॥ अथ तृतीयोऽध्यायः ॥
॥ धातुप्रकरणम् ॥
प्रणम्य सीतापतिपादपद्मं गौरीं गिरीशं किल धातुशब्दान्।
अपाणिनीयांश्च विमर्शयेऽत्र[१] अध्यात्मरामायणमध्यगान्वै॥
॥ अथ तृतीयाध्याये प्रथमः परिच्छेदः ॥
॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥
(१) पठन्ति शृण्वन्ति यान्ति
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम्।
रामायणं सर्वपुराणसम्मतं निर्धूतपापा हरिमेव यान्ति ते॥
– अ॰रा॰ १.१.३
साम्प्रतमहं तृतीयाध्याये धातुसम्बन्धिनोऽपाणिनीयप्रयोगान् विमर्शये। प्रथमे सर्गे बालकाण्डस्य फलश्रुतिं वर्णयन्नाह ग्रन्थकृद्यद् य इमामध्यात्मरामायणसंहितां पठन्ति ते निर्धूतपापा भगवन्तमेव प्राप्नुवन्ति। आरभ्यमाणग्रन्थस्य फलश्रुतिरियम्। पूर्णतामपि न गतेऽस्मिन् वर्तमानकालीनपाठः कथं सङ्गंस्यत इति चेत्। पठन्ति इति वर्तमानकालिकप्रयोगो भविष्यत्तात्पर्यवाचकः।[२] एवं च वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानसमीपभविष्यत्काले विकल्पेन वर्तमानकालनिमित्तकार्याण्यर्थाद्वर्तमानवद्भावः। यथा च पठिष्यन्ति[३] इत्यर्थे पठन्ति। एवं नानाकर्तृकाध्यात्मरामायणकर्मकभविष्यत्कालावच्छिन्नवर्तमानकालाभासिक उच्चारणानुकूलो व्यापारः इति शाब्दबोधः। धातोः खलु व्यापार एव शक्तिरेवं तिङ् प्रत्ययस्याऽश्रये। व्यापारवाचकत्वे प्रधानतया व्यापारः प्रधानमेवं तिङर्थो विशेषणम्। अर्थाद्वैयाकरणा व्यापारमुख्यविशेष्यकं शाब्दबोधमङ्गीकुर्वन्ति। यद्यपि मीमांसका अपि भावनामुख्यविशेष्यकं शाब्दबोधं मन्यन्ते किन्तु कुत्रचिदपसिद्धान्तितमपि तैः। नैयायिकाः प्रथमान्तमुख्यविशेष्यकं शाब्दबोधं मन्यन्ते। किन्तु पश्य मृगो धावति इत्यत्र भाष्यसम्मतैकवाक्यता भग्ना भवति प्रथमान्तमुख्यविशेष्यके शाब्दबोधे स्वीकृते।[४] धावनानुकूलकृतिमान् मृगः। मृगकर्तृकधावनकर्मकदर्शनानुकूलकृतिमांस्त्वम्। अस्मन्मते तु मृगकर्तृकधावनानुकूलव्यापारकर्मकत्वत्कर्तृकदर्शनानुकूलव्यापारः। इत्थं तिङर्थाश्चत्वारः कर्तृकर्मसङ्ख्याकालाः। कर्तुर्व्यापारेऽन्वयः कर्मणश्च फले सङ्ख्यायाश्च कर्मप्रत्यये कर्मणि कर्तृप्रत्यये च कर्तरि। कालस्य च व्यापारेऽन्वयः। वर्तमाने लट् (पा॰सू॰ ३.२.१२३) इत्यादिसूत्रनिर्देशात्। इत्थं तत्र कारिका –
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्॥
– वै॰सि॰का॰ १.२
फलस्य व्यापारे स्वानुकूलत्वसम्बन्धाश्रयः। एवं भक्ताभिन्नैककर्तृकभविष्यत्कालावच्छिन्नवर्तमानकालाभासिकस्पष्टोच्चारणानुकूलव्यापारः। प्राचीननवीनयोरिदमन्तरम्। प्राचीनास्तूभयत्र समानव्यवस्थां मन्यन्ते। नवीनास्तु कर्तृभाववाच्ययोः फलानुकूलव्यापार एवं कर्मवाच्ये व्यापारविशिष्टफलम्।[५] यथा रामेणायोध्या गम्यते – रामाभिन्नैककर्तृकवर्तमानकालावच्छिन्नव्यापारजन्यं गृहनिष्ठोत्तरदेशसंयोगरूपं फलम् अयमत्र विवेकः।[६] किं फले व्यापारे च धातोः पृथक्शक्तिरुताहो समुदिता चेत्। अनुकूलत्वसम्बन्धेन फलस्य व्यापारेऽन्वयः। तदा पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन इति नियमेन कथमत्रान्वयः। अतो विशिष्टे शक्तिः।[७] गुरुचरणास्त्वेकवृन्तावलम्बिफलद्वयवदेकस्मिन् धातावेव फलव्यापारयोः शक्तिः।[८] विस्तारभयाद्विरम्यते। एवं भक्ताभिन्नैककर्तृकभविष्यत्कालिकवर्तमानकालाभासिकस्पष्टोच्चारणानुकूलव्यापारः इति शाब्दबोधः।[९]
(२) लभेत्
अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम्।
गवां सहस्रायुतकोटिदानात्फलं लभेद्यः शृणुयात्स नित्यम्॥
– अ॰रा॰ १.१.४
अत्र फलश्रुतावेव लभेत् इति हलन्तप्रयोगः। लभ् धातुः (डुलभँष् प्राप्तौ धा॰पा॰ ९७५) आत्मनेपदी। विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) इत्यनेन लिङ्लकारे लिङः सीयुट् (पा॰सू॰ ३.४.१०२) इत्यनेन सीयुट्यनुबन्धलोपे सकारस्य च लोपे गुणे यकारलोपे लभेत इत्येव पाणिनीयम्।[१०] लभेत् इति कथमिति चेत्। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इति वचनेनात्राऽत्मनेपदाभावे परस्मैपद उक्तं रूपम्।[११] यद्वा लभत इति लभः।[१२] लभ इवाऽचरतीति लभति।[१३] तत आचारक्विबन्ताल्लिङि तिपि शपि पररूपे यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) इत्यनेन यासुटि कृते सुडागमे सकारद्वयलोपे अतो येयः (पा॰सू॰ ७.२.८०) इत्यनेनेयादेशे गुणे यलोपे इतश्च (पा॰सू॰ ३.४.१००) इत्यनेनेकारलोपे लभेत्।[१४]
(३) जानामि
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत्।
जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन॥
– अ॰रा॰ १.१.९
अत्र भगवती पार्वती भगवन्तं शिवं प्रार्थयते यत् भक्तिवैराग्यसहितं ज्ञानं यथा जानीयां तथा कुर्वन्तु देवाः। अत्र जानीयाम्[१५] इति प्रयोक्तव्ये जानामि इति प्रयुक्तम्। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानवद्भावः।[१६]
(४) जानाति
वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम्।
जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम्॥
– अ॰रा॰ १.१.१३
भगवती पार्वती श्रीरामलीलाविषयकं संशयं करोति यत् श्रीरामः स्वाविद्यया संवृतमात्मसञ्ज्ञं नाजानात्। अत्र भूतकालिकक्रियायां प्रयोक्तव्यायां जानाति इति वर्तमानकालिकक्रिया प्रयुक्ताऽपाणिनीयेव। किन्तु पुरा इत्यस्याध्याहारे पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) इत्यनेन पुरायोगे लड्लकारः। अर्थात् पुरा न जानाति।[१७] पूर्वं नाजानात् इत्यर्थः।[१८] ब्रह्मणा बोधितः सन् पश्चाद्व्यजानादिति पार्वत्यास्तात्पर्यम्। न च पुरा शब्दो दृश्यत इति वाच्यम्। गम्यमानः सः।
(५) ब्रूत
अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रूत मे संशयभेदि वाक्यम्॥
– अ॰रा॰ १.१.१५
भगवती पार्वती भगवन्तं शशाङ्कशेखरं पृच्छति तत्संशयभेदिवाक्यं ब्रूत। यूयं ब्रूत इत्यध्याहार्यम्। प्रथमपुरुषे प्रयोक्तव्ये[१९] मध्यमपुरुषप्रयोग अपाणिनीयः। एवं च भगवती भवानी पतिव्रताशिरोमणिः। सा च स्वकीयप्राणवल्लभाय मध्यमपुरुषस्य विशेषणं ददाति तत्रापि बहुवचनान्तमिति न परं प्रतिभाति। तथा च नियमः – एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे। पार्वत्यास्तु भगवाञ्छिव एव गुरुः। ऐश्वर्ये त्रिभुवनगुरुत्वान्माधुर्ये प्राणवल्लभत्वाच्च पतिरेव गुरुः स्त्रीणाम् (म॰भा॰ १४.१०८.६, ब्र॰पु॰ ८०.४८, कू॰पु॰ १२.४९, चा॰नी॰ ५.१) इति वचनाच्च। अतो बहुवचनप्रयोगः। तथाऽपि कथं यूयं ब्रूत इति चेत्। अत्रोत्तरं किं विदितं भवद्भिः इत्यत्र भवद्भिः इति विशेषणं शिवस्य कृते दत्तम्। अतः यूयम् इति तत्सम्बन्धिकर्तृविशेषणं नैव विचारसहम्। भवद्भिः इत्यस्य हि भवन्तः इत्यनेन सम्बन्धः स्यात्। यथा यदुत्तरं भवद्भिर्विदितं तद्भवन्तो वदन्तु। किन्तु प्रश्ने कृते शिवः समाधौ न्यलीयत। तं समाधिस्थं विलोक्य तस्य पञ्च वक्त्राण्युद्दिश्य कथयति यत् भोः पञ्चमुखानि यूयमेव संशयभेदकं वाक्यं ब्रूत।[२०]
(६) वक्ष्ये
त्वयाऽद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते।
रामः परात्मा प्रकृतेरनादिरानन्द एकः पुरुषोत्तमो हि॥
– अ॰रा॰ १.१.१७
भगवतीपार्वतीप्रश्नं श्रुत्वा शिवः कथयति अहं भगवन्तं नमस्कृत्य वक्ष्ये। ब्रूधातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) भूवादयो धातवः (पा॰सू॰ १.३.१) इत्यनेन धातुसञ्ज्ञायां लृट् शेषे च (पा॰सू॰ ३.३.१३) इत्यनेन लृड्लकार उत्तमपुरुषे तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इति सूत्रानुसारमिट्प्रत्यये स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) इत्यनेन स्यप्रत्यये ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन ब्रूधातोर्वचादेशे टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेनैकारादेशे अतो गुणे (पा॰सू॰ ६.१.९७) इत्यनेन पररूपे पश्चाच्चकारस्य कुत्वे षत्वे वक्ष्ये इति। अत्र वक्ष्यामि इति कथं नेति चेत्।[२१] क्रियाफलस्य कर्तृगामित्वात्।[२२] रामायणकथाप्रश्नेन पार्वत्यास्तु सन्देहो नष्टो भविष्यत्येव किन्तु तत्कथनेन वक्तुः शशाङ्कमौलेरपि स्वान्तःसुखमुत्पत्स्यते। भगवत्कथाप्रश्नो वक्तारं प्रश्नकर्तारं श्रोतारमिति त्रीनपि पुनाति। तथा चोक्तं भागवते –
वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतृंस्तत्पादसलिलं यथा॥
– भा॰पु॰ १०.१.१६
इयं हि गङ्गा। तथा चोक्तमत्रैव ग्रन्थे –
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥
– अ॰रा॰ १.१.५
अतो वक्ष्ये इति समूलमेव।
(७) भ्रमतीव दृश्यते
यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते।
तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति॥
– अ॰रा॰ १.१.२२
अत्र भ्रम्धातुः (भ्रमुँ अनवस्थाने धा॰पा॰ १२०४) दिवादिः। एवं दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) इत्यनेन लटि तिपि श्यन्प्रत्यये कृते शमामष्टानां दीर्घः श्यनि (पा॰सू॰ ७.३.७४) इत्यनेन दीर्घे भ्राम्यति इति पाणिनीयम्।[२३] भ्रमति इति कथमिति चेत्। वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (पा॰सू॰ ३.१.७०) इत्यनेन श्यनो विकल्पात् भ्रमति।[२४] यद्वा भ्रममाचरतीति भ्रमति अनेन प्रकारेण सिद्धम्।[२५] यद्वा गणकार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन श्यनभावे भ्वादित्वाच्छपि।[२६] यद्वा भ्रमति इति नास्ति क्रियाऽपि तु भ्रमती इव इति भ्रम्धातोरौणादिकतृच्प्रत्ययान्तो भ्रमती।[२७]
(८) आकाङ्क्षते
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित्।
आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति॥
– अ॰रा॰ १.१.४३
अत्र सीता श्रीरामतत्त्वं वर्णयन्ती आकाङ्क्षते इति प्रयुङ्क्ते। यत् रामो नाऽकाङ्क्षते। काङ्क्ष्धातुः (काक्षिँ काङ्क्षायाम् धा॰पा॰ ६६७) परस्मैपदी। एवं ततो लटि तिपि शपि आकाङ्क्षति।[२८] तथा च नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली (र॰वं॰ ६.६९) इति कालिदासोऽपि प्रायुङ्क्तेति चेत्कथमत्रात्मनेपदम्। अत्र विमृश्यते। कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदम्।[२९] कर्मव्यतिहारो हि क्रियाविनिमयः। जीवस्याऽकाङ्क्षा भगवत्यारोपिता। तामेव निरस्यति नाकाङ्क्षते इति।
(९) पठति
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी।
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्॥
– अ॰रा॰ १.१.५६
पठति इति भविष्यत्कालार्थे वर्तमानकालं प्रयुङ्क्त इति चेत्। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानकालः।[३०] एवमेव लभते इत्यत्रापि। अर्थात्त्वरितमेव फलसिद्धिर्भविष्यति।[३१]
(१०) मुच्यते
तदद्य कथयिष्यामि शृणु तापत्रयापहम्।
यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात्।
प्राप्नोति परमामृद्धिं दीर्घायुः पुत्रसन्ततिम्॥
– अ॰रा॰ १.२.५
अत्र रामायणस्य शाश्वतत्वाद्वर्तमानकालः।[३२] वैयाकरणानां मते शब्दानां नित्यत्वात्। एवं भक्तानां मते भगवतस्तत्कथायाश्च नित्यत्वात्। अतो जीवानां दृष्टौ वर्तमानभूतभविष्यत्कालाः। त्रिकालाबाध्यत्वात्कालातीतत्वाच्चेश्वरस्य समक्षं निरन्तरं वर्तमानकालः।
(११) सृजामि
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने।
चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक्॥
– अ॰रा॰ १.२.२७
अत्र भगवाञ्छ्रीरामभद्रोऽवतारकथां वर्णयन्नाह यत् कौशल्यायामितरयोश्चाऽत्मानं चतुर्धा सृजामि। अत्र स्रक्ष्यामि इति हि पाणिनीयम्।[३३] किन्तु वर्तमानसामीप्यात् सृजामि इति न दोषः।[३४]
(१२) सृजध्वम्
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान्।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले॥
– अ॰रा॰ १.२.३०
ब्रह्मा देवानादिशति यत् यूयं वानरेष्वात्मानं सृजध्वम्। रचयध्वमिति भावः। सृज्धातुः (सृजँ विसर्गे धा॰पा॰ १४१४) आत्मनेपदी न।[३५] कथमत्र सृजध्वम् इति चेत्। अत्र कर्मव्यतिहारादात्मनेपदम्।[३६] सर्जनं ब्रह्मणः कर्म तदेव देवेभ्यो दीयत इति क्रियाविनिमयः। आत्मनेपदे लोड्लकारे ध्वमि शे सृजध्वम्।[३७]
(१३) दर्शयस्व
उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
दर्शयस्व महानन्दबालभावं सुकोमलम्।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः॥
– अ॰रा॰ १.३.२९
अत्र भगवती कौशल्या स्वसमक्षं प्रकटं श्रीरामभद्रं प्रार्थयते यत् बालभावं दर्शयस्व। अत्र दृश्धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) णिचि लघूपधगुणे रपरत्वे धातुसञ्ज्ञायां पुनर्लोड्लकार आत्मनेपदे थास्प्रत्यये शपि गुणेऽयादेशे स्वादेशे दर्शयस्व।[३८] आत्मनेपदं यदा कर्तरि फलं दृश्येत। अत्र रामरूपे कर्तरि किं फलं श्रीरामस्य फलानपेक्षत्वादिति चेत्। भक्तानन्द एव तस्यापूर्वं फलम्। भक्तहितार्थमेव गृहीतजन्मत्वात्। यद्वा स्व इति सम्बोधनम्। हे स्व दर्शय बालभावम्।[३९] स्वशब्दस्य चत्वारोऽर्था आत्माऽऽत्मीयो ज्ञातिर्धनञ्च।[४०] अतः हे स्व हे मम आत्मन्मम धन इति निजं दर्शय। यद्वा स्व इति महानन्दम् इत्यस्य विशेषणम्। एवं च स्वेभ्य आत्मीयेभ्यो महानानन्दो यस्मात्स स्वमहानन्दः। स्वमहानन्दश्चासौ बालभावश्चेति स्वमहानन्दबालभावस्तं स्वमहानन्दबालभावम्।
(१४) याति
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥
– अ॰रा॰ १.३.३४
अत्र भगवाञ्छ्रीरामो मात्रा सह स्वकीयसंवादस्य फलश्रुतिं वर्णयति य आवयोः संवादं पठेच्छृणुयाद्वा स मम सारूप्यं यायात्। यायात्[४१] इति प्रयोक्तव्ये याति इति प्रयुक्तम्। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानकालः।[४२] अर्थात् संवादमिममनुशील्य सद्य एव मम सारूप्यं प्राप्स्यति इति भगवतस्तात्पर्यम्।
(१५) अहनत्
भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया।
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा॥
– अ॰रा॰ १.३.५३
भगवाञ्छ्रीरामो बाललीलामाचरन्मातरं भोजनं याचमानोऽप्राप्य बालक्रोधं विडम्बयल्लँगुडेन भाण्डान्यचूर्णयत्। अत्र अहनत् इति प्रयोगः। वस्तुतस्तु हन्धातोः (हनँ हिंसागत्योः धा॰पा॰ १०१२) धातुसञ्ज्ञायाम् अनद्यतने लङ् (पा॰सू॰ ३.२.१११) इत्यनेन लङ्लकारे तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन तिप्प्रत्यये कर्तरि शप् (पा॰सू॰ ३.१.६८) इत्यनेन शब्विकरणे अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) इत्यनेन शपो लुकि लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) इत्यनेनाडागमे इतश्च (पा॰सू॰ ३.४.१००) इत्यनेनेकारलोपे हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) इत्यनेन तकारलोपे अहन् इति पाणिनीयम्।[४३] अहनत् इत्यत्र गणकार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन शब्लुगभावे हलन्तत्वाभावान्न तकारलोपः।[४४] यद्वा हन्तीति हनः इति विग्रहे पचादित्वादच्।[४५] हन इवाऽचरतीति हनति[४६] इति विग्रह आचारक्विबन्ताल्लङ्लकारे प्रथमपुरुष एकवचन एवम् अहनत्।[४७] श्रीरामो निर्लेपत्वादकर्तृत्वाच्च किमपि न करोति। रामो न गच्छति न तिष्ठति नानुशोचति इत्यादि रामहृदये सीतया स्पष्टं निगदितत्वात्। यथा –
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्च।
आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति॥
– अ॰रा॰ १.१.५३
एवं रामाभिन्नैककर्तृकानद्यतनभूतकालावच्छिन्नभाण्डकर्मकहननानुकूलव्यापाराश्रयसदृशव्यापारः इति शाब्दबोधः।
(१६) चक्रे
एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम्।
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित्॥
– अ॰रा॰ १.३.६६
अत्र भगवतः स्वरूपं वर्णयति अकर्ता सन् सर्वं चकार विचार्यमाणे सति किमपि नाकरोत्। अत्र चकार इति हि पाणिनीयः।[४८] तच्चरित्रेण भक्तेष्वानन्दजननात्क्रियाफलस्य परनिष्ठत्वात्। किन्तु कर्मव्यतिहारेणात्राऽत्मनेपदम्।[४९] साङ्ख्यदृष्ट्या भगवति प्रकृतिगतकर्तव्यमारोपितम्। रामहृदये श्रीसीतया स्पष्टं प्रतिपादितत्वात्। वेदान्तदृष्ट्याऽपि जीवगतकर्तृत्वं भगवत्यारोपितम्। अत आत्मनेपदम्। तथा च कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) लिड्लकारे परोक्षे लिट् (पा॰सू॰ ३.२.११५) इत्यनेन तप्रत्यये लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) इत्यनेन एश् आदेशे लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) इत्यनेन द्वित्वे पूर्वोऽभ्यासः (पा॰सू॰ ६.१.४) इत्यनेनाभ्याससञ्ज्ञायां उरत् (पा॰सू॰ ७.४.६६) इत्यनेनर्कारस्याकारे उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन रपरत्वे हलादिः शेषः (पा॰सू॰ ७.४.०) इत्यनेन रलोपे कुहोश्चुः (पा॰सू॰ ७.४.६२) इत्यनेन चुत्वे इको यणचि (पा॰सू॰ ६.१.७७) इत्यनेन यणि चक्रे।[५०] एवं करोति इत्यपि भूतकाले प्रयोक्तव्ये वर्तमाने प्रयुक्तं रूपम्। अत्र लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन स्मयोगे लड्लकारो भूतकालेऽपि।[५१] न चाऽत्र स्म इति न दृश्यते। विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन लोपात्।
(१७) करोमि
त्वद्विधा यद्गृहं यान्ति तत्रैवाऽयान्ति सम्पदः।
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत्॥
– अ॰रा॰ १.४.४
अत्र करिष्यामि[५२] इति प्रयोक्तव्ये वर्तमानसामीप्यलकारात् करोमि।[५३]
(१८) किं करोमि
किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः।
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः॥
– अ॰रा॰ १.४.९
अत्र किंवृत्ते लिप्सायाम् (पा॰सू॰ ३.३.६) इत्यनेन लट्।[५४]
(१९) न जीवामि
चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः।
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन॥
– अ॰रा॰ १.४.१०
न जीवामि इति वर्तमानसामीप्याल्लट्।[५५] सद्यो मरिष्यामि इति दशरथस्य तात्पर्यम्।
(२०) तेपाथे
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः।
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी।
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम्॥
– अ॰रा॰ १.४.१४
अत्र वसिष्ठो दशरथस्य पूर्वजन्म स्मारयति। अत्र तप्धातुः (तपँ दाहे ऐश्वर्ये वा धा॰पा॰ ११५९) दिवादिरात्मनेपदीयो न तु भ्वादिः परस्मैपदी (तपँ सन्तापे धा॰पा॰ ९८५)।[५६] तस्माल्लिटि आथाम् प्रत्यये द्वित्वेऽभ्यासकार्ये अत एकहल्मध्येऽनादेशादेर्लिटि (पा॰सू॰ ६.४.१२०) इत्यनेनाभ्यासलोप एकार एत्वे च तेपाथे इति साधु।[५७]
(२१) प्रेषयस्व
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम्।
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम्॥
– अ॰रा॰ १.४.२०
वसिष्ठोऽनुजानाति यत् रमानाथं श्रीरामभद्रं विश्वामित्राय प्रयच्छ। अत्र प्रेषयस्व इति प्रयुक्तं प्रेषय इति प्रयोक्तव्यम्।[५८] यतो हि णिचश्च (पा॰सू॰ १.३.७४) इत्यात्मनेपदम्।[५९] तदपि क्रियाफले कर्तृगामिनि सति। राघवप्रेषणेन त्वामपि यशोरूपं फलं मिलिष्यति इति तात्पर्यादत्राऽत्मनेपदम्। यद्वा स्व इति सम्बोधनम्। हे स्व आत्मीय रमानाथं रामं प्रेषय इति नापाणिनीयता।
(२२) दर्शयस्व
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ।
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह॥
– अ॰रा॰ १.५.४
श्रीरामो राक्षसौ प्रति पृच्छन् दर्शयस्व इति प्रयुङ्क्ते। अत्र राक्षसनिधनेन दर्शनकारयितरि विश्वामित्रे फलमिति क्रियाफलस्य कर्तृगामित्वादात्मनेपदम्।[६०]
(२३) ददृशाते
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ।
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी॥
– अ॰रा॰ १.५.५
ददृशाते इति कर्मवाच्यप्रयोगः।[६१] रामलक्ष्मणाभ्याम् इति शेषः। अत्र परोक्षे लिट् (पा॰सू॰ ३.२.११५) इत्यनेन लिड्लकारः। प्रथमपुरुषद्विवचने रूपम्। परोक्षत्वं नाम साक्षात्करोमीति क्रियाशालिज्ञानाविषयतावच्छेदकत्वम्।[६२]
(२४) गच्छामहे
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत्।
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम्॥
– अ॰रा॰ १.५.१२
ताटकामारीचसुबाहून् व्यापाद्य यज्ञरक्षां विधाय दिनत्रयं यावत्तत्र प्रोष्यायोध्यां प्रति गन्तुकामं लक्ष्मणाभिरामं श्रीरामं विश्वामित्रो मिथिलां प्रस्थातुं समामन्त्रयत्। तत्रैव प्रयुक्तम् गच्छामहे। इदं कथम्। गमॢँधातुः (गमॢँ गतौ धा॰पा॰ ९८२) परस्मैपदी। ततो लटि मसि शपि अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) इत्यनेन दीर्घे इषुगमियमां छः (पा॰सू॰ ७.३.७७) इत्यनेन छत्वे छे च (पा॰सू॰ ६.१.७३) इत्यनेन तुकि स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) इत्यनेन श्चुत्वे विसर्गे गच्छामः इति पाणिनीयम्।[६३] गच्छामहे इति सम् उपसर्गसंयोजने समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) इत्यात्मनेपदे महिङ् प्रत्यये ङकारानुबन्धकार्ये टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेन चैत्वे सङ्गच्छामहे।[६४] यज्ञं द्रष्टुं सङ्गता भवामः। वर्तमानसामीप्याल्लट्।[६५] उपसर्गलोपस्तु विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वचनात्। यद्वा हे इति पृथक्पदम्। गच्छाम पदं लोड्लकारोत्तमपुरुषस्य बहुवचनस्य।[६६] हे राम हे राम महायज्ञं द्रष्टुं वयं गच्छामेतीच्छामः इत्थमन्वये इच्छार्थेषु लिङ्लोटौ (पा॰सू॰ ३.३.१५७) इत्यनेन इच्छामः इत्युपपदे लोड्लकारे कृते मस्प्रत्यये आडुत्तमस्य पिच्च (पा॰सू॰ ३.४.९२) इत्यनेनाऽडागमे लोटो लङ्वत् (पा॰सू॰ ३.४.८५) इत्यनेन लङ्वद्भावे नित्यं ङितः (पा॰सू॰ ३.४.९९) इत्यनेन सकारलोपे गच्छाम हे। हे राम, इच्छामो यन्महायज्ञं द्रष्टुं गच्छाम इति योजना।[६७]
(२५) पूज्यसे
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च।
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम्॥
– अ॰रा॰ १.५.१४
द्रक्ष्यसि इति समभिव्याहारेण पूजयिष्यसे[६८] इति हि पाणिनीयप्रयोगः स्याच्चेत्सङ्गतिः स्यात्। किन्तु पूज्यसे इति प्रयोगे त्वसङ्गतिरेकत्र द्रक्ष्यसि इति भविष्यत्प्रयोगोऽपरत्र पूज्यसे इति वर्तमानकालिक इति चेत्। वर्तमानसामीप्याद्भविष्यत्काले लटि नासङ्गतिः।[६९] किमर्थमिदमिति चेत्। त्वं यदा महासत्त्वं द्रक्ष्यसि ततो धनुषि भग्ने शीघ्रमेव जनकेन पूजयिष्यसे इति शीघ्रतां ध्वनयितुं भविष्यति वर्तमानवत्कार्यम्।
(२६) आगमिष्यति
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च।
रामो दाशरथिः श्रीमानागमिष्यति सानुजः॥
– अ॰रा॰ १.५.३०
अत्र यद्यप्यनद्यतनत्वाल्लुड्लकारः[७०] अनद्यतने लुट् (पा॰सू॰ ३.३.१५) इति सूत्रानुशासनात्किन्तु सामान्यसमयतोऽनिश्चितभविष्यद्विवक्षायांलृडेव।[७१] अतो न दोषः।
(२७) काङ्क्षते
तव पादरजःस्पर्शं काङ्क्षते पवनाशना।
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता॥
– अ॰रा॰ १.५.३४
विश्वामित्रः श्रीरामं प्रति वेदयति यत् अहल्या भवच्चरणधूलिं वाञ्छति। तत्र काङ्क्षते इति प्रयुक्तम्। अत्र कर्मव्यतिहार आत्मनेपदम्।[७२] अन्यस्य योग्यं कार्यमन्यः करोति यदा तदा कर्मव्यतिहारः। तव पादरजो योग्यतया श्रीर्वाञ्छति। यथा श्रीमद्भागवते –
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वाऽपि वक्षसि पदं किल भृत्यजुष्टम्।
यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासस्तद्वद्वयं च तव पादरजःप्रपन्नाः॥
– भा॰पु॰ १०.२९.३७
अर्थात्साक्षान्महालक्ष्मीर्भगवती त्वत्पादरजोऽधिकारिणी किन्तु परमपातककारिणी व्यभिचारिणी सत्यपीयं रजोगुणनाशाय तव चरणधूलिं काङ्क्षतीत्यन्ययोग्यकाङ्क्षण आत्मनेपदम्। अहल्याऽऽत्मनः पराभवमूलं कामं तदुद्भवं च रजोगुणं मन्यमाना तं च रजोगुणं मुकुन्दश्रीरामभद्रचरणारविन्दरजसा परिमार्ष्टुमिच्छतीति कौशिकहार्दम्। कामो रजोगुणोद्भव इति गीतायां निर्दिष्टं यथा –
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥
– भ॰गी॰ ३.३७
यद्वा ब्राह्मणी सत्यपि क्षत्त्रियस्य ते चरणारविन्दरजः काङ्क्षत्यतो दयस्वेत्यन्ययोगकाङ्क्षणरूपे कर्मव्यतिहार आत्मनेपदे काङ्क्षते।
(२८) पावयस्व
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम्।
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः॥
– अ॰रा॰ १.५.३५
विश्वामित्रः कथयति यत् भगवन्नहल्यां पुनीहि। अत्र पावय इति प्रयोक्तव्यम्।[७३] पावयस्व इति पावनरूपं फलं त्वय्येव स्थास्यति तव भक्तवात्सल्यं पतितपावनत्वं वा दिगन्ते प्रसरिष्यत्यत आत्मनेपदम्।[७४] यद्वा हे स्व अर्थात् हे आत्मीय हे आत्मन् हे धन पावय इत्यन्वये परिहारः। स्वमज्ञातिधनाख्यायाम् (पा॰सू॰ १.१.३५) इति सूत्रस्य भाष्ये स्वशब्दस्य चत्वारोऽर्थाः सङ्केतेन कथिताः – आत्माऽऽत्मीयो ज्ञातिर्धनमिति।[७५] अत्र चत्वारोऽप्यर्था अनुसन्धेयाः। विश्वामित्रः कथयति यत्त्वमात्मा त्वमात्मीयस्त्वमेवास्मज्ज्ञातिर्ब्रह्मण्यदेवत्वात्त्वमेवास्मद्धनमाराध्यत्वात्। अतः हे स्व पावय इति सम्यक्पाणिनीयता।
(२९) किं वर्ण्यते
यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिञ्चिमुखान्पुनाति।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम्॥
– अ॰रा॰ १.५.४५
अहल्या स्वकीयं भाग्यं प्रशंसति। किं वर्ण्यते इति। अत्र वर्णयितुं शक्यते इति वर्तमानसामीप्याल्लट्।[७६]
(३०) अधिगच्छति
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति॥
– अ॰रा॰ १.५.६२
अत्र वर्तमानसामीप्याल्लट्।[७७] अहल्याकृतस्तोत्रं पठित्वा सद्यः परं ब्रह्माधिगमिष्यति इति ध्वनयितुं वर्तमानप्रत्ययः। अत्र कर्मकर्तृप्रयोगः। यदा कार्यसौकर्यातिशयं बोधयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसञ्ज्ञां लभन्ते स्वव्यापारे स्वतन्त्रत्वात्। यथा सीता कन्दमूलं पचति। सीतया किं कन्दमूलं स्वयमेव पच्यते तथैवात्रापि। स ब्रह्माधिगच्छति। तेन किं परब्रह्म स्वयमेवाधिगम्यते। अधिगच्छति शास्त्रार्थः (वै॰सि॰कौ॰ २७६६) इतिवत्।
(३१) क्षालयामि
क्षालयामि तव पादपङ्कजं नाथ दारुदृषदोः किमन्तरम्।
मानुषीकरणचूर्णमस्ति ते पादयोरिति कथा प्रथीयसी॥
– अ॰रा॰ १.६.३
अत्र वर्तमानसामीप्याल्लट्।[७८]
(३२) अनुशुश्रुवे
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे।
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम्।
दृष्ट्वाऽयोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति॥
– अ॰रा॰ १.६.१६
अत्र विश्वामित्रो लिड्लकारक्रियां प्रयुङ्क्ते। तस्य कथं पारोक्ष्यं त्रिकालदर्शित्वात्। वस्तुतस्त्वपरोक्षानुभूतेः सरूपं सगुणं ब्रह्म श्रीरामं दर्शं दर्शं विस्मृतसकलव्यापारतया भावातिरेके प्रेमसिन्धौ ज्ञानप्लवस्य मग्नतां सूचयितुं परोक्षप्रयोगः। बहु जगद पुरस्तात्तस्य मत्ता किलाहम् (शि॰ ११.३९) इति प्रयोग इव।
(३३) आकर्षयामास
ईषदाकर्षयामास पाणिना दक्षिणेन सः।
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन्॥
– अ॰रा॰ १.६.२५
अत्र स्वार्थे णिजन्तत्वात् आकर्षयामास इति।[७९]
(३४) आनयामास
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम्।
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा॥
– अ॰रा॰ १.६.४५
आङ् पूर्वकः णीञ् प्रापणे (धा॰पा॰ ९०१) इति धातुः। णो नः (पा॰सू॰ ६.१.६५) इत्यनेन नकारः। अत्र परोक्षे लिड्लकारः। परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) इत्यनेन णलादेशे वृद्धौ द्वित्वेऽभ्यासलोपेऽयादेशे आनिनाय इत्येव।[८०] आनयामास इति कथम्। उच्यते। आनयतीत्यानया भावे अच्प्रत्यये गुणेऽयादेशे टापि।[८१] आनयाम्। क्रियाविशेषणत्वाद्द्वितीया। आस बभूवेति।[८२]
(३५) मुमोद
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे।
ऊर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा॥
– अ॰रा॰ १.६.५५
अत्र मुद्धातुः (मुदँ हर्षे धा॰पा॰ १६) आत्मनेपदी। एवं तत्र लिटि लकारे मुमुदे इति पाणिनीयम्।[८३] मुमोद इत्यपि। मोदनं मोदः। भावे घञ्।[८४] मोदं करोति मोदयति।[८५] मोदयतीति मोद्।[८६] मोदिवाऽचरति मोदति।[८७] ततो लिटि लकारे णल्प्रत्यये द्वित्वेऽभ्यासकार्ये ह्रस्वे मुमोद।[८८]
(३६) दीयते
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते।
कथं मया राघवाय दीयते जानकी शुभा॥
– अ॰रा॰ १.६.६७
अत्र कथं मया दीयते इति। दीयताम्[८९] इति लोट् च (पा॰सू॰ ३.३.१६२) इत्यनेन प्रश्नार्थे[९०] लोट्। यद्वा दीयेत[९१] इति आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) इत्यनेन लिङ् प्रयोक्तव्यमासीत्। किन्तु धातुसम्बन्धे प्रत्ययाः (पा॰सू॰ ३.४.१) इत्यनेन लड्लकारः।[९२]
(३७) त्राहि त्राहि
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा।
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत्॥
– अ॰रा॰ १.७.९
विवाहं कृत्वा परावर्तमानो दशरथः सपरिकरः परशुरामं दृष्ट्वा त्राहि त्राहि इति ब्रवीति। त्रैधातोस्तु (त्रैङ् पालने धा॰पा॰ ९६५) लोटि मध्यमपुरुष एकवचने गुणेऽयादेशे त्रायस्व इति पाणिनीयम्।[९३] त्राहि इति कथम्। आकृतिगणत्वाददादिगणे पा (पा रक्षणे धा॰पा॰ १०५६) रा (रा दाने धा॰पा॰ १०५७) प्रा (प्रा पूरणे धा॰पा॰ १०६१) इत्यादिवद्रक्षणार्थः त्रा इति पठितव्यः। ततश्च सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) इत्यनेन हि आदेशे त्राहि इति पाणिनीय एव।[९४]
(३८) भूयात्
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा।
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा॥
– अ॰रा॰ १.७.३७
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया।
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते॥
– अ॰रा॰ १.७.४५
यद्यपि सत्तार्थकभूधातोः (भू सत्तायाम् धा॰पा॰ १) लिङ्लकारे तु भवेत्[९५] इति प्रयोग एवं लड्लकारे च भवति[९६] इति प्रयोगः पाणिनीयः। भूयात् इति प्रयोग आशिषि।[९७] आशिषि लिङ्लोटौ (पा॰सू॰ ३.३.१७३) इत्यनेन। किन्तु यु (यु मिश्रणेऽमिश्रणे च धा॰पा॰ १०३३) णु (णु स्तुतौ धा॰पा॰ १०३५) इत्यादिवद्भूधातुरप्यदादिस्तस्यैव लिङ्लकारे भूयात्।[९८] आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) इत्यनेन।
॥ इति बालकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथायोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
(३९) मोहयस्व
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः।
अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो॥
– अ॰रा॰ २.१.३०
नारदः कथयति मां मा मोहयस्व। अत्र मोहय इति समीचीनं प्रतीयते।[९९] किन्तु स्व इति पृथगुपादानेन हे स्व हे आत्मीय मां मा मोहय इति परिहारः।
(४०) नाशयामि
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम्।
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह॥
– अ॰रा॰ २.१.३९
अत्र वर्तमानसामीप्ये लट्।[१००] यद्वा नाशमाचष्ट इति नाशयति।[१०१] नाशयतीति नाश्।[१०२] क्विप्कर्तरि। अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) इत्यनेन छान्दसभत्वात्षत्वाभावो[१०३] जश्त्वाभावश्च।[१०४] अहमेव नाश् रावणनाशयिता अयामि[१०५] अरण्यं व्रजामि।
(४१) अभिषेक्ष्यामि
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय।
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम्॥
– अ॰रा॰ २.२.७
यद्यपि श्वोभूते इति पदसमभिव्याहारेण लुड्लकारः प्राप्नोति[१०६] तथा च स्पष्टं लकारार्थनिर्णये भूषणे –
वर्तमाने परोक्षे श्वोभाविन्यर्थे भविष्यति।
विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः॥
– वै॰सि॰का॰ २२
तथाऽप्यनद्यतनत्वस्याविवक्षया लृट्।[१०७]
(४२) प्रविशस्व
रामाभिषेकविघ्नार्थं यतस्व ब्रह्मवाक्यतः।
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम्॥
– अ॰रा॰ २.२.४५
अत्र देवाः सरस्वतीं प्रार्थयन्ते यत् त्वं मन्थरां प्रविशस्व। प्रपूर्वको विश्धातुः (विशँ प्रवेशने धा॰पा॰ १४२४) परस्मैपदी। तत्र लोड्लकारे प्रविश इति पाणिनीयम्।[१०८] प्रविशस्व इति तु कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन क्रियाविनिमय आत्मनेपदे सति प्रविशस्व।[१०९] यद्वा प्रवेशनं प्रविश्।[११०] अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) इत्यनेन छान्दसभत्वात्षत्वाभावो[१११] जश्त्वाभावश्च।[११२] प्रविशमस्वेनाऽत्मभिन्नेन कपटेनाऽतिक्रामतीति प्रविशस्वयति।[११३] प्रविशस्वयतीति प्रविशस्वः।[११४] प्रविशस्व इवाऽचरतीति प्रविशस्वति।[११५] इत्थमाचक्षाणणिजन्तात्पचाद्यच्पुनराचारक्विप्ततो लोण्मध्यमपुरुष एकवचने प्रविशस्व।[११६]
(४३) चक्रे
ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे।
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम्॥
– अ॰रा॰ २.२.४६
क्रियाफलस्य कर्तृभूतायां सरस्वत्यां गामित्वादात्मनेपदम्।[११७] क्रियाफलं हि लीलासाहाय्येन भगवदानुकूल्यरूपम्।
(४४) विवास्यते
भरतो राघवस्याग्रे किङ्करो वा भविष्यति।
विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात्॥
– अ॰रा॰ २.२.६२
अत्रापि विवासयिष्यते[११८] इति प्रयोक्तव्ये विवास्यते[११९] इति वर्तमानसामीप्ये लट्।[१२०]
(४५) भूयात्
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ।
