प्रशस्तिवाचः


॥ प्रशस्तिवाचः ॥

नवीना संशोधनदिक्

– प्राचार्या माधवशर्माणो देशपाण्डे इत्युपाह्वाः

   १९८१ ईसवी­संवत्सरे सम्पूर्णानन्द­संस्कृत­विश्वविद्यालये विद्यावारिधि­उपाधि­प्राप्तये महापण्डितै रामभद्राचार्यैर्लिखितः प्रबन्धः अध्यात्मरामायणेऽपाणिनीय­प्रयोगाणां विमर्शः इति नाम्ना सम्प्रति तच्छिष्येण पण्डित­नित्यानन्द­मिश्रेण संस्कृत्य प्राकाश्यं नीयत इति ज्ञात्वा नितरां मोदते मे चेतः। व्यास­वाल्मीकि­प्रभृतिभिर्मुनिभिर्विरचितेषु महाभारत­रामायणादि­महाकाव्येषु सर्वत्रापाणिनीयाः प्रयोगा दृश्यन्त इति नाविदितं विदुषाम्। तेषामुपपत्तिः कथं दर्शयितव्येति चिन्तां कुर्वद्भिः प्राचीनैरेते प्रयोगा यद्यप्यपाणिनीयास्तथाऽपि तेषामार्षत्वात्तेषु दोषो नारोपणीयः किन्तु तेषां यद्यप्यार्षत्वात्साधुत्वं तथाऽपि न देवचरितं चरेत् इतिवत् न ऋषिचरितं चरेत् इति नियमेनार्ष­प्रयोगाणां लौकिकैर्नानुकरणं कर्तव्यमित्यभि­प्रायो दर्शितः। अन्ये तु –

यान्युज्जहार माहेन्द्राद्व्यासो व्याकरणार्णवात्। पदरत्नानि किं तानि सन्ति पाणिनिगोष्पदे॥

इत्यूचुः। अनया दिशा पाणिनीय­व्याकरणादपि प्राचीनतराणि माहेन्द्रादि­व्याकरणान्यासन् यान्यनुसृत्य व्यासादिभिः कृताः शब्दप्रयोगा अपाणिनीया अपि साधव एव तेषां च साधुत्वं पाणिनिं प्रमाणीकृत्य न परीक्षितव्यमिति केषाञ्चिन्मतम्। अध्यात्म­रामायण­स्थानीयानपाणिनीय­प्रयोगानधिकृत्य रामभद्राचार्यैर्लिखितोऽ­यमधुना प्रकाश्यमानः प्रबन्धः स्वीयं वैशिष्ट्यमावहति। अस्य ग्रन्थस्यानया दिशा परीक्षणं न केनापि कृतपूर्वम्। काव्येषु कोमलधियो वयमेव नान्ये तर्केषु कर्कशधियो वयमेव नान्ये इति पण्डितराज­जगन्नाथ­सरणिमनुकुर्वद्भी रामभद्राचार्यैः काव्य­विषये शास्त्र­विषये च बहु पराक्रान्तम्। अस्मिन् प्रबन्धे ते सर्वत्र प्राचीनां निरुक्त­व्याकरणादि­शास्त्र­परम्परामनुसृत्य शब्द­व्युत्पत्त्यादिप्रदर्शनं कुर्वन्ति यथा तैः स्वीय­प्रबन्ध­प्रस्तावनायाम् अथर्व­शब्दः अथ­शब्देन अर्व­शब्दं संयोज्य व्युत्पादितः। नवीने विषये प्राचीना शास्त्रसरणिः कथमुप­युज्येतेत्यस्यायं प्रबन्धः परमं निदर्शनम्। आपाततोऽपाणिनीयत्वेन प्रतीयमानानां प्रयोगाणामेते रीत्यन्तरेण पाणिनीयत्वं साधयन्ति तदेतेषां सर्वतन्त्र­स्वतन्त्रत्वं प्रमाणयति। एतद्ग्रन्थरत्नं प्रणीय रामभद्राचार्यैर्व्याकरण­शास्त्रस्य नवीना संशोधनदिगुद्घाटिता। अतस्ते सर्वथा धन्यवादानर्हन्ति। इति शम्।

माधवशर्मा देशपाण्डे इत्युपाह्वः ३१/०८/२०१४

प्राचार्यः, मिशिगन्‌‌विश्वविद्यालयः ऍन् आर्बर्, मिशिगन्, यू.एस्.ए.

