॥ अथ द्वितीयोऽध्यायः ॥
॥ कृत्तद्धितप्रकरणम् ॥
नत्वा नीलाम्बुदश्यामं रामं तामरसाननम्।
शोधे गिरिधरः प्रेम्णा द्वितीयाध्यायमारभे॥
अथाध्यात्मरामायणे समागतान् कृत्तद्धितसम्बन्धिनोऽपाणिनीयान् प्रयोगाननुसन्दधे।
॥ अथ द्वितीयाध्याये प्रथमः परिच्छेदः ॥
॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥
(१) संविष्टम्
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसङ्घैः।
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम्॥
– अ॰रा॰ १.१.६
अत्राध्यात्मरामायणस्य प्रारम्भस्थितिं प्रस्तौति।[१] कैलासगिरौ संविष्टं भगवन्तं शिवं पार्वती पृच्छति। अत्र सम्पूर्वकात् विश्धातोः (विशँ प्रवेशने धा॰पा॰ १६३९) कर्तरि गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन क्तप्रत्ययः। लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेनेत्सञ्ज्ञायां लोपे[२] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) इत्यनेन षत्वे ष्टुना ष्टुः (पा॰सू॰ ८.४.४१) इत्यनेन ष्टुत्वे विभक्तिकार्ये संविष्टम् इति। सम्पूर्वकस्य विश्धातोः शयनमर्थः।[३] तर्ह्युपवेशनरूपोऽर्थः कथमिति चेत्। समुपविष्टम् इत्येवात्र। उपउपसर्गस्य लोपः।[४] अत एव संविष्टम् इत्यस्य हि समुपविष्टम् इत्यर्थः।[५]
(२) पुरा रामायणे रामः
पुरा रामायणे रामो रावणं देवकण्टकम्।
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम्॥
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः।
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः॥
– अ॰रा॰ १.१.२६-२७
अत्र भूतभावनो भगवान् शिवोऽध्यात्मरामायणकथायाः प्रस्तावं करोति यत् पुरा रामायणे श्रीरामो रावणं हत्वाऽयोध्यामगमत्। अत्र रामायणे इति हि कस्य विशेषणं किमभिप्रायकं वाऽत्र सप्तमी वा किन्निमित्तिका। यदि चेदाधारे सप्तमी तदा रामायणं पुस्तकमत्र रामनिरूपिताऽऽधारता कथं सम्भवा। यदि चेल्लक्षणया रामायणलक्षितस्तस्या मूलमन्वयानुपपत्तिस्तात्पर्यानुपपत्तिश्च।[६] यथा गङ्गायां घोषः इत्यत्र तात्पर्यानुपपत्तिः। यतो हि घोष आभीरपल्ली। सा च भगीरथरथखातावच्छिन्नजलप्रवाहे सम्भवा नहि। अतोऽन्वयानुपपत्तिरपि तात्पर्यानुपपत्तिश्चेति चेत्सामीप्यसम्बन्धेन गङ्गापदस्य गङ्गातीरे लक्षणा। तथैवेत्यत्रापि रामायणे तात्पर्यानुपपत्तेः रामायणपदस्य रामायणोपलक्षिते काले लक्षणा। इयं च जघन्या वृत्तिर्वैयाकरणमते। एतस्या अस्तित्वमपि नास्तीति चेच्छक्यतावच्छेदकारोप इति चेत्।[७] अलं गुरुगुरुकल्पनया। रामायणमस्त्यस्मिन् स रामायणः इति विग्रहे प्रथमान्ताद्रामायणशब्दात् अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन अच् प्रत्यये यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भसञ्ज्ञायां यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपे रामायणः तस्मिन् रामायणे इति साधु। अर्थाद्रामायणे काले।