यदा मेऽवसरो भूयात्तदा देहि वरद्वयम्॥
– अ॰रा॰ २.२.७२
अत्र पूर्वोक्तमेव समाधानम्।[१२१]
(४६) न जाने
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि।
भरतो यदि राजा मे भविष्यति सुतः प्रियः॥
– अ॰रा॰ २.२.७७
मन्थरां कैकेयी प्रशंसति यत्पूर्वं त्वां बुद्धिसम्पन्नां न जाने। न चात्र न अजाने इत्येव लङ्प्रयोगः।[१२२] अट्कथं न श्रूयत इति चेत्पररूपत्वात् विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन लोपाद्वा।[१२३] तथाऽप्याकारलोपस्तु दुर्वार एव।[१२४] उच्यते। अत्र स्मयोगे लट्।[१२५] यद्वा पुरायोगे लट् पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) इत्यनेन।[१२६] पुरा त्वामीदृशीं बुद्धिमतीं न जाने।
(४७) त्यक्ष्ये
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि।
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति॥
– अ॰रा॰ २.२.८१
त्यज्धातुः (त्यजँ हानौ धा॰पा॰ ९८६) आत्मनेपदी न। अत्र इट् प्रत्ययस्य सम्भावना कथम्। अत्रापि कर्मव्यतिहारादात्मनेपदम्।[१२७]
(४८) शयिष्ये
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि।
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति॥
– अ॰रा॰ २.२.८१
न च शीङ्धातुः (शीङ् स्वप्ने धा॰पा॰ १०३२) अदादिरनिट्।[१२८] यथा शेष्ये इति वाल्मीकिः।[१२९] शयिष्ये इति कथम्।[१३०] अत्र शयनं शयः।[१३१] शयमाचरतीति शयते[१३२] पुनर्लृड्लकार उत्तमपुरुष एकवचने शयिष्ये।[१३३] यद्वा शय् इति हलन्तं क्रियाविशेषणम्। शयनं कुर्वतीष्टास्मीति इष्ये।[१३४] इषुधातोः (इषुँ इच्छायाम् धा॰पा॰ १३५१) कर्मवाच्ये वर्तमानकाल उत्तमपुरुष एकवचने रूपम्।[१३५] वस्तुतस्तु शीङ्धातुः (शीङ् स्वप्ने धा॰पा॰ १०३२) सेडेव। यथा तत्रैव शयित्वा।[१३६] शेष्ये इत्यत्र त्विडभावोऽनित्यत्वात्।[१३७]
(४९) उपायाति
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते।
इत्यात्मन्येव सञ्चिन्त्य मनसाऽतिविदूयता॥
– अ॰रा॰ २.३.३
उपायात्[१३८] इति प्रयोक्तव्ये उपायाति इति हि स्मशब्दयोगे।[१३९] तथा च लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन लड्लकारः।[१४०] लोपत्वात् स्म इत्यस्य श्रवणं न।[१४१]
(५०) विद्महे
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे।
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि॥
– अ॰रा॰ २.३.५
विद्महे इत्यत्र हे इति पृथक्पदम्। हे देव कारणं नैव विद्म इत्यन्वयः करणीयः। किमिदं विद्म। न चात्र वेदितुं वयं न शक्नुमह इत्यर्थे शकि लिङ् च (पा॰सू॰ ३.३.१७२) इत्यनेन यद्वा कारणं वेदितुं वयं नार्हाः इत्यर्थे अर्हे कृत्यतृचश्च (पा॰सू॰ ३.३.१६९) इत्यनेन लिङ् लोड्वा।[१४२] तत्र विद्याम[१४३] वेदाम[१४४] इति रूपे। अत्र विदो लटो वा (पा॰सू॰ ३.४.८३) इत्यनेन लटि मसो मादेशे विद्म।[१४५] यद्वा कर्मव्यतिहार आत्मनेपदम्।[१४६] ततो लड्लकार उत्तमपुरुषे बहुवचने महिङ् प्रत्ययः।[१४७]
(५१) वधिष्यामि
ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे।
किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये॥
– अ॰रा॰ २.३.१३
अत्र महाराजो दशरथः हनिष्यामि[१४८] इत्यर्थे वधिष्यामि इति प्रयोगं करोति। वध्धातुश्चुरादिः।[१४९] ततो णिजभावे[१५०] वधिष्यामि इति पाणिनीयः।[१५१] यद्वा वधमाचरतीति वधति[१५२] इति विग्रह आचारक्विबन्ताल्लृड्लकारे वधिष्यामि।[१५३] इति नापाणिनीयः।[१५४]
(५२) मरिष्ये
वनं न गच्छेद्यदि रामचन्द्रः प्रभातकालेऽजिनचीरयुक्तः।
उद्बन्धनं वा विषभक्षणं वा कृत्वा मरिष्ये पुरतस्तवाहम्॥
– अ॰रा॰ २.३.३१
कैकेयी कथयति यद् यदि राघवो वनं न गमिष्यति तदाऽहं मरिष्यामि।[१५५] अत्र म्रियतेर्लुङ्लिङोः शिति चैवाऽत्मनेपदविधानात् मरिष्ये इति कथम्। म्रियतेर्लुङ्लिङोश्च (पा॰सू॰ १.३.६१) इति हि सूत्रं लृटि नैवात्मनेपदं करोतीति चेत्। मरणं मरः।[१५६] मरमाचरतीति मरते आचारक्विबन्तात्कर्मव्यतिहार आत्मनेपदम्।[१५७] लृड्लकार उत्तमपुरुष एकवचने मरिष्ये।[१५८] यद्वा मरं मरणं गच्छतीति मरिष्यति[१५९] तस्यैव कर्मव्यतिहार आत्मनेपदत्वात्[१६०] मरिष्ये इति लड्लकार एवोत्तमपुरुष एकवचने।[१६१]
(५३) द्रक्ष्यामहे
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे।
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम्॥
– अ॰रा॰ २.३.३८
अत्र कर्मव्यतिहार आत्मनेपदम्।[१६२] ततो लृड्लकारे महिङ् प्रत्यये दीर्घ एत्वे द्रक्ष्यामहे।[१६३]
(५४) समपृच्छत
वर्धयन् जयशब्देन प्रणमञ्छिरसा नृपम्।
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत॥
– अ॰रा॰ २.३.४३
अत्र कर्मव्यतिहार आत्मनेपदम्।[१६४]
(५५) शासतु
आश्वासयामास नृपं शनैः स नयकोविदः।
किमत्र दुःखेन विभो राज्यं शासतु मेऽनुजः॥
– अ॰रा॰ २.३.७३
अत्र गणकार्यमनित्यम् (प॰शे॰ ९३.३) इति नियमाल्लोड्लकारे तिपि शपि एरुः (पा॰सू॰ ३.४.८६) इत्यनेनोकारे शासतु।[१६५]
(५६) यास्ये
मातरं समनुश्वास्य अनुनीय च जानकीम्।
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम्॥
– अ॰रा॰ २.३.७७
श्रीरामः कैकेयीं प्रति कथयति यत् अहं तव पादं वन्दित्वा वनं यास्यामि। यास्यामि[१६६] इति प्रयोक्तव्ये यास्ये इति प्रयुज्यते। अत्रापि कर्मव्यतिहारः।[१६७] यतो हि वनगमनं तु वृद्धानां कृते। तथा चोक्तम् –
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्॥
– र॰वं॰ १.८
अतो वृद्धानां कर्म वनगमनं युवको भूत्वा श्रीराम आचरति तस्मादत्र यास्ये इत्येव प्रयोगः साधु। श्रीरामचरितमानसे कौसल्याऽपि कथयति –
अंतहुँ उचित नृपहि बनबासू। बय बिलोकि हिय होइ हरासू॥[१६८]
– रा॰च॰मा॰ २.५६.४
तस्मात् यास्ये। वृद्धोचितमपि गमनं त्वत्सन्तोषार्थं करिष्यामीत्येव राजीवलोचनस्य विवक्षितोऽर्थ इट्प्रत्ययेन ध्वन्यते। न च न गतिहिंसार्थेभ्यः (पा॰सू॰ १.३.१५) इत्यनेन कर्मव्यतिहार आत्मनेपदनिषेधः। मण्डूकप्लुत्या नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (पा॰सू॰ १.२.६९) इत्यतः अन्यतरस्याम् इत्यनुवर्तनीयम्।
(५७) कुरुते
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ।
कौसल्याऽपि हरेः पूजां कुरुते रामकारणात्॥
– अ॰रा॰ २.३.७८
अत्र अकुरुत[१६९] इति प्रयोक्तव्यम्। कुरुते इति प्रयुक्तम्। स्मयोगे लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन लड्लकारविधानात्सम्यक्।[१७०]
(५८) ध्यायते
होमं च कारयामास ब्राह्मणेभ्यो ददौ धनम्।
ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता॥
– अ॰रा॰ २.३.७९
अत्रापि कर्मव्यतिहारादेवाऽत्मनेपदम्।[१७१] यतो हि महाविष्णुस्तु तस्याः पुत्रः। अंशिनि महाविष्णौ श्रीरामभद्रे पुत्ररूपेण वर्तमानेऽप्यंशं विष्णुं वामनावतारे तन्माताऽदितिः सत्यपि प्राकृतनारीव ध्यायतीत्येव कर्मव्यतिहारस्य सङ्गतिः। वर्तमानकालोऽपि पूर्वोक्तदिशा।[१७२]
(५९) आगमिष्ये
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक्।
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि॥
– अ॰रा॰ २.४.६
श्रीरामः कथयति वनवासान्ते आगमिष्ये। अत्र आगमिष्यामि इति हि पाणिनीयम्।[१७३] समुपसर्गाध्याहार आत्मनेपदम् समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) इत्यनेन। न च आङ्उपसर्गस्यैव गम्धातुनाऽन्वय इति चेत्। व्यवहिते इति वक्तव्यम्। न च सत्यप्यात्मनेपद इट् कथं गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) इति सूत्रेण परस्मैपद एवेड्विधानादिति चेत्सत्यम्। उच्यते। आगच्छतीत्यागम् आचारे क्विप्ततश्च सर्वापहारिलोपे।[१७४] इष्धातोः कर्मव्यतिहार आत्मनेपदे इष्ये।[१७५] आगम् इष्ये इति आगमिष्ये।
(६०) जायते
यथा प्रवाहपतितप्लवानां सरितां तथा।
चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते॥
– अ॰रा॰ २.४.४६
सामीप्याभिप्रायेणैव क्षणार्द्धमिव इति वाक्यखण्डप्रयोगेण च शीघ्रतां द्योतयितुं वर्तमानसमीपे लटं प्रयुङ्क्ते। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन।[१७६]
(६१) नेष्ये
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम्।
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम्॥
– अ॰रा॰ २.४.६४
णीञ् प्रापणे (धा॰पा॰ ९०१) इति धातुरकर्त्रभिप्राये क्रियाफले परस्मैपदी। तथा च नेष्यामि इति प्रयोक्तव्यम्।[१७७] अत्र उपनेष्ये इति हि पदम्।[१७८] कथमुपनेष्ये इत्यर्थे सम्मानन आत्मनेपदम्।[१७९] कथं सम्मानितं करिष्यामि इति भावः। यद्वा व्यये। कथं दिनानि यापयिष्यामि। यद्वोत्सञ्जने। अत्र सूत्रं सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६)।
(६२) हास्यसे
पादचारेण गन्तव्यं शीतवातातपादिमत्।
राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात्॥
– अ॰रा॰ २.४.६९
अत्र हास्यसि[१८०] इति प्रयोक्तव्यं किन्तु कर्मव्यतिहार आत्मनेपदम्।[१८१] यद्वा जीवितम् इति क्रियाविशेषणम् उपेक्ष्य इति वाऽध्याहार्यम्। एवं जीवितमुपेक्ष्य त्वं प्राणैः हास्यसे इति कर्मवाच्य आत्मनेपदम्।[१८२]
(६३) इच्छसे
प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता।
कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम्॥
– अ॰रा॰ २.४.७१
अत्रापि कर्मव्यतिहार आत्मनेपदम्।[१८३]
(६४) रमामि
फलमूलादिकं यद्यत्तव भुक्तावशेषितम्।
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम्॥
– अ॰रा॰ २.४.७३
अत्र रमुँ क्रीडायाम् (धा॰पा॰ ८५३) इत्यात्मनेपदी धातुः। एवं भविष्यत्काले रंस्ये इति हि युक्तं पाणिनीयमपि।[१८४] अत्र रमामि इत्यत्र द्वावंशावयुक्ताविव। परस्मैपदप्रयोगः कालव्यत्ययश्च। कालव्यत्यये तु भविष्यत्कालेऽपि लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन स्मशब्दयोगे वर्तमानवत्कार्यम्।[१८५] आरमामि इत्यत्र व्याङ्परिभ्यो रमः (पा॰सू॰ १.३.८३) इत्यनेन परस्मैपदम्।[१८६] आङ् इत्यस्य विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन लोपः। यद्वा तुष्टा आरमामि इति स्थिते अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन दीर्घैकादेशे तुष्टाऽऽरमामि इति।[१८७]
(६५) द्रक्ष्यथ
रामोऽपि पादचारेण गजाश्वादिविवर्जितः।
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम्॥
– अ॰रा॰ २.५.७
अत्र पश्यत इति प्रयोक्तव्ये द्रक्ष्यथ इति प्रयुक्तम्। द्रक्ष् इति स्वतन्त्रो धातुः।[१८८] तस्य लटि मध्यमपुरुषबहुवचनम् द्रक्ष्यथ।[१८९] यद्वा अभिज्ञावचने लृट् (पा॰सू॰ ३.२.११२)।[१९०] स्मरथ किमीदृशं द्रक्ष्यथ रामं पूर्वम्। अतो नापाणिनीयम्।
(६६) जीवामि
किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे।
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः॥
– अ॰रा॰ २.५.४९
अत्र वर्तमानसामीप्ये लट्।[१९१]
(६७) गच्छामहे
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः।
शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम्॥
– अ॰रा॰ २.५.५३
हे पौरा वनं गच्छाम इत्यन्वये शक्यार्थे लोट्।[१९२] वनं गन्तुं शक्ताः इति भावः।
(६८) बभूव
बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम।
नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम॥
– अ॰रा॰ २.५.६५
इह प्रेमातिशयात्प्रभुं प्रत्यक्षं मत्वा सर्वं परोक्षं मनुते निषादः। अतो बभूव इति क्रियां प्रयुङ्क्ते।[१९३]
(६९) शेते
शयानं कुशपत्रौघसंस्तरे सीतया सह।
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे॥
– अ॰रा॰ २.६.२
भूतकालविवक्षया अशेत[१९४] इति प्रयोक्तव्ये शेते इति प्रयुक्तम्। अत्र पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) इति सूत्रेण वर्तमानवद्व्यवहारः।[१९५]
(७०) प्रार्थयामास
गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम्।
गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी॥
– अ॰रा॰ २.६.२१
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यमत एव प्रार्थयामास।[१९६]
(७१) वदस्व
भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम्।
यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत्॥
– अ॰रा॰ २.६.५०
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (पा॰सू॰ १.३.४७) इत्यनेन भासन आत्मनेपदम्। भासमानो वद इति तात्पर्यम्।[१९७]
(७२) स्थास्यामहे
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः।
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम्॥
– अ॰रा॰ २.६.७३
अकर्मकाच्च (पा॰सू॰ १.३.२६) इत्यनेन आत्मनेपदम्।[१९८] यद्वा प्रकाशनस्थेयाख्ययोश्च (पा॰सू॰ १.३.२३) इत्यनेन स्थेयाख्यायामात्मनेपदम्।[१९९]
(७३) तिष्ठन्ति
तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम्।
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः॥
– अ॰रा॰ २.६.७५
अत्र तिष्ठन्ति स्म इति प्रयोगः। अतः लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन लड्लकारः।[२००]
(७४) अस्मि
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम्।
धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम्॥
– अ॰रा॰ २.६.७६
अत्रापि स्मयोगे वर्तमानो भावः।[२०१] अथवा अस्मि इत्यव्ययम्।[२०२]
(७५) रक्षध्वम्
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम्।
इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः॥
– अ॰रा॰ २.६.७७
इह परस्मैपदीयरक्ष्धातोः (रक्षँ पालने धा॰पा॰ ६५७) आत्मनेपदप्रयोगस्तु कर्मव्यतिहारे।[२०३] यद्वा रक्षस इव अध्वा यस्य[२०४]इति बहुव्रीहिसमासे पृषोदरादित्वाट्टचि शकन्ध्वादित्वात्पररूपे विभक्तिकार्ये रक्षध्वः।[२०५] तं रक्षध्वम्।[२०६] रक्षध्वं मां पात इति तात्पर्यम्।[२०७]
(७६) निष्क्रमस्व
ततो युगसहस्रान्ते ऋषयः पुनरागमन्।
मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः॥
– अ॰रा॰ २.६.८४
अस्मिन् प्रयोगे वृत्तिसर्गतायनेषु क्रमः (पा॰सू॰ १.३.३८) इत्यनेनाऽत्मनेपदम्। वर्धमानो निष्क्रमस्व इति तायने थास्।[२०८]
(७७) प्रार्थय
मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते।
मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम्॥
– अ॰रा॰ २.७.३९
प्रार्थयस्व[२०९] इति प्रयोक्तव्ये प्रार्थय इति प्रयोग आत्मनेपदस्यानित्यत्वात्।[२१०] यद्वा प्रार्थयत इति प्रार्थयः।[२११] प्रार्थय इवाऽचर इति प्रार्थय।[२१२] आचारक्विबन्तप्रत्ययः।[२१३]
(७८) पृच्छसे
तथाऽपि पृच्छसे किञ्चित्तदनुग्रह एव मे।
कैकेय्या मत्कृतं कर्म रामराज्यविघातनम्॥
– अ॰रा॰ २.८.४६
अत्रापि कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनैवाऽत्मनेपदम्।[२१४] यतो हि ज्ञात्वाऽपि सर्वं त्वं प्राकृत इव प्रश्नं करोषि इति तात्पर्यम्।
(७९) नेष्ये
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह।
नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत्॥
– अ॰रा॰ २.८.५१
अस्मिन्प्रयोगे सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६) इत्यादिनोत्सञ्जनार्थमात्मनेपदम्।[२१५] सेवे इत्यत्र च वर्तमानसामीप्ये[२१६] यद्वा स्म इति योगे भविष्यत्काले लट्।[२१७]
(८०) भाषयेत्
सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम्।
तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने॥
– अ॰रा॰ २.९.४६
इह स्वार्थे णिचि परस्मैपदम्।[२१८]
(८१) त्यक्ष्यते
अङ्गरागं च सीतायै ददौ दिव्यं शुभानना।
न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने॥
– अ॰रा॰ २.९.८९
चित्रकूटं परित्यज्य दण्डकारण्यं गन्तुकामः श्रीरामोऽत्रिदर्शनं करोति। तत्रानुसूया सीताया अङ्गरागं प्रयच्छति। इह त्यक्ष्यते इति प्रयोगो विमृश्यते। त्यज्धातुः (त्यजँ हानौ धा॰पा॰ ९८६) परस्मैपदीयः। अत्र कर्मव्यतिहार आत्मनेपदम्।[२१९] यद्वा कर्मकर्तृकप्रयोगे त्वामधिश्रित्य शोभा स्वयमेव न त्यक्ष्यते त्वया किम् इत्यात्मनेपदम्।[२२०]
॥ इत्ययोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे तृतीयाध्याये प्रथमपरिच्छेदः।
॥ अथ तृतीयाध्याये द्वितीयः परिच्छेदः ॥
॥ अथारण्यकाण्डीयप्रयोगाणां विमर्शः ॥
(८२) गच्छामहे
मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम्।
विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि॥
– अ॰रा॰ ३.१.२
इह श्रीरामभद्रोऽत्रिमाज्ञां याचते। अत्र गच्छामहे इति प्रयोगोऽपि नाऽपाणिनीयः। यद्यपि परस्मैपदत्वादात्मनेपदं न गच्छामः[२२१] इति सर्वविदितं तथाऽपि सम्उपसर्गसंयोजने समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) इत्यनेनाऽत्मनेपदम्। लुप्तत्वात् समुपसर्गः न श्रूयते।[२२२] लडपि वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। मुनिमण्डलमाश्रित्यातिशीघ्रं सङ्गता भविष्यामः इति रामभद्रस्य तात्पर्यम्।[२२३]
(८३) तारयिष्यामहे
तारयिष्यामहे युष्मान्वयमेव क्षणादिह।
ततो नावि समारोप्य सीतां राघवलक्ष्मणौ॥
– अ॰रा॰ ३.१.८
अत्र कर्मव्यतिहार आत्मनेपदम्।[२२४] निखिलं जगत्संसारसागराद्भवान् तारयति किन्तु भवन्तमपि वयं सरितस्तारयिष्यामहे इति क्रियाव्यत्यय आत्मनेपदम्।[२२५]
(८४) आस्ते
इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम्।
तत्रैका पुष्करिण्यास्ते कह्लारकुमुदोत्पलैः॥
– अ॰रा॰ ३.१.१५
आस्त[२२६] इति प्रयोक्तव्ये स्मयोगे लड्लकारः।[२२७]
(८५) पलायतम्
यदि जीवितुमिच्छाऽस्ति त्यक्त्वा सीतां निरायुधौ।
पलायतं न चेच्छीघ्रं भक्षयामि युवामहम्॥
– अ॰रा॰ ३.१.२९
अनुदात्तेत्त्वलक्षणस्याऽत्मनेपदस्यानित्यत्वात्परस्मैपदे लोड्लकारे मध्यमपुरुषे द्विवचने थसस्तमादेशे पलायतम्।[२२८]
(८६) अभिदुद्रुवे
इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे।
रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव॥
– अ॰रा॰ ३.१.३०
अभिदुद्राव[२२९] इति प्रयोक्तव्ये अभिदुद्रुवे इति प्रयुक्तम्। अत्रापि क्रियाविनिमय एव आत्मनेपदम्।[२३०] रामादृते स्पर्शस्य कस्यचिदप्यनधिकारत्वात्।
(८७) उपवेशयत्
अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत्।
आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः॥
– अ॰रा॰ ३.२.३
विश्धातुः (विशँ प्रवेशने धा॰पा॰ १४२४) अत्र णिजन्तः। तस्य उपउपसर्गेण संयोजनम्। पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण (भा॰पा॰सू॰ २.२.१९, ६.१.१३५, ८.१.७०) इति नियमेनाडागम उपउपसर्गसंयोजने उपावेशयत्।[२३१] अत्र विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेनाडागमस्य लोपः। आगमकार्यस्यानित्यत्वाद्वा।[२३२]
(८८) व्रजामि
अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते।
तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहं॥
– अ॰रा॰ ३.२.५
वर्तमानसामीप्याल्लट्।[२३३] शीघ्रं मुक्तिं व्रजिष्यामि[२३४] इति शरभङ्गस्य तात्पर्यम्।
(८९) बभूवुः
अद्य मे क्रतवः सर्वे बभूवुः सफलाः प्रभो।
दीर्घकालं मया तप्तमनन्यमतिना तपः।
तस्येह तपसो राम फलं तव यदर्चनम्॥
– अ॰रा॰ ३.३.४३
शरभङ्गः प्रेमविह्वलः श्रीरामं दृष्ट्वा कथयति अद्य मे क्रतवः सफला अभूवन्। अभूवन्[२३५] इति प्रयोक्तव्ये बभूवुः इति परोक्षप्रयोगोऽकार्यः। तथा हि भूधातोः (भू सत्तायाम् धा॰पा॰ १) भूवादयो धातवः (पा॰सू॰ १.३.१) इत्यनेन धातुसञ्ज्ञायां परोक्षे लिट् (पा॰सू॰ ३.२.११५) इत्यनेन लिड्लकारे तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन प्रथमपुरुषबहुवचने झिप्रत्यये परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) इत्यनेनोसादेशे भुवो वुग्लुङ्लिटोः (पा॰सू॰ ६.४.८८) इत्यनेन वुगागमे लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) इत्यनेन द्वित्वे पूर्वोऽभ्यासः (पा॰सू॰ ६.१.४) इत्यनेनाभ्याससञ्ज्ञायां हलादिः शेषः (पा॰सू॰ ७.४.६०) इत्यनेनाऽदिहल्शेषे ह्रस्वः (पा॰सू॰ ७.४.५९) इत्यनेन ह्रस्वे भवतेरः (पा॰सू॰ ७.४.७३) इत्यनेनोकारस्याकारे अभ्यासे चर्च (पा॰सू॰ ८.४.५४) इत्यनेन जश्त्वे रुत्वे विसर्गे च बभूवुः।[२३६] प्रेमविह्वलतया भगवतश्चाक्षुषप्रत्यक्षे वा षट्सु प्रत्यक्षेषु सकलविस्मृततया पारोक्ष्याल्लिट्प्रयोगः।
(९०) वत्स्ये
पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया।
मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च॥
– अ॰रा॰ ३.४.५
अत्र क्रियाविनिमय आत्मनेपदम्।[२३७]
(९१) जागर्ति
आनीय प्रददौ रामसेवातत्परमानसः।
धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः॥
– अ॰रा॰ ३.४.१३
स्मयोगे लट्।[२३८]
(९२) सेवते
आनीय सलिलं नित्यं लक्ष्मणः प्रीतमानसः।
सेवतेऽहरहः प्रीत्या एवमासन् सुखं त्रयः॥
– अ॰रा॰ ३.४.१५
स्मयोगे लट्।[२३९]
(९३) सङ्गच्छावः
भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम्।
इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता॥
– अ॰रा॰ ३.५.१५
इह समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) इत्यनेनाऽत्मनेपदत्वात् सङ्गच्छावहे।[२४०] किन्तु अत्र शम् इति पृथक्पदम्। अर्थात् शं शान्तिं गच्छावः इति तात्पर्यम्।[२४१] तालव्यशकारो लेखनप्रमादान्मुद्रणप्रमादाच्च दन्त्यो लिखितो हस्तलेखेषु पुस्तकेषु च।
(९४) अनुधावति
इत्युक्त्वा विकटाकरा जानकीमनुधावति।
ततो रामाज्ञया खड्गमादाय परिगृह्य ताम्॥
– अ॰रा॰ ३.५.१९
इहापि स्मयोगे लट्।[२४२] एवमेवैतादृशेषु सर्वेषु प्रयोगेषूह्यम्।
(९५) पास्ये
तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ।
नो चेत्प्राणान्परित्यज्य यास्यामि यमसादनम्॥
– अ॰रा॰ ३.५.२५
अत्र कर्मविनिमयादात्मनेपदम्।[२४३] एवमन्यत्रापि विभाव्यम्।
(९६) आनयिष्यामि
अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम्।
आनयिष्यामि विपिने रहिते राघवेण ताम्॥
– अ॰रा॰ ३.६.१२
यदि मारीच एवायं तदा हन्मि न संशयः।
मृगश्चेदानयिष्यामि सीताविश्रमहेतवे॥
गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः।
त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः॥
– अ॰रा॰ ३.७.१०–११
नीधातोः (णीञ् प्रापणे धा॰पा॰ ९०१) अनिट्त्वाल्लृड्लकार उत्तमपुरुषैकवचने सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) इत्यनेन गुणे अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) इत्यनेन दीर्घे आदेशप्रत्ययोः (पा॰सू॰ ८.३.५९) इत्यनेन षत्वे आनेष्यामि इति पाणिनीयम्।[२४४] परम् आनीयत इत्यानयः।[२४५] आनयमाचरिष्याम्यानयिष्यामि इत्यानयधातोर्लृटीट्सम्भवः।[२४६]
(९७) सन्तिष्ठ
गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः।
त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः॥
– अ॰रा॰ ३.७.११
समवप्रविभ्यः स्थः (पा॰सू॰ १.३.२२) इत्यनेनाऽत्मनेपदं प्राप्तम्। सन्तिष्ठस्व[२४७] इति प्रयोगः पाणिनीयः। किन्तु तिष्ठ इति यावत्संसाध्य[२४८] पादपूर्त्यर्थं सम् इति निपातः प्रयुक्तः। अतो नाऽत्मनेपदम्। यथा ह हि नु ननु खलु किल हन्त इत्यादयः।[२४९]
(९८) विश्रमस्व
कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत्।
मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथासुखम्॥
– अ॰रा॰ ३.७.३९
दिवादित्वात् विश्राम्य इति प्रयोगः पाणिनीयो दीर्घे श्यनि परस्मैपदे।[२५०] अत्र त्रयोऽप्यंशा विमर्शकोटिमञ्चन्ति।[२५१] विश्रमणं विश्रमः।[२५२] विश्रममाचरति विश्रमति।[२५३] तदेव लोटि विश्रम।[२५४] हे स्व आत्मीय विश्रम।
(९९) भक्षन्तु
शाद्वले प्राक्षिपद्रामः पृथक्पृथगनेकधा।
भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट्॥
– अ॰रा॰ ३.८.३९
णिजन्तप्रसिद्धोऽयं भक्षयन्तु इति।[२५५] किन्तु णिजन्ताः शुद्धा अपि भवन्त्यतो नापाणिनीयता।[२५६]
॥ इत्यरण्यकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
(१००) आकाङ्क्षे
दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम्।
अतोऽहं देवदेवेश नाकाङ्क्षेऽन्यत्प्रसीद मे॥
– अ॰रा॰ ४.१.७८
आकाङ्क्षे इत्यत्र परस्मैपदेन भवितव्यम्। धातोः परस्मैपदीयत्वात्। अतः आकाङ्क्षामि इति पाणिनीयम्।[२५७] आकाङ्क्षे इति तु कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इति सूत्रेणाऽत्मनेपदम्।[२५८] कर्मव्यतिहारो नाम क्रियाविनिमयः। अन्यकरणीयकार्यस्यान्येन सम्पादनम्।यथा कौमुद्यां क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् (वै॰सि॰कौ॰ २६८०)। कृतभगवद्दर्शनस्यान्यत्काङ्क्षणं स्पष्टं क्रियाविनिमयः। यद्वा आकाङ्क्षणमाकाङ्क्षः पचाद्यज्भावे।[२५९] तस्मिन् आकाङ्क्षे। विषयत्वात्सप्तमी। ममाऽकाङ्क्षण इच्छायामन्यन्न। यद्वा आकाङ्क्षणमाकाङ्क्षा।[२६०] आकाङ्क्षाऽस्त्यस्येत्याकाङ्क्षम्। मनः। अर्शआदित्वादच्।[२६१] तस्मिन् आकाङ्क्षे त्वद्दर्शनेच्छावति मे मनसि नान्यत्किञ्चित्।
(१०१) रक्षामहे
चतुर्द्वारकपाटादीन् बद्ध्वा रक्षामहे पुरीम्।
वानराणां तु राजानमङ्गदं कुरु भामिनि॥
– अ॰रा॰ ४.३.३
इहाऽपि कर्मव्यत्ययादात्मनेपदम्।[२६२] यद्वा हे इति पृथक्पदम्। हे तारे वयं नगरीं रक्षाम इति प्रार्थनायां लोट्। सम्प्रश्ने वा। लोट् च (पा॰सू॰ ३.३.१६२) इत्यनेन।[२६३]
(१०२) लिप्यसे
ध्यात्वा मद्रूपमनिशमालोचय मयोदितम्।
प्रवाहपतितं कार्यं कुर्वत्यपि न लिप्यसे॥
– अ॰रा॰ ४.३.३५
वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेनाऽसन्नभविष्यत्काले वर्तमानम्।[२६४]
(१०३) अनुसेविरे
चरन्तं परमात्मानं ज्ञात्वा सिद्धगणा भुवि।
मृगपक्षिगणा भूत्वा राममेवानुसेविरे॥
– अ॰रा॰ ४.४.५
लिड्लकारप्रयोगात् अनुसिषेविरे[२६५] इति प्रयोक्तव्ये सिलोपाच्च सिद्धम् अनुसेविरे इति। अर्थात् विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेनाऽदेर्हलोऽचश्च लोपे[२६६] अनुसेविरे इति। यद्वा अनुसेवां कृतवन्तः इति भूतकाल औणादिके डिरच् प्रत्यये भावे सप्तम्यन्ते च अनुसेविरे।[२६७] यद्वा अनुसेवनमनुसेवा।[२६८] अनुसेवामाचरत्यनुसेवयति।[२६९] पुनः अनुसेव्यत[२७०] इति अनुसेव् हलन्तनपुंसकलिङ्गे।[२७१] लिड्लकारे इण्धातोः (इण् गतौ धा॰पा॰ १०४५) कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदम्। लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) इत्यनेन इरेच् प्रत्यये ईयिरे।[२७२] विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन धात्विकारलोपे[२७३] इरे। अनुसेव् इरे इति अनुसेविरे।
(१०४) समारभेत्
किं पुनर्भक्ष्यभोज्यादि गन्धपुष्पाक्षतादिकम्।
पूजाद्रव्याणि सर्वाणि सम्पाद्यैवं समारभेत्॥
– अ॰रा॰ ४.४.२०
समापूर्वकात् रभ्धातोः (रभँ राभस्ये धा॰पा॰ ९७४) विधिलिङि समारभेत[२७४] इति प्रयोक्तव्ये समारभेत् इति प्रयुक्तम्। समारभत इति समारभः। पचाद्यच्।[२७५] समारभ इवाचरेत् इति विधिलिङि भवेत् इव।[२७६]
(१०५) प्रकारयेत्
दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत्।
नीराजनैर्धूपदीपैर्नैवेद्यैर्बहुविस्तरैः॥
– अ॰रा॰ ४.४.२९
प्रपूर्वकात् कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) विधिलिङि प्रकुर्यात्[२७७] इति प्रयोक्तव्ये प्रकारयेत् इति प्रयुक्तम्। प्रकारमाचक्षीत इति प्रकारयेत्। आचक्षाणणिजन्ताद्विधिलिङ्।[२७८]
(१०६) हन्यसे
करोमीति प्रतिज्ञाय सीतायाः परिमार्गणम्।
न करोषि कृतघ्नस्त्वं हन्यसे वालिवद्द्रुतम्॥
– अ॰रा॰ ४.४.४८
शीघ्रताबोधनार्थं वर्तमानसामीप्ये लट्।[२७९]
(१०७) वधयिष्यति
सुग्रीवः स्वयमागत्य सर्ववानरयूथपैः।
वधयिष्यति दैत्यौघान् रावणं च हनिष्यति॥
– अ॰रा॰ ४.५.४७
वधमाचरन्तीति वधन्ति।[२८०] तान् प्रेरयति वधयति।[२८१] तद्भविष्यत्काले वधयिष्यति।[२८२] यद्वा वध् इति स्वतन्त्रश्चौरादिको धातुः। तस्माल्लृटि वधयिष्यति। मितां ह्रस्वः (पा॰सू॰ ६.४.९२) इति ह्रस्वः।[२८३] यद्वा अयनमय्। भावे क्विप्।[२८४] वधस्य अय् इति वधय् शकन्ध्वादित्वात्पररूपे।[२८५] इषुँ इच्छायाम् (धा॰पा॰ १३५१) दिवादिः। वधय् वधप्राप्तिमिच्छतीष्यति वधयिष्यति।[२८६]
(१०८) प्रधर्षथ
कुतो वा कस्य दूता वा मत्स्थानं किं प्रधर्षथ।
तच्छ्रुत्वा हनुमानाह श्रृणु वक्ष्यामि देवि ते॥
– अ॰रा॰ ४.६.४२
ण्यजन्तत्यागे रूपमिदम्।[२८७]
(१०९) मृगयध्वम्
मृगयध्वमिति प्राह ततो वयमुपागताः।
ततो वनं विचिन्वन्तो जानकीं जलकाङ्क्षिणः॥
– अ॰रा॰ ४.६.४६
अत्र श्रीरामेणाऽत्मीयत्वात्क्रियाफलस्य वानररूपकर्तृगामित्व आत्मनेपदम्।[२८८]
(११०) स्थास्यामहे
पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम्।
इत्यङ्गदमथाऽश्वास्य गता विन्ध्यं महाचलम्॥
– अ॰रा॰ ४.७.२२
सीतान्वेषणेऽसफलान् मरणे कृतनिश्चयान् वानरान् हनुमान् प्रतिबोधयति वैकुण्ठे सुखं स्थास्यामहे। इह उपान्मन्त्रकरणे (पा॰सू॰ १.३.२५) इत्यनेनाऽत्मनेपदम्।[२८९] उपशब्दस्य लोपः।[२९०]
(१११) नयध्वम्
वाक्यसाहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः।
भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम्॥
– अ॰रा॰ ४.७.४८
इह सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६) इत्यनेनाऽत्मनेपदम्। सम्माननेऽयं प्रयोगः। नयध्वम्।[२९१] सम्मानं कुरुत। तदिच्छापालनमेव सम्माननम्। उत्सञ्जने वाऽऽत्मनेपदम्।
(११२) इयात्
तत्पुनः पञ्चरात्रेण बुद्बुदाकारतामियात्।
सप्तरात्रेण तदपि मांसपेशित्वमाप्नुयात्॥
– अ॰रा॰ ४.८.२३
एति[२९२] इति प्रयोक्तव्ये इयात्[२९३] इति। आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) इत्यनेन लिङ्लकारः।[२९४]
(११३) म्रियेत
नाभिसूत्राल्परन्ध्रेण मातृभुक्तान्नसारतः।
वर्धते गर्भतः पिण्डो न म्रियेत स्वकर्मतः॥
– अ॰रा॰ ४.८.३२
म्रियते[२९५] इति प्रयोक्तव्ये म्रियेत इति प्रयोगस्तु शकि लिङ् च (पा॰सू॰ ३.३.१७२) इति सूत्रेण शक्यार्थे लिङ्प्रयोगे साधु।[२९६]
(११४) क्षिपामि
लङ्कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम्।
यद्वा दृष्ट्वैव यास्यामि जानकीं शुभलक्षणाम्॥
– अ॰रा॰ ४.९.२४
वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन लट्प्रयोगः।[२९७]
॥ इति किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
(११५) पश्यामि
अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः।
पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम्॥
– अ॰रा॰ ५.१.३
कृतार्थोऽहं कृतार्थोऽहं पुनः पश्यामि राघवम्।
प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन्॥
– अ॰रा॰ ५.१.४
अत्र शीघ्रताद्योतनाय वर्तमानसमीपे भविष्यति वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन लट्।[२९८]
(११६) विवेक्ष्ये
विवेक्ष्ये[२९९]
– अ॰रा॰ ५.१.१६
कर्मव्यतिहार आत्मनेपदम्।[३००]
(११७) भक्षयेत्
सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा।
आकाशगामिनां छायामाक्रम्याऽकृष्य भक्षयेत्॥
– अ॰रा॰ ५.१.३५
अत्र विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) इत्यनेन हेतुहेतुमतोर्लिङ् (पा॰सू॰ ३.३.१५६) इत्यनेन वा लिङ्लकारः।[३०१]
(११८) प्रसारयत्
दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते।
एवं विचिन्त्य हनूमानधो दृष्टिं प्रसारयत्॥
– अ॰रा॰ ५.१.३७
अत्र विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेनाकारलोपः। आगमकार्यस्यानित्यत्वाद्वा।[३०२] प्रमाणं चात्र इको यणचि (पा॰सू॰ ६.१.७७) इत्यत्र ङमुडागमाभावः।[३०३]
(११९) प्रसीदताम्
धन्याहमप्यद्य चिराय राघव स्मृतिर्ममासीद्भवपाशमोचिनी।
तद्भक्तसङ्गोऽप्यतिदुर्लभो मम प्रसीदतां दाशरथिः सदा हृदि॥
– अ॰रा॰ ५.१.५७
प्रसीदतु[३०४] इति प्रयोक्तव्ये प्रसीदताम्[३०५] इति प्रयोगः। कर्मव्यतिहार आत्मनेपदम्।[३०६]
(१२०) भोक्ष्यति
द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत्।
तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया॥
– अ॰रा॰ ५.२.४१
अत्र भुजोऽनवने (पा॰सू॰ १.३.६६) इत्यनेनाऽत्मनेपदे सति भोक्ष्यते इति पाणिनीयः।[३०७] किन्तु भोजनं भोजः।[३०८] भोजमाचरतीति भोजति।[३०९] तस्य लृड्लकारे भोक्ष्यति।[३१०] यद्वाऽत्रावनार्थभुज्धातुः।[३११] रावणस्याभिप्रायोऽयम् मद्वशगा सती सीता राज्यं भोक्ष्यत्यधिष्ठात्री भूत्वा तत्प्रतिपालयिष्यति।
(१२१) अगाहत्
अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम्।
विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः॥
– अ॰रा॰ ५.२.५२
आत्मनेपदस्यानित्यत्वात्प्रयोगोऽयं परस्मैपदी।[३१२]
(१२२) निर्दहिष्यति
निर्दहिष्यति रक्षौघांस्त्वत्कृते नात्र संशयः।
अनुज्ञां देहि मे देवि गच्छामि त्वरयाऽन्वितः॥
– अ॰रा॰ ५.३.४९
निर्धक्ष्यति[३१३] इति प्रयोक्तव्ये निर्दहिष्यति इति प्रयुक्तम्। निर्दहतीति निर्दहः।[३१४] निर्दह इवाऽचरिष्यतीति निर्दहिष्यति[३१५] इति प्रयोगे परिहारः।
(१२३) निद्राति
अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत।
चित्रकूटगिरौ पूर्वमेकदा रहसि स्थितः।
मदङ्के शिर आधाय निद्राति रघुनन्दनः॥
– अ॰रा॰ ५.३.५३
इह स्म इति योजनीयम्। एवं लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन भूतकाले लड्लकारः।[३१६]
(१२४) वदस्व
ततः प्रहस्तो हनुमन्तमादरात्पप्रच्छ केन प्रहितोऽसि वानर।
भयं च ते माऽस्तु विमोक्ष्यसे मया सत्यं वदस्वाखिलराजसन्निधौ॥