अभिनन्दनवाचः

– देवर्षि­कलानाथ­शास्त्रिणः

   सकल­शास्त्र­पारगैः संस्कृत­वाङ्मय­वारिधि­मन्दरायमाणैः पद­वाक्य­प्रमाण­पताका­वाहकैः सरस्वती­पुत्रैस्तुलसी­पीठाधिपतिभिर्जगद्गुरु­रामानन्दाचार्य­महालङ्कार­भूतैर्महा­महोपाध्यायैः श्री१०८स्वामि­श्रीरामभद्राचार्यैः पूर्वाश्रमे विलिखितं शोधप्रबन्धं वीक्ष्य सुमहान्तं प्रमोदमन्वभवम्। यद्यपि शोध­प्रबन्धस्यास्य प्रधान­विषयत्वेन तैरध्यात्म­रामायणीयास्ते प्रयोगा गहन­विमर्श­दृशा परीक्षिता ये अपाणिनीयाः इति व्यपदिश्यन्ते किन्त्वेतेन विमर्श­व्याजेन तैः पाणिनीयस्य बहवः सिद्धान्ताः सूक्ष्मदृशा विवेचितास्तेषु तेषु च प्रसङ्गेष्वनेके संस्कृत­ग्रन्थाः श्रीतुलसीदास­ग्रन्था अन्ये च शास्त्र­विधयोऽलौकिक­विश्लेषण­पद्धत्याऽनुशीलिता इति व्यापकस्य शोध­प्रबन्धस्य फलकं संवृत्तम्।

   बहुमूल्यस्यास्य विमर्श­ग्रन्थस्य बहोः कालादनन्तरं ससम्पादनमुपस्थापनं कुर्वाणो बह्वायामि­प्रतिभा­धनः श्रीनित्यानन्द­मिश्रोऽस्माकं शतशः साधुवाचां पात्रमिति श्रीरामभद्राचार्य­चरणान् सप्रश्रयं प्रणमन् सभाजयामि श्रीनित्यानन्द­मिश्रं धन्यवादैः।

अध्यात्मरामायणवाक्प्रयोगानाधाररूपेण सकृद्गृहीत्वा। यो व्यापकं पाणिनिशब्दशास्त्रं ममन्थ साधुत्वपरीक्षणाय॥ स्थले स्थले प्रातिभदृष्टिशोधैः प्रातिष्ठिपन्नूतनशास्त्रयुक्तीः। गभीरमन्वेषणकृत्यमित्थं शोधप्रबन्धे निबबन्ध सम्यक्॥ शोधोपाधिं गिरिधरवरो मिश्रलक्ष्मा गृहीत्वा सन्न्यस्तोऽभूदथ च तुलसीपीठकं चित्रकूटे। पीठाधीशो विमलधिषणो रामभद्रेति नाम्ना सम्भूष्यात्र प्रथयति नवं विश्वविद्यालयं तम्॥ शोधग्रन्थं तमिह गहनप्रौढशैलीनिबद्धं नित्यानन्दः कुशलधिषणः साधु सम्पाद्य धत्ते। सम्प्रेक्षायै सकलविदुषां सन्निधौ देववाणी- ग्रन्थस्यास्य प्रमुदितहृदा स्वागतं व्याहरामः॥

देवर्षि­कलानाथ­शास्त्री १४/१०/२०१४

अध्यक्षचरः, राजस्थान­संस्कृताकादमी निदेशकः, संस्कृतशिक्षाभाषाविभागः, राजस्थानसर्वकारः प्रधानसम्पादकः, भारती (संस्कृतमासिकपत्रिका) सदस्यः, संस्कृतायोगः, भारतसर्वकारः अध्यक्षः, आधुनिकसंस्कृतपीठम्, ज॰रा॰रा॰संस्कृतविश्वविद्यालयः जयपुरम्, भारतम्

प्रशस्तिपद्यानि

– शतावधानिनो रा.गणेशाः

   इयमिह मदुपज्ञा काचिल्पीयसी तथाऽपि भक्तिमकरन्दभरनम्रा सुवर्णमयी च प्रशस्तिपद्यसुमनोमालिका। अनया प्रज्ञाविलोकनवतां तत्र भवतां महतां सतां श्रीश्रीरामभद्राचार्यमस्करिणां मत्परतया वरिवस्या भवेदित्याशासे। चित्रावहा खलु श्रीचरणानां सारस्वतसाधना शास्त्रे काव्ये च। अतो हि चित्रकवितैव विहिताऽत्र मया। ईदृशानां वैरल्येन च साम्प्रतिके युगे प्रायेण कामपि प्रतिनवां सुषमामर्हतीयं मम वागुपक्रमप्रक्रियेति मन्ये। अन्यच्च कवितल्लजा नैके ध्वन्यध्वन्यध्वनीनाः खलु कुर्युरन्यया चानन्यया रसमयरीत्या पद्यानीति मत्वा मदीयमिदं तार्तीयकं वर्त्म समादृतम्।

