवता। पुत्त्रमावेदयामास वृत्तान्तं वज्रदारुणम्॥ ८-३४ ॥ कार्तवीर्यावमेहैस्ते पिता वै पितृवत्सल। अग्न्यागारसमासीनः पशुमारममार्यत॥ ८-३५ ॥ अभवं विधवा वीर माधवे त्वयि तिष्ठति। स्थलीव कर्दमोपेता पारिजातालवालिका॥ ८-३६ ॥ इत्युक्त्वा करुणं माता पतित्वा भूमिमण्डले। एकविंशतिकृत्वः सा स्वोरःस्थलमताडयत्॥ ८-३७ ॥ आजानुलम्बिबाहुभ्यां उत्थाप्य जननीं सुतः। नेत्रे प्रमृज्य तां प्राह गिरा घनगभीरया॥ ८-३८ ॥ मा रोदीरम्ब सत्यं ते प्रतिजाने प्रतीयताम्। निश्छत्त्रां मेदिनीं सर्वां करिष्ये सायकैरहम्॥ ८-३९ ॥ त्रिसप्तकृत्वो हृदयं यत्त्वया ताडितं शुभे। तत्सङ्ख्ययैव निश्छत्त्रां करिष्यामि महीमिमाम्॥ ८-४० ॥ त्वं सदा सधवा साध्वी सौभाग्यसुखसंयुता। विधवास्तु भविष्यन्ति अद्य त्वद्रिपुयोषितः॥ ८-४१ ॥ मा रोदीरम्ब भद्रन्ते क्षणं किञ्चित्प्रतीक्ष्यताम्। त्वन्नाथघ्नानहं साध्वि हनिष्यामि शिताशुगैः॥ ८-४२ ॥ अहं हैहयपुत्त्राणां पौत्त्राणां रुधिरामिषैः। क्षिप्रं श्राद्धं विधातास्मि कार्तवीर्यस्य वार्षिकम्॥ ८-४३ ॥ यावन्मदागमं मात्रा रक्षणीयः पिता त्वया। तेजसा स्वेन दिव्येन सावित्र्या सत्यवानिव॥ ८-४४ ॥ तैलद्रोण्यां विनिक्षिप्य पितुर्मृतकलेवरम्। हस्ते कुठारमादाय कृतान्त इव कोपितः॥ ८-४५ ॥ उपवीती धनुष्पाणिर्महावक्षाः प्रतापवान्। हन्तुं जगाम राजन्यान् पितृहन्तॄन् गतायुषः॥ ८-४६ ॥ चतुरङ्गबलोद्दारुकोपसर्पिष्षमेधसः। क्षत्त्रबन्धून् समादग्धुं प्राज्ज्वलद्भार्गवानलः॥ ८-४७ ॥ तीक्ष्णबाणविषाणाग्रो दानदानी निरङ्कुशः। राजपिपीलिकान्मृद्नन् रामहस्ती व्यजृम्भत॥ ८-४८ ॥ पञ्चाननकृपादृष्टिप्राप्तपञ्चाननो बली। राजकुम्भीश्वरान् हन्तुं प्रोत्सहे रामकेशरी॥ ८-४९ ॥ दृप्तराजबलाम्बोधिं दिधक्षंस्तरसोऽर्जितः। क्रोधस्फुलिङ्गमालाढ्यो ववृधे रामवाडवः॥ ८-५० ॥ महाभुजोर्मिहुङ्कारझङ्कारो भार्गवाभिधः। वीरवारिः प्रववृधे पर्वणीव पयोनिधिः॥ ८-५१ ॥ निश्छत्त्रो निस्तकवचो निष्पदत्राण आत्मवान्। एकाकी सोपवीतोऽयं जगामारिजिघांसया॥ ८-५२ ॥ रुरोध नगरीं नागैः श्वसद्भिरिव सायकैः। क्षत्त्रियापसदान् हन्तुं कृतान्त इव दुर्धरः॥ ८-५३ ॥ धनुष्टङ्कारयामास वज्रनिष्पेषनिष्ठुरम्। आजुहाव रणे वीरान् ब्रह्मघ्नान् क्षपितायुषः॥ ८-५४ ॥ अथापतन् सरोषास्ते दंशिताश्चण्डधन्विनः। मन्देहा इव मन्देहाः प्रत्यूषे बालभास्करम्॥ ८-५५ ॥ न विव्यथे मनाग्रामो वीक्ष्य वीरानुपागतान्। कुञ्जरान्दानदृप्तांस्तान् समीक्ष्य मृगराडिव॥ ८-५६ ॥ अथारभ्यत युद्धं तत्तुमुलं लोमहर्षणम्। दैवासुरमिवात्युग्रं रामेणार्जुनिभिः समम्॥ ८-५७ ॥ चिक्षिपुः क्रोधताम्राक्षा दिव्यशस्त्राण्यनेकशः। शक्तिशूलकृपाणेषुभुशुण्डीपरिघान्यथ॥ ८-५८ ॥ तानि चिच्छेद रामोऽपि कौतुकेन शितैः शरैः। सतर्क इव पुण्याढ्यो दुर्जनानां मनोरथान्॥ ८-५९ ॥ क्वचिद्रथं समाभञ्जन् क्वचित्सूतं निपातयन्। क्वचिदश्वान् विनिर्निघ्नन् क्वचिद्धिंसंस्तु दन्तिनः॥ ८-६० ॥ रथिनाञ्च पदातीनां द्रुतं हस्तिमतामथ। छिन्दच्छिरांसि युगपत्सैको बहुरिवाभवत्॥ ८-६१ ॥ यावद्धन्वी धनुस्सज्यं चिकीर्षति च तावता। रामेण तीक्ष्णभल्लेन छिन्नमेव विलोक्यते॥ ८-६२ ॥ विकर्षन्तं विमृश्यन्तं सन्दधानं शिलीमुखम्। नापश्यत्कोऽपि चात्मानं घ्नन्तमेव व्यलोकयत्॥ ८-६३ ॥ वीराणां भग्नशिरसां रामशस्त्रहतैनसाम्। प्रगच्छतां च कोटीनां स्वर्गं स्वल्पमिवाभवत्॥ ८-६४ ॥ स्वर्गसोपानरूपेण सैकैकेन महेषुणा। कोटिकोटीर्निनीषुर्वै सम्मर्दमिव चान्वभूत्॥ ८-६५ ॥ क्वचित्प्रभज्य पत्त्राणि जघान रथिनः क्वचित्। क्वचिच्छिरांसि चिच्छेद क्वचिच्चापं चकर्त सः॥ ८-६६ ॥ धावन्तं कञ्च विव्याध करं कस्यचिदाच्छिनत्। कस्यचिन्नेत्रयुगलं व्रणयामास सायकैः॥ ८-६७ ॥ कृतान्त इव चावार्यः कालानल इवोद्धतः। सांवर्तक इवामोघः क्षपयामास शात्रवान्॥ ८-६८ ॥ एवं मुहूर्तमात्रेण रामेणाक्लिष्टकारिणा। शात्रवं तद्बलं भग्नं भास्करेण यथा तमः॥ ८-६९ ॥ भूयः परशुमादाय कार्तवीर्यसुतानसौ। जघानाथ दिगीशेभ्यो वीरो बलिमिवाहरन्॥ ८-७० ॥ कामधेनुं पितुश्चापि शिरः परमभास्वरम्। आनीय रेणुकापादपङ्कजं शुभमस्पृशत्॥ ८-७१ ॥ कबन्धेन च सन्धाय जमदग्निशिरः प्रभुः। इषदैश्वर्यमाहात्म्याज्जीवयामास लीलया॥ ८-७२ ॥ लब्धसञ्ज्ञः स उत्थाय मुनिः सुप्त इवोत्थितः। रामानुभावमाकर्ण्य साश्चर्यस्तमुदैक्षत॥ ८-७३ ॥ रेणुकापि महाभागा पतिं प्राप्य शुचिस्मिता। पुत्त्रं स्वमङ्कमारोप्य नेत्रवारिभिरासिचत्॥ ८-७४ ॥ पयोदाभ्याञ्च सुस्राव पयः प्रेमपरिप्लुतम्। पाययामास तद्रामं दुग्धं मातृधनं स्मृतम्॥ ८-७५ ॥ रामोऽपि धन्विनां श्रेष्ठः पितरौ प्रणनाम तौ। सर्वमावेदयाञ्चक्रे माहिष्मत्यां यदप्यभूत्॥ ८-७६ ॥ उत्सवश्च महानासीत्तत्रत्यानां वनौकसाम्। आनन्दस्यातिरेकेण तन्नन्दनमिवाभवत्॥ ८-७७ ॥ यदा यदापि सस्मार भार्गवो व्यसनं पितुः। तदा तदैव तच्चित्ते क्रोधवह्निर्व्यदीप्यत॥ ८-७८ ॥ तदैवोत्थाय मेधावी गच्छति स्माविचारयन्। राजन्यांश्च समाक्रम्य पशुमारममीमरत्॥ ८-७९ ॥ राघवान् यादवांश्चैव ब्रह्मण्यान् क्षत्त्रियर्षभान्। नावधीद्भगवांस्तत्र स्वावतारं विभावयन्॥ ८-८० ॥ अन्यान् क्षत्त्रियदायादान् ब्रह्मद्रोहपरायणान्। सर्वान् जघान भगवान् भूभारमवतारयन्॥ ८-८१ ॥ भानुसाहस्रभूपानां चक्रे पञ्चसरोवरम्। कुरुक्षेत्रे स रुधिरैः पित्रे दास्यन्निवाञ्जलिम्॥ ८-८२ ॥ एकविंशतिकृत्वो हि रामः प्रहरतां वरः। निश्छत्त्रामकरोद्भूमिं क्रोधो वै दारुणः सताम्॥ ८-८३ ॥ वारं वारं द्विजेभ्योऽदान्महनीयो महीमिमाम्। ईजे बहुविधैर्यज्ञैर्यज्ञो विष्णुः स्वयं श्रुतः॥ ८-८४ ॥ एकविंशे महायुद्धे क्षत्त्रियाणां क्षये कृते। कश्यपो भगवांस्तत्र प्रजासर्गमचिन्तयत्॥ ८-८५ ॥ जग्राह दानं मारीचो लोकानां हितकाम्यया। परोपकारसारा हि सन्तश्चारित्र्यवत्सलाः॥ ८-८६ ॥ आहैनं भार्गवं धीरो रोषकाषायलोचनम्। अलं रामाधिकं क्रुद्ध्वा क्रोधः पापस्य कारणम्॥ ८-८७ ॥ न हन्तव्यास्त्वया तात अधुना क्षत्त्रियर्षभाः। कार्तवीर्ये हते वंशे रुट्ते बीजमिवोसरे॥ ८-८८ ॥ न वस्तव्यं त्वया नक्तं सम्प्रत्येषा मही मम। महेन्द्रं गच्छ कल्याण महेन्द्रसमवीर्यवान्॥ ८-८९ ॥ पिता ते जीवितो भद्र कृतः सप्तर्षिमण्डले। द्वितीयोऽप्यद्वितीयास्ते गाथा नॄन् गापयिष्यति॥ ८-९० ॥ इत्युक्त्वा कश्यपो विप्रं गतो यादृच्छिको मुनिः। आपृच्छ्य पितरौ रामो महेन्द्रं शैलमागमत्॥ ८-९१ ॥ सुरेन्द्रयोगीन्द्रमुनीन्द्रवन्दितो द्विजार्णवेन्दुर्भृगुवंशवर्धनः। चकार लोकातिशयं गुणातिगश्चरित्रमीड्यं पितृभक्तमौलिपः॥ ८-९२ ॥ एवं विधाय कदनं च कदात्मकानां निःक्षत्त्रियां कुमकरोत्स त्रिसप्तकृत्वः। यज्ञं विधाय प्रणिदाय च कश्यपाय भूमिं महेन्द्रशिखरे न्यवसत्प्रशान्तः॥ ८-९३ ॥ पञ्चोदधीनिव विधाय च पञ्च कुण्डान्येतानि भूपरुधिरेण च पूरयित्वा। दीर्घायुषं स्वपितरं परिजीव्य वीरो योगीन्द्रगीतचरितो विचरत्यभिज्ञः॥ ८-९४ ॥ बीभत्सस्य च रौद्रवीररसयोः कारुण्यहास्यात्मनो रामेणात्र भयानकाद्भुतजुषोः सप्तार्णवाः कल्पिताः। एकैकत्र रसाम्बुधौ परशुधृक् त्रिस्त्रिर्भटान्मज्जयन् निश्छत्त्रामकरोन्महीं भृगुपतिः सप्तत्रिरुच्चै रुषा॥ ८-९५ ॥ निहत्य राजन्यगणान् समेधितान् द्विजद्रुहो भार्गववंशवर्धनः। महेन्द्रशैले सुरसिद्धसेविते समुद्रवेलामनुशान्तिराप्यत॥ ८-९६ ॥ ततः प्रभृत्येव निरस्तविग्रहो गुणग्रहः शाश्वतधर्मसङ्ग्रहः। कदापि नासावतिलङ्घितुं मुनेर्निदेशमैच्छन्निशि नेव सात्वतः॥ ८-९७ ॥ निर्मथ्यासुरनृपतीन् रणाङ्गणेऽसौ निश्छत्त्रां भुवमकरोत्त्रिसप्तकृत्वः। दत्त्वा तां रविगुरवे प्रशान्तरोषो रामोऽभूत्कृतनिलयो महेन्द्रशैले॥ ८-९८ ॥ पितुर्वाक्यं रक्षन् स्वहतजननीजीवितकरः स कुर्वन्निश्छत्त्रां चरितमथ सप्तत्रिरवनिम्। सुयज्वा पुण्यौघैर्मृतमपि समाजीव्य पितरं वितन्वन् वैचित्र्यं जयति कुशलः कोऽपि कृतिमान्॥ ८-९९ ॥ उदस्यन्नौदास्यं दुरितमथ दास्यं क्षितिभुजां निरस्यन्नैराश्यं सुजनमुखलास्यं विलसयन्। समस्यन्दुष्टास्यं प्रणतजनतास्यं विकसयन् निजारामो रामो विलसति महेन्द्रे शिखरिणि॥ ८-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गोऽष्टमः स्तात्कविरामभद्राचार्यप्रणीते सततं श्रियै नः॥ ८-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये न्यस्तदण्डं नामाष्टमः सर्गः।