– अ॰रा॰ ५.४.६
अत्र भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (पा॰सू॰ १.३.४७) इत्यनेनोपसम्भाषायां ज्ञाने वाऽऽत्मनेपदम्।[३१७]
(१२५) पश्यध्वम्
शब्देनैव विजानीमः कृतकार्यः समागतः।
हनूमानेव पश्यध्वं वानरा वानरर्षभम्॥
– अ॰रा॰ ५.५.१३
अत्र कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन क्रियाविनिमय आत्मनेपदम्।[३१८]
॥ इति सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
(१२६) निवसस्व
भुङ्क्ष्व चेमानि पक्वानि फलानि तदनन्तरम्।
निवसस्व सुखेनात्र निद्रामेहि त्वराऽस्तु मा॥
– अ॰रा॰ ६.७.१६
अत्र कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदम्।[३१९]
(१२७) निबोध
तमाह रावणो राजा भ्रातरं दीनया गिरा।
कुम्भकर्ण निबोध त्वं महत्कष्टमुपस्थितम्॥
– अ॰रा॰ ६.७.५१
अत्र निपूर्वकोऽवगमार्थको बुध्धातुः (बुधँ अवगमने धा॰पा॰ ११७२)। तत्राऽत्मनेपदत्वाल्लोड्लकारे मध्यमपुरुषैकवचने निबुध्यस्व इति पाणिनीयम्।[३२०] किन्तु बोधनं बोधः भावे घञि[३२१] ततश्च गुणे।[३२२] नितरां बोधो निबोधः। निबोधमाचर इति निबोध इत्थमाचारक्विबन्ताद्धातोर्लोट्। मध्यमपुरुष एकवचने सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) इत्थं हि आदेशे अतो हेः (पा॰सू॰ ६.४.१०५) इत्यनेन हेर्लुकि निबोध इत्यपि पाणिनीयम्।[३२३] यद्वाऽत्र बुध्धातुर्भ्वादिपरस्मैपदी (बुधँ अवगमने धा॰पा॰ ८५८)। तस्य लोड्लकारे मध्यमपुरुष एकवचनरूपमिदम् निबोध।[३२४] एतेन तान्निबोध द्विजोत्तम (भ॰गी॰ १.७) इति गीतावचनमपि व्याख्यातम्।
(१२८) न्यहनन्
दशकोट्यः प्लवङ्गानां गत्वा मन्दिररक्षकान्।
चूर्णयामासुरश्वांश्च गजांश्च न्यहनन् क्षणात्॥
– अ॰रा॰ ६.१०.१७
न्यघ्नन्[३२५] इति प्रयोक्तव्ये न्यहनन् इति प्रयोगस्तु गणकार्यमनित्यम् (प॰शे॰ ९३.३) इति नियमात् निपूर्वकात् हन्धातोः (हनँ हिंसागत्योः धा॰पा॰ १०१२) लङि झिप्रत्ययेऽडागमे शपि झोऽन्तः (पा॰सू॰ ७.१.३) इत्यनेनान्तादेशे अतो गुणे (पा॰सू॰ ६.१.९७) इत्यनेन पररूपे इतश्च (पा॰सू॰ ३.४.१००) इत्यनेनेकारलोपे संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) इत्यनेन तकारलोपे न्यहनन्।[३२६]
(१२९) योत्स्यामि
घातयित्वा राघवेण जीवामि वनगोचरः।
रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः॥
– अ॰रा॰ ६.१०.५६
आत्मनेपदस्यानित्यत्वात्प्रयोगोऽयम्।[३२७]
(१३०) ससृजे
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्।
ततस्तु ससृजे घोरं राक्षसं चास्त्रमस्त्रवित्।
क्रोधेन महताऽऽविष्टो रामस्योपरि रावणः॥
– अ॰रा॰ ६.११.२८
सृजँ विसर्गे (धा॰पा॰ १४१४) परस्मैपदी धातुः। ततः ससर्ज इति रूपम्।[३२८] अत्र कर्मव्यतिहारादात्मनेपदम्।[३२९]
(१३१) लिप्यसे
भूतं भविष्यदभजन्वर्तमानमथाचरन्।
विहरस्व यथान्यायन् भवदोषैर्न लिप्यसे॥
– अ॰रा॰ ६.१२.२७
अत्र लिप्धातोः (लिपँ उपदेहे धा॰पा॰ १४३३) कर्मवाच्ये लड्लकारे मध्यमपुरुष एकवचनरूपम्।[३३०] वर्तमानसामीप्याद्भविष्यति वर्तमानता।[३३१]
(१३२) गमिष्यामहे
अलङ्कृत्य सह भ्राता श्वो गमिष्यामहे वयम्।
विभीषणवचः श्रुत्वा प्रत्युवाच रघूत्तमः॥
– अ॰रा॰ ६.१३.४२
गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) इत्यनेनेड्विधानात् गम्धातोश्च (गमॢँ गतौ धा॰पा॰ ९८२) परस्मैपदत्वात् गमिष्यामः।[३३२] समुपसर्गसंयोजने तु समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) इत्यनेनाऽत्मनेपदे सङ्गंस्यामहे[३३३] उपसर्गलोपेऽपि गंस्यामहे किन्तु गमिष्यामहे इति त्वत्यन्तमसामञ्जस्यावहमिति चेत्। गमनं गमि इत्यत्र घिनुण् प्रत्ययः। शमित्यष्टाभ्यो घिनुण् (पा॰सू॰ ३.२.१४१) इत्यत्र इतिशब्दप्रयोगाद्गमेरपि घिनुण्। घिनुण्प्रत्ययेऽनुबन्धकार्ये नपुंसकलिङ्गे क्रियाविशेषणत्वाद्द्वितीया। हे इति सम्बोधनम्। स्याम इति अस्धातोः (असँ भुवि धा॰पा॰ १०६५) विध्यर्थे लिङ्लकार उत्तमपुरुषबहुवचनम्।[३३४] अर्थात् हे जना अयोध्यां प्रति वयं गमि गमनं प्रति स्यामोद्यता भवेम। यद्वा गम् इति डप्रत्ययान्तम्।[३३५] इषुधातुः (इषँ गतौ धा॰पा॰ ११२७) दिवादिः। तस्य वर्तमानकाले कर्मव्यतिहार आत्मनेपदम्।[३३६] श्वः इति सन्निधानेनापि वर्तमानसमीपे लट्।[३३७] श्वो गं गमनमिष्यामहेऽभिलषामः[३३८] प्रयोगेऽस्मिन्नियमेव मे मनीषा।
(१३३) प्रार्थयामि
प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम्।
स्थित्वाद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम्॥
– अ॰रा॰ ६.१४.३६
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इति चक्षिङ् (धा॰पा॰ १०१७) इत्यत्र ङित्करणेन ज्ञाप्यते। अतः प्रार्थयामि।[३३९]
॥ इति युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथोत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
(१३४) निजघ्ने
ब्राह्मणानृषिमुख्यांश्च देवदानवकिन्नरान्।
देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान्॥
– अ॰रा॰ ७.२.४७
आङो यमहनः (पा॰सू॰ १.३.२८) इत्यनेनात्मनेपदे न्याजघ्ने।[३४०] विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन आङ् इत्यस्य लोपे निजघ्ने।[३४१]
(१३५) काङ्क्षे
सत्येन च शपे नाहं त्वां विना दिवि वा भुवि।
काङ्क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो॥
– अ॰रा॰ ७.९.५
काङ्क्षामि[३४२] इति प्रयोक्तव्ये काङ्क्षे[३४३] इति प्रयोगस्तु कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनात्मनेपदे सति।[३४४]
॥ इत्युत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे तृतीयाध्याये द्वितीयपरिच्छेदः।
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे तृतीयोऽध्यायः।
बुद्ध्या श्रीगुरुपादपद्मरजसा संशुद्धया सादरं
कृत्वा लेखकमाप्तशीलयशसं शिष्यं शिशुं राघवम्।
बालो नष्टविलोचनो गिरिधरः शब्दान् विभाव्याऽत्मना
बध्नाति स्म निबन्धमेतममलं तोषाय सीतापतेः॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शः।
[१] विमर्शये इत्यत्र स्वार्थे णिच्। निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते (वा॰प॰ ३.७.६०)। स्वान्तःसुखाय विमृशामीति कर्त्रभिप्रायं ध्वनयितुमात्मनेपदप्रयोगः। णिचश्च (पा॰सू॰ १.३.७४) इत्यनेन। वि मृशँ आमर्शने (धा॰पा॰ १४२५) → वि मृश्
[२] पठँ व्यक्तायां वाचि (धा॰पा॰ ३३०) → पठ् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → पठ् लट् → पठ् झि → झोऽन्तः (पा॰सू॰ ७.१.३) → पठ् अन्ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पठ् शप् अन्ति → पठ् अ अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → पठ् अन्ति → पठन्ति।
[३] पठँ व्यक्तायां वाचि (धा॰पा॰ ३३०) → पठ् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → पठ् लृट् → पठ् झि → झोऽन्तः (पा॰सू॰ ७.१.३) → पठ् अन्ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → पठ् स्य अन्ति → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → पठ् इट् स्य अन्ति → पठ् इ स्य अन्ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → पठ् इ ष्य अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → पठ् इ ष्यन्ति → पठिष्यन्ति।
[४] क्रियाऽपि क्रिययेप्सिततमा भवति। कया क्रियया। सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वाऽध्यवस्यतिक्रियया वा। इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत्कञ्चिदर्थं सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायामध्यवसायोऽध्यवसाय आरम्भ आरम्भे निर्वृत्तिर्निर्वृत्तौ फलावाप्तिः। एवं क्रियाऽपि कृत्रिमं कर्म (भा॰पा॰सू॰ १.४.३२)।
[५] इति कथयन्ति इति शेषः।
[६] नवीनवैयाकरणशाब्दबोधोऽयम्।
[७] फलविशिष्टव्यापारे व्यापारविशिष्टफले च शक्तिरिति भावः। तस्मात्फलावच्छिन्ने व्यापारे व्यापारावच्छिन्ने फले च धातूनां शक्तिः कर्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च ततद्बोधे नियामक इत्याहुः (प॰ल॰म॰ ४७)।
[८] मम त्वेकवृन्तावलम्बिफलद्वयवदुभयांश एका खण्डशश्शक्तिरिति न शक्तिद्वयकल्पनं न वा बोधजनकत्वसम्बन्धद्वयकल्पनम् (प॰ल॰म॰ ज्यो॰टी॰ ४७) इति प्रणेतॄणां गुरुचरणाः कालिकाप्रसादशुक्लवर्याः परमलघुमञ्जूषाया ज्योत्स्नाटीकायाम्।
[९] एवमेव शृण्वन्ति इति प्रयोगः श्रोष्यन्ति इत्यर्थे यान्ति इति च यास्यन्ति इत्यर्थे। उभयत्र वर्तमानवद्भावः। श्रु श्रवणे (धा॰पा॰ ९४२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → श्रु लट् → श्रु झि → झोऽन्तः (पा॰सू॰ ७.१.३) → श्रु अन्ति → श्रुवः शृ च (पा॰सू॰ ३.१.७४) → शृ श्नु अन्ति → शृ नु अन्ति → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → सार्वधातुकगुणनिषेधः → रषाभ्यां णत्व ऋकारग्रहणम् (वा॰ ८.४.१) → शृ णु अन्ति → हुश्नुवोः सार्वधातुके (पा॰सू॰ ६.४.८७) → शृ ण्व् अन्ति → शृण्वन्ति। या प्रापणे (धा॰पा॰ १०४९) → या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → या लट् → या झि → झोऽन्तः (पा॰सू॰ ७.१.३) → या अन्ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → या शप् अन्ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → या अन्ति → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → यान्ति। श्रु श्रवणे (धा॰पा॰ ९४२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → श्रु लृट् → श्रु झि → झोऽन्तः (पा॰सू॰ ७.१.३) → श्रु अन्ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → श्रु स्य अन्ति → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → श्रो स्य अन्ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → श्रो ष्य अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → श्रो ष्यन्ति → श्रोष्यन्ति। या प्रापणे (धा॰पा॰ १०४९) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → या लृट् → या झि → झोऽन्तः (पा॰सू॰ ७.१.३) → या अन्ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → या स्य अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → या स्यन्ति → यास्यन्ति।
[१०] डुलभँष् प्राप्तौ (धा॰पा॰ ९७५) → लभ् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → लभ् लिङ् → लभ् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → लभ् शप् त → लभ् अ त → लिङः सीयुट् (पा॰सू॰ ३.४.१०२) → लभ् अ सीयुँट् त → लभ् अ सीय् त → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → लभ् अ सीय् सुँट् त → लभ् अ सीय् स् त → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → लभ् अ ईय् त → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → लभ् अ ई त → आद्गुणः (पा॰सू॰ ६.१.८७) → लभ् ए त → लभेत।
[११] डुलभँष् प्राप्तौ (धा॰पा॰ ९७५) → लभ् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → लभ् लिङ् → लभ् तिप् → लभ् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → लभ् शप् ति → लभ् अ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → लभ् अ यासुँट् ति → लभ् अ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → लभ् अ यास् सुँट् ति → लभ् अ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → लभ् अ या ति → अतो येयः (पा॰सू॰ ७.२.८०) → लभ् अ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → लभ् अ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → लभ् ए ति → इतश्च (पा॰सू॰ ३.४.१००) → लभ् ए त् → लभेत्।
[१२] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि पचाद्यच्।
[१३] लभ → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → लभ क्विँप् → लभ व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → लभ → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → लभ लट् → लभ तिप् → लभ ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → लभ शप् ति → लभ अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → लभ ति → लभति।
[१४] लभ → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → लभ लिङ → लभ तिप् → लभ ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → लभ शप् ति → लभ अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → लभ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → लभ यासुँट् ति → लभ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → लभ यास् सुँट् ति → लभ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → लभ या ति →अतो येयः (पा॰सू॰ ७.२.८०) → लभ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → लभ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → लभे ति → इतश्च (पा॰सू॰ ३.४.१००) → लभे त् → लभेत्।
[१५] ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → ज्ञा लिङ् → ज्ञा मिप् → ज्ञा मि → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → ज्ञा श्ना मि → ज्ञा ना मि → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → जा ना मि → इतश्च (पा॰सू॰ ३.४.१००) → जा ना म् → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → जा ना यासुँट् म् → जा ना यास् म् → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → जा ना या म् → ई हल्यघोः (पा॰सू॰ ६.४.११३) → जा नी या म् → जानीयाम्।
[१६] ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → ज्ञा लट् → ज्ञा मिप् → ज्ञा मि → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → ज्ञा श्ना मि → ज्ञा ना मि → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → जा ना मि → जानामि।
[१७] ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) → ज्ञा लट् → ज्ञा तिप् → ज्ञा ति → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → ज्ञा श्ना ति → ज्ञा ना ति → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → जा ना ति → जानाति।
[१८] ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → ज्ञा लङ् → ज्ञा तिप् → ज्ञा ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् ज्ञा ति → अ ज्ञा ति → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → अ ज्ञा श्ना ति → अ ज्ञा ना ति → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → अ जा ना ति → इतश्च (पा॰सू॰ ३.४.१००) → अ जा ना त् → अजानात्।
[१९] विदितं भवद्भभिः इति समभिव्याहारेण प्रथमपुरुषः प्रयोक्तव्यः।
[२०] ब्रूञ् व्यक्तायां वाचि (धा॰पा॰ १०४४) → ब्रू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → ब्रू लोट् → ब्रू थस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → ब्रू शप् थस् → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → ब्रू थस् → तस्थस्थमिपां तान्तन्तामः (पा॰सू॰ ३.४.१०१) → ब्रू त → ब्रूत।
[२१] ब्रूञ् व्यक्तायां वाचि (धा॰पा॰ १०४४) → ब्रू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → ब्रू लृट् → ब्रू मिप् → ब्रू मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → ब्रू स्य मि → ब्रुवो वचिः (पा॰सू॰ २.४.५३) → वच् स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → वच् स्या मि → चोः कुः (पा॰सू॰ ८.२.३०) → वक् स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वक् ष्या मि → वक्ष्यामि।
[२२] स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) इत्यनेन। ब्रूञ् व्यक्तायां वाचि (धा॰पा॰ १०४४) → ब्रू → स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → ब्रू लृट् → ब्रू इट् → ब्रू इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → ब्रू स्य इ → ब्रुवो वचिः (पा॰सू॰ २.४.५३) → वच् स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वच् स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → वच् स्ये → चोः कुः (पा॰सू॰ ८.२.३०) → वक् स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वक् ष्ये → वक्ष्ये।
[२३] भ्रमुँ अनवस्थाने (धा॰पा॰ १२०४) → भ्रम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भ्रम् लट् → भ्रम् तिप् → भ्रम् ति → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → भ्रम् श्यन् ति → भ्रम् य ति → शमामष्टानां दीर्घः श्यनि (पा॰सू॰ ७.३.६४) → भ्राम् य ति → भ्राम्यति।
[२४] भ्रमुँ अनवस्थाने (धा॰पा॰ १२०४) → भ्रम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भ्रम् लट् → भ्रम् तिप् → भ्रम् ति → वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (पा॰सू॰ ३.१.७०) → भ्रम् शप् ति → भ्रम् अ ति → भ्रमति।
[२५] भ्रमणं भ्रमः। भावे (पा॰सू॰ ३.३.१८) इत्यनेन भावे घञ्। भ्रम → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → भ्रम क्विँप् → भ्रम व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → भ्रम → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् → भ्रम लट् → भ्रम तिप् → भ्रम ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भ्रम शप् ति → भ्रम अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → भ्रम ति → भ्रमति।
[२६] भ्रमुँ अनवस्थाने (धा॰पा॰ १२०४) → भ्रम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भ्रम् लट् → भ्रम् तिप् → भ्रम् ति → गणकार्यमनित्यम् (प॰शे॰ ९३.३) → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भ्रम् शप् ति → भ्रम् अ ति → भ्रमति।
[२७] अत्र तृँच् प्रत्यय इति भावः। नायं बहुलमन्यत्रापि (प॰उ॰ २.९५) इति तृच्। स नोगित्। कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽयमविहित उगित्प्रत्ययः। तृँच् प्रत्यये चात्र शबागमोऽप्यूह्यः। नयतेः षुगागमः (प॰उ॰ श्वे॰वृ॰ २.९६) इतिवत्। भ्रमुँ अनवस्थाने (धा॰पा॰ १२०४) → भ्रम् → उणादयो बहुलम् (पा॰सू॰ ३.३.१) → भ्रम् तृँच् → भ्रम् शप् अत् → भ्रम् अ त् → भ्रमत् → उगितश्च (पा॰सू॰ ४.१.६) → भ्रमत् ङीप् → भ्रमत् ई → भ्रमती → विभक्तिकार्यम् → भ्रमती सुँ → भ्रमती स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → भ्रमती।
[२८] आङ् काक्षिँ काङ्क्षायाम् (धा॰पा॰ ६६७) → आ काक्ष् → इदितो नुम् धातोः (पा॰सू॰ ७.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → आ का नुँम् क्ष् → आ कान् क्ष् → नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) → आ कांक्ष् → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → आ काङ्क्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आ काङ्क्ष् लट् → आ काङ्क्ष् तिप् → आ काङ्क्ष् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ काङ्क्ष् शप् ति → आ काङ्क्ष् अ ति → आकाङ्क्षति।
[२९] आ काङ्क्ष् (पूर्ववत्) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आ काङ्क्ष् लट् → आ काङ्क्ष् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ काङ्क्ष् शप् त → आ काङ्क्ष् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → आ काङ्क्ष् अ ते → आकाङ्क्षते।
[३०] पठँ व्यक्तायां वाचि (धा॰पा॰ ३३०) → पठ् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → पठ् लट् → पठ् तिप् → पठ् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पठ् शप् ति → पठ् अ ति → पठति। लृटि च पठिष्यति इति रूपम्। पठँ व्यक्तायां वाचि (धा॰पा॰ ३३०) → पठ् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → पठ् लृट् → पठ् तिप् → पठ् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → पठ् स्य ति → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → पठ् इट् स्य ति → पठ् इ स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → पठ् इ ष्य ति → पठिष्यति।
[३१] डुलभँष् प्राप्तौ (धा॰पा॰ ९७५) → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → लभ् लट् → लभ् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → लभ् शप् त → लभ् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → लभ् अ ते → लभते। लृटि च लप्स्यते इति रूपम्। डुलभँष् प्राप्तौ (धा॰पा॰ ९७५) → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → लभ् लृट् → लभ् त → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → लभ् स्य त → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → खरि च (पा॰सू॰ ८.४.५५) → लप् स्य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → लप् स्य ते → लप्स्यते।
[३२] रामायणस्य शाश्वतत्वं रामायण एवोक्तम् – यावत्स्थास्यन्ति गिरयः सरितः च महीतले॥ तावद्रामायणकथा लोकेषु प्रचरिष्यति। (वा॰रा॰ १.२.३६-३७)। मुचॢँ मोक्षणे (धा॰पा॰ १४३०) → मुच् → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → मुच् लट् → मुच् त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → मुच् यक् त → मुच् य त → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → मुच् य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → मुच् य ते → मुच्यते।
[३३] सृजँ विसर्गे (धा॰पा॰ १४१४) → सृज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → सृज् लृट् → सृज् मिप् → सृज् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → सृज् स्य मि → सृजिदृशोर्झल्यमकिति (पा॰सू॰ ६.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → सृ अम् ज् स्य मि → सृ अ ज् स्य मि → इको यणचि (पा॰सू॰ ६.१.७७) → स्र् अ ज् स्य मि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) → स्र् अ ष् स्य मि → षढोः कः सि (पा॰सू॰ ८.२.४१) → स्र् अ क् स्य मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → स्र् अ क् ष्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → स्र् अ क् ष्या मि → स्रक्ष्यामि।
[३४] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। सृजँ विसर्गे (धा॰पा॰ १४१४) → सृज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → सृज् लट् → सृज् मिप् → सृज् मि → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → सृज् श मि → सृज् अ मि → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → सृज् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → सृज् आ मि → सृजामि।
[३५] तस्माल्लोड्लकारे मध्यमपुरुषे बहुवचने सृजथ इति रूपम्। यथा – यूयमप्यहह पूजनमस्या यन्निजैः सृजथ पादपयोजैः (नै॰च॰ ५.९६) इति श्रीहर्षप्रयोगे। सृजँ विसर्गे (धा॰पा॰ १४१४) → सृज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → सृज् लोट् → सृज् थ → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → सृज् श थ → सृज् अ ध्वम् → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → सृज् अ थ → सृजथ।
[३६] कर्तरि कर्मव्यतिहारे पा॰सू॰ १.३.१४) इत्यनेन।
[३७] सृजँ विसर्गे (धा॰पा॰ १४१४) → सृज् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → सृज् लोट् → सृज् ध्वम् → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → सृज् श ध्वम् → सृज् अ ध्वम् → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → सृज् अ ध्वम् → सृजध्वम्।
[३८] दृशिँर् प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → हेतुमति च (पा॰सू॰ ३.१.२६) → दृश् णिच् → दृश् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → दश् इ → उरण् रपरः (पा॰सू॰ १.१.५१) → दर्श् इ → दर्शि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → णिचश्च (पा॰सू॰ १.३.७४) → लोट् च (पा॰सू॰ ३.३.१६२) → दर्शि लोट् → दर्शि थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दर्शि शप् थास् → दर्शि अ थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → दर्शे अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → दर्शय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → दर्शय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → दर्शय् अ स्व → दर्शयस्व।
[३९] दर्शि → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → दर्शि लोट् → दर्शि सिप् → दर्शि सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दर्शि शप् सि → दर्शि अ सि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → दर्शे अ सि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → दर्शय् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → दर्शय् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → दर्शय् अ → दर्शय।
[४०] स्वे स्वाः। आत्मीया इत्यर्थः। आत्मान इति वा। ज्ञातिधनवाचिनस्तु स्वाः। ज्ञातयोऽर्था वा (वै॰सि॰कौ॰ २२०)।
[४१] आशीर्वादार्थे लिङि यायात् इति रूपम्। या प्रापणे (धा॰पा॰ १०४९) → या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → आशिषि लिङ्लोटौ (पा॰सू॰ ३.३.१७३) → या लिङ् → या तिप् → या ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → या यासुँट् ति → या यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → या यास् सुँट् ति → या यास् स् ति → स्कोः संयोगाद्योरन्ते च (पा॰सू॰ ८.२.२९) → या या ति → इतश्च (पा॰सू॰ ३.४.१००) → या या त् → यायात्। विध्यर्थे लिङ्यपि यायात् इत्येव रूपं प्रक्रिया तु भिन्ना। या प्रापणे (धा॰पा॰ १०४९) → या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → या लिङ् → या तिप् → या ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → या शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → या ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → या यासुँट् ति → या यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → या यास् सुँट् ति → या यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → या या ति → इतश्च (पा॰सू॰ ३.४.१००) → या या त् → यायात्।
[४२] या प्रापणे (धा॰पा॰ १०४९) → या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → या लट् → या तिप् → या ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → या शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → या ति → या ति → याति।
[४३] हनँ हिंसागत्योः (धा॰पा॰ १०१२) → हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → हन् लङ् → हन् तिप् → हन् ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् हन् ति → अ हन् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ हन् शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → अ हन् ति → इतश्च (पा॰सू॰ ३.४.१००) → अ हन् त् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → अ हन् → अहन्।
[४४] हनँ हिंसागत्योः (धा॰पा॰ १०१२) → हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → हन् लङ् → हन् तिप् → हन् ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् हन् ति → अ हन् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ हन् शप् ति → गणकार्यमनित्यम् (प॰शे॰ ९३.३) → शब्लुगभावः → अ हन् अ ति → इतश्च (पा॰सू॰ ३.४.१००) → अ हन् अ त् → अहनत्।
[४५] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि।
[४६] हन → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → हन क्विँप् → हन व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → हन → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् → हन लट् → हन तिप् → हन ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → हन शप् ति → हन अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → हन ति → हनति।
[४७] हन → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → हन् लङ् → हन् तिप् → हन् ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् हन् ति → अ हन् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ हन शप् ति → अ हन अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → अ हन ति → इतश्च (पा॰सू॰ ३.४.१००) → अ हन त् → अहनत्।
[४८] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → कृ लिट् → कृ तिप् → कृ ति → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → कृ णल् → कृ अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → कृ कृ अ → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् कृ अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → क कृ अ → कुहोश्चुः (पा॰सू॰ ७.४.६२) → च कृ अ → अचो ञ्णिति (पा॰सू॰ ७.२.११५) → उरण् रपरः (पा॰सू॰ १.१.५१) → च कार् अ → चकार।
[४९] कर्तरि कर्मव्यतिहारे पा॰सू॰ १.३.१४) इत्यनेन।
[५०] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → कृ लिट् → कृ त → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → कृ एश् → कृ ए → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → कृ कृ ए → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् कृ ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → क कृ ए → कुहोश्चुः (पा॰सू॰ ७.४.६२) → च कृ ए → असंयोगाल्लिट् कित् (पा॰सू॰ १.२.५) → कित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → इको यणचि (पा॰सू॰ ६.१.७७) → च क्र् ए → चक्रे।
[५१] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → कृ लट् → कृ तिप् → कृ ति → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → कृ उ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् उ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → कर् ओ ति → करोति।
[५२] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → कृ लृट् → कृ मिप् → कृ मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → कृ स्य मि → ऋद्धनोः स्ये (पा॰सू॰ ७.२.७०) → कृ इट् स्य मि → कृ इ स्य मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → कर् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → कर् इ ष्या मि → करिष्यामि।
[५३] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → कृ लट् → कृ मिप् → कृ मि → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → कृ उ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् उ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → कर् ओ मि → करोमि।
[५४] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → किंवृत्ते लिप्सायाम् (पा॰सू॰ ३.३.६) → कृ लट् → कृ मिप् → कृ मि → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → कृ उ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् उ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → कर् ओ मि → करोमि।
[५५] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। जीवँ प्राणधारणे (धा॰पा॰ ५६२) → जीव् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → जीव् लट् → जीव् मिप् → जीव् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → जीव् शप् मि → जीव् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → जीव् आ मि → जीवामि।
[५६] भौवादिकाद्धातोस्तु तेपथुः इति रूपम्। तपँ सन्तापे (धा॰पा॰ ९८५) → तप् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → तप् लिट् → तप् थस् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → तप् अथुस् → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → तप् तप् अथुस् → हलादिः शेषः (पा॰सू॰ ७.४.६०) → त तप् अथुस् → अत एकहल्मध्येऽनादेशादेर्लिटि (पा॰सू॰ ६.४.१२०) → तेप् अथुस् → तेपथुः।
[५७] तपँ दाहे ऐश्वर्ये वा (धा॰पा॰ ११५९) → तप् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → तप् लिट् → तप् आथाम् → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → तप् तप् आथाम् → हलादिः शेषः (पा॰सू॰ ७.४.६०) → त तप् आथाम् → अत एकहल्मध्येऽनादेशादेर्लिटि (पा॰सू॰ ६.४.१२०) → तेप् आथाम् → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → तेप् आथे → तेपाथे। न चात्र तप्धातुश्चुरादिराधृषीय उभयपदी (तपँ दाहे धा॰पा॰ १८१९)। तस्माल्लिटि परस्मैपदे णिच्पक्षे तापयाञ्चक्रथुः तापयाम्बभूवथुः तापयामासथुः इति रूपाणि णिजभावपक्षे तेपथुः इति रूपमात्मनेपदे च णिच्पक्षे तापयाञ्चक्राथे इति रूपं णिजभावपक्षे तेपाथे इति रूपम्। अत्र क्रियाफलं रामावतरणम्। तन्नादितिकश्यपकर्तृगाम्यपि तु परगामि। सकलसंसारकल्याणकारित्वात्। रामावतारेण साधूनां परित्राणं दुष्कृतानां विनाशो धर्मस्य संस्थापना च। तेन स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) इत्यस्याप्रवृत्तिरत्र। विस्तारभिया प्रक्रिया न दीयन्ते।