(३) हनूमन्तम्
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम्।
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम्॥
– अ॰रा॰ १.१.२९
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम्।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥
– अ॰रा॰ १.१.४४
प्रशस्तो हनुर्यस्य स हनुमान् इति विग्रहे तदस्यास्त्यस्मिन्निति मतुप् (पा॰सू॰ ५.२.९४) इत्यनेन मतुप्प्रत्यये विभक्तिकार्ये हनुमन्तम् इति पाणिनीयम्। हनूमन्तम् इति हि कथम्। ऊङुतः (पा॰सू॰ ४.१.६६) इत्यनेनोङि कृते दीर्घे हनू इति।[८] ततो मतुप्प्रत्यये हनूमान् इति। विभक्तिकार्ये हनूमन्तम्। यद्वा अन्येषामपि दृश्यते (पा॰सू॰ ६.३.१३८) इत्यनेन दीर्घे हनूमन्तम् इति।
(४) आनन्दम्
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम्।
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम्॥
– अ॰रा॰ १.१.३३
अत्र आनन्दशब्दस्य आत्मानम् इत्यनेन सामानाधिकरण्यं कथम्। यतो ह्यात्माऽऽनन्दस्याधिकरणम्। तथा चात्र कथं न षष्ठीति चेत्। अद्वैतवेदान्तमत आत्मन आनन्दरूपत्वात्। न च आनन्दमयोऽभ्यासात् (ब्र॰सू॰ १.१.१३) इति ब्रह्मसूत्र आनन्दस्वरूपत्वं न प्रत्यपादि। अथ कस्मिन्नर्थे मयट्। किं तस्य विकारः (पा॰सू॰ ४.३.१३४) इत्यनेन विकारार्थे। नहि तावदात्मा निर्विकारः आनन्दं निर्मलं शान्तमविकारमकल्मषम् इत्यत्रैवोक्तत्वात् अविकार्योऽयमुच्यते (भ॰गी॰ २.२५) इति गीतायामप्युक्तत्वादिति चेत्। तत्प्रकृतवचने मयट् (पा॰सू॰ ५.४.२१) इत्यनेन प्राचुर्यार्थे। अद्वैतवादिनां मते स्वरूपे। अतः सामानाधिकरण्यं प्राचुर्यार्थे मयटि। परमात्माऽऽनन्दस्य निलयमित्यपेक्षायाम् आनन्दोऽस्त्यस्मिन् इत्यर्शआद्यच्।[९] यद्वा आनन्द इवाऽचरतीत्यानन्दति।[१०] आनन्दतीत्यानन्दः।[११] कर्तरि क्विपि सर्वापहारिलोपे कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) इत्यनेन प्रातिपदिकसञ्ज्ञायां स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (पा॰सू॰ ४.१.२) इत्यनेन अमि विभक्तौ अमि पूर्वः (पा॰सू॰ ६.१.१०७) इत्यनेन पूर्वरूपे आनन्दम् इति पाणिनीयमेव।
(५) अविकारिणि
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः॥
– अ॰रा॰ १.१.४७