   गोमूत्रिकाबन्धः—

रामभद्रयतिर्जीयाच्चलुकीकृतवाग्विधिः। धीमद्भद्रकृतिर्भूयाद्वालुकीकृतवारिधिः॥ citra01

   गतप्रत्यागतम्—

जय हे यजने ध्याने भजनेऽजभणेक्षणे। महिमन् हिमहस्तोह स्तवनावस्त शस्त्यश॥ citra02

   पद्मबन्धः—

नमस्ते मनसा भासा नव्यकाव्यनयप्रिय। नभश्शोभनसत्त्वास नन्दनन्दनवल्लव॥ citra03

   मृदङ्गबन्धः—

भजे महितमादर्शं व्रजेम परमादरम्। विन्देम गरिमागल्भं वन्देमहि तमागमम्॥ citra04

   पुष्पगुच्छबन्धः—

अलोकलोक्यलोकनं दयाऽभयास्मयाग्रहं वचोरुचोऽधिचोदनं कवित्ववित्वविग्रहम्। श्रयाम्ययाम्ययाजनं नमामि मापमास्पृहं भवेऽभवेड्यवेतनं जनावनात्मना महम्॥ citra05शतावधानी रा.गणेशः

२६/१०/२०१४

बेङ्गलूरुनगरम्, भारतम्

अपि अपि रक्षति डुकृञ्करणे

– पोटोपाख्या हिमांशवः

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते। सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे॥

– चर्पटपञ्जरिकास्तोत्रे १

   आदि­शङ्कराचार्य उद्घोषयति नहि नहि रक्षति डुकृञ्करणे इति। अस्मिन् ग्रन्थे जगद्गुरु­रामभद्राचार्य उद्घोषयति अपि अपि रक्षति डुकृञ्करणे इति। अस्मिन् ग्रन्थे जगद्गुरुरामभद्राचार्यः शुष्कं व्याकरणं रामरसेनौतप्रोतं कृत्वा पाठकायोपहरति। एकैकः शब्दो रामरसेन लिप्तोऽस्ति। व्याकरण­व्याजेन जगद्गुरु­रामभद्राचार्यो रामचन्द्रेणास्मान्मुक्तिं प्रदापयति। अपि अपि रक्षति डुकृञ्करणे

संस्कृतज्ञानां गोविन्द­लाल­मेहता­महाराजानां दौहित्रः हिमांशुः पोटा १२/८/२०१५

प्राचार्यः, अभियान्त्रिकीसूचनाप्रौद्योगिकीविद्यालयः ऑस्ट्रेलिया­रक्षा­बलाकादमी न्यू­साऊथ्‌वेल्स्‌विश्वविद्यालयः कॅनबेरा, ऑस्ट्रेलिया

लोकोपकारकोऽनुसन्धानग्रन्थः

– बलदेवानन्दसागराः

   कतिपय­दिवसेभ्यः प्राक् स्वसुहृदा हिमांशु­पोटा­वर्येण सार्धं वैद्युतान्तर्जाल­माध्यमेन सम्भाष­माणोऽहं जगद्गुरु­वर्याणां श्रीमतां रामानन्दाचार्याणां रामभद्राचार्य­स्वामिपादानां विषये श्रीमद्भगवद्गीताया दशमाध्यायस्य श्लोकमिमम्–

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्॥

– भ॰गी॰ १०.४१

उद्धरन्न्यगादिषं यदेता विभूतयः मानव­समाजस्य कल्याणार्थं समुद्धारार्थञ्च जगती­तलेऽवतरन्ति।

   अध्यात्म­रामायणेऽ­पाणिनीय­प्रयोगाणां विमर्शः इति महतो लोकोपकारस्यानु­सन्धान­ग्रन्थस्य रचनायां प्रकाशने च गुरु­शिष्ययोः परिनिष्ठित­प्रयासा नूनं वर्तमानानां भाविनाञ्च जनानां कृते प्रेरणास्पदी­भूताः सेत्स्यन्तीति मे द्रढीयान् विश्वासः।

   अनयोः सर्व­विधानामय­हेतोः भगवन्तं राघवं प्रार्थये।

विदुषां वशंवदः बलदेवानन्दसागरः २१/८/२०१५

महासचिवः, भारतीयसंस्कृतपत्रकारसङ्घः देहलीनगरम्, भारतम्

This page was last modified on October 22, 2015.