[५८] प्रेषृँ गतौ (धा॰पा॰ ६१९) → प्रेष् → हेतुमति च (पा॰सू॰ ३.१.२६) → प्रेष् णिच् → प्रेष् इ → प्रेषि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्रेषि लोट् → प्रेषि सिप् → प्रेषि सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रेषि शप् सि → प्रेषि अ सि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्रेषे अ सि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्रेषय् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → प्रेषय् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → प्रेषय् अ → प्रेषय।
[५९] प्रेषृँ गतौ (धा॰पा॰ ६१९) → प्रेष् → हेतुमति च (पा॰सू॰ ३.१.२६) → प्रेष् णिच् → प्रेष् इ → प्रेषि → धातुसञ्ज्ञा → णिचश्च (पा॰सू॰ १.३.७४) → लोट् च (पा॰सू॰ ३.३.१६२) → प्रेषि लोट् → प्रेषि थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रेषि शप् थास् → प्रेषि अ थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्रेषे अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्रेषय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → प्रेषय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → प्रेषय् अ स्व → प्रेषयस्व।
[६०] णिचश्च (पा॰सू॰ १.३.७४) इत्यनेन। दृशिँर् प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → हेतुमति च (पा॰सू॰ ३.१.२६) → दृश् णिच् → दृश् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → दर्श् इ → दर्शि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → णिचश्च (पा॰सू॰ १.३.७४) → लोट् च (पा॰सू॰ ३.३.१६२) → दर्शि लोट् → दर्शि थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दर्शि शप् थास् → दर्शि अ थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → दर्शे अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → दर्शय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → दर्शय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → दर्शय् अ स्व → दर्शयस्व।
[६१] अत्र कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन कर्तर्यात्मनेपदं न वेत्याशङ्कां परिहर्तुं विमर्शः प्रारब्धः। दृशिँर् प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → भावकर्मणोः (पा॰सू॰ १.३.१३) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → दृश् लिट् → दृश् आताम् → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → दृश् दृश् आताम् → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → दर्श् दृश् आताम् → हलादिः शेषः (पा॰सू॰ ७.४.६०) → द दृश् आताम् → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → द दृश् आते → असंयोगाल्लिट् कित् (पा॰सू॰ १.२.५) → कित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → ददृशाते।
[६२] परोक्षत्वं च साक्षात्करोमीत्येतादृशविषयताशालिज्ञानाविषयत्वम् (वै॰भू॰सा॰ २२)।
[६३] गमॢँ गतौ (धा॰पा॰ ९८२) → गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → गम् लट् → गम् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गम् शप् मस् → गम् अ मस् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → गछ् अ मस् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → गतुँक् छ् अ मस् → गत् छ् अ मस् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → गच् छ् अ मस् → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → गच् छ् आ मस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → गच् छ् आ मरुँ → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गच् छ् आ मः → गच्छामः।
[६४] सम् गमॢँ गतौ (धा॰पा॰ ९८२) → सम् गम् → समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → सम् गम् लट् → सम् गम् महिङ् → सम् गम् महि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सम् गम् शप् महि → सम् गम् अ महि → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → सम् गछ् अ महि → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → सम् गतुँक् छ् अ महि → सम् गत् छ् अ महि → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → सम् गच् छ् अ महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → सम् गच् छ् आ महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सम् गच् छ् आ महे → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → सं गच् छ् आ महे → वा पदान्तस्य (पा॰सू॰ ८.४.५९) → सङ् गच् छ् आ महे → सङ्गच्छामहे।
[६५] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन।
[६६] गमॢँ गतौ (धा॰पा॰ ९८२) → गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → इच्छार्थेषु लिङ्लोटौ (पा॰सू॰ ३.३.१५७) → गम् लोट् → गम् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गम् शप् मस् → गम् अ मस् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → गछ् अ मस् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → गतुँक् छ् अ मस् → गत् छ् अ मस् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → गच् छ् अ मस् → आडुत्तमस्य पिच्च (पा॰सू॰ ३.४.९२) → गच् छ् अ आट् मस् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → गच् छ् आ मस् → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → नित्यं ङितः (पा॰सू॰ ३.४.९९) → गच् छ् आ म → गच्छाम।
[६७] इच्छामः इत्यध्याहार्यमिति भावः। ततः इच्छार्थेषु लिङ्लोटौ (पा॰सू॰ ३.३.१५७) इत्यनेन सर्वलकारापवादेन लोट्।
[६८] पूजँ पूजायाम् (धा॰पा॰ १६४२) → पूज् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → पूज् णिच् → पूज् इ → पूजि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → भावकर्मणोः (पा॰सू॰ १.३.१३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → पूजि लृट् → पूजि थास् → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → पूजि स्य थास् → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → पूजि इट् स्य थास् → पूजि इ स्य थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → पूजे इ स्य थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पूजय् इ स्य थास् → थासस्से (पा॰सू॰ ३.४.८०) → पूजय् इ स्य से → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → पूजय् इ ष्य से → पूजयिष्यसे।
[६९] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। पूजि → धातुसञ्ज्ञा (पूर्ववत्) → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → पूजि लट् → पूजि थास् → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → पूजि यक् थास् → पूजि य थास् → णेरनिटि (पा॰सू॰ ६.४.५१) → पूज् य थास् → थासस्से (पा॰सू॰ ३.४.८०) → पूज् य से → पूज्यसे।
[७०] लुटि आगन्ता इति रूपम्। आङ् गमॢँ गतौ (धा॰पा॰ ९८२) → आ गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लुट् (पा॰सू॰ ३.३.१५) → आ गम् → आ गम् लुट् → आ गम् तिप् → आ गम् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → आ गम् तास् ति → लुटः प्रथमस्य डारौरसः (पा॰सू॰ २.४.८५) → आ गम् तास् डा → आ गम् तास् आ → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → आ गम् त् आ → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → आ गं त् आ → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → आ गन् त् आ → आगन्ता।
[७१] आङ् गमॢँ गतौ (धा॰पा॰ ९८२) → आ गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → आ गम् लृँट् → आ गम् तिप् → आ गम् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → आ गम् स्य ति → गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) → आ गम् इट् स्य ति → आ गम् इ स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → आ गम् इ ष्य ति → आगमिष्यति।
[७२] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। काक्षिँ काङ्क्षायाम् (धा॰पा॰ ६६७) → काक्ष् → इदितो नुम् धातोः (पा॰सू॰ ७.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → का नुँम् क्ष् → कान् क्ष् → नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) → कांक्ष् → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → काङ्क्ष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → काङ्क्ष् लट् → काङ्क्ष् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → काङ्क्ष् शप् त → काङ्क्ष् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → काङ्क्ष् अ ते → काङ्क्षते।
[७३] पूञ् पवने (धा॰पा॰ १४८२) → पू → हेतुमति च (पा॰सू॰ ३.१.२६) (यद्वा स्वार्थे णिच्) → पू णिच् → पू इ → अचो ञ्णिति (पा॰सू॰ ७.२.११५) → पौ इ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पाव् इ → पावि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → पावि लोट् → पावि सिप् → पावि सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पावि शप् सि → पावि अ सि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → पावे अ सि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पावय् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → पावय् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → पावय् अ → पावय।
[७४] पावि → धातुसञ्ज्ञा (पूर्ववत्) → णिचश्च (पा॰सू॰ १.३.७४) → लोट् च (पा॰सू॰ ३.३.१६२) → पावि लोट् → पावि थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पावि शप् थास् → पावि अ थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → पावे अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पावय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → पावय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → पावय् अ स्व → पावयस्व।
[७५] आख्याग्रहणं किमर्थम्। ज्ञातिधनपर्यायवाची यः स्वशब्दस्तस्य यथा स्यात्। इह मा भूत् – स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः (भा॰पा॰सू॰ १.१.३५)। स्वे स्वाः। आत्मीया इत्यर्थः। आत्मान इति वा। ज्ञातिधनवाचिनस्तु स्वाः। ज्ञातयोऽर्था वा (वै॰सि॰कौ॰ २२०, १.१.३५)।
[७६] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। वर्ण वर्णक्रियाविस्तारगुणवचनेषु (धा॰पा॰ १९३९) → वर्ण → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → वर्ण णिच् → वर्ण इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → वर्ण् इ → वर्णि → धातुसञ्ज्ञा → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → वर्णि लट् → वर्णि त → वर्णि त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → वर्णि यक् त → वर्णि य त → णेरनिटि (पा॰सू॰ ६.४.५१) → वर्ण् य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वर्ण् य ते → वर्ण्यते।
[७७] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। अधि गमॢँ गतौ (धा॰पा॰ ९८२) → अधि गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → अधि गम् लट् → अधि गम् तिप् → अधि गम् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अधि गम् शप् ति → अधि गम् अ ति → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → अधि गछ् अ ति → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अधि गतुँक् छ् अ ति → अधि गत् छ् अ ति → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → अधि गच् छ् अ ति → अधिगच्छति।
[७८] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। क्षलँ शौचकर्मणि (धा॰पा॰ १५९७) → क्षल् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → क्षल् णिच् → क्षल् इ → अत उपधायाः (पा॰सू॰ ७.२.११६) → क्षाल् इ → क्षालि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → क्षालि लट् → क्षालि मिप् → क्षालि मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → क्षालि शप् मि → क्षालि अ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → क्षाले अ मि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → क्षालय् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → क्षालय् आ मि → क्षालयामि।
[७९] कृषँ विलेखने (धा॰पा॰ ९९०) → कृष् → स्वार्थे णिच् → कृष् णिच् → कृष् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर्ष् इ → कर्षि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। आङ् कर्षि → आ कर्षि → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → आ कर्षि लिट् → आ कर्षि तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → आ कर्षि ण → आ कर्षि अ → कास्यनेकाचश्चुलुम्पाद्यर्थम् (वा॰ ३.३.३५) → आ कर्षि आम् अ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → आ कर्षे आम् अ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → आ कर्षय् आम् अ → आमः (पा॰सू॰ २.४.८१) → आ कर्षय् आम् → कृञ्चानुप्रयुज्यते लिटि (पा॰सू॰ ३.१.४०) → आ कर्षय् आम् अस् लिट् → आ कर्षय् आम् अस् तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → आ कर्षय् आम् अस् ण → आ कर्षय् आम् अस् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → आ कर्षय् आम् अस् अस् अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → आ कर्षय् आम् अ अस् अ → अत आदेः (पा॰सू॰ ७.४.७०) → आ कर्षय् आम् आ अस् अ → अत उपधायाः (पा॰सू॰ ७.२.११६) → आ कर्षय् आम् आ आस् अ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → आ कर्षय् आम् आस् अ → आकर्षयामास। यद्वा आकर्षणमाकर्षः। भावे (पा॰सू॰ ३.३.१८) इत्यनेन भावे घञ्। ततः तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) इत्यनेन णिचि गुणे रपरत्वे आकर्षि इति धातुसञ्ज्ञायां लिटि तिप्यामि लुकि अस्धात्वनुप्रयोगे पूर्वोक्तदिशा आकर्षयामास।
[८०] आङ् णीञ् प्रापणे (धा॰पा॰ ९०१) → आ नी → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → आ नी लिट् → आ नी तिप् → आ नी ति → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → आ नी ण → आ नी अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → आ नी नी अ → ह्रस्वः (पा॰सू॰ ७.४.५९) → आ नि नी अ → अचो ञ्णिति (पा॰सू॰ ७.२.११५) → आ नि नै अ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → आ नि नाय् अ → आनिनाय।
[८१] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन। बाहुलकाद्भावे स्त्रियाम्।
[८२] बभूव इत्यर्थे आस इति बहुधा शिष्टप्रयोगेषु पुराणेषु च दृश्यते। यथा लघुत्रय्याम् – लावण्य उत्पाद्य इवास यत्नः (कु॰स॰ १.३५) निष्प्रभश्च रिपुरास भूभृताम् (र॰वं॰ ११.८१) तेनास लोकः पितृमान्विनेत्रा (र॰वं॰ १४.२३)। अत्र मल्लिनाथः – आसेति बभूवार्थे “तिङन्तप्रतिरूपकमव्ययम्” इत्याह शाकटायनः। वल्लभस्तु “न तिङन्तप्रतिरूपकमव्ययम् ‘अस्तेर्भूः’ इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात्। किन्तु कवीनामयं प्रामादिकः प्रयोगः” इत्याह। वामनस्तु “अस गतिदीप्त्यादानेष्विति धातोर्लिटि रूपमिदम्” इत्याह। अस इत्यनुदात्तेद्दीप्त्यर्थे। आस दिदीपे। प्रवृत्त इत्यर्थः। भागवते च – मैत्रेयेणास सङ्गमः (भा॰पु॰ ३.१.३) भगवानेक आसेदम् (भा॰पु॰ ३.५.२३) निष्क्रामति निर्विशती द्विधाऽऽस सा (भा॰पु॰ ४.४.१) असन्नपि क्लेशद आस देहः (भा॰पु॰ ५.५.४) न यदिदमग्र आस न भविष्यदतो निधनात् (भा॰पु॰ १०.८७.३७)। यद्वा अस्धातोर्लिटि छान्दसवैकल्पिकप्रयोगोऽयम्। तथा च बहुलं छन्दसि (पा॰सू॰ २.४.७३) इति सूत्रे मण्डूकप्लुत्या अस्तेर्भूः (पा॰सू॰ २.४.५२) इति सूत्रं चाप्यनुवर्तनीयम्। तेन क्वचिदादेशाप्रवृत्तिः। यथा – तस्य ह नचिकेता नाम पुत्र आस (क॰उ॰ १.१.१) इत्यत्र श्रीराघवकृपाभाष्ये ग्रन्थप्रणेतारः – आस बभूव। अत्र ‘बहुलं छन्दसि’ (पा॰सू॰ २.४.७३) इत्यप्रवृत्तिलक्षणबाहुलकेन ‘अस्तेर्भूः’ (पा॰सू॰ २.४.५२) इत्यस्याप्रवृत्तौ ‘आस’ इति छान्दसप्रयोगः (क॰उ॰ रा॰कृ॰भा॰ १.१.१)। असँ भुवि (धा॰पा॰ १०६५) → अस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → अस् लिट् → अस् तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → अस् णल् → अस् अ → बहुलं छन्दसि (पा॰सू॰ २.४.७३) → भ्वादेशाप्रवृत्तिः → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → अस् अस् अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → अ अस् अ → अत आदेः (पा॰सू॰ ७.४.७०) → आ अस् अ → अत उपधायाः (पा॰सू॰ ७.२.११६) → आ आस् अ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → आस् अ → आस। छन्दसि द्वयोरपि रूपयोः प्रयोगः। द॒क्षाय्यो॒ यो दम॒ आस॒ नित्य॑ (ऋ॰वे॰सं॰ ७.१.२) इत्यत्र आस। अ॒रान्न ने॒मिः परि॒ ता ब॑भूव (ऋ॰वे॰सं॰ १.३२.१५) इत्यत्र बभूव च।
[८३] मुदँ हर्षे (धा॰पा॰ १६) → मुद् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → मुद् लिट् → मुद् त → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → मुद् एश् → मुद् ए → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → मुद् मुद् ए → हलादिः शेषः → मु मुद् ए → असंयोगाल्लिट् कित् (पा॰सू॰ १.२.५) → कित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → मु मुद् ए → मुमुदे।
[८४] भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[८५] मोद → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → मोद णिच् → मोद इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → मोद् इ → मोदि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → मोदि लट् → मोदि तिप् → मोदि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → मोदि शप् ति → मोदि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → मोदे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → मोदय् अ ति → मोदयति।
[८६] मोदि → धातुसञ्ज्ञा (पूर्ववत्) → क्विप् च (पा॰सू॰ ३.२.७६) → मोदि क्विँप् → मोदि व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → मोदि → णेरनिटि (पा॰सू॰ ६.४.५१) → मोद् → विभक्तिकार्यम् → मोद् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → मोद् → वाऽवसाने (पा॰सू॰ ८.४.५६) → मोद्, मोत्।
[८७] मोद् → सर्वप्रातिपतिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → मोद् क्विँप् → मोद् व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → मोद् → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → मोद् लट् → मोद् तिप् → मोद् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → मोद् शप् ति → मोद् अ ति → मोदति।
[८८] मोद् → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → मोद् लिट् → मोद् तिप् → मोद् ति → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → मोद् ण → मोद् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → मोद् मोद् अ → हलादिः शेषः → मो मोद् अ → ह्रस्वः (पा॰सू॰ ७.४.५९) → एच इग्घ्रस्वादेशे (पा॰सू॰ १.१.४८) → मु मोद् अ → मुमोद। मोदयितेवाऽचचारेति मुमोद। वस्तुतस्तु जनको योगिराजस्तस्य कुतो मोद इति भावः। यद्वा अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इत्यपि समाधानम्। मुदँ हर्षे (धा॰पा॰ १६) → मुद् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → मुद् लिट् → मुद् तिप् → मुद् ति → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → मुद् ण → मुद् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → मुद् मुद् अ → हलादिः शेषः → मु मुद् अ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → मु मोद् अ → मुमोद।
[८९] डुदाञ् दाने (धा॰पा॰ १०९१) → दा → भावकर्मणोः (पा॰सू॰ १.३.१३) → लोट् च (पा॰सू॰ ३.३.१६२) → दा लोट् → दा त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → दा यक् त → दा य त → घुमास्थागापाजहातिसां हलि (पा॰सू॰ ६.४.६६) → दी य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → दी य ते → आमेतः (पा॰सू॰ ३.४.९०) → दी य ताम् → दीयताम्।
[९०] सम्प्रश्नार्थ इति भावः। विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) इत्यत्र सम्प्रश्न इत्युपादानेन।
[९१] डुदाञ् दाने (धा॰पा॰ १०९१) → दा → भावकर्मणोः (पा॰सू॰ १.३.१३) → आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) → दा लिङ् → दा त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → दा यक् त → दा य त → घुमास्थागापाजहातिसां हलि (पा॰सू॰ ६.४.६६) → दी य त → लिङः सीयुट् (पा॰सू॰ ३.४.१०२) → दी य सीयुँट् त → दी य सीय् त → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → दी य सीय् सुँट् त → दी य सीय् स् त → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → दी य ईय् त → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → दी य ई त → आद्गुणः (पा॰सू॰ ६.१.८७) → दी ये त → दीयेत।
[९२] डुदाञ् दाने (धा॰पा॰ १०९१) → दा → भावकर्मणोः (पा॰सू॰ १.३.१३) → धातुसम्बन्धे प्रत्ययाः (पा॰सू॰ ३.४.१) → दा लट् → दा त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → दा यक् त → दा य त → घुमास्थागापाजहातिसां हलि (पा॰सू॰ ६.४.६६) → दी य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → दी य ते → दीयते।
[९३] त्रैङ् पालने (धा॰पा॰ ९६५) → त्रै → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लोट् च (पा॰सू॰ ३.३.१६२) → त्रै लोट् → त्रै थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → त्रै शप् थास् → त्रै अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → त्राय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → त्राय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → त्राय् अ स्व → त्रायस्व।
[९४] भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाददादिगण ऊह्योऽयं त्राधातू रक्षण इति भावः। त्रा रक्षणे (अदादिगण ऊह्यः) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → त्रा लोट् → त्रा सिप् → त्रा सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → त्रा शप् सि → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → त्रा सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → त्रा हि → त्राहि।
[९५] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → भू लिङ् → भू तिप् → भू ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भू शप् ति → भू अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → भो अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → भव् अ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भव् अ यासुँट् ति → भव् अ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भव् अ यास् सुँट् ति → भव् अ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → भव् अ या ति → अतो येयः (पा॰सू॰ ७.२.८०) → भव् अ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → भव् अ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → भव् ए ति → इतश्च (पा॰सू॰ ३.४.१००) → भव् ए त् → भवेत्।
[९६] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भू लट् → भू तिप् → भू ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भू शप् ति → भू अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → भो अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → भव् अ ति → भवति।
[९७] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → आशिषि लिङ्लोटौ (पा॰सू॰ ३.३.१७३) → भू लिङ् → भू तिप् → भू ति → लिङाशिषि (पा॰सू॰ ३.४.११६) → शबभावः → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भू यासुँट् ति → भू यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भू यास् सुँट् ति → भू यास् स् ति → किदाशिषि (पा॰सू॰ ३.४.१०४) → कित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → इतश्च (पा॰सू॰ ३.४.१००) → भू यास् स् त → स्कोः संयोगाद्योरन्ते च (पा॰सू॰ ८.२.२९) → भू या त् → भूयात्।
[९८] भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाददादिगण ऊह्योऽयं भूधातुः सत्तायामिति भावः। भू सत्तायाम् (अदादिगण ऊह्यः) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) → भू लिङ् → भू ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भू शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → भू ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भू यासुँट् ति → भू यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भू यास् सुँट् ति → भू यास् स् ति → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → इतश्च (पा॰सू॰ ३.४.१००) → भू यास् स् त् → स्कोः संयोगाद्योरन्ते च (पा॰सू॰ ८.२.२९) → भू या त् → भूयात्।
[९९] मुहँ वैचित्ये (धा॰पा॰ ११९८) → मुह् → हेतुमति च (पा॰सू॰ ३.१.२६) → मुह् णिच् → मुह् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → मोह् इ → मोहि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → मोहि लोट् → मोहि सिप् → मोहि सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → मोहि शप् सि → मोहि अ सि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → मोहे अ सि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → मोहय् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → मोहय् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → मोहय् अ → मोहय।
[१००] णशँ अदर्शने (धा॰पा॰ ११९४) → णश् → णो नः (पा॰सू॰ ६.१.६५) → नश् → हेतुमति च (पा॰सू॰ ३.१.२६) → नश् णिच् → नश् इ → अत उपधायाः (पा॰सू॰ ७.२.११६) → नाश् इ → नाशि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः (पा॰सू॰ १.३.८६) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → नाशि लट् → नाशि मिप् → नाशि मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नाशि शप् मि → नाशि अ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → नाशे अ मि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → नाशय् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → नाशय् आ मि → नाशयामि।
[१०१] नाश → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → नाश णिच् → नाश इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → नाश् इ → नाशि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → नाशि लट् → नाशि तिप् → नाशि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नाशि शप् ति → नाशि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → नाशे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → नाशय् अ ति → नाशयति।
[१०२] नाशि → धातुसञ्ज्ञा (पूर्ववत्) → क्विप् च (पा॰सू॰ ३.२.७६) → नाशि क्विँप् → नाशि व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → नाशि → णेरनिटि (पा॰सू॰ ६.४.५१) → नाश् → विभक्तिकार्यम् → नाश् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → नाश् → अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) → षत्वाभावः → जश्त्वाभावः → नाश्।
[१०३] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) इत्यस्याप्रवृत्तेः।
[१०४] झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यस्याप्रवृत्तेः।
[१०५] कटी गतौ (धा॰पा॰ ३२०) इत्यत्रेकारप्रश्लेषपक्षे गतौ इधातुरपि। इ इति चतुर्थधातुवादिनाम् – अयति (मा॰धा॰वृ॰ १.२१५)। इ गतौ (धा॰पा॰ ३२०) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इ लट् → इ मिप् → इ मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → इ शप् मि → इ अ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → ए अ मि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → अय् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → अय् आ मि → अयामि। यद्वा अयत इत्ययः। अयँ गतौ (धा॰पा॰ ४७४) इति धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि पचाद्यचि विभक्तिकार्ये। ततः अय इवाऽचरामीत्ययामि। अय → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → अय क्विँप् → अय व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → अय → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → अय लट् → अय मिप् → अय मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अय शप् मि → अय अ मि → अतो गुणे (पा॰सू॰ ६.१.९७) → अय मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → अया मि → अयामि।
[१०६] अनद्यतने लुट् (पा॰सू॰ ३.३.१५) इत्यनेन।
[१०७] अभि षिचँ क्षरणे (धा॰पा॰ १४३४) → अभि षिच् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → अभि सिच् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → अभि सिच् लृट् → अभि सिच् मिप् → अभि सिच् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → अभि सिच् स्य मि → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → अभि सेच् स्य मि → चोः कुः (पा॰सू॰ ८.२.३०) → अभि सेक् स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → अभि सेक् स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → अभि षेक् ष्या मि → अभिषेक्ष्यामि।
[१०८] प्र विशँ प्रवेशने (धा॰पा॰ १४२४) → प्र विश् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र विश् लोट् → प्र विश् सिप् → प्र विश् सि → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → प्र विश् श सि → प्र विश् अ सि → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → प्र विश् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → प्रविश।
[१०९] प्र विशँ प्रवेशने (धा॰पा॰ १४२४) → प्र विश् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र विश् लोट् → प्र विश् थास् → प्र विश् थास् → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → प्र विश् श थास् → प्र विश् अ थास् → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → थासस्से (पा॰सू॰ ३.४.८०) → प्र विश् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → प्र विश् अ स्व → प्रविशस्व।
[११०] स्त्रियां भावे क्विप्। प्र विशँ प्रवेशने (धा॰पा॰ १४२४) → प्र विश् → सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) → प्र विश् क्विँप् → प्र विश् व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → प्र विश् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → प्रविश् → विभक्तिकार्यम् → प्रविश् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) → षत्वाभावः → जश्त्वाभावः → प्रविश्।
[१११] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) इत्यस्याप्रवृत्तेः।
[११२] झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यस्याप्रवृत्तेः।
[११३] अस्वमात्मभिन्नं कपटम्। अस्वेन कपटेनातिक्रामतीति अस्वयति। अस्व → तेनातिक्रामति (धा॰पा॰ ग॰सू॰ १८८) → अस्व णिच् → अस्व इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → अस्व् इ → अस्वि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → अस्वि लट् → अस्वि तिप् → अस्वि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अस्वि शप् ति → अस्वि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → अस्वे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → अस्वय् अ ति → अस्वयति। प्रविशम् अस्वयति इति स्थिते सह सुपा (पा॰सू॰ २.१.४) इत्यत्र सह इति योगविभागात्सुबन्तस्य तिङन्तेन समासे प्रविशस्वयति। पर्यभूषयत् (वै॰सि॰कौ॰ ९३९) इतिवत्। तत्रत्या बालमनोरमा च – ‘पर्यभूषयदिति॥’ ‘सह सुपा’ इत्यत्र सहेति योगविभागात् परीति सुबन्तस्य तिङन्तेन समासः (बा॰म॰ ९३९)।
[११४] अस्वयतीत्यस्वः। अस्विनामधातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि पचाद्यचि। प्रविशि अस्वः इति प्रविशस्वः। सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इत्यत्र सप्तमी इति योगविभागात्समासः। यद्वा सह सुपा (पा॰सू॰ २.१.४) इत्यनेन सुप्सुपासमासः।