अत्र न विकार इत्यविकारः। अविकारोऽस्त्यस्मिन्निति अविकारी इति विग्रहे अत इनिठनौ (पा॰सू॰ ५.२.११५) इत्यनेन इनिप्रत्यये विभक्तिलोपे भसञ्ज्ञायां यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपे पुनः सप्तमीङिविभक्तौ लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेन ङकारेत्सञ्ज्ञायामनुबन्धलोपे अट्कुप्वाङ्नुम्व्यवायेऽपि (पा॰सू॰ ८.४.२) इत्यनेन णत्वे अविकारिणि। अत्र न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः[१२] इति वचनेन हि मत्वर्थीयनिषेधात् इनिः अपाणिनीय इति चेत्। अत्र कर्मधारयो नास्ति तदा कथमुक्तनियमस्य प्रसरः। अत्र कर्मधारयः सकलसमासोपलक्षणमिति चेत्। अत्र न इनिः किन्तु न विकर्तुं तच्छीलः इति विग्रहे विपूर्वकात् कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन णिनिः। णकारानुबन्धे कार्ये अचो ञ्णिति (पा॰सू॰ ७.२.११५) इत्यनेन वृद्धौ रपरत्वे[१३] सप्तम्येकवचने णत्वे[१४] अविकारिणि इति पाणिनीयमेव।
(६) जगत्येन
मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि।
जगत्येन न ते लेप आनन्दानुभवात्मनः॥
– अ॰रा॰ १.२.१५
अत्र रावणकुकृत्यजन्यपादभारपीडितया वसुमत्या सह सकलदेवपुरःसरं क्षीरसागरं गतो ब्रह्मा भगवन्तं स्तुवन्नाह यत्त्रिगुणमय्या मायया हेतुभूतयोपलक्षितस्त्वं संसारं सृजसि पालयसि नाशयसि किन्तु त्वं जागतिकपदार्थेन न लिप्यसे। अत्र जागतिकेन इत्येव प्रयोक्तव्यं यतो हि जगति भवं जागतिकम् इति विग्रहे तत्र भवः (पा॰सू॰ ४.३.५३) इत्यनेन ठक् प्रत्यये तद्धितेष्वचामादेः (पा॰सू॰ ७.२.११७) इति वृद्धौ इसुसुक्तान्तात्कः (पा॰सू॰ ७.३.५१) इत्यनेन कादेशे विभक्तिकार्ये जागत्केन इत्येव पाणिनीयम्। एवं जगत्येन इति विमृश्यते। तथा च आत्मनो जगदिच्छतीति जगत्यति इति विग्रहे सुप आत्मनः क्यच् (पा॰सू॰ ३.१.८) इत्यनेन क्यच् प्रत्यये लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेनेत्सञ्ज्ञायामनुबन्धलोपे वर्तमाने लट् (पा॰सू॰ ३.२.१२३) इति लट्। ततः तिपि शपि जगत्यति।[१५] ततः जगत्यतीति जगत्यः इति विग्रहे नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन अच् प्रत्यये विभक्तिकार्ये तृतीयैकवचने टाविभक्तौ टाङसिङसामिनात्स्याः (पा॰सू॰ ७.१.१२) इत्यनेनेनादेशे गुणे[१६] जगत्येन इति पाणिनीयमेव। यद्वा जगत्संसारं याति गच्छति इति विग्रहे जगदुपपदे याधातोः (या प्रापणे धा॰पा॰ १०४९) आतोऽनुपसर्गे कः (पा॰सू॰ ३.२.३) इत्यनेन कप्रत्यये ककारस्यानुबन्धकार्ये आतो धातोः (पा॰सू॰ ६.४.१४०) इत्यनेनाऽकारलोपेऽपदत्वाज्जश्त्वाभावे[१७] जगत्यः तेन जगत्येन। यद्वा जगदाचष्ट इति जगतयति।[१८] जगतयतीति जगत् इत्याचक्षाणाण्णिजन्तात्क्विपि ककारस्य लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेनेत्सञ्ज्ञायां तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन लोप इकारस्य उपदेशेऽजनुनासिक इत् (पा॰सू॰ १.३.२) इत्यनेनेत्सञ्ज्ञायां लोपे पकारस्य हलन्त्यम् (पा॰सू॰ १.३.३) इत्यनेनेत्सञ्ज्ञायां लोपे वेरपृक्तस्य (पा॰सू॰ ६.१.६७) इत्यनेन वकारलोपे णेरनिटि (पा॰सू॰ ६.४.५१) इत्यनेन णिलोपे।[१९] पुनः यातीति यः।[२०] जगदेव य इति जगत्यः इति विग्रहे कर्मधारयसमासे जगत्यः। न च झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यनेन कथं न जश्त्वम्। पृषोदरादित्वात्[२१] तद्भावकल्पनेनादोषात्। पुनः तेन जगत्येन।