[११५] प्रविशस्व → सर्वप्रातिपतिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → प्रविशस्व क्विप् → प्रविशस्व व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → प्रविशस्व → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → प्रविशस्व लट् → प्रविशस्व तिप् → प्रविशस्व ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रविशस्व शप् ति → प्रविशस्व अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → प्रविशस्व ति → प्रविशस्वति।
[११६] प्रविशस्व → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्रविशस्व लोट् → प्रविशस्व सिप् → प्रविशस्व सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रविशस्व शप् सि → प्रविशस्व अ सि → अतो गुणे (पा॰सू॰ ६.१.९७) → प्रविशस्व सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → प्रविशस्व हि → अतो हेः (पा॰सू॰ ६.४.१०५) → प्रविशस्व।
[११७] स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) इत्यनेन। डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → कृ लिट् → कृ इट् → कृ इ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → कृ कृ इ → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् कृ ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → क कृ ए → कुहोश्चुः (पा॰सू॰ ७.४.६२) → च कृ ए → असंयोगाल्लिट् कित् (पा॰सू॰ १.२.५) → कित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → इको यणचि (पा॰सू॰ ६.१.७७) → च क्र् ए → चक्रे।
[११८] वसँ निवासे (धा॰पा॰ १००५) → वस् → हेतुमति च (पा॰सू॰ ३.१.२६) → वस् णिच् → वस् इ → अत उपधायाः (पा॰सू॰ ७.२.११६) → वास् इ → वासि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। वि वासि → भावकर्मणोः (पा॰सू॰ १.३.१३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वि वासि लृट् → वि वासि त → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वि वासि स्य त → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → वि वासि इट् स्य त → वि वासि इ स्य त → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → वि वासे इ स्य त → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → वि वासय् इ स्य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वि वासय् इ स्य ते → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वि वासय् इ ष्य ते → विवासयिष्यते।
[११९] वि वासि (पूर्ववत्) → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → वि वासि लट् → वि वासि त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → वि वासि यक् त → वि वासि य त → णेरनिटि (पा॰सू॰ ६.४.५१) → वि वास् य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वि वास् य ते → विवास्यते।
[१२०] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन।
[१२१] तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[१२२] पूर्वपक्षोऽयम्।
[१२३] अयमपि पूर्वपक्षः।
[१२४] उत्तरपक्षोऽयम्। श्नाभ्यस्तयोरातः (पा॰सू॰ ६.४.११२) इत्यनेनाकारलोपे अजानि इति रूपम्। ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → अनुपसर्गाज्ज्ञः (पा॰सू॰ १.३.७६) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → ज्ञा लङ् → ज्ञा इट् → ज्ञा इ → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् ज्ञा इ → अ ज्ञा इ → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → अ ज्ञा श्ना इ → अ ज्ञा ना इ → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → अ जा ना इ → श्नाभ्यस्तयोरातः (पा॰सू॰ ६.४.११२) → अ जा न् इ → अजानि।
[१२५] स्म इत्यध्याहार्यमिति भावः। ज्ञा अवबोधने (धा॰पा॰ १५०७) → ज्ञा → अनुपसर्गाज्ज्ञः (पा॰सू॰ १.३.७६) → लट् स्मे (पा॰सू॰ ३.२.११८) → ज्ञा लट् → ज्ञा इट् → ज्ञा इ → क्र्यादिभ्यः श्ना (पा॰सू॰ ३.१.८१) → ज्ञा श्ना इ → ज्ञा ना इ → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → जा ना इ → श्नाभ्यस्तयोरातः (पा॰सू॰ ६.४.११२) → जा न् इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → जा न् ए → जाने।
[१२६] पुरा इत्यध्याहार्यमिति भावः। सिद्धिः पूर्ववत्।
[१२७] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। त्यजँ हानौ (धा॰पा॰ ९८६) → त्यज् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → त्यज् लृट् → त्यज् इट् → त्यज् इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → त्यज् स्य इ → चोः कुः (पा॰सू॰ ८.२.३०) → त्यक् स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → त्यक् स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → त्यक् स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → तयक् ष्ये → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → त्यक्ष्ये।
[१२८] पूर्वपक्षोऽयम्।
[१२९] शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति (वा॰रा॰ २.१०३.१४) इति गोविन्दराजीयटीकापाठः।
[१३०] अयमपि पूर्वपक्ष इति बोध्यम्।
[१३१] एरच् (पा॰सू॰ ३.३.५६) इत्यनेन अच्प्रत्यये। शीङ् स्वप्ने (धा॰पा॰ १०३२) → शी → एरच् (पा॰सू॰ ३.३.५६) → शी अच् → शी अ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → शे अ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → शय् अ → शय → विभक्तिकार्यम् → शयः। शयशब्दः शय्यायामपि। शयः शय्याहिपाणिषु (मे॰को॰ २६.५७) इति मेदिनी। तत्र घप्रत्ययः। शीङ् स्वप्ने (धा॰पा॰ १०३२) → पुंसि संज्ञायां घः प्रायेण (पा॰सू॰ ३.३.११८) → शी घ → शी अ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → शे अ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → शय् अ → शय → विभक्तिकार्यम् → शयः।
[१३२] शय → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → शय क्विँप् → शय व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → शय → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → शय लट् → शय त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → शय शप् त → शय अ त → अतो गुणे (पा॰सू॰ ६.१.९७) → शय त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → शय ते → शयते।
[१३३] शय → धातुसञ्ज्ञा (पूर्ववत्) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → शय लृट् → शय इट् → शय इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → शय स्य इ → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → शय इट् स्य इ → शय इ स्य ति → अतो लोपः (पा॰सू॰ ६.४.४८) → शय् इ स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → शय् इ स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → शय् इ स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → शय् इ ष्ये → शयिष्ये।
[१३४] इषुँ इच्छायाम् धा॰पा॰ १३५१) → इष् → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इष् लट् → इष् इट् → इष् इ → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) इष् यक् इ → इष् य इ → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → इष् य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → इष् य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → इष् ये → इष्ये।
[१३५] पूर्वपक्षं मत्वैवैते द्वे समाधाने उक्ते।
[१३६] शयित्वा पुरुषव्याघ्रः कथं शेते महीतले (वा॰रा॰ २.८८.४)।
[१३७] आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२)। शेष्ये (वा॰रा॰ २.१०३.१४) इत्यत्र भूषणकारा गोविन्दराजाश्च – शेष्ये शयिष्ये। इडभाव आर्षः (वा॰रा॰ भू॰टी॰ २.१०३.१४)।
[१३८] उप आङ् या प्रापणे (धा॰पा॰ १०४९) → उप आ या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → उप आ या लङ् → उप आ या तिप् → उप आ या ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → उप आ अट् या ति → उप आ अ या ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → उप आ अ या शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → उप आ अ या ति → इतश्च (पा॰सू॰ ३.४.१००) → उप आ अ या त् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → उपा अ या त् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → उपा या त → उपायात्।
[१३९] स्म इत्यध्याहार्यमिति भावः।
[१४०] उप आङ् या प्रापणे (धा॰पा॰ १०४९) → उप आ या → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → उप आ या लट् → उप आ या तिप् → उप आ या ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → उप आ या शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → उप आ या ति → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → उपा या ति → उपायाति।
[१४१] विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन।
[१४२] विद्म इत्यत्राडभावान्न लुङ्लङ्लृङो विसर्गाभावान्न लड्द्वित्वाभावान्न लिट्स्यतास्यभावाच्च न लृलुटावित्याशङ्क्य पूर्वपक्षोऽयम्।
[१४३] विदँ ज्ञाने (धा॰पा॰ १०६४) → विद् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → शकि लिङ् च (पा॰सू॰ ३.३.१७२) → विद् लिङ् → विद् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विद् शप् मस् → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → विद् मस् → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → विद् यासुँट् मस् → विद् यास् मस् → ग्क्ङिति च (पा॰सू॰ १.१.५) → पुगन्तलघूपधगुणनिषेधः → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → विद् या मस् → नित्यं ङितः → विद् या म → विद्याम।
[१४४] विदँ ज्ञाने (धा॰पा॰ १०६४) → विद् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अर्हे कृत्यतृचश्च (पा॰सू॰ ३.३.१६९) → विद् लोट् → विद् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विद् शप् मस् → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → विद् मस् → आडुत्तमस्य पिच्च (पा॰सू॰ ३.४.९२) → विद् आट् मस् → विद् आ मस् → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → वेद् आ मस् → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → नित्यं ङितः → वेद् आ म → वेदाम।
[१४५] हे इति पृथक्पदमिति भावः। विदँ ज्ञाने (धा॰पा॰ १०६४) → विद् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → विद् लट् → विद् मस् → विदो लटो वा (पा॰सू॰ ३.४.८३) → विद् म → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विद् शप् म → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → विद् म → विद्म।
[१४६] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[१४७] विदँ ज्ञाने (धा॰पा॰ १०६४) → विद् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → विद् लट् → विद् महिङ् → विद् महि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विद् शप् महि → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → विद् महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → विद् महे → विद्महे।
[१४८] हनँ हिंसागत्योः (धा॰पा॰ १०१२) → हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → हन् लृट् → हन् मिप् → हन् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → हन् स्य मि → ऋद्धनोः स्ये (पा॰सू॰ ७.२.७०) → हन् इट् स्य मि → हन् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → हन् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → हन् इ ष्या मि → हनिष्यामि।
[१४९] बहुलमेतन्निदर्शनम् (धा॰पा॰ ग॰सू॰ १९३८) आकृतिगणोऽयम् (धा॰पा॰ ग॰सू॰ १९९२) भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाच्चुरादिगण ऊह्योऽयमाधृषीयो धातुर्हिंसायाम्।
[१५०] आ धृषाद्वा (धा॰पा॰ ग॰सू॰ १८०६) इत्यनेन वैकल्पिको णिच्। तेनात्र णिजभावः।
[१५१] वध् → आ धृषाद्वा (धा॰पा॰ ग॰सू॰ १८०६) → णिजभावः → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वध् लृट् → वध् मिप् → वध् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वध् स्य मि → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → वध् इट् स्य मि → वध् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → वध् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वध् इ ष्या मि → वधिष्यामि।
[१५२] वध → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → वध क्विँप् → वध व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → वध → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → वध लट् → वध तिप् → वध ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → वध शप् ति → वध अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → वध ति → वधति।
[१५३] वध → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वध लृट् → वध मिप् → वध मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वध स्य मि → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → वध इट् स्य मि → वध इ स्य मि → अतो लोपः (पा॰सू॰ ६.४.४८) → वध् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → वध् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वध् इ ष्या मि → वधिष्यामि।
[१५४] तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[१५५] मृङ् प्राणत्यागे (धा॰पा॰ १४०३) → मृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → मृ लृट् → मृ मिप् → मृ मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → मृ स्य मि → ऋद्धनोः स्ये (पा॰सू॰ ७.२.७०) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → मृ इट् स्य मि → मृ इ स्य मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → म इ स्य मि → उरण् रपरः (पा॰सू॰ १.१.५१) → मर् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → मर् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → मर् इ ष्या मि → मरिष्यामि।
[१५६] कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन मृधातोः अप्प्रत्ययः। मरणं मरः। ‘कृत्यल्युटो बहुलम्’ (पा॰सू॰ ३.३.११३) इत्यप्। तेनायमपि पूर्ववदाद्युदात्तः (का॰वि॰प॰ ६.२.११४) इति जिनेन्द्रबुद्धिः। यद्वा नञो जरमरमित्रमृताः (पा॰सू॰ ६.२.११६) इत्यत्र निपातनात्सिद्धम्। जरणं जरः ‘ॠदोरप्’ (पा॰सू॰ ३.३.५७)। मरणं मरः। अमरम्। अस्मादेव निपातनादप् (त॰बो॰ ३८५०, ६.२.११६) इति ज्ञानेन्द्रसरस्वती च।
[१५७] मर → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → मर क्विँप् → मर व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → मर → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → मर लट् → मर त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → मर शप् त → मर अ त → अतो गुणे (पा॰सू॰ ६.१.९७) → मर त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → मर ते → मरते।
[१५८] मर → धातुसञ्ज्ञा (पूर्ववत्) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → मर लृट् → मर इट् → मर इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → मर स्य इ → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → मर इट् स्य इ → मर इ स्य इ → अतो लोपः (पा॰सू॰ ६.४.४८) → मर् इ स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → मर् इ स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → मर् इ स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → मर् इ ष्ये → मरिष्ये।
[१५९] इषँ गतौ (धा॰पा॰ ११२७) → इष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इष् लट् → इष् तिप् → इष् ति → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → इष् शयन् ति → इष् य ति → इष्यति। मरम् इष्यति इति स्थिते शकन्ध्वादिषु पररूपं वाच्यम् (वा. ६.१.९१) इत्यनेन पररूपे मरिष्यति।
[१६०] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[१६१] इषँ गतौ (धा॰पा॰ ११२७) → इष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इष् लट् → इष् इट् → इष् इ → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → इष् शयन् इ → इष् य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → इष् य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → इष् ये → इष्ये। मरम् इष्ये इति स्थिते शकन्ध्वादिषु पररूपं वाच्यम् (वा. ६.१.९१) इत्यनेन पररूपे मरिष्ये।
[१६२] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[१६३] दृशिँर प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → दृश् लृट् → दृश् महिङ् → दृश् महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → दृश् स्य महि → सृजिदृशोर्झल्यमकिति (पा॰सू॰ ६.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → दृ अम् श् स्य महि → दृ अ श् स्य महि → इको यणचि (पा॰सू॰ ६.१.७७) → द्र् अ श् स्य महि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) → द्र् अ ष् स्य महि → षढोः कः सि (पा॰सू॰ ८.२.४१) → द्र् अ क् स्य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → द्र् अ क् स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → द्र् अ क् स्या महे → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → द्र् अ क् ष्या महे → द्रक्ष्यामहे।
[१६४] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। सम् प्रच्छँ ज्ञीप्सायाम् (धा॰पा॰ १४१३) → सम् प्रच्छ् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → सम् प्रच्छ् लङ् → सम् प्रच्छ् त → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → सम् प्रच्छ् श त → प्रच्छ् अ थास् → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङिद्वत्त्वम् → ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (पा॰सू॰ ६.१.१६) → सम् पृ अ च्छ् अ त → सम्प्रसारणाच्च (पा॰सू॰ ६.१.१०८) → सम् पृ च्छ् अ त → सम् पृ च्छ् अ त → समपृच्छत। विदिप्रच्छिस्वरतीनामुपसङ्ख्यानम् इत्युपसङ्ख्यानस्याकर्मकाधिकारादत्राप्रवृत्तिः। यद्वा अतिखिन्नं नृपं कैकेयीं च दृष्ट्वा इत्यन्वयेन कर्मणोऽविवक्षायामकर्मकत्वादात्मनेपदम्। अनेनैवोपसङ्ख्यानेन।
[१६५] शासुँ अनुशिष्टौ (धा॰पा॰ १०७४) इति धातोर्लोड्लकारे प्रथमपुरुष एकवचने शास्तु इति रूपम्। यथा त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् (वा॰रा॰ ४.२१.९) इति वाल्मीकिप्रयोगे। शासुँ → शास् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → शास् लोट् → शास् तिप् → शास् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → शास् शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → शब्लुक् → शास् ति → एरुः (पा॰सू॰ ३.४.८६) → शास् तु → शास्तु। गणकार्यमनित्यम् (प॰शे॰ ९३.३) इति परिभाषयाऽत्र अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) इत्यस्याप्रवृत्तौ शब्लुगभावे शास् शप् ति → शास् अ ति → एरुः (पा॰सू॰ ३.४.८६) → शास् अ तु → शासतु इति सिद्धम्।
[१६६] या प्रापणे (धा॰पा॰ १०४९) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → या लृट् → या मिप् → या मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → या स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → या स्या मि → यास्यामि।
[१६७] तस्मात् कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदमिति भावः। या प्रापणे (धा॰पा॰ १०४९) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → या लृट् → या इट् → या इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → या स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → या स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → या स्ये → यास्ये।
[१६८] एतद्रूपान्तरम्–अन्ते निवासो विपिने समीचीनो महीपतेः। किन्तु दृष्ट्वा तवावस्थां दुःखं मे मनसि स्थितम्॥ (मा॰भा॰ २.५६.४)।
[१६९] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → कृ लङ् → कृ त → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् कृ त → अ कृ त → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → अ कृ उ त → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → अ क् अर् उ त → अत उत्सार्वधातुके (पा॰सू॰ ६.४.११०) → अ क् उर् उ त → अकुरुत।
[१७०] स्म इत्यध्याहार्यमिति भावः। डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) → लट् स्मे (पा॰सू॰ ३.२.११८) → कृ लट् → कृ त → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → कृ उ त → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → क् अर् उ त → अत उत्सार्वधातुके (पा॰सू॰ ६.४.११०) → क् उर् उ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → क् उर् उ ते → कुरुते।
[१७१] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[१७२] लट् स्मे (पा॰सू॰ ३.२.११८) इत्यनेन। स्म इत्यध्याहार्यमिति भावः। ध्यै चिन्तायाम् (धा॰पा॰ ९०८) → ध्यै → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लट् स्मे (पा॰सू॰ ३.२.११८) → ध्यै लट् → ध्यै त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → ध्यै शप् त → ध्यै अ त → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → ध्याय् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → ध्याय् अ ते → ध्यायते।
[१७३] आङ् गमॢँ गतौ (धा॰पा॰ ९८२) → आ गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → आ गम् लृँट् → आ गम् मिप् → आ गम् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → आ गम् स्य मि → गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) → आ गम् इट् स्य मि → आ गम् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → आ गम् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → आ गम् इ ष्या ति → आगमिष्यामि।
[१७४] आङ् गमॢँ गतौ (धा॰पा॰ ९८२) → क्विप् च (पा॰सू॰ ३.२.७६) → आ गम् क्विँप् → आ गम् व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → आ गम् → आगम् → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → विभक्तिकार्यम् → आगम् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → आगम्।
[१७५] इषँ गतौ (धा॰पा॰ ११२७) → इष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इष् लट् → इष् इट् → इष् इ → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → इष् शयन् इ → इष् य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → इष् य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → इष् ये → इष्ये।
[१७६] जनीँ प्रादुर्भावे (धा॰पा॰ ११४९) → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → जन् लट् → जन् त → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → जन् श्यन् त → जन् य त → ज्ञाजनोर्जा (पा॰सू॰ ७.३.७९) → जा य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → जा य ते → जायते।
[१७७] णीञ् प्रापणे (धा॰पा॰ ९०१) → णी → णो नः (पा॰सू॰ ६.१.६५) → नी → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → नी लृट् → नी मिप् → नी मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → नी स्य मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → ने स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → ने स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → ने ष्या मि → नेष्यामि।
[१७८] उपउपसर्गस्य लोप इति भावः।
[१७९] उप णीञ् प्रापणे (धा॰पा॰ ९०१) → उप णी → णो नः (पा॰सू॰ ६.१.६५) → उप नी → सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → उप नी लृट् → उप नी इट् → उप नी इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → उप नी स्य इ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उप ने स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → उप ने स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → उप ने स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → उप ने ष्ये → विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) → ने ष्ये → नेष्ये।
[१८०] ओँहाक् त्यागे (धा॰पा॰ १०९०) → हा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → हा लृट् → हा सिप् → हा सि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → हा स्य सि → हास्यसि।
[१८१] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। ओँहाक् त्यागे (धा॰पा॰ १०९०) → हा → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → हा लृट् → हा थास् → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → हा स्य थास् → थासस्से (पा॰सू॰ ३.४.८०) → हा स्य से → हास्यसे।
[१८२] ओँहाक् त्यागे (धा॰पा॰ १०९०) इति धातोः कर्मणि लृटि मध्यमपुरुष एकवचने हास्यसे हायिष्यसे इति रूपद्वयम्। अचिण्वद्भाव इडभावे हास्यसे इति रूपम्। हा → भावकर्मणोः (पा॰सू॰ १.३.१३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → हा लृट् → हा थास् → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → हा स्य थास् → थासस्से (पा॰सू॰ ३.४.८०) → हा स्य से → हास्यसे। पक्षे चिण्वद्भाव इडागमे हायिष्यसे इति रूपम्। हा → भावकर्मणोः (पा॰सू॰ १.३.१३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → हा लृट् → हा थास् → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → हा स्य थास् → स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (पा॰सू॰ ६.४.६२) → हा इट् स्य थास् → हा इ स्य थास् → आतो युक् चिण्कृतोः (पा॰सू॰ ७.३.३३) → हा युँक् इ स्य थास् → हा य् इ स्य थास् → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → हा य् इ ष्य थास् → थासस्से (पा॰सू॰ ३.४.८०) → हा य् इ ष्य से → हायिष्यसे।
[१८३] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। इषँ इच्छायाम् (धा॰पा॰ १३५१) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् → इष् लट् → इष् थास् → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → इष् श थास् → इष् अ थास् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → इछ् अ थास् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → इतुँक् छ् अ थास् → इत् छ् अ थास् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → इच् छ् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → इच् छ् अ से → इच्छसे।
[१८४] रमुँ क्रीडायाम् (धा॰पा॰ ८५३) → रम् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → रम् लृट् → रम् इट् → रम् इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → रम् स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → रम् स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → रम् स्ये → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → रं स्ये → रंस्ये।
[१८५] स्म इत्यध्याहार्यमिति भावः।
[१८६] आङ् रम् → आ रम् → व्याङ्परिभ्यो रमः (पा॰सू॰ १.३.८३) → लट् स्मे (पा॰सू॰ ३.२.११८) → आ रम् लट् → आ रम् मिप् → आ रम् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ रम् शप् मि → आ रम् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → आ रम् आ मि → आरमामि।
[१८७] यद्वा अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इत्यपि समाधानम्। रमुँ क्रीडायाम् (धा॰पा॰ ८५३) → रम् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → रम् लट् → रम् मिप् → रम् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → रम् शप् मि → रम् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → रम् आ मि → रमामि।
[१८८] बहुलमेतन्निदर्शनम् (धा॰पा॰ ग॰सू॰ १९३८) भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारं दिवादिगण ऊह्योऽयं द्रक्ष्धातुर्दर्शने।
[१८९] द्रक्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → द्रक्ष् लट् → द्रक्ष् थ → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → द्रक्ष् श्यन् थ → द्रक्ष् य थ → द्रक्ष्यथ।
[१९०] दृशिँर प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अभिज्ञावचने लृट् (पा॰सू॰ ३.२.११२) → दृश् लृट् → दृश् थ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → दृश् स्य थ → सृजिदृशोर्झल्यमकिति (पा॰सू॰ ६.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → दृ अम् श् स्य थ → दृ अ श् स्य थ → इको यणचि (पा॰सू॰ ६.१.७७) → द्र् अ श् स्य थ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) → द्र् अ ष् स्य थ → षढोः कः सि (पा॰सू॰ ८.२.४१) → द्र् अ क् स्य थ → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → द्र् अ क् ष्य थ → द्रक्ष्यथ।
[१९१] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। जीवँ प्राणधारणे (धा॰पा॰ ५६२) → जीव् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → जीव् लट् → जीव् मिप् → जीव् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → जीव् शप् मि → जीव् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → जीव् आ मि → जीवामि।
[१९२] शकि लिङ् च (पा॰सू॰ ३.३.१७२) इत्यत्र मण्डूकप्लुत्या स्मे लोट् (पा॰सू॰ ३.३.१६५) इत्यतः लोट् इत्यनुवर्तनीयमिति भावः। गमॢँ गतौ (धा॰पा॰ ९८२) → गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → शकि लिङ् च (पा॰सू॰ ३.३.१७२) → गम् लोट् → गम् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गम् शप् मस् → गम् अ मस् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → गछ् अ मस् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → गतुँक् छ् अ मस् → गत् छ् अ मस् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → गच् छ् अ मस् → आडुत्तमस्य पिच्च (पा॰सू॰ ३.४.९२) → गच् छ् अ आट् मस् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → गच् छ् आ मस् → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → नित्यं ङितः → गच् छ् आ म → गच्छाम।
[१९३] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → भू लिट् → भू तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → भू ण → भू अ → भुवो वुग्लुङ्लिटोः (पा॰सू॰ ६.४.८८) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भूवुँक् अ → भूव् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → भूव् भूव् अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → भू भूव् अ → ह्रस्वः (पा॰सू॰ ७.४.५९) → भु भूव् अ → भवतेरः (पा॰सू॰ ७.४.७३) → भ भूव् अ → अभ्यासे चर्च (पा॰सू॰ ८.४.५४) → ब भूव् अ → बभूव।
[१९४] शीङ् स्वप्ने (धा॰पा॰ १०३२) → शी → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → शी लङ् → शी त → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् शी त → अ शी त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ शी शप् त → शीङः सार्वधातुके गुणः (पा॰सू॰ ७.४.२१) → अ शे शप् त → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → अ शे त → अशेत।
[१९५] पुरा इत्यध्याहार्यमिति भावः। शीङ् स्वप्ने (धा॰पा॰ १०३२) → शी → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) → शी लट् → शी त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → शी शप् त → शीङः सार्वधातुके गुणः (पा॰सू॰ ७.४.२१) → शे शप् त → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → शे त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → शे ते → शेते।
[१९६] तमे पृष्ठे इति प्रयोगस्य तमे पृष्ठे इति प्रयोगस्य च विमर्शमपि पश्यन्तु।
[१९७] वदँ व्यक्तायां वाचि (धा॰पा॰ १००९) → वद् → भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (पा॰सू॰ १.३.४७) → लोट् च (पा॰सू॰ ३.३.१६२) → वद् लोट् → वद् थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → वद् शप् थास् → वद् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → वद् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → वद् अ स् व → वदस्व।
[१९८] उपउपसर्गस्य लोप इति भावः। उप ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → उप ष्ठा → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → उप स्था → अकर्मकाच्च (पा॰सू॰ १.३.२६) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → उप स्था लृट् → उप स्था महिङ् → उप स्था महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → उप स्था स्य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → उप स्था स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → उप स्था स्या महे → उप स्थास्यामहे → विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) → स्थास्यामहे।
[१९९] प्रक्रिया पूर्ववत्। ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → स्था (पूर्ववत्) → प्रकाशनस्थेयाख्ययोश्च (पा॰सू॰ १.३.२३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → स्था लृट् → स्था महिङ् → स्था महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → स्था स्य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → स्था स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → स्था स्या महे → स्थास्यामहे।
[२००] स्म इत्यध्याहार्यमिति भावः। ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → ष्ठा → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → स्था → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → स्था लट् → स्था झि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → स्था शप् झि → स्था अ झि → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → तिष्ठ् अ झि → झोऽन्तः (पा॰सू॰ ७.१.३) → तिष्ठ् अ न्ति → तिष्ठन्ति।
[२०१] स्म इत्यध्याहार्यमिति भावः। असँ भुवि (धा॰पा॰ १०६५) → अस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → अस् लट् → अस् मिप् → अस् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अस् शप् मि → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → अस् मि → अस्मि।
[२०२] तथा च वाचस्पत्ये – अस्मि। अव्य॰ अस्–मिन्। अहमर्थे, ‘त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति’ सा॰द॰। ‘अस्मिता’। ‘उडुपेनास्मि सागरम्’ रघुः। ‘ब्रह्मैवास्मि न शोकभाक्।’ योगसूत्रे च – अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः (यो॰सू॰ २.३)।
[२०३] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। रक्षँ पालने (धा॰पा॰ ६५७) → रक्ष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → रक्ष् लोट् → रक्ष् ध्वम् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → रक्ष् शप् ध्वम् → रक्ष् अ ध्वम् → रक्षध्वम्।
[२०४] रक्षः इत्यस्य राक्षस इत्यर्थः। यातुधानः पुण्यजनो नैऋतो यातुरक्षसी (अ॰को॰ १.१.६०) इत्यमरः।
[२०५] रक्षस् ङस् अध्वन् सुँ → अनेकमन्यपदार्थे (पा॰सू॰ २.२.२४) → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → रक्षस् अध्वन् सुँ → शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) → रक्षध्वन् सुँ → पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) → टज्भावः → रक्षध्वन् सुँ → रक्षध्वन् टच् सुँ → रक्षध्वन् अ सुँ → नस्तद्धिते (पा॰सू॰ ६.४.१४४) → रक्षध्व् अ सुँ → रक्षध्व सुँ → रक्षध्वस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → रक्षध्वरुँ → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → रक्षध्वः।
[२०६] रक्षध्व अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → रक्षध्वम्।
[२०७] पात (=रक्षत) इत्यध्याहार्यमिति भावः।
[२०८] निस् क्रमुँ पादविक्षेपे (धा॰पा॰ १९०५) → निस् क्रम् → वृत्तिसर्गतायनेषु क्रमः (पा॰सू॰ १.३.३८) → लोट् च (पा॰सू॰ ३.३.१६२) → निस् क्रम् लोट् → निस् क्रम् थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → निस् क्रम् शप् थास् → निस् क्रम् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → निस् क्रम् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → निस् क्रम् अ स्व → नुम्विसर्जनीयशर्व्यवायेऽपि (पा॰सू॰ ८.३.५८) → निष् क्रम् अ स्व → निष्क्रमस्व।
[२०९] प्र अर्थँ उपयाच्ञायाम् (धा॰पा॰ १९०५) → प्र अर्थ् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → प्र अर्थ् णिच् → प्र अर्थ् इ → प्र अर्थि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → आगर्वादात्मनेपदिनः (धा॰पा॰ ग॰सू॰) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र अर्थि लोट् → प्र अर्थि थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र अर्थि शप् थास् → प्र अर्थि अ थास् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्र अर्थे अ थास् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्र अर्थय् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → प्र अर्थय् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → प्र अर्थय् अ स्व → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → प्रार्थय् अ स्व → प्रार्थयस्व।
[२१०] ‘अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ इति ज्ञापनार्थोऽयं ङकारः। तेन ‘तालैः शिञ्जद्वलयसुभगैः’ ‘तृष्णे जृम्भसि’ ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ इत्यादयः प्रयोगा उपपद्यन्ते (मा॰धा॰वृ॰ २.९)। प्र अर्थि → धातुसञ्ज्ञा (पूर्ववत्) → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र अर्थि लोट् → प्र अर्थि सिप् → प्र अर्थि सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र अर्थि शप् सि → प्र अर्थि अ सि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्र अर्थे अ सि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्र अर्थय् अ से → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → प्र अर्थय् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → प्र अर्थय् अ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → प्रार्थय् अ → प्रार्थय।
[२११] प्रार्थिधातोरौणादिके अयच् प्रत्यये। कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽत्राविहितो अयच् प्रत्ययः। अटच् (प॰उ॰ ४.११४, द॰उ॰ १०.१५) अतच् (प॰उ॰ ३.१०३–१०५, द॰उ॰ ६.१४–१६) अभच् (प॰उ॰ ३.११६–१२०, द॰उ॰ ७.१८–२२) अमच् (प॰उ॰ ५.७३–७४, द॰उ॰ ५.७३–७४) अलच् (प॰उ॰ ५.८१, द॰उ॰ ५.८१) असच् (प॰उ॰ ३.१११–११४, द॰उ॰ ९.४४–४७) इतिवत्। प्र अर्थि → धातुसञ्ज्ञा (पूर्ववत्) → उणादयो बहुलम् (पा॰सू॰ ३.३.१) → प्र अर्थि अयच् → प्र अर्थि अय → णेरनिटि (पा॰सू॰ ६.४.५१) → प्र अर्थ् अय → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → प्रार्थ् अय → प्रार्थय → विभक्तिकार्यम् → प्रार्थय सुँ → प्रार्थय स् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → प्रार्थयरुँ → प्रार्थयर् → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → प्रार्थयः।
[२१२] प्रार्थय → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → प्रार्थय क्विँप् → प्रार्थय व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → प्रार्थय → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्रार्थय लोट् → प्रार्थय सिप् → प्रार्थय सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रार्थय शप् सि → प्रार्थय अ सि → अतो गुणे (पा॰सू॰ ६.१.९७) → प्रार्थय सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → प्रार्थय हि → अतो हेः (पा॰सू॰ ६.४.१०५) → प्रार्थय।
[२१३] यद्वा निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते (वा॰प॰ ३.७.६०) इत्यनुसारं प्राकृतेऽर्थे णावन्याभिप्राये क्रियाफले परस्मैपदे लोटि सिपि शपि हौ हेर्लुकि प्रार्थय। यथा निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः। तेन ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ इत्यादि सिद्धम्। एवं सकर्मकेषु सर्वमूह्यम् (ल॰सि॰कौ॰ २६०७)। यद्वा प्रार्थनं प्रार्थस्तं कुरु इति विग्रह आचारणिजन्ताद्धातोर्लोटि सिपि शपि हौ हेर्लुकि प्रार्थय। यथा प्रार्थनं प्रार्थस्तत्करोति णौ ‘प्रार्थयति’ इति (मा॰धा॰वृ॰ २.९) ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ इत्यादि कृदन्तात्तत्करोतीति णिचि नेयम् (मा॰धा॰वृ॰ १०.२८७)। यत्तु तत्त्वबोधिन्यां केचित्तु परस्मैपदसिद्ध्यर्थं प्रार्थनं प्रार्थस्तं कुर्वन्ति प्रार्थयन्तीति व्याचक्षते तदसत्। धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षित उपसर्गाणां पृथक्करणस्य वक्ष्यमाणतया ‘अर्थवेदे’त्यापुगागमस्य दुर्वारत्वात्। तच्चिन्त्यम्। प्रार्थयित्वा अप्रार्थयत् इत्यादीनां शिष्टप्रयुक्तत्वात् यथा अप्रार्थयत्कामधेनुम् (अ॰पु॰ ४.१६) प्रार्थयित्वा द्विजान् भोज्य (अ॰पु॰ १८४.८) प्रार्थयित्वा विरोधितम् (अ॰शा॰ ८.५.२८) प्रार्थयित्वा द्विजान्नृपान् (ग॰सं॰ १०.५७.१) प्रार्थयित्वा निजेश्वरम् (ना॰पु॰ ६६.१४) तं प्रार्थयित्वा विधिवत् (ब्रह्मा॰पु॰ २.५४.२८) इत्यादिषु। प्रार्थाप्य अप्रार्थापयत् इत्यादिप्रयोगाणामनुपलब्धेश्च। तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[२१४] प्रच्छँ ज्ञीप्सायाम् (धा॰पा॰ १४१३) → प्रच्छ् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → प्रच्छ् लट् → प्रच्छ् थास् → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → प्रच्छ् श थास् → प्रच्छ् अ थास् → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङिद्वत्त्वम् → ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (पा॰सू॰ ६.१.१६) → पृ अ च्छ् अ थास् → सम्प्रसारणाच्च (पा॰सू॰ ६.१.१०८) → पृ च्छ् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → पृ च्छ् अ से → पृच्छसे।
[२१५] ञित्त्वात्कर्त्रभिप्राये क्रियाफले तु सिद्धमेवात्मनेपदम्। परन्त्वत्र कर्त्रभिप्रायो न। क्रियाफलं त्वत्र राममेवाभिप्रैति न कर्तारं मामिति भक्तशिरोमणेर्भरतस्य भावात्। अकर्त्रभिप्राये कथमात्मनेपदमित्याशङ्क्याहुः समाधानम्। णीञ् प्रापणे (धा॰पा॰ ९०१) → णी → णो नः (पा॰सू॰ ६.१.६५) → नी → सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → नी लृट् → नी इट् → नी इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → नी स्य इ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → ने स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → ने स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → ने स्ये → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → ने ष्ये → नेष्ये।
[२१६] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। षेवृँ सेवने (धा॰पा॰ ५०१) → षेव् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → सेव् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लट् स्मे (पा॰सू॰ ३.२.११८) → सेव् लट् → सेव् इट् → सेव् इ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सेव् शप् इ → सेव् अ इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सेव् ए → अतो गुणे (पा॰सू॰ ६.१.९७) → सेवे।
[२१७] स्म इत्यध्याहार्यमिति भावः। प्रक्रिया पूर्ववत्।
[२१८] भाषँ व्यक्तायां वाचि (धा॰पा॰ ६१२) → भाष् → स्वार्थे णिच् → भाष् णिच् → भाष् इ → भाषि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → भाषि लिङ् → भाषि तिप् → भाषि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भाषि शप् ति → भाषि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → भाषे अ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भाषे अ यासुँट् ति → भाषे अ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भाषे अ यास् सुँट् ति → भाषे अ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → भाषे अ या ति →अतो येयः (पा॰सू॰ ७.२.८०) → भाषे अ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → भाषे अ इ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → भाषय् अ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → भाषय् ए ति → इतश्च (पा॰सू॰ ३.४.१००) → भाषय् ए त् → भाषयेत्। न च चुरादिगणे पाठाभावात्स्वार्थे न णिच्। शिष्टप्रयोगेषु दृश्यते। यथा भारते वनपर्वणि भीमं प्रति नवव्याकरणार्थवेत्ता हनुमान् – दशवर्षसहस्राणि दशवर्षशतानि च। राज्यं कारितवान् रामस्ततः स्वभवनं गतः॥ (म॰भा॰ ३.१४८.१९) । अत्र नीलकण्ठोऽपि – कारितवान् कृतवान्। स्वार्थे णिच् (म॰भा॰ भा॰दी॰ ३.१४८.१९)।
[२१९] त्यज् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → त्यज् लृट् → त्यज् त → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → त्यज् स्य त → चोः कुः (पा॰सू॰ ८.२.३०) → त्यक् स्य त → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → त्यक् ष्य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → त्यक्ष्यते। सामान्यतस्तु त्यक्ष्यति इति रूपम्। यथा सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् (वा॰रा॰ २.६६.११) इति वाल्मीकिप्रयोगे। त्यज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → त्यज् लृट् → त्यज् तिप् → त्यज् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → त्यज् स्य ति → चोः कुः (पा॰सू॰ ८.२.३०) → तयक् स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → तयक् ष्य ति → त्यक्ष्यति।
[२२०] अधिश्रित्य इत्यध्याहार्यमिति शेषः। त्यज् → कर्मवत्कर्मणा तुल्यक्रियः (पा॰सू॰ ३.१.८७) → भावकर्मणोः (पा॰सू॰ १.३.१३) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → त्यज् लृट् → त्यज् त → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → त्यज् स्य त → चोः कुः (पा॰सू॰ ८.२.३०) → तयक् स्य त → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → तयक् ष्य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → त्यक्ष्यते।
[२२१] गमॢँ गतौ (धा॰पा॰ ९८२) → गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → गम् लट् → गम् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गम् शप् मस् → गम् अ मस् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → गछ् अ मस् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → गतुँक् छ् अ मस् → गत् छ् अ मस् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → गच् छ् अ मस् → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → गच् छ् आ मस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → गच् छ् आ मरुँ → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गच् छ् आ मः → गच्छामः।
[२२२] सम् गमॢँ गतौ (धा॰पा॰ ९८२) → सम् गम् → समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → सम् गम् लट् → सम् गम् महिङ् → सम् गम् महि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सम् गम् शप् महि → सम् गम् अ महि → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → सम् गछ् अ महि → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → सम् गतुँक् छ् अ महि → सम् गत् छ् अ महि → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → सम् गच् छ् अ महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → सम् गच् छ् आ महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सम् गच् छ् आ महे → विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) → गच् छ् आ महे → गच्छामहे।
[२२३] यद्वा कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनात्मनेपदम्। तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[२२४] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[२२५] तॄ प्लवनतरणयोः (धा॰पा॰ ९६९) → तॄ → हेतुमति च (पा॰सू॰ ३.१.२६) → तॄ णिच् → तॄ इ → अचो ञ्णिति (पा॰सू॰ ७.२.११५) → ता इ → उरण् रपरः (पा॰सू॰ १.१.५१) → तार् इ → तारि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → तारि लृट् → तारि महिङ् → तारि महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → तारि स्य महि → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → तारि इट् स्य महि → तारि इ स्य महि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → तारे इ स्य महि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → तारय् इ स्य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → तारय् इ स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → तारय् इ स्या महे → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → तारय् इ ष्या महे → तारयिष्यामहे।
[२२६] आसँ उपवेशने (धा॰पा॰ १०२१) → आस् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → आस् लङ् → आस् त → आडजादीनाम् (पा॰सू॰ ६.४.७२) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → आट् आस् त → आ आस् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ आस् शप् त → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → आ आस् त → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → आस् त → आस्त।
[२२७] स्म इत्यध्याहार्यमिति भावः। आसँ उपवेशने (धा॰पा॰ १०२१) → आस् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लट् स्मे (पा॰सू॰ ३.२.११८) → आस् लट् → आस् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आस् शप् त → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → आस् त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → आस् ते → आस्ते।
[२२८] अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४)। परा अयँ गतौ (धा॰पा॰ ४७४) → परा अय् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → परा अय् लोट् → परा अय् थस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → परा अय् शप् तस् → परा अय् अ तस् → तस्थस्थमिपां तान्तन्तामः (पा॰सू॰ ३.४.१०१) → परा अय् अ तम् → उपसर्गस्यायतौ (पा॰सू॰ ८.२.१९) → पला अय् अ तम् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → पलाय् अ तम् → पलायतम्। सामान्यतस्तु पलायेथाम् इति रूपम्। यथा त्वरमाणौ पलायेथां न वां जीवितमाददे (वा॰रा॰ ३.३.८) इति वाल्मीकिप्रयोगे। परा अयँ गतौ (धा॰पा॰ ४७४) → परा अय् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लोट् च (पा॰सू॰ ३.३.१६२) → परा अय् लोट् → परा अय् आथाम् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → परा अय् शप् आथाम् → परा अय् अ आथाम् → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → आतो ङितः (पा॰सू॰ ७.२.८१) → परा अय् अ इय् थाम् → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → परा अय् अ इ थाम् → आद्गुणः (पा॰सू॰ ६.१.८७) → परा अय् ए थाम् → उपसर्गस्यायतौ (पा॰सू॰ ८.२.१९) → पला अय् ए थाम् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → पलाय् ए थाम् → पलायेथाम्।
[२२९] यथा वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् (वा॰रा॰ ६.७०.२) इति वाल्मीकिप्रयोगे। अभि द्रु गतौ (धा॰पा॰ ९४५) → अभि द्रु → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → अभि द्रु लिट् → अभि द्रु तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → अभि द्रु णल् → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → अभि द्रु द्रु अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → अभि दु द्रु अ → अचो ञ्णिति (पा॰सू॰ ७.२.११५) → अभि दु द्रौ अ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → अभि दु द्राव् अ → अभिदुद्राव।
[२३०] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। अभि द्रु गतौ (धा॰पा॰ ९४५) → अभि द्रु → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → अभि द्रु लिट् → अभि द्रु त → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → अभि द्रु एश् → अभि द्रु ए → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → अभि द्रु द्रु ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → अभि दु द्रु ए → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (पा॰सू॰ ६.४.७७) → ङिच्च (पा॰सू॰ १.१.५३) → अभि दु द्रुवँङ् ए → अभि दु द्रुव् ए → अभिदुद्रुवे। सार्वधातुकमपित् (पा॰सू॰ १.२.४) इत्यनेन ङिद्वत्त्वम् ग्क्ङिति च (पा॰सू॰ १.१.५) इत्यनेन च गुणनिषेधः।
[२३१] विश् → हेतुमति च (पा॰सू॰ ३.१.२६) → विश् णिच् → विश् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → वेश् इ → वेशि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। उप वेशि → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → उप वेशि लङ् → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → उप अट् वेशि लङ् → उप अ वेशि लङ् → उप अ वेशि तिप् → उप अ वेशि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → उप अ वेशि शप् ति → उप अ वेशि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उप अ वेशे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → उप अ वेशय् अ ति → इतश्च (पा॰सू॰ ३.४.१००) → उप अ वेशय् अ त् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → उपा वेशय् अ त् → उपावेशयत्।
[२३२] आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२)।
[२३३] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। व्रजँ गतौ (धा॰पा॰ २५३) → व्रज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → व्रज् लट् → व्रज् मिप् → व्रज् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → व्रज् शप् मि → व्रज् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → व्रज् आ मि → व्रजामि।
[२३४] व्रजँ गतौ (धा॰पा॰ २५३) → व्रज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → व्रज् लृट् → व्रज् मिप् → व्रज् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → व्रज् स्य मि → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → व्रज् इट् स्य मि → व्रज् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → व्रज् इ स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → व्रज् इ ष्या मि → व्रजिष्यामि।
[२३५] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लुङ् (पा॰सू॰ ३.२.११०) → भू लङ् → भू झि → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अट् भू झि → अ भू झि → च्लि लुङि (पा॰सू॰ ३.१.४३) → अ भू च्लि झि → च्लेः सिच् (पा॰सू॰ ३.१.४४) → अ भू सिच् झि → गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (पा॰सू॰ २.४.७७) → अ भू झि → झोऽन्तः (पा॰सू॰ ७.१.३) → अ भू अन्ति → भुवो वुग्लुङ्लिटोः (पा॰सू॰ ६.४.८८) → अ भू वुँक् अन्ति → अ भू व् अन्ति → इतश्च (पा॰सू॰ ३.४.१००) → अ भू व् अन्त् → संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) → अ भू व् अन् → अभूवन्।
[२३६] भू सत्तायाम् (धा॰पा॰ १) → भू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → (पा॰सू॰ ३.२.११५) → भू लिट् → भू तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → भू उस् → भुवो वुग्लुङ्लिटोः (पा॰सू॰ ६.४.८८) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भूवुँक् अ → भूव् उस् → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → भूव् भूव् उस् → हलादिः शेषः (पा॰सू॰ ७.४.६०) → भू भूव् उस् → ह्रस्वः (पा॰सू॰ ७.४.५९) → भु भूव् उस् → भवतेरः (पा॰सू॰ ७.४.७३) → भ भूव् उस् → अभ्यासे चर्च (पा॰सू॰ ८.४.५४) → ब भूव् उस् → बभूवुस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → रुत्वम् → बभूवुरुँ → अनुबन्धलोपः → बभूवुर् → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → बभूवुः।
[२३७] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। वसँ निवासे (धा॰पा॰ १००४) → वस् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वस् लृट् → वस् इट् → वस् इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वस् स्य इ → सः स्यार्धधातुके (पा॰सू॰ ७.४.४९) → वत् स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वत् स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → वत् स्ये → वत्स्ये। सामान्यतस्तु वत्स्यामि इति रूपम्। यथा चतुर्दश हि वर्षाणि वत्स्यामि विजने वने (वा॰रा॰ २.२०.२९) इति वाल्मीकिप्रयोगे। वसँ निवासे (धा॰पा॰ १००४) → वस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वस् लृट् → वस् मिप् → वस् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वस् स्य मि → सः स्यार्धधातुके (पा॰सू॰ ७.४.४९) → वत् स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → वत् स्या मि → वत्स्यामि।
[२३८] स्म इत्यध्याहार्यमिति भावः। जागृ निद्राक्षये (धा॰पा॰ १०७२) → जागृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → जागृ लट् → जागृ तिप् → जागृ ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → जागृ शप् ति → जागृ अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → जागर् अ ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → जागर् ति → जागर्ति।
[२३९] स्म इत्यध्याहार्यमिति भावः। षेवृँ सेवने (धा॰पा॰ ५०१) → षेव् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → सेव् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लट् स्मे (पा॰सू॰ ३.२.११८) → सेव् लट् → सेव् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सेव् शप् त → सेव् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सेव् अ ते → सेवते।
[२४०] सम् गमॢँ गतौ (धा॰पा॰ ९८२) → सम् गम् → समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → सम् गम् लट् → सम् गम् वहिङ् → सम् गम् वहि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सम् गम् शप् वहि → सम् गम् अ वहि → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → सम् गछ् अ वहि → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → सम् गतुँक् छ् अ वहि → सम् गत् छ् अ वहि → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → सम् गच् छ् अ वहि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → सम् गच् छ् आ वहि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सम् गच् छ् आ वहे → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → सं गच् छ् आ वहे → वा पदान्तस्य (पा॰सू॰ ८.४.५९) → सङ् गच् छ् आ वहे → सङ्गच्छावहे।
[२४१] गमॢँ गतौ (धा॰पा॰ ९८२) → गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → गम् लट् → गम् वस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गम् शप् वस् → गम् अ वस् → इषुगमियमां छः (पा॰सू॰ ७.३.७७) → गछ् अ वस् → छे च (पा॰सू॰ ६.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → गतुँक् छ् अ वस् → गत् छ् अ वस् → स्तोः श्चुना श्चुः (पा॰सू॰ ८.४.४०) → गच् छ् अ वस् → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → गच् छ् आ वस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → गच् छ् आ वरुँ → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गच् छ् आ वः → गच्छावः।
[२४२] स्म इत्यध्याहार्यमिति भावः। अनु धावुँ गतिशुद्धयोः (धा॰पा॰ ६०१) → अनु धाव् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लट् स्मे (पा॰सू॰ ३.२.११८) → अनु धाव् लट् → अनु धाव् तिप् → अनु धाव् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अनु धाव् शप् ति → अनु धाव् अ ति → अनु धावति।
[२४३] पा पाने (धा॰पा॰ ९२५) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → पा लृँट् → पा इट् → पा इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → पा स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → पा स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → पा स्ये → पास्ये।
[२४४] आ णीञ् → णी → णो नः (पा॰सू॰ ६.१.६५) → आ नी → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → आ नी लृँट् → आ नी मिप् → आ नी मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → आ नी स्य मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → आ ने स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → आ ने स्या मि → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → आ ने ष्या मि → आनेष्यामि।
[२४५] एरच् (पा॰सू॰ ३.३.५६) इत्यनेन भावेऽचि। आङ् णीञ् प्रापणे धा॰पा॰ ९०१) → आ णी → णो नः (पा॰सू॰ ६.१.६५) → आ नी → एरच् (पा॰सू॰ ३.३.५६) → आ नी अच् → आ नी अ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → आ ने अच् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → आ नय् अ → आनय → विभक्तिकार्यम् → आनयः।
[२४६] प्रयोगस्यास्य सिद्धिः कृष्णिष्यति (बा॰म॰ २६६५) इतिवत्। आनय → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → आनय क्विँप् → आनय व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → आनय → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → आनय लृट् → आनय मिप् → आनय मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → आनय स्य मि → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → आनय इट् स्य मि → आनय इ स्य मि → अतो लोपः (पा॰सू॰ ६.४.४८) → आनय् इ स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → आनय् इ स्या मि → आदेशप्रत्ययोः (पा॰सू॰ ८.३.५९) → आनय् इ ष्या मि → आनयिष्यामि। यद्वा सप्तमाध्याये आनय इवाऽचरिष्यामि आनयिष्यामि। आनयतीत्यानयः। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तर्यच्। नयतीति नयः इतिवत्। यथा विष्णुसहस्रनामस्तोत्रे रामो विरामो विरतो मार्गो नेयो नयोऽनयः (वि॰स॰ना॰ ५६)। अत्र सत्यभाष्ये सत्यदेववासिष्ठाः – ‘णीञ् प्रापणे’ धातोरच्प्रत्ययो ‘नयतीति नयः’ सर्वस्य नेतेत्यर्थः (वि॰स॰ना॰ स॰भा॰ ५६)। नयशब्दो नेतरि इति शब्दकल्पद्रुमवाचस्पत्यौ च। एवं तर्हि आनय इवाऽचरिष्यामि आनयिष्यामि। सिद्धिः पूर्ववत्। रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित् (अ॰रा॰ १.१.४३) इत्यस्मिन्नेव ग्रन्थ उक्तत्वात्।
[२४७] सम् ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → सम् स्था → समवप्रविभ्यः स्थः (पा॰सू॰ १.३.२२) → लोट् च (पा॰सू॰ ३.३.१६२) → सम् स्था लोट् → सम् स्था थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → सम् स्था शप् थास् → सम् स्था अ थास् → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → सम् तिष्ठ् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → सम् तिष्ठ् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → सम् तिष्ठ् अ स् व → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → सं तिष्ठ् अ स् व → वा पदान्तस्य (पा॰सू॰ ८.४.५९) → सन् तिष्ठ् अ स् व → सन्तिष्ठस्व।
[२४८] ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → स्था → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → स्था लोट् → स्था सिप् → स्था सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → स्था शप् सि → स्था अ सि → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → तिष्ठ् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → तिष्ठ् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → तिष्ठ् अ → तिष्ठ।
[२४९] यद्वा सन् इति शत्रन्तं पृथक्पदम्। असँ भुवि (धा॰पा॰ १०६५) → अस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → अस् लट् → लटः शतृशानचावप्रथमासमानाधिकरणे (पा॰सू॰ ३.२.१२४) → अस् शतृँ → अस् अत् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अस् शप् अत् → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → अस् अत् → श्नसोरल्लोपः (पा॰सू॰ ६.४.१११) → स् अत् → सत् → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → विभक्तिकार्यम् → सत् सुँ → सत् स् → उगिदचां सर्वनामस्थानेऽधातोः (पा॰सू॰ ७.१.७०) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → स नुँम् त् स् → स न् त् स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → स न् त् → संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) → स न् → सन्। शतुः तिङ्शित्सार्वधातुकम् (पा॰सू॰ ३.४.११३) इत्यनेन सार्वधातुकत्वात् अस्तेर्भूः (पा॰सू॰ २.४.५२) इत्यस्याप्रवृत्तिः। हे लक्ष्मण त्वं प्रयत्नेन सीतासंरक्षणोद्यतः सन् तिष्ठ इति श्रीरामतात्पर्यम्।
[२५०] वि श्रमुँ तपसि खेदे च (धा॰पा॰ १२०४) → वि श्रम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → वि श्रम् लोट् → वि श्रम् सिप् → वि श्रम् सि → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → वि श्रम् श्यन् सि → वि श्रम् य सि → शमामष्टानां दीर्घः श्यनि (पा॰सू॰ ७.३.६४) → वि श्राम् य सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → वि श्राम् य हि → अतो हेः (पा॰सू॰ ६.४.१०५) → विश्राम्य।