(७) सपत्निवत्
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो।
स्पर्धते वक्षसि पदं लब्ध्वाऽपि श्रीः सपत्निवत्॥
– अ॰रा॰ १.२.१९
अत्र सपत्न्या तुल्यम् इति विग्रहे तेन तुल्यं क्रिया चेद्वतिः (पा॰सू॰ ५.१.११५) इत्यनेन वति प्रत्यये सपत्नीवत्।[२२] सपत्निवत् इति कथम्। अत्र हि ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम् (पा॰सू॰ ६.३.६३) इत्यनेन ह्रस्वः।[२३]
(८) अतिहर्षितः
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः।
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः॥
– अ॰रा॰ १.२.२२
ब्रह्मणः स्तुतिं श्रुत्वाऽऽत्मानं प्रदर्श्य भगवान् बभाषे यत् किं करोमि इति। समाकर्ण्यातिहृष्टो ब्रह्मा प्रत्युवाच। अतिहृष्टः इति प्रयोगतन्त्रे अतिहर्षितः इत्यपाणिनीय इव प्रयुक्तः। यतो हि हृष्धातोः (हृषँ तुष्टौ धा॰पा॰ १२२९) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेनाकर्मकधातोः कर्तरि क्तप्रत्यये ककारानुबन्धलोपे[२४] ष्टुत्वे[२५] विभक्तिकार्ये हृष्टः इत्येव हि पाणिनीयम्। हर्षितः इति प्रयोगोऽपि पाणिनीयः। यतो हि हर्षः सञ्जातोऽस्य इति विग्रहे तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इत्यनेन इतच्प्रत्ययेऽनुबन्धलोपे यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भसञ्ज्ञायां यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपे विभक्तिकार्ये हर्षितः। यद्वा हर्षमितः इति विग्रहे द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (पा॰सू॰ २.१.२४) इत्यनेन द्वितीयातत्पुरुषसमासः। न च इतशब्दस्य श्रितादिबहिर्भूतत्वात्कथं समास इति वाच्यम्। द्वितीया इति योगविभागेन द्वितीया समर्थेन सुबन्तेन समस्यत इत्यर्थकरणे द्वितीयातत्पुरुषो नैव दोषावहः। तेन गृहं यातो गृहयातः गृहमागतो गृहागतः इत्यादिप्रयोगा अपि सङ्गच्छन्ते। कालिदासोऽपि प्रयुङ्क्ते यथा –
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः॥
– र॰वं॰ ३.११
अत्र गृहमागतो गृहागतः इत्यसति योगविभागे कथं समासः सम्भवः। तस्मात् हर्षमितः इति विग्रहे द्वितीयातत्पुरुषे कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) इत्यनेन प्रातिपदिकसञ्ज्ञायां सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्तिलुकि पुनस्तामेव प्रातिपदिकसञ्ज्ञामाश्रित्य सौ विभक्तौ हर्षितः। न च सति विभक्तिलोपे हर्ष इत इति स्थिते गुणः स्यादिति चेत्। अत्राऽकृतिगणत्वात् शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेन पररूपम्। कुत्र स्यात्कस्य वेति चेत्। तच्च टेः (वै॰सि॰कौ॰ ७९, ल॰सि॰कौ॰ ३९)। अर्थात्तत्पररूपं भसञ्ज्ञकस्य टेः स्थाने भवतु।