[२५१] यतो ह्यत्र दीर्घाभावः श्यन्नभाव आत्मनेपदञ्च।
[२५२] वि श्रमुँ तपसि खेदे च (धा॰पा॰ १२०४) → भावे (पा॰सू॰ ३.३.१८) → वि श्रम् घञ् → वि श्रम् अ → अत उपधायाः (पा॰सू॰ ७.२.११६) → वृद्धिप्राप्तिः → नोदात्तोपदेशस्य मान्तस्यानाचमेः (पा॰सू॰ ७.३.३४) → वृद्धिनिषेधः → वि श्रम् अ → विश्रम → विभक्तिकार्यम् → विश्रमः।
[२५३] विश्रम → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → विश्रम क्विँप् → विश्रम व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → विश्रम → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → विश्रम लट् → विश्रम तिप् → विश्रम ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विश्रम शप् ति → विश्रम अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → विश्रम ति → विश्रमति।
[२५४] विश्रम → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → विश्रम लोट् → विश्रम सिप् → विश्रम सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विश्रम शप् सि → विश्रम अ सि → अतो गुणे (पा॰सू॰ ६.१.९७) → विश्रम सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → विश्रम हि → अतो हेः (पा॰सू॰ ६.४.१०५) → विश्रम।
[२५५] भक्षँ अदने (धा॰पा॰ १५५७) (भ्लक्षँ/भक्षँ इति माधवीयाधातुवृत्तिः, भक्षँ इति मैत्रेयः) → भक्ष् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → भक्ष् णिच् → भक्ष् इ → भक्षि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → भक्षि लोट् → भक्षि झि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भक्षि शप् झि → भक्षि अ झि → झोऽन्तः (पा॰सू॰ ७.१.३) → भक्षि अ अन्ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → भक्षे अ अन्ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → भक्षय् अ अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → भक्षय् अन्ति → एरुः (पा॰सू॰ ३.४.८६) → भक्षय् अन्तु → भक्षयन्तु।
[२५६] भक्षँ अदने (धा॰पा॰ १५५७) (भ्लक्षँ/भक्षँ इति माधवीयाधातुवृत्तिः, भक्षँ इति मैत्रेयः) → भक्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → भक्ष् लोट् → भक्ष् झि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भक्ष् शप् झि → भक्ष् अ झि → झोऽन्तः (पा॰सू॰ ७.१.३) → भक्ष् अ अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → भक्ष् अन्ति → एरुः (पा॰सू॰ ३.४.८६) → भक्ष् अन्तु → भक्षन्तु। यद्वा भक्षयन्तीति भक्षाः। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि पचाद्यचि णेरनिटि (पा॰सू॰ ६.४.५१) इत्यनेन णिलोपे विभक्तिकार्ये। भक्षा इवाऽचरन्तु भक्षन्तु। भक्ष → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → भक्ष क्विँप् → भक्ष व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → भक्ष → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → भक्ष लोट् → भक्ष झि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भक्ष शप् झि → भक्ष अ झि → झोऽन्तः (पा॰सू॰ ७.१.३) → भक्ष अ अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → भक्ष अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → भक्षन्ति → एरुः (पा॰सू॰ ३.४.८६) → भक्षन्तु।
[२५७] आ काक्षिँ काङ्क्षायाम् (धा॰पा॰ ६६७) → आ काक्ष् → इदितो नुम् धातोः (पा॰सू॰ ७.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → आ का नुँम् क्ष् → आ कान् क्ष् → नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) → आ कांक्ष् → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → आ काङ्क्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आ काङ्क्ष् लट् → आ काङ्क्ष् मिप् → आ काङ्क्ष् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ काङ्क्ष् शप् मि → आ काङ्क्ष् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → आ काङ्क्ष् आ मि → आकाङ्क्षामि।
[२५८] आ काङ्क्ष् (पूर्ववत्) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आ काङ्क्ष् लट् → आ काङ्क्ष् इट् → आ काङ्क्ष् इ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आ काङ्क्ष् शप् इ → आ काङ्क्ष् अ इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → आ काङ्क्ष् अ ए → अतो गुणे (पा॰सू॰ ६.१.९७) → आ काङ्क्ष् ए → आकाङ्क्षे।
[२५९] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन। बाहुलकाद्भावे।
[२६०] आ काङ्क्ष् (पूर्ववत्) → गुरोश्च हलः (पा॰सू॰ ३.३.१०३) → आ काङ्क्ष् अ → अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) → आ काङ्क्ष् अ टाप् → आ काङ्क्ष् अ आ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → आ काङ्क्ष् आ → आकाङ्क्षा → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → विभक्तिकार्यम् → आकाङ्क्षा सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → आकाङ्क्षा। अथ दोहदम्। इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥ कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। (अ॰को॰ १.७.२७–२८) इत्यमरः।
[२६१] अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन। आकाङ्क्षा → अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) → आकाङ्क्षा अच् → आकाङ्क्षा अ → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → यस्येति च (पा॰सू॰ ६.४.१४८) → आकाङ्क्ष् अ → आकाङ्क्ष → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → विभक्तिकार्यम् → आकाङ्क्ष सुँ → अतोऽम् (पा॰सू॰ ७.१.२४) → आकाङ्क्ष अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → आकाङ्क्षम्।
[२६२] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। पुरीरक्षणं सैन्यवानराणां कर्म न तु सर्वेषां वानराणाम्। अत्र सर्वे वानराः (दुद्रुवुर्वानराः सर्वे किष्किन्धां भयविह्वलाः अ॰रा॰ ४.३.१) बाला वृद्धा विकलाङ्गा अपि रक्षाकर्म कुर्वन्तीति कर्मव्यतिहारः। रक्षँ पालने (धा॰पा॰ ६५८) → रक्ष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → (पा॰सू॰ ३.३.१३) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → रक्ष् लृँट् → रक्ष् महिङ् → रक्ष् महि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → रक्ष् शप् महि → रक्ष् अ महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → रक्ष् आ महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → रक्ष् आ महे → रक्षामहे।
[२६३] रक्षँ पालने (धा॰पा॰ ६५८) → रक्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → रक्ष् लोट् → रक्ष् मस् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → रक्ष् शप् मस् → रक्ष् अ मस् → आडुत्तमस्य पिच्च (पा॰सू॰ ३.४.९२) → रक्ष् अ आट् मस् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → रक्ष् आ मस् → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → नित्यं ङितः → रक्ष् आ म → रक्षाम।
[२६४] लिपँ उपदेहे (धा॰पा॰ १४३३) → लिप् → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → लिप् लट् → लिप् थास् → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → लिप् यक् थास् → लिप् य थास् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → लिप् य थास् → थासस्से (पा॰सू॰ ३.४.८०) → लिप् य से → लिप्यसे।
[२६५] अनु षेवृँ सेवने (धा॰पा॰ ५०१) → अनु षेव् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → अनु सेव् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → अनु सेव् लिट् → अनु सेव् झ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → अनु सेव् सेव् झ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → अनु से सेव् झ → ह्रस्वः (पा॰सू॰ ७.४.५९) → एच इग्घ्रस्वादेशे (पा॰सू॰ १.१.४८) → अनु सि सेव् झ → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → अनु सि सेव् इरेच् → अनु सि सेव् इरे → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → अनु सि षेव् इरे → अनुसिषेविरे।
[२६६] बाहुलकादपदस्यापि लोप इति शेषः।
[२६७] चेरुः इति चाध्याहार्यम्। कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽयमविहितो डिरच् प्रत्ययः। अनुसेवा → उणादयो बहुलम् (पा॰सू॰ ३.३.१) → अनुसेवा डिरच् → अनुसेवा इर → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → अनुसेव् इर → अनुसेविर → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → विभक्तिकार्यम् → अनुसेविर ङि → अनुसेविर इ → आद्गुणः (पा॰सू॰ ६.१.८७) → अनुसेविरे।
[२६८] अनुपूर्वकात् षेवृँ सेवने (धा॰पा॰ ५०१) धातोः गुरोश्च हलः (पा॰सू॰ ३.३.१०३) इत्यनेन भावे स्त्रियां अप्रत्यये ततश्च अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) इत्यनेन टापि विभक्तिकार्ये।
[२६९] अनुसेवा → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → अनुसेवा णिच् → अनुसेवा इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → अनुसेव् इ → अनुसेवि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → अनुसेवि तिप् → अनुसेवि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अनुसेवि शप् ति → अनुसेवि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → अनुसेवे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → अनुसेवय् अ ति → अनुसेवयति।
[२७०] अनुसेवि → धातुसञ्ज्ञा (पूर्ववत्)
[२७१] अनुसेविधातोः सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन भावे क्विपि णेरनिटि (पा॰सू॰ ६.४.५१) इति णिलोपे। बाहुलकान्नपुंसकलिङ्गम्।
[२७२] इण् गतौ (धा॰पा॰ १०४५) → इ → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → इ लिट् → इ झ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → इ इ झ → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → इ इ इरेच् → इ इ इरे → असंयोगाल्लिट् कित् (पा॰सू॰ १.२.५) → दीर्घ इणः किति (पा॰सू॰ ७.४.६९) → ई इ इरे → इणो यण् (पा॰सू॰ ६.४.८१) → ई य् इरे → ईयिरे।
[२७३] बाहुलकादपदस्यापि लोप इति शेषः। धातोरिकारौ धात्विकारौ तयोर्लोपः धात्विकारलोपस्तस्मिन् धात्विकारलोपे।
[२७४] सम् आङ् रभँ राभस्ये (धा॰पा॰ ९७४) → सम् आ रभ् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → सम् आ रभ् लिङ् → सम् आ रभ् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → समारभ शप् त → समारभ अ त → अतो गुणे (पा॰सू॰ ६.१.९७) → समारभ त → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → समारभ यासुँट् त → समारभ यास् त → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → समारभ यास् सुँट् त → समारभ यास् स् त → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → समारभ या त → अतो येयः (पा॰सू॰ ७.२.८०) → समारभ इय् त → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → समारभ इ त → आद्गुणः (पा॰सू॰ ६.१.८७) → समारभे त → समारभेत।
[२७५] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[२७६] समारभ → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → समारभ क्विँप् → समारभ व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → समारभ → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → समारभ लिङ → समारभ तिप् → समारभ ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → समारभ शप् ति → समारभ अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → समारभ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → समारभ यासुँट् ति → समारभ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → समारभ यास् सुँट् ति → समारभ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → समारभ या ति →अतो येयः (पा॰सू॰ ७.२.८०) → समारभ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → समारभ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → समारभे ति → इतश्च (पा॰सू॰ ३.४.१००) → समारभे त् → समारभेत्। यद्वा अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इत्यपि समाधानम्।
[२७७] प्र डुकृञ् करणे (धा॰पा॰ १४७२) → प्र कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → प्र कृ लिङ् → प्र कृ तिप् → प्र कृ ति → तनादिकृञ्भ्य उः (पा॰सू॰ ३.१.७९) → प्र कृ उ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → प्र कर् उ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्र कर् उ यासुँट् ति → प्र कर् उ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्र कर् उ यास् सुँट् ति → प्र कर् उ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → प्र कर् उ या ति → अत उत्सार्वधातुके (पा॰सू॰ ६.४.११०) → प्र कुर् उ या ति → ये च (पा॰सू॰ ६.४.१०९) → प्र कुर् या ति → इतश्च (पा॰सू॰ ३.४.१००) → प्र कुर् या त् → प्रकुर्यात्।
[२७८] अत्र हेतुमण्णिञ्न। अर्थानुपपत्तेः। प्रकार → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → प्रकार णिच् → प्रकार इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → प्रकार् इ → प्रकारि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) → प्रकारि लिङ → प्रकारि तिप् → प्रकारि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्रकारि शप् ति → प्रकारि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्रकारे अ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्रकारे अ यासुँट् ति → प्रकारे अ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्रकारे अ यास् सुँट् ति → प्रकारे अ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → प्रकारे अ या ति → अतो येयः (पा॰सू॰ ७.२.८०) → प्रकारे अ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → प्रकारे अ इ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्रकारय् अ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → प्रकारय् ए ति → इतश्च (पा॰सू॰ ३.४.१००) → प्रकारय् ए त् → प्रकारयेत्।
[२७९] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन। हनँ हिंसागत्योः (धा॰पा॰ १०१२) → हन् → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → हन् लट् → हन् थास् → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → हन् यक् थास् → हन् य थास् → थासस्से (पा॰सू॰ ३.४.८०) → हन् य से → हन्यसे।
[२८०] वध → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → वध क्विँप् → वध व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → वध → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → वध लट् → वध झि → झोऽन्तः (पा॰सू॰ ७.१.३) → वध अन्ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → वध शप् अन्ति → वध अ अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → वध अन्ति → अतो गुणे (पा॰सू॰ ६.१.९७) → वधन्ति।
[२८१] वध → धातुसञ्ज्ञा (पूर्ववत्) → हेतुमति च (पा॰सू॰ ३.१.२६) → वध णिच् → वध इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → वध् इ → वधि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → वधि लट् → वधि तिप् → वधि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → वधि शप् ति → वधि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → वधे अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → वधय् अ ति → वधयति।
[२८२] वधि → धातुसञ्ज्ञा (पूर्ववत्) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वधि लृट् → वधि तिप् → वधि ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वधि स्य ति → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → वधि इट् स्य ति → वधि इ स्य ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → वधे इ स्य ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → वधय् इ स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वधय् इ ष्य ति → वधयिष्यति।
[२८३] बहुलमेतन्निदर्शनम् (धा॰पा॰ ग॰सू॰ १९३८) आकृतिगणोऽयम् (धा॰पा॰ ग॰सू॰ १९९२) भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाच्चुरादिगण ऊह्योऽयं नामधातुः। सङ्ग्राम युद्धे (धा॰पा॰ १९२२) संवर संवरणे (धा॰पा॰ १९९२) इतिवत्। वृद्ध्यभावात् ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु (धा॰पा॰ १६२४) इतिवन्मिदप्ययम्। वध् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → वध् णिच् → वध् इ → अत उपधायाः (पा॰सू॰ ७.२.११६) → वाध् इ → मितां ह्रस्वः (पा॰सू॰ ६.४.९२) → वध् इ → वधि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषा प्रक्रिया पूर्ववत्।
[२८४] अयँ गतौ (धा॰पा॰ ४७४) → अय् → सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) → अय् क्विँप् → अय् व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → अय् → विभक्तिकार्यम् → अय् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → अय्।
[२८५] शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेन।
[२८६] लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य (भा॰पा॰सू॰ २.१.३६) इति नियमेन अय् इति शब्दं नपुंसकलिङ्गे पठित्वा द्वितीयायां विभक्तौ अय् अम् इति स्थिते स्वमोर्नपुंसकात् (पा॰सू॰ ७.१.२३) इत्यनेनाम्लुकि अय् इत्येव। तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[२८७] धृष्धातुः (धृषँ प्रसहने धा॰पा॰ १८५०) आधृषीयान्तर्गणे पठितः। तत्र आ धृषाद्वा (धा॰पा॰ ग॰सू॰ १८०६) इति गणसूत्रस्याधिकाराद्वैकल्पिकणिच्प्रत्ययः। णिजभावे प्रधर्षथ इति रूपम्। प्र धृषँ प्रसहने → प्र धृष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → प्र धृष् लट् → प्र धृष् थ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र धृष् शप् थ → प्र धृष् अ थ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → प्र धर्ष् अ थ → प्रधर्षथ। णिचि तु प्रधर्षयथ इति रूपम्। धृष् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → धृष् णिच् → धृष् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → धर्ष् इ → धर्षि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। प्र धर्षि → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → प्र धर्षि लट् → प्र धर्षि थ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र धर्षि शप् थ → प्र धर्षि अ थ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्र धर्षे अ थ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्र धर्षय् अ थ → प्रधर्षयथ।
[२८८] मृग अन्वेषणे (धा॰पा॰ १९००) चौरादिकधातुरागर्वीयत्वादात्मनेपदी। परन्तु मृगणां कुरुत इति प्राकृतेऽर्थे णिचि कृते तूभयपदी। यथा – निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते (वा॰प॰ ३.७.६०)। तत्रात्मनेपदप्राप्तेः कारणमिदं प्रादर्शि ग्रन्थकारैः। मृग णिच् → मृग इ → अतो लोपः (पा॰सू॰ ६.४.४८) → मृग् इ → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → णिचश्च (पा॰सू॰ १.३.७४) → लोट् च (पा॰सू॰ ३.३.१६२) → मृग् इ लोट् → मृग् इ ध्वम् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → मृग् इ शप् ध्वम् → मृग् इ अ ध्वम् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → मृग् ए अ ध्वम् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → मृग् अय् अ ध्वम् → मृगयध्वम्।
[२८९] उप ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → उप स्था → उपान्मन्त्रकरणे (पा॰सू॰ १.३.२५) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → उप लृँट् → उप स्था महिङ् → उप स्था महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → उप स्था स्य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → उप स्था स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → उप स्था स्या महे → उपस्थास्यामहे।
[२९०] विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन।
[२९१] णीञ् प्रापणे (धा॰पा॰ ९०१) → णो नः (पा॰सू॰ ६.१.६५) → नीञ् → नी → सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः (पा॰सू॰ १.३.३६) → लोट् च (पा॰सू॰ ३.३.१६२) → नी लोट् → नी ध्वम् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नी शप् ध्वम् → नी अ ध्वम् → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → ने अ ध्वम् → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → नय् अ ध्वम् → नयध्वम्।
[२९२] इण् गतौ (पा॰सू॰ १०४५) → इ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इ लट् → इ तिप् → इ ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → इ अ ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → इ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → ए ति → एति।
[२९३] इण् गतौ (पा॰सू॰ १०४५) → इ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → आशंसावचने लिङ् (पा॰सू॰ ३.३.१३४) → इ लिङ् → इ तिप् → इ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → इ यासुँट् ति → इ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → इ यास् सुँट् ति → इ यास् स् ति → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → इ या ति → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → इ या ति → इतश्च (पा॰सू॰ ३.४.१००) → इ या त् → इयात्।
[२९४] एवमेव आप्नुयात् इत्यत्रापि बोध्यम्।
[२९५] मृङ् प्राणत्यागे (धा॰पा॰ १४०३) → मृ → म्रियतेर्लुङ्लिङोश्च (पा॰सू॰ १.३.६१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → मृ लट् → मृ त → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → मृ श त → मृ अ त → रिङ् शयग्लिङ्क्षु (पा॰सू॰ ७.४.२८) → ङिच्च (पा॰सू॰ १.१.५३) → म् रिङ् अ त → म् रि अ त → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (पा॰सू॰ ६.४.७७) → ङिच्च (पा॰सू॰ १.१.५३) → म् र् इयँङ् अ त → म् र् इय् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → म् र् इय् अ ते → म्रियते।
[२९६] मृङ् प्राणत्यागे (धा॰पा॰ १४०३) → मृ → म्रियतेर्लुङ्लिङोश्च (पा॰सू॰ १.३.६१) → शकि लिङ् च (पा॰सू॰ ३.३.१७२) → मृ लिङ् → मृ त → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → मृ श त → मृ अ त → रिङ् शयग्लिङ्क्षु (पा॰सू॰ ७.४.२८) → ङिच्च (पा॰सू॰ १.१.५३) → म् रिङ् अ त → म् रि अ त → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (पा॰सू॰ ६.४.७७) → ङिच्च (पा॰सू॰ १.१.५३) → म् र् इयँङ् अ त → म् र् इय् अ त → लिङः सीयुट् (पा॰सू॰ ३.४.१०२) → म् र् इय् अ सीयुँट् त → म् र् इय् अ सीय् त → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → म् र् इय् अ सीय् सुँट् त → म् र् इय् अ सीय् स् त → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → म् र् इय् अ ईय् त → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → म् र् इय् अ ई त → आद्गुणः (पा॰सू॰ ६.१.८७) → म् र् इय् ए त → म्रियेत।
[२९७] क्षिपँ प्रेरणे (धा॰पा॰ १२८५) → क्षिप् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → क्षिप् लट् → क्षिप् मिप् → क्षिप् मि → तुदादिभ्यः शः (पा॰सू॰ ३.१.७७) → क्षिप् श मि → क्षिप् अ मि → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → क्षिप् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → क्षिप् आ मि → क्षिपामि।
[२९८] दृशिँर प्रेक्षणे (धा॰पा॰ ९८८) → दृश् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → दृश् लट् → दृश् मिप् → दृश् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दृश् शप् मि → दृश् अ मि → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → पश्य् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → पश्य् आ मि → पश्यामि।
[२९९] निवेक्ष्ये इति पाठभेदः। तत्र तु नेर्विशः (पा॰सू॰ १.३.१७) इत्यनेनात्मनेपदम्। देहि मे मार्गं सुरसायै नमोऽस्तु ते।
इत्युक्त्वा पुनरेवाह सुरसा क्षुधितास्म्यहम्॥
[३००] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। वि विशँ प्रवेशने (धा॰पा॰ १४२४) → वि विश् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → वि विश् लृट् → वि विश् इट् → वि विश् इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वि विश् स्य इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → वि वेश् स्य इ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) → वि वेष् स्य इ → षढोः कः सि (पा॰सू॰ ८.२.४१) → वि वेक् स्य इ → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वि वेक् ष्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → वि वेक् ष्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → वि वेक् ष्ये → विवेक्ष्ये।
[३०१] भक्षँ अदने (धा॰पा॰ १५५७) → भक्ष् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → भक्ष् णिच् → भक्ष् इ → भक्षि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) हेतुहेतुमतोर्लिङ् (पा॰सू॰ ३.३.१५६) वा → भक्षि लिङ → भक्षि तिप् → भक्षि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भक्षि शप् ति → भक्षि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → भक्षे अ ति → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भक्षे अ यासुँट् ति → भक्षे अ यास् ति → सुट् तिथोः (पा॰सू॰ ३.४.१०७) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → भक्षे अ यास् सुँट् ति → भक्षे अ यास् स् ति → अतो येयः (पा॰सू॰ ७.२.८०) → भक्षे अ इय् ति → लोपो व्योर्वलि (पा॰सू॰ ६.१.६६) → भक्षे अ इ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → भक्षय् अ इ ति → आद्गुणः (पा॰सू॰ ६.१.८७) → भक्षय् ए ति → इतश्च (पा॰सू॰ ३.४.१००) → भक्षय् ए त् → भक्षयेत्।
[३०२] आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२)। अडागमे कृते सामान्यतः प्रासारयत् इति रूपम्। यथा ततो॒ वै स प्र॒जाना॒न्दक्षि॑णं बा॒हुं प्रासा॑रयत् (कृ॰य॰ तै॰ब्रा १.६.४.२) इत्यत्र। सृ गतौ (धा॰पा॰ ९३५) → हेतुमति च → सृ णिच् → सृ इ → अचो ञ्णिति → उरण् रपरः → सार् इ → सारि → सनाद्यन्ता धातवः → धातुसञ्ज्ञा। प्र सारि → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → प्र सारि तिप् → प्र सारि ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्र अट् सारि ति → प्र अ सारि ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र अ सारि शप् ति → प्र अ सारि अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्र अ सारे अ ति → प्र अ सारय् अ ति → इतश्च (पा॰सू॰ ३.४.१००) → प्र अ सारय् अ त् → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → प्रा सारय् अ त् → प्रासारयत्।
[३०३] यद्यागमकार्यं नित्यमभविष्यत्तर्हि इको यणचि (पा॰सू॰ ६.१.७७) इति सूत्रे यण् अचि इति स्थिते ङमो ह्रस्वादचि ङमुण्नित्यम् (पा॰सू॰ ८.३.३२) इत्यनेन ङमुडागमं कृत्वा इको यण्णचि इत्येवासूत्रयिष्यन् सूत्रकाराः। अत एव वाल्मीकीयरामायणे सुन्दरकाण्डे नवव्याकरणार्थवेत्ता हनुमान् लङि प्रविशम् इति प्रयुङ्क्ते – प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः (वा॰रा॰ ५.५८.५०)। अत्र तिलकशिरोमणिटीकाकारौ च – प्रविशं प्राविशम् (वा॰रा॰ ति॰टी॰ ५.५८.५०, वा॰रा॰ शि॰टी॰ ५.५८.५०)।
[३०४] प्र षद्ऌँ विशरणगत्यवसादनेषु (धा॰पा॰ ८५४, १४२७) → प्र षद् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → प्र सद् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र सद् लोट् → प्र सद् तिप् → प्र सद् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र सद् शप् ति → प्र सद् अ ति → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → प्र सीद् अ ति → एरुः (पा॰सू॰ ३.४.८६) → प्र सीद् अ तु → प्रसीदतु।
[३०५] प्र षद्ऌँ विशरणगत्यवसादनेषु (धा॰पा॰ ८५४, १४२७) → प्र षद् → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → प्र सद् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र सद् लोट् → प्र सद् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र सद् शप् त → प्र सद् अ त → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → प्र सीद् अ त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → प्र सीद् अ ते → आमेतः (पा॰सू॰ ३.४.९०) → प्र सीद् अ ताम् → प्रसीदताम्।
[३०६] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। प्रसन्नताभावस्तु जीवस्यैव धर्मो न ब्रह्मण इति ध्वनयितुं कर्मव्यतिहार आत्मनेपदप्रयोग इति भावः। मानसे गोस्वामिपादाश्च – प्रसन्नतां या न गताऽभिषेकतस्तथा न मम्लौ वनवासदुःखतः। मुखाम्बुजश्री रघुनन्दनस्य मे सदाऽस्तु सा मञ्जुलमङ्गलप्रदा॥ (रा॰च॰मा॰ २.म॰२)। एतेन श्रीमद्भागवतेऽष्टमस्कन्धे पञ्चमाध्याये ब्रह्मस्तुतौ द्वादशवारं प्रयुक्तं प्रसीदताम् इत्यपि व्याख्यातम्। यथा – प्रसीदतां ब्रह्म महाविभूतिः (भा॰पु॰ ८.५.३२) प्रसीदतां नः स महाविभूतिः (भा॰पु॰ ८.५.३३.४३)।
[३०७] भुज् → भुजोऽनवने (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → भुज् लृँट् → भुज् त → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → भुज् स्य त → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → भोज् स्य त → चोः कुः (पा॰सू॰ ८.२.३०) → भोग् स्य त → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → भोग् ष्य त → खरि च (पा॰सू॰ ८.४.५५) → भोक् ष्य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → भोक् ष्य ते → भोक्ष्यते।
[३०८] भुज्धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन अच्प्रत्यये विभक्तिकार्ये। बाहुलकाद्भावेऽच्। तेन भोजः भोगः इति द्वावपि समानार्थकौ। यथा भागवते याचिष्णवे भूर्यपि भूरिभोजः (भा॰पु॰ १०.८१.३४) इत्यत्र। अत्र टीकाकाराः – भूरिभोजो बहुभोगवान् (भा॰पु॰ गू॰दी॰ १०.८१.३४, भा॰पु॰ अ॰प्र॰ १०.८१.३४) भूरिभोजो बहुभोगः (भा॰पु॰ नि॰प्र॰ १०.८१.३४)। भोगः इति तु भुज्धातोः भावे (पा॰सू॰ ३.३.१८) इत्यनेन घञि पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे चजोः कु घिण्ण्यतोः (पा॰सू॰ ७.३.५२) इत्यनेन कुत्वे विभक्तिकार्ये सिद्धम्।
[३०९] भोज → सर्वप्रातिपतिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → भोज क्विँप् → भोज व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → भोज → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भोज लट् → भोज तिप् → भोज ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → भोज शप् ति → भोज अ ति →अतो गुणे (पा॰सू॰ ६.१.९७) → भोज ति → भोजति।
[३१०] आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२) इति परिभाषयाऽऽगमकार्यस्यानित्यत्वाद्बाहुलकादिडभावः। यद्वा भोजनं भोक्। णिजन्तात् भुज्धातोः (भुज् णिच् → भोजि) सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन भावे क्विपि णेरनिटि (पा॰सू॰ ६.४.५१) इत्यनेन णिलोपे भोज् इति प्रातिपदिकं निष्पन्नम्। तस्य प्रथमाविभक्तावेकवचने भोक् भोग् इति रूपद्वयम्। भोज् सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → भोज् → चोः कुः (पा॰सू॰ ८.२.३०) → भोग् → वाऽवसाने (पा॰सू॰ ८.४.५६) → भोक्, भोग्। यथर्ग्वेदसंहितायाम् युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ (ऋ॰वे॰सं॰ १.६४.३) इति मन्त्रे पदपाठे अ॒भो॒क्ऽहन॑ सायणभाष्ये अभोग्घनः। भोजयन्तीति भोजः। न भोजः अभोजः। तेषां हन्तारः। ‘बहुलं छन्दसि’ (पा॰सू॰ ३.२.८८) इति हन्तेः क्विप्। ‘झयो होऽन्यतरस्याम्’ (पा॰सू॰ ८.४.६२) इति हकारस्य घत्वम्। ‘इन्हन्पूषार्यम्णां शौ’ (पा॰सू॰ ६.४.१२) इति नियमाद्दीर्घाभावः। तदाचरिष्यति भोक्ष्यति। नामधातोरनुदात्तैकाच्त्वात् एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) इति सूत्रेणेडागमनिषेधः।
[३११] भुजँ पालनाभ्यवहारयोः (धा॰पा॰ १४५४)। भुज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → भुज् लृँट् → भुज् तिप् → भुज् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → भुज् स्य ति → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → भोज् स्य ति → चोः कुः (पा॰सू॰ ८.२.३०) भोग् स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → भोग् ष्य ति → खरि च (पा॰सू॰ ८.४.५५) → भोक् ष्य ति → भोक्ष्यति।