[२६] असति च तस्मिन् शकघटकाकारस्य पररूपतया शक अन्धु इति स्थिते तयोर्दीर्घो दुर्वार एव। एवं मनस् ईषा इति स्थिते शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेनाऽकृतिगणत्वात् मनीषा इत्यत्र टि इत्यस्य पररूपे मन् ई ईषा इति स्थिते ततो अज्झीनं वर्णपरेण संयोज्यम् (स्व॰शि॰ ८.१५) इति वचनात् मनीषा इत्यत्र दीर्घः। अनिष्टः प्रयोगः स्यात्किन्तु पतत् अञ्जलौ इति। टि इत्यस्य पररूपे दीर्घे पताञ्जलिः इत्यसङ्गतं स्यात्।[२७] अतः ‘टेः’ इति पञ्चम्यन्तम्। तदन्वचि परे पूर्वपरयोः पररूपम् इत्यस्मद्गुरुचरणाः।[२८] तथैवात्रापि पररूपं करणीयम्।
(९) मद्दत्तवरदर्पितः
भगवन् रावणो नाम पौलस्त्यतनयो महान्।
राक्षसानामधिपतिर्मद्दत्तवरदर्पितः॥
– अ॰रा॰ १.२.२३
अत्र ब्रह्मा रावणस्योच्छृङ्खलतां वर्णयति। मद्दत्तवरदर्पितः इति। अत्र मया दत्तो वर इति मद्दत्तवरस्तेन दर्पितः इति विग्रहे दृप्धातोः (दृपँ हर्षमोहनयोः धा॰पा॰ ११९६) अनिट्कत्वात्[२९] दृप्तः इत्येव पाणिनीयं दर्पितः इति कथम्। दर्पः सञ्जातोऽस्य इति विग्रहे तारकादिगणे दर्पितशब्दस्य पाठात् इतच् प्रत्यये[३०] भत्वादकारलोपे[३१] दर्पितः। यद्वा दर्पमितः इति द्वितीयासमासे पररूपे[३२] दर्पितः इति।
(१०) सहायम्
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान्।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले॥
– अ॰रा॰ १.२.३०
अत्र भगवान् ब्रह्मा सर्वान् देवान् वानरशरीराणि स्रष्टुं प्रेरयति। विष्णोः सहायं कुरुत अत्र सहायम् इत्यपाणिनीयमिव। यतो हि अयँ गतौ (धा.पा. ४७४) इत्यस्मात्कर्तरि अच्प्रत्यये सहायः इति भवति[३३] किन्त्वत्र तु सर्वे सहायं कुरुत इति विवक्षायां सहायशब्दो भावसाधनः प्रतीयते। भावे च सहायस्य भावः साहाय्यम् इति विग्रहे गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा.सू. ५.१.१२४) इत्यनेन ष्यञ्प्रत्यये वृद्धौ भत्वादकारलोपे[३४] साहाय्यम्। अत्र सहायम् इति हि। पञ्चवट्यां निवासे भगवतः साह्यं कुर्वन्तु[३५] इति विवक्षायां सहायम् इति कथमिति चेत्। सहायम् इत्यत्र पृषोदरादित्वाद्वृद्ध्यभावे यकारलोपे सहायम्। यद्वा सर्वे सहायं यथा स्यात्तथा कुर्वन्तु इति क्रियाविशेषणत्वाद्द्वितीया। यद्वा आत्मानं सहायं कुर्वन्तु इत्यध्याहारेऽप्यपाणिनीयतापरिहारः। यद्वा अयनम् अयः इति भावे एरच् (पा॰सू॰ ३.३.५६) इत्यनेन इधातोः (इण् गतौ धा॰पा॰ १०४५) अचि गुणेऽयादेशे विभक्तिकार्ये अयः। सह अयः सहायस्तं सहायम् इति साधनीयम्।[३६]
(११) सहायार्थम्
देवाश्च सर्वे हरिरूपधारिणः स्थिताः सहायार्थमितस्ततो हरेः।
महाबलाः पर्वतवृक्षयोधिनः प्रतीक्षमाणा भगवन्तमीश्वरम्॥
– अ॰रा॰ १.२.३२
अत्र सहायार्थम् इति प्रयोगोऽपि तथैव। अत्र अयनमयः। भावे अच्।[३७] सह अयः सहायः।[३८] तस्मायिदम् सहायार्थम्।[३९] यद्वा भावेऽयं घञन्तः आयः।[४०] तेन सन्धौ कृते न दोषः। सह आयः सहायः। तस्मा इदं सहायार्थम्। एवं निष्पन्नसहायशब्दस्य चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (पा॰सू॰ २.१.३६) इत्यनेन अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा॰ २.१.३६) इतिवार्त्तिकबलेन नित्यसमासे सिद्धमिदम्। न च सहायाय इदम् इति लौकिकविग्रहे श्रूयते पश्चात् अर्थशब्देन सह समास इति चेत्। विग्रहो द्विधा स्वपदविग्रहोऽस्वपदविग्रहश्च। स्वपदविग्रहो नाम यत्र विग्रहे श्रुतानां पदानां समासः। यत्र विग्रहेऽश्रुतानामपि श्रुतार्थबोधसमर्थानां समासस्तत्रास्वपदविग्रहः। यथा प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (पा॰सू॰ २.३.४६) इति सूत्रे। अत्र हि प्रातिपदिकार्थश्च लिङ्गञ्च परिमाणञ्च वचनञ्चेति प्रातिपदिकार्थलिङ्गपरिमाणवचनानि तान्येवेति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रं तस्मिन् प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे। अत्र विग्रहे श्रुतस्तु एवशब्दः किन्त्वस्वपदविग्रहतया तदर्थवाचक आगतो मात्रशब्दः। स च प्रत्येकमन्वितः। यतो हि द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते। न च द्वन्द्वघटकोऽन्त्यशब्दस्तु वचनमिति तदेव प्रत्येकमभिसम्बध्यतामिति चेत्। अन्त्यशब्दस्य समीपार्थे लक्षणा। न च सा जघन्या वृत्तिर्वैयाकरणैरस्वीकृताऽपि।[४१] तथा च गङ्गायां घोषः इत्यत्राऽभीरपल्ल्यर्थवाचकस्य घोषशब्दस्य गङ्गापदाभिधेयभगीरथरथखातावच्छिन्नजलप्रवाहरूपे शक्यार्थेऽन्वयासम्भवात्तात्पर्यानुपपतेश्च। अत्र सामीप्यसम्बन्धेन गङ्गापदस्य गङ्गासमीपवर्तितटे लक्षणा। न च गङ्गायाम् इत्यत्र सप्तमी कथमिति चेत्। औपश्लेषिकस्याऽधारस्यात्र विवक्षा। औपश्लेषिको हि सम्बन्धः। उपश्लेषे भव औपश्लेषिकः इति तत्र जातः (पा॰सू॰ ४.३.२५) इत्यनेन ठक्।[४२] उपश्लेषश्च सामीप्येन संयोगेन वा सम्बन्धः। संयोगे यथा कटे शेते। सामीप्ये यथा गुरौ वसति। न तु गुरुमभिसंयुज्य वसति अपि तु गुरोः समीपे वसति। तथैव गङ्गायां घोषः। न तु गङ्गामभिसंयुज्य घोषः अपि तु गङ्गासमीपे घोषः। ध्येयमेतत् – शक्यार्थे स्वीकृते गङ्गायां मीनः इत्यादौ कटे शेते इत्यादिवत् संयोगसम्बन्धरूप औपश्लेषिक आधारे सप्तमी किन्तु लक्ष्यार्थे गङ्गायां घोषः इत्यादौ सामीप्यसम्बन्ध औपश्लेषिक आधारे सप्तमी गुरौ वसति इत्यादिवत्। परञ्च गङ्गायां मीनघोषौ इत्यादौ लक्षणास्वीकारे दोषः। यतो हि मीनश्च घोषश्च मीनघोषौ इति