[३१२] अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इत्यनेन। गाह्धातुः (गाहूँ विलोडने धा॰पा॰ ६४९) आत्मनेपदी। तस्य लङ्लकारे प्रथमपुरुष एकवचने अगाहत इति रूपम्। गाहूँ विलोडने (धा॰पा॰ ६४९) → गाह् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → गाह् लङ् → गाह् त → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → अट् गाह् त → अ गाह् त → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ गाह् शप् त → अ गाह् अ त → अगाहत। स्वीकृत आत्मनेपदस्यानित्यत्वे परस्मैपदे अगाहत् इति रूपम्। गाहूँ विलोडने (धा॰पा॰ ६४९) → गाह् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → गाह् लङ् → गाह् तिप् → गाह् ति → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → अट् गाह् ति → अ गाह् ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अ गाह् शप् ति → अ गाह् अ ति → इतश्च (पा॰सू॰ ३.४.१००) → अगाहत्। एतेन यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम् (भा॰पु॰ १०.२२.१८) इति भागवते रासपञ्चाध्याय्यां गोपीवस्त्रापहारे मध्यमपुरुषबहुवचनविवक्षायां कृतः व्यगाहत इति परस्मैपदप्रयोगोऽपि व्याख्यातः।
[३१३] निस् दहँ भस्मीकरणे (धा॰पा॰ ९९१) → निस् दह् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → निस् दह् लृट् → निस् दह् तिप् → निस् दह् ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → निस् दह् स्य ति → दादेर्धातोर्घः (पा॰सू॰ ८.२.३२) → निस् दघ् स्य ति → एकाचो बशो भष् झषन्तस्य स्ध्वोः (पा॰सू॰ ८.२.३७) → निस् धघ् स्य ति → खरि च (पा॰सू॰ ८.४.५५) → निस् धक् स्य ति → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → निस् धक् ष्य ति → ससजुषो रुः → (पा॰सू॰ ८.२.६६) → निरुँ धक् ष्य ति → निर् धक् ष्य ति → निर्धक्ष्यति।
[३१४] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[३१५] प्रयोगस्यास्य सिद्धिः कृष्णिष्यति (बा॰म॰ २६६५) इतिवत्। निर्दह → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → निर्दह क्विँप् → निर्दह व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → निर्दह → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → निर्दह लृट् → निर्दह तिप् → निर्दह ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → निर्दह स्य ति → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → निर्दह इट् स्य ति → निर्दह इ स्य ति → अतो लोपः (पा॰सू॰ ६.४.४८) → निर्दह् इ स्य ति → आदेशप्रत्ययोः (पा॰सू॰ ८.३.५९) → निर्दह् इ ष्य ति → निर्दहिष्यति।
[३१६] निपूर्वकात् द्राधातोः (द्रा कुत्सायां गतौ धा॰पा॰ १०५४) लड्लकारे प्रथमपुरुष एकवचने निद्राति। नि द्रा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → नि द्रा लट् → नि द्रा तिप् → नि द्रा ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नि द्रा शप् ति → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → नि द्रा ति → निद्राति।
[३१७] वदँ व्यक्तायां वाचि (धा॰पा॰ १००९) → वद् → भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (पा॰सू॰ १.३.४७) → लोट् च (पा॰सू॰ ३.३.१६२) → वद् लोट् → वद् थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → वद् शप् थास् → वद् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → वद् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → वद् अ स् व → वदस्व।
[३१८] परस्मैपदिनः दृश्धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) लोड्लकारे मध्यमपुरुषे बहुवचने पश्यत इति रूपम्। दृश् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → दृश् लोट् → दृश् थ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दृश् शप् थ → दृश् अ थ → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → पश्य् अ थ → लोटो लङ्वत् (पा॰सू॰ ३.४.८५) → ङिद्वत्त्वम् → तस्थस्थमिपां तान्तन्तामः (पा॰सू॰ ३.४.१०१) → पश्य् अ त → पश्यत। आत्मनेपदे च पश्यध्वम् इति। दृश् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → दृश् लोट् → दृश् ध्वम् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → दृश् शप् ध्वम् → दृश् अ ध्वम् → पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (पा॰सू॰ ७.३.७८) → पश्य् अ ध्वम् → पश्यध्वम्।
[३१९] निपूर्वकात्परस्मैपदिनो वस्धातोः (वसँ निवासे धा॰पा॰ १००५) लोड्लकारे मध्यमपुरुष एकवचने निवस इति रूपम्। नि वस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → नि वस् लोट् → नि वस् सिप् → नि वस् सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नि वस् शप् सि → नि वस् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → नि वस् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → नि वस् अ → निवस। आत्मनेपदे च निवसस्व इति। नि वस् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → नि वस् लोट् → नि वस् थास् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नि वस् शप् थास् → नि वस् अ थास् → थासस्से (पा॰सू॰ ३.४.८०) → नि वस् अ से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → नि वस् अ स् व → निवसस्व। अपि च – त्वराऽस्तु मा इति कथम् माङि लुङ् (पा॰सू॰ ३.३.१७५) इत्यनेन सर्वलकारापवादत्वेन लुङो विधानात्। अस्य समाधानं दीक्षितैर्बालमनोरमायामुक्तम् – ‘माऽस्तु’ इत्यादौ तु ‘मा’ इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः। ‘आङ्माङोश्च’ (पा॰सू॰ ६.१.७४) इति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाच्छन्द इत्यत्र तु न भवतीत्युक्तम्। ‘मा’शब्दस्याव्ययान्तरस्य सत्त्वे तु तदेवोदाह्रियेत। ‘माऽस्तु’ इत्यत्र तु ‘अस्तु’ इति विभक्तिप्रतिरूपकमव्ययमित्यन्ये (बा॰म॰ २२१९)।
[३२०] नि बुध् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लोट् च (पा॰सू॰ ३.३.१६२) → नि बुध् लोट् → नि बुध् थास् → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → नि बुध् श्यन् थास् → नि बुध् य थास् → थासस्से (पा॰सू॰ ३.४.८०) → नि बुध् य से → सवाभ्यां वामौ (पा॰सू॰ ३.४.९१) → नि बुध् य स् व → निबुध्यस्व।
[३२१] भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[३२२] पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन।
[३२३] निबोध → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → निबोध क्विँप् → निबोध व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → निबोध → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → लोट् च (पा॰सू॰ ३.३.१६२) → निबोध लोट् → निबोध सिप् → निबोध सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → निबोध शप् सि → निबोध अ सि → अतो गुणे (पा॰सू॰ ६.१.९७) → निबोध सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → निबोध हि → अतो हेः → निबोध।
[३२४] नि बुध् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → नि बुध् लोट् → नि बुध् सिप् → नि बुध् सि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → नि बुध् शप् सि → नि बुध् अ सि → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → नि बोध् अ सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → नि बोध् अ हि → अतो हेः (पा॰सू॰ ६.४.१०५) → नि बोध् अ → निबोध।
[३२५] नि हनँ हिंसागत्योः (धा॰पा॰ १०१२) → नि हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → नि हन् लङ् → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → नि अट् हन् लङ् → नि अ हन् लङ् → नि अ हन् झि → तिङ्शित्सार्वधातुकम् (पा॰सू॰ ३.४.११३) → कर्तरि शप् (पा॰सू॰ ३.१.६८) → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → नि अ हन् झि → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → गमहनजनखनघसां लोपः क्ङित्यनङि (पा॰सू॰ ६.४.९८) → नि अ ह् न् झि → हो हन्तेर्ञ्णिन्नेषु (पा॰सू॰ ७.३.५४) → नि अ घ् न् झि → झोऽन्तः (पा॰सू॰ ७.१.३) → नि अ घ् न् अन्ति → इतश्च (पा॰सू॰ ३.४.१००) → नि अ घ् न् अन्त् → संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) → नि अ घ् न् अन् → नि अघ्नन् → इको यणचि (पा॰सू॰ ६.१.७७) → न्यघ्नन्।
[३२६] गणकार्यमनित्यम् (प॰शे॰ ९३.३) इति नियमादत्र अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) इति सूत्रं न प्रवर्तते। शपः पित्वात्त् सार्वधातुकमपित् (पा॰सू॰ १.२.४) इत्यस्याप्रवृत्तौ शपो ङित्त्वं न। अङिति शपि परे गमहनजनखनघसां लोपः क्ङित्यनङि (पा॰सू॰ ६.४.९८) इति सूत्रं न प्रवर्तते यतो हनोऽकारलोपाभावः। अकारलोपाभावे हो हन्तेर्ञ्णिन्नेषु (पा॰सू॰ ७.३.५४) इत्यस्यापि प्रवृत्तिर्न। अतः कुत्वाभावः। नि हनँ हिंसागत्योः (धा॰पा॰ १०१२) → नि हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लङ् (पा॰सू॰ ३.२.१११) → नि हन् लङ् → लुङ्लङ्लृङ्क्ष्वडुदात्तः (पा॰सू॰ ६.४.७१) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → नि अट् हन् लङ् → नि अ हन् लङ् → नि अ हन् झि → तिङ्शित्सार्वधातुकम् (पा॰सू॰ ३.४.११३) → कर्तरि शप् (पा॰सू॰ ३.१.६८) → गणकार्यमनित्यम् (प॰शे॰ ९३.३) → शब्लुगभावः → नि अ हन् अ झि → झोऽन्तः (पा॰सू॰ ७.१.३) → नि अ हन् अ अन्ति → इतश्च (पा॰सू॰ ३.४.१००) → नि अ हन् अ अन्त् → अतो गुणे (पा॰सू॰ ६.१.९७) → नि अ हन् अन्त् → संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) → नि अ हन् अन् → नि अहनन् → इको यणचि (पा॰सू॰ ६.१.७७) → न्यहनन्।
[३२७] अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४)। आत्मनेपदे तु युधँ सम्प्रहारे (धा॰पा॰ ११७३) इति धातोर्लृट्युत्तमपुरुष एकवचने योत्स्ये इति रूपम्। यथा गीतायाम् – न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह (भ॰गी॰ २.९)। युध् → अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → युध् लृँट् → युध् इट् → युध् इ → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → युध् स्य इ → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → योध् स्य इ → खरि च (पा॰सू॰ ८.४.५५) → चर्त्वम् → योत् स्य इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → योत् स्य ए → अतो गुणे (पा॰सू॰ ६.१.९७) → योत् स्ये → योत्स्ये। युध् → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → युध् लृँट् → युध् मिप् → युध् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → युध् स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → युध् स्या मि → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → लघूपधगुणः → योध् स्या मि → खरि च (पा॰सू॰ ८.४.५५) → योत् स्या मि → योत्स्यामि।
[३२८] सृजँ विसर्गे (धा॰पा॰ १४१४) → सृज् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → सृज् लिँट् → सृज् तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → सृज् णल् → सृज् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → सृज् सृज् अ → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → सर्ज् सृज् अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → स सृज् अ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → स सर्ज् अ → ससर्ज।
[३२९] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन। प्राप्त आत्मनेपदे लिटि प्रथमपुरुष एकवचने ससृजे इति रूपम्। सृज् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → सृज् लिँट् → सृज् तिप् → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → सृज् एश् → सृज् ए → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → सृज् सृज् ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → सृ सृज् ए → उरत् (पा॰सू॰ ७.४.६६) → उरण् रपरः (पा॰सू॰ १.१.५१) → सर् सृज् ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → स सृज् ए → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → स सृज् ए → ससृजे।
[३३०] लिप् → भावकर्मणोः (पा॰सू॰ १.३.१३) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → लिप् लँट् → लिप् थास् → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → लिप् यक् थास् → लिप् य थास् → थासस्से (पा॰सू॰ ३.४.८०) → लिप् य से → लिप्यसे।
[३३१] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन।
[३३२] गम् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → गम् लृँट् → गम् मस् → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → गम् स्य मस् → गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) → गम् इट् स्य मस् → गम् इ स्य मस् → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → गम् इ स्या मस् → आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → गम् इ ष्या मस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → गम् इ ष्या मरुँ → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गम् इ ष्या मः → गमिष्यामः।
[३३३] सम् गम् → समो गम्यृच्छिभ्याम् (पा॰सू॰ १.३.२९) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → सम् गम् लृँट् → सम् गम् महिङ् → सम् गम् महि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → सम् गम् स्य महि → गमेरिट् परस्मैपदेषु (पा॰सू॰ ७.२.५८) → इडभावः → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → सम् गम् स्या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → सम् गम् स्या महे → मोऽनुस्वारः (पा॰सू॰ ८.३.२३) → सं गं स्या महे → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → सङ्गंस्यामहे।
[३३४] असँ भुवि (धा॰पा॰ १०६५) → अस् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → आशिषि लिङ्लोटौ (पा॰सू॰ ३.३.१७३) → अस् लिङ् → अस् मस् → यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) → अस् यासुँट् मस् → अस् यास् मस् → लिङः सलोपोऽनन्त्यस्य (पा॰सू॰ ७.२.७९) → अस् या मस् → श्नसोरल्लोपः (पा॰सू॰ ६.४.१११) → स् या मस् → नित्यं ङितः (पा॰सू॰ ३.४.९९) → स् या म → स्याम।
[३३५] गमॢँधातोः अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन भावे डप्रत्यये डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन टिलोपे विभक्तिकार्ये गम्। अन्येष्वपि इत्यनेन बाहुलकाद्भावेऽपि। अपिशब्दः सर्वोपाधिव्यभिचारार्थः (का॰वृ॰ ३.२.१०१)। गं गीतमितिवत्। यथा शब्दकल्पद्रुमे – गं, क्ली॰, गीयते इति (गै गाने + भावे बाहुलकात् डः) गीतम्, इत्येकाक्षरकोषः। गम् → अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) → गम् ड → गम् अ → टेः (पा॰सू॰ ६.४.१४३) → डित्त्वसामर्थ्यादभस्यापि टेर्लोपः (ल॰सि॰कौ॰ ३४३) → ग् अ → ग → विभक्तिकार्यम् → ग अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → गम्।
[३३६] कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेन।
[३३७] वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन।
[३३८] इष् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → इष् लट् → इष् महिङ् → इष् महि → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → इष् श्यन् महि → इष् य महि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → इष् या महि → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → इष् या महे → इष्यामहे।
[३३९] अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इत्यनेन। प्र अर्थँ उपयाच्ञायाम् (धा॰पा॰ १९०५) → प्र अर्थ् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → प्र अर्थ् णिच् → प्र अर्थ् इ → प्र अर्थि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → प्र अर्थि लट् → प्र अर्थि मिप् → प्र अर्थि मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → प्र अर्थि शप् मि → प्र अर्थि अ मि → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → प्र अर्थे अ मि → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → प्र अर्थय् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → प्र अर्थय् आ मि → प्र अर्थयामि → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → प्रार्थयामि। तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[३४०] न्या हन् → आङो यमहनः (पा॰सू॰ १.३.२८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → न्या हन् लिँट् → न्या हन् त → लिटस्तझयोरेशिरेच् (पा॰सू॰ ३.४.८१) → न्या हन् एश् → न्या हन् ए → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → न्या हन् हन् ए → हलादिः शेषः (पा॰सू॰ ७.४.६०) → न्या ह हन् ए → कुहोश्चुः (पा॰सू॰ ७.४.६२) → न्या झ हन् ए → अभ्यासे चर्च (पा॰सू॰ ८.४.५४) → न्या ज हन् ए → असंयोगाल्लिट्कित् (पा॰सू॰ ६.४.९८) → कित्त्वम् → गमहनजनखनघसां लोपः क्ङित्यनङि (पा॰सू॰ ६.४.९८) → न्या ज ह् न् ए → हो हन्तेर्ञ्णिन्नेषु (पा॰सू॰ ७.३.५४) → न्या ज घ् न् ए → न्याजघ्ने।
[३४१] परस्मैपदे तु निजघान इति रूपम्। नि हन् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → परोक्षे लिट् (पा॰सू॰ ३.२.११५) → नि हन् लिँट् → नि हन् तिप् → परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (पा॰सू॰ ३.४.८२) → नि हन् णल् → नि हन् अ → लिटि धातोरनभ्यासस्य (पा॰सू॰ ६.१.८) → नि हन् हन् अ → हलादिः शेषः (पा॰सू॰ ७.४.६०) → नि ह हन् अ → कुहोश्चुः (पा॰सू॰ ७.४.६२) → नि झ हन् अ → अभ्यासे चर्च (पा॰सू॰ ८.४.५४) → नि ज हन् अ → हो हन्तेर्ञ्णिन्नेषु (पा॰सू॰ ७.३.५४) → नि ज घन् अ → अत उपधायाः (पा॰सू॰ ७.२.११६) → नि ज घान् अ → निजघान।
[३४२] काक्षिँ काङ्क्षायाम् (धा॰पा॰ ६६७) → काक्ष् → इदितो नुम् धातोः (पा॰सू॰ ७.१.५८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → का नुँम् क्ष् → कान् क्ष् → नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) → कांक्ष् → अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) → काङ्क्ष् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → काङ्क्ष् लट् → काङ्क्ष् मिप् → काङ्क्ष् मि → कर्तरि शप् (पा॰सू॰ ३.१.६८) → काङ्क्ष् शप् मि → काङ्क्ष् अ मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → काङ्क्ष् आ मि → काङ्क्षामि।
[३४३] काक्षिँ काङ्क्षायाम् (धा॰पा॰ ६६७) → काङ्क्ष् (पूर्ववत्) → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → काङ्क्ष् लट् → काङ्क्ष् इट् → काङ्क्ष् इ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → काङ्क्ष् शप् इ → काङ्क्ष् अ इ → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → काङ्क्ष् अ ए → अतो गुणे (पा॰सू॰ ६.१.९७) → काङ्क्ष् ए → काङ्क्षे।
[३४४] एवमेव न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च (भ॰गी॰ १.३२) इत्यत्र। विजयराज्यसुखानामकाङ्क्षा न राजोचिता।
This page was last modified on October 22, 2015.
॥ अथ तृतीयोऽध्यायः ॥
॥ धातुप्रकरणम् ॥
प्रणम्य सीतापतिपादपद्मं गौरीं गिरीशं किल धातुशब्दान्।
अपाणिनीयांश्च विमर्शयेऽत्र[१] अध्यात्मरामायणमध्यगान्वै॥
॥ अथ तृतीयाध्याये प्रथमः परिच्छेदः ॥
॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥
(१) पठन्ति शृण्वन्ति यान्ति
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम्।
रामायणं सर्वपुराणसम्मतं निर्धूतपापा हरिमेव यान्ति ते॥
– अ॰रा॰ १.१.३
साम्प्रतमहं तृतीयाध्याये धातुसम्बन्धिनोऽपाणिनीयप्रयोगान् विमर्शये। प्रथमे सर्गे बालकाण्डस्य फलश्रुतिं वर्णयन्नाह ग्रन्थकृद्यद् य इमामध्यात्मरामायणसंहितां पठन्ति ते निर्धूतपापा भगवन्तमेव प्राप्नुवन्ति। आरभ्यमाणग्रन्थस्य फलश्रुतिरियम्। पूर्णतामपि न गतेऽस्मिन् वर्तमानकालीनपाठः कथं सङ्गंस्यत इति चेत्। पठन्ति इति वर्तमानकालिकप्रयोगो भविष्यत्तात्पर्यवाचकः।[२] एवं च वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानसमीपभविष्यत्काले विकल्पेन वर्तमानकालनिमित्तकार्याण्यर्थाद्वर्तमानवद्भावः। यथा च पठिष्यन्ति[३] इत्यर्थे पठन्ति। एवं नानाकर्तृकाध्यात्मरामायणकर्मकभविष्यत्कालावच्छिन्नवर्तमानकालाभासिक उच्चारणानुकूलो व्यापारः इति शाब्दबोधः। धातोः खलु व्यापार एव शक्तिरेवं तिङ् प्रत्ययस्याऽश्रये। व्यापारवाचकत्वे प्रधानतया व्यापारः प्रधानमेवं तिङर्थो विशेषणम्। अर्थाद्वैयाकरणा व्यापारमुख्यविशेष्यकं शाब्दबोधमङ्गीकुर्वन्ति। यद्यपि मीमांसका अपि भावनामुख्यविशेष्यकं शाब्दबोधं मन्यन्ते किन्तु कुत्रचिदपसिद्धान्तितमपि तैः। नैयायिकाः प्रथमान्तमुख्यविशेष्यकं शाब्दबोधं मन्यन्ते। किन्तु पश्य मृगो धावति इत्यत्र भाष्यसम्मतैकवाक्यता भग्ना भवति प्रथमान्तमुख्यविशेष्यके शाब्दबोधे स्वीकृते।[४] धावनानुकूलकृतिमान् मृगः। मृगकर्तृकधावनकर्मकदर्शनानुकूलकृतिमांस्त्वम्। अस्मन्मते तु मृगकर्तृकधावनानुकूलव्यापारकर्मकत्वत्कर्तृकदर्शनानुकूलव्यापारः। इत्थं तिङर्थाश्चत्वारः कर्तृकर्मसङ्ख्याकालाः। कर्तुर्व्यापारेऽन्वयः कर्मणश्च फले सङ्ख्यायाश्च कर्मप्रत्यये कर्मणि कर्तृप्रत्यये च कर्तरि। कालस्य च व्यापारेऽन्वयः। वर्तमाने लट् (पा॰सू॰ ३.२.१२३) इत्यादिसूत्रनिर्देशात्। इत्थं तत्र कारिका –
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्॥
– वै॰सि॰का॰ १.२
फलस्य व्यापारे स्वानुकूलत्वसम्बन्धाश्रयः। एवं भक्ताभिन्नैककर्तृकभविष्यत्कालावच्छिन्नवर्तमानकालाभासिकस्पष्टोच्चारणानुकूलव्यापारः। प्राचीननवीनयोरिदमन्तरम्। प्राचीनास्तूभयत्र समानव्यवस्थां मन्यन्ते। नवीनास्तु कर्तृभाववाच्ययोः फलानुकूलव्यापार एवं कर्मवाच्ये व्यापारविशिष्टफलम्।[५] यथा रामेणायोध्या गम्यते – रामाभिन्नैककर्तृकवर्तमानकालावच्छिन्नव्यापारजन्यं गृहनिष्ठोत्तरदेशसंयोगरूपं फलम् अयमत्र विवेकः।[६] किं फले व्यापारे च धातोः पृथक्शक्तिरुताहो समुदिता चेत्। अनुकूलत्वसम्बन्धेन फलस्य व्यापारेऽन्वयः। तदा पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन इति नियमेन कथमत्रान्वयः। अतो विशिष्टे शक्तिः।[७] गुरुचरणास्त्वेकवृन्तावलम्बिफलद्वयवदेकस्मिन् धातावेव फलव्यापारयोः शक्तिः।[८] विस्तारभयाद्विरम्यते। एवं भक्ताभिन्नैककर्तृकभविष्यत्कालिकवर्तमानकालाभासिकस्पष्टोच्चारणानुकूलव्यापारः इति शाब्दबोधः।[९]
(२) लभेत्
अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम्।
गवां सहस्रायुतकोटिदानात्फलं लभेद्यः शृणुयात्स नित्यम्॥
– अ॰रा॰ १.१.४
अत्र फलश्रुतावेव लभेत् इति हलन्तप्रयोगः। लभ् धातुः (डुलभँष् प्राप्तौ धा॰पा॰ ९७५) आत्मनेपदी। विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) इत्यनेन लिङ्लकारे लिङः सीयुट् (पा॰सू॰ ३.४.१०२) इत्यनेन सीयुट्यनुबन्धलोपे सकारस्य च लोपे गुणे यकारलोपे लभेत इत्येव पाणिनीयम्।[१०] लभेत् इति कथमिति चेत्। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इति वचनेनात्राऽत्मनेपदाभावे परस्मैपद उक्तं रूपम्।[११] यद्वा लभत इति लभः।[१२] लभ इवाऽचरतीति लभति।[१३] तत आचारक्विबन्ताल्लिङि तिपि शपि पररूपे यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) इत्यनेन यासुटि कृते सुडागमे सकारद्वयलोपे अतो येयः (पा॰सू॰ ७.२.८०) इत्यनेनेयादेशे गुणे यलोपे इतश्च (पा॰सू॰ ३.४.१००) इत्यनेनेकारलोपे लभेत्।[१४]
(३) जानामि
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत्।
जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन॥
– अ॰रा॰ १.१.९
अत्र भगवती पार्वती भगवन्तं शिवं प्रार्थयते यत् भक्तिवैराग्यसहितं ज्ञानं यथा जानीयां तथा कुर्वन्तु देवाः। अत्र जानीयाम्[१५] इति प्रयोक्तव्ये जानामि इति प्रयुक्तम्। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानवद्भावः।[१६]
(४) जानाति
वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम्।
जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम्॥
– अ॰रा॰ १.१.१३
भगवती पार्वती श्रीरामलीलाविषयकं संशयं करोति यत् श्रीरामः स्वाविद्यया संवृतमात्मसञ्ज्ञं नाजानात्। अत्र भूतकालिकक्रियायां प्रयोक्तव्यायां जानाति इति वर्तमानकालिकक्रिया प्रयुक्ताऽपाणिनीयेव। किन्तु पुरा इत्यस्याध्याहारे पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) इत्यनेन पुरायोगे लड्लकारः। अर्थात् पुरा न जानाति।[१७] पूर्वं नाजानात् इत्यर्थः।[१८] ब्रह्मणा बोधितः सन् पश्चाद्व्यजानादिति पार्वत्यास्तात्पर्यम्। न च पुरा शब्दो दृश्यत इति वाच्यम्। गम्यमानः सः।
(५) ब्रूत
अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रूत मे संशयभेदि वाक्यम्॥
– अ॰रा॰ १.१.१५
भगवती पार्वती भगवन्तं शशाङ्कशेखरं पृच्छति तत्संशयभेदिवाक्यं ब्रूत। यूयं ब्रूत इत्यध्याहार्यम्। प्रथमपुरुषे प्रयोक्तव्ये[१९] मध्यमपुरुषप्रयोग अपाणिनीयः। एवं च भगवती भवानी पतिव्रताशिरोमणिः। सा च स्वकीयप्राणवल्लभाय मध्यमपुरुषस्य विशेषणं ददाति तत्रापि बहुवचनान्तमिति न परं प्रतिभाति। तथा च नियमः – एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे। पार्वत्यास्तु भगवाञ्छिव एव गुरुः। ऐश्वर्ये त्रिभुवनगुरुत्वान्माधुर्ये प्राणवल्लभत्वाच्च पतिरेव गुरुः स्त्रीणाम् (म॰भा॰ १४.१०८.६, ब्र॰पु॰ ८०.४८, कू॰पु॰ १२.४९, चा॰नी॰ ५.१) इति वचनाच्च। अतो बहुवचनप्रयोगः। तथाऽपि कथं यूयं ब्रूत इति चेत्। अत्रोत्तरं किं विदितं भवद्भिः इत्यत्र भवद्भिः इति विशेषणं शिवस्य कृते दत्तम्। अतः यूयम् इति तत्सम्बन्धिकर्तृविशेषणं नैव विचारसहम्। भवद्भिः इत्यस्य हि भवन्तः इत्यनेन सम्बन्धः स्यात्। यथा यदुत्तरं भवद्भिर्विदितं तद्भवन्तो वदन्तु। किन्तु प्रश्ने कृते शिवः समाधौ न्यलीयत। तं समाधिस्थं विलोक्य तस्य पञ्च वक्त्राण्युद्दिश्य कथयति यत् भोः पञ्चमुखानि यूयमेव संशयभेदकं वाक्यं ब्रूत।[२०]
(६) वक्ष्ये
त्वयाऽद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते।
रामः परात्मा प्रकृतेरनादिरानन्द एकः पुरुषोत्तमो हि॥
– अ॰रा॰ १.१.१७
भगवतीपार्वतीप्रश्नं श्रुत्वा शिवः कथयति अहं भगवन्तं नमस्कृत्य वक्ष्ये। ब्रूधातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) भूवादयो धातवः (पा॰सू॰ १.३.१) इत्यनेन धातुसञ्ज्ञायां लृट् शेषे च (पा॰सू॰ ३.३.१३) इत्यनेन लृड्लकार उत्तमपुरुषे तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इति सूत्रानुसारमिट्प्रत्यये स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) इत्यनेन स्यप्रत्यये ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन ब्रूधातोर्वचादेशे टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेनैकारादेशे अतो गुणे (पा॰सू॰ ६.१.९७) इत्यनेन पररूपे पश्चाच्चकारस्य कुत्वे षत्वे वक्ष्ये इति। अत्र वक्ष्यामि इति कथं नेति चेत्।[२१] क्रियाफलस्य कर्तृगामित्वात्।[२२] रामायणकथाप्रश्नेन पार्वत्यास्तु सन्देहो नष्टो भविष्यत्येव किन्तु तत्कथनेन वक्तुः शशाङ्कमौलेरपि स्वान्तःसुखमुत्पत्स्यते। भगवत्कथाप्रश्नो वक्तारं प्रश्नकर्तारं श्रोतारमिति त्रीनपि पुनाति। तथा चोक्तं भागवते –
वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतृंस्तत्पादसलिलं यथा॥
– भा॰पु॰ १०.१.१६
इयं हि गङ्गा। तथा चोक्तमत्रैव ग्रन्थे –
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥
– अ॰रा॰ १.१.५
अतो वक्ष्ये इति समूलमेव।
(७) भ्रमतीव दृश्यते
यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते।
तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति॥
– अ॰रा॰ १.१.२२
अत्र भ्रम्धातुः (भ्रमुँ अनवस्थाने धा॰पा॰ १२०४) दिवादिः। एवं दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) इत्यनेन लटि तिपि श्यन्प्रत्यये कृते शमामष्टानां दीर्घः श्यनि (पा॰सू॰ ७.३.७४) इत्यनेन दीर्घे भ्राम्यति इति पाणिनीयम्।[२३] भ्रमति इति कथमिति चेत्। वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (पा॰सू॰ ३.१.७०) इत्यनेन श्यनो विकल्पात् भ्रमति।[२४] यद्वा भ्रममाचरतीति भ्रमति अनेन प्रकारेण सिद्धम्।[२५] यद्वा गणकार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन श्यनभावे भ्वादित्वाच्छपि।[२६] यद्वा भ्रमति इति नास्ति क्रियाऽपि तु भ्रमती इव इति भ्रम्धातोरौणादिकतृच्प्रत्ययान्तो भ्रमती।[२७]
(८) आकाङ्क्षते
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित्।
आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति॥
– अ॰रा॰ १.१.४३
अत्र सीता श्रीरामतत्त्वं वर्णयन्ती आकाङ्क्षते इति प्रयुङ्क्ते। यत् रामो नाऽकाङ्क्षते। काङ्क्ष्धातुः (काक्षिँ काङ्क्षायाम् धा॰पा॰ ६६७) परस्मैपदी। एवं ततो लटि तिपि शपि आकाङ्क्षति।[२८] तथा च नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली (र॰वं॰ ६.६९) इति कालिदासोऽपि प्रायुङ्क्तेति चेत्कथमत्रात्मनेपदम्। अत्र विमृश्यते। कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदम्।[२९] कर्मव्यतिहारो हि क्रियाविनिमयः। जीवस्याऽकाङ्क्षा भगवत्यारोपिता। तामेव निरस्यति नाकाङ्क्षते इति।
(९) पठति
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी।
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्॥
– अ॰रा॰ १.१.५६
पठति इति भविष्यत्कालार्थे वर्तमानकालं प्रयुङ्क्त इति चेत्। वर्तमानसामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानकालः।[३०] एवमेव लभते इत्यत्रापि। अर्थात्त्वरितमेव फलसिद्धिर्भविष्यति।[३१]
(१०) मुच्यते
तदद्य कथयिष्यामि शृणु तापत्रयापहम्।
यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात्।
प्राप्नोति परमामृद्धिं दीर्घायुः पुत्रसन्ततिम्॥
– अ॰रा॰ १.२.५
अत्र रामायणस्य शाश्वतत्वाद्वर्तमानकालः।[३२] वैयाकरणानां मते शब्दानां नित्यत्वात्। एवं भक्तानां मते भगवतस्तत्कथायाश्च नित्यत्वात्। अतो जीवानां दृष्टौ वर्तमानभूतभविष्यत्कालाः। त्रिकालाबाध्यत्वात्कालातीतत्वाच्चेश्वरस्य समक्षं निरन्तरं वर्तमानकालः।
(११) सृजामि
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने।
चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक्॥
– अ॰रा॰ १.२.२७
अत्र भगवाञ्छ्रीरामभद्रोऽवतारकथां वर्णयन्नाह यत् कौशल्यायामितरयोश्चाऽत्मानं चतुर्धा सृजामि। अत्र स्रक्ष्यामि इति हि पाणिनीयम्।[३३] किन्तु वर्तमानसामीप्यात् सृजामि इति न दोषः।[३४]
(१२) सृजध्वम्
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान्।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले॥
– अ॰रा॰ १.२.३०
ब्रह्मा देवानादिशति यत् यूयं वानरेष्वात्मानं सृजध्वम्। रचयध्वमिति भावः। सृज्धातुः (सृजँ विसर्गे धा॰पा॰ १४१४) आत्मनेपदी न।[३५] कथमत्र सृजध्वम् इति चेत्। अत्र कर्मव्यतिहारादात्मनेपदम्।[३६] सर्जनं ब्रह्मणः कर्म तदेव देवेभ्यो दीयत इति क्रियाविनिमयः। आत्मनेपदे लोड्लकारे ध्वमि शे सृजध्वम्।[३७]
(१३) दर्शयस्व
उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
दर्शयस्व महानन्दबालभावं सुकोमलम्।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः॥
– अ॰रा॰ १.३.२९
अत्र भगवती कौशल्या स्वसमक्षं प्रकटं श्रीरामभद्रं प्रार्थयते यत् बालभावं दर्शयस्व। अत्र दृश्धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) णिचि लघूपधगुणे रपरत्वे धातुसञ्ज्ञायां पुनर्लोड्लकार आत्मनेपदे थास्प्रत्यये शपि गुणेऽयादेशे स्वादेशे दर्शयस्व।[३८] आत्मनेपदं यदा कर्तरि फलं दृश्येत। अत्र रामरूपे कर्तरि किं फलं श्रीरामस्य फलानपेक्षत्वादिति चेत्। भक्तानन्द एव तस्यापूर्वं फलम्। भक्तहितार्थमेव गृहीतजन्मत्वात्। यद्वा स्व इति सम्बोधनम्। हे स्व दर्शय बालभावम्।[३९] स्वशब्दस्य चत्वारोऽर्था आत्माऽऽत्मीयो ज्ञातिर्धनञ्च।[४०] अतः हे स्व हे मम आत्मन्मम धन इति निजं दर्शय। यद्वा स्व इति महानन्दम् इत्यस्य विशेषणम्। एवं च स्वेभ्य आत्मीयेभ्यो महानानन्दो यस्मात्स स्वमहानन्दः। स्वमहानन्दश्चासौ बालभावश्चेति स्वमहानन्दबालभावस्तं स्वमहानन्दबालभावम्।
(१४) याति
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥
– अ॰रा॰ १.३.३४
अत्र भगवाञ्छ्रीरामो मात्रा सह स्वकीयसंवादस्य फलश्रुतिं वर्णयति य आवयोः संवादं पठेच्छृणुयाद्वा स मम सारूप्यं यायात्। यायात्[४१] इति प्रयोक्तव्ये याति इति प्रयुक्तम्।