द्वन्द्वः। स च साहित्यमपेक्षते। साहित्यं नामैकधर्मावच्छिन्नस्यैकधर्मावच्छिन्नसंसर्गेणैककर्मावच्छिन्नेऽन्वयः। यथा रामलक्ष्मणौ राक्षसान् हतः इत्यत्र रामलक्ष्मणौ इत्यस्य कर्तृत्वरूपसम्बन्धावच्छिन्नकर्तृत्वरूपधर्मेण हन्तृत्वरूपधर्मावच्छिन्ने हननकर्मण्यन्वयः। तथात्रासम्भवः। एकधर्मावच्छिन्नस्य मीनघोषौ इत्यस्यैकधर्मावच्छिन्नसंसर्गेण स्वनिष्ठत्वावच्छिन्नस्वनिष्ठत्वसंसर्गेण सत्तात्वावच्छिन्नसत्तापदार्थेऽन्वयः। परमत्र गङ्गायां मीनघोषौ इत्यत्र मीनपदार्थाय गङ्गापदस्य प्रवाहार्थो घोषकृते तीररूपो लक्ष्यार्थस्तर्हि कथमन्वय इति चेत्। अत्र लक्षणामनङ्गीकृत्य शक्यतावच्छेदकधर्मारोपः। तथा कृत उभयत्र प्रवाहरूपोऽर्थः समान एव। तस्मादत्र न लक्षणा। सामीप्ये षष्ठी च चेत् द्वन्द्वस्यान्तं द्वन्द्वान्तं द्वन्द्वसमीपान्तम् इत्यर्थः। सामीप्यषष्ठ्यर्थस्यास्मन्नयेऽस्वीकारात्प्रौढमनोरमाबृहच्छब्दरत्नलघुशब्दरत्नादौ साटोपं खण्डितत्वाच्च। तत्रेयं परिस्थितिर्यदावृत्तहलन्तमित्यत्रैव प्रौढमनोरमायां दीक्षितमहाभागैः पूर्वपक्षः प्रदर्शितो यत् हलित्येकदेशस्यैव तन्त्रावृत्त्येकशेषान्यतममस्तु (प्रौ॰म॰ १)। हस्य ल् इति समासः करिष्यत एवं च षष्ठ्यर्थः सामीप्यं भविष्यति। तथा च अन्त्यशब्दो ल्शब्देन सहान्वेष्यते। तथा च हसमीपवर्त्यन्त्यो लकार इत् इत्यर्थस्वीकारेऽन्योऽन्याश्रयदोषपरिहारः किन्तु स्वीकृतेऽस्मिन् विकल्पे षष्ठ्यर्थो हि सामीप्यम्। तस्य च सर्वथाऽसिद्धत्वम्। यतो हि सामीप्यरूपस्य षष्ठ्यर्थस्य लोकेऽप्रसिद्धिः। नहि नीलमम्बरं यस्य इत्युक्ते नीलाम्बरसमीपवर्तिभवनादिः प्रतीयते न वा चित्रा गावो यस्य इत्युक्ते चित्रगवीनां समीपवर्तिवृक्षादिः प्रतीयते। किं वा चित्रा गावोऽन्तरा समीपे वा यस्य इत्यर्थे बहुव्रीहिमत्वर्थीयमपि न भवति अन्तराशब्दस्य सामीप्यस्य च षष्ठ्यर्थस्वीकारे मानाभावात्। अत एव अन्तरेण न समासः इति भाष्योक्तिः।[४३] वस्तुतस्तु षष्ठ्यर्था यद्यप्येकशतम् एकशतं हि षष्ठ्यर्थाः (भा॰पा॰सू॰ १.१.४९) इति भाष्योक्तेः किन्तु सम्बन्धभेदेनार्थात्सम्बन्धवैचित्र्येण तदर्थवैविध्यम्। यतो हि सूत्रकारोऽपि षष्ठ्याः सम्बन्धमेवार्थं कण्ठरवेण कथयति। षष्ठी शेषे (पा॰सू॰ २.३.५०)। शेषशब्दो हि शिष्धातोः (शिषॢँ विशेषणे धा॰पा॰ १४५१) कर्तरि अच्प्रत्ययेन। शिनष्टि कारकादीनि प्रातिपदिकार्थञ्च विशिनष्टि स्वस्माद्व्यावर्तयतीति शेषः। पचादित्वादचि प्रत्यये[४४] पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे विभक्तिकार्ये सिद्धः शेषः इति। यद्वा शिष्यते सर्वेभ्यः कारकप्रातिपदिकार्थेभ्यो व्यावर्तत इति शेषः इति अकर्तरि च कारके सञ्ज्ञायाम् (पा॰सू॰ ३.३.१९) इत्यनेन कर्तृभिन्ने कर्मणि कारके घञि गुणे सिद्धम्। यद्वा शेषणं शेषः इति विग्रहे भावघञन्तः।[४५] सोऽस्त्यस्मिन्निति मत्वर्थीयोऽर्शआद्यच्।[४६] न च करणे घञ् इति चेत्। करणाधिकरणयोश्च (पा॰सू॰ ३.३.११७) इत्यनेन विधीयमानल्युट्प्रत्यनेन बाधोऽत एव। पुंसि सञ्ज्ञायां घः प्रायेण (पा॰सू॰ ३.३.११८) इत्यनेन घः प्रत्ययः क्रियताम्। सञ्ज्ञाभावे कथमत्र। घः प्रायेण इति हि सञ्ज्ञायाम् इत्यस्य विशेषणमिति चेत्। प्रायेण इति विशेषणं न करणघञ्व्यवस्थापकम्। न ह्युपाधेरुपाधिर्भवति (भा॰पा॰सू॰ १.३.२, ५.१.१६) इति भाष्यकारेण निषिद्धत्वात्। अत एव हलश्च (पा॰सू॰ ३.३.१२१) इति घञपि न यतो ह्ययं घविषयेऽपवादत्वात्प्रवर्तते। उत्सर्गापवादौ समानदेशौ भवतः[४७] इति नियमस्य सार्वत्रिकत्वात् घ एव बाध्यते तर्हि घञः का गतिः। अगतिकगतिस्तस्माद्भावघञन्त एव। पश्चात् अच् प्रत्यये शेषशब्दो निष्पाद्यते। इमा युक्तयः प्रौढमनोरमायाम् उपदेशशब्दनिष्पत्तौ स्पष्टं निरूपिता दीक्षितमहाभागैर्यथा – यद्यपि उपदिश्यतेऽनेनेति करणव्युत्पत्त्या शास्त्रमुपदेश इति भाष्यवृत्त्यादिषु व्याख्यातं तथाऽपि तत्प्रौढिवादमात्रं करणे घञो दुर्लभत्वाल्ल्युटा बाधात्। न च “घः” असञ्ज्ञत्वात्। प्रायेण सञ्ज्ञायामिति व्याख्यानस्य क्लिष्टत्वात्। न ह्युपाधेरुपाधिर्भवतीत्यादिना भाष्यकृतावहेलनाच्च। अत एव घापवादः “हलश्च” (पा॰सू॰ ३.३.१२१) इति घञपीह न। बाहुलकं त्वगतिकगतिः। अत एव प्रक्रियन्ते शब्दा याभिरिति करणव्युत्पत्तिरपि परास्ता। तथा च वार्त्तिकं “अजब्भ्यां स्त्रीखलनाः” (वा॰ ३.३.१२६) “स्त्रियाः खलनौ विप्रतिषेधेन” (वा॰ ३.३.१२६) इति। अतो भाव एव प्रत्ययो न्याय्य इति भावः इति (प्रौ॰म॰ ३)। किन्तु यन्निमित्तोपदेशप्रवृत्तावित्यादिषु स्थलेषु भाष्ये करणघञन्तस्य प्रतिपादितत्वात्सा सरणिरत्राप्यनुसर्तव्या। तथा च शिष्यन्ते कारकप्रातिपदिकार्था अनेनेति शेषः। स सम्बन्धः। तथा च सिद्धान्तकौमुद्यां कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् (वै॰सि॰कौ॰ ६०६)। एवं हि सम्बन्धः षष्ठ्यर्थ इति राद्धान्तः। सम्पूर्वकात् बन्ध्धातोः (बन्धँ बन्धने धा॰पा॰ १५०८) सम्यग्बध्नाति प्रतियोग्यनुयोगिनौ यः स सम्बन्धः इति विग्रहे कर्तरि पचाद्यचि।[४८] तथा च सम्बन्धो हि द्विष्ठः सम्बन्धिभिन्न आश्रयतया विशिष्टबुद्धिनियामकश्चेति वैयाकरणसिद्धान्तः।[४९] सामीप्यं हि नैव द्विष्ठम्। अतः कथं सम्बन्धो भवेदिति ममापि मनीषा। एवं षष्ठ्यर्थो न सामीप्यम्। अतः षष्ठीबलेन सामीप्यार्थो नावगन्तुं शक्यते। तेन पदसमीपेऽन्तपदस्य लक्षणा। साऽस्वीकृतेति चेच्छक्यतावच्छेदकतारूपः। इत्थमुपबृंहणेन सिद्धमिदं यदस्वपदविग्रह एव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (पा॰सू॰ २.३.४६) इति सूत्रे। मात्रशब्दस्य मयूरव्यंसकादित्वात्समासः।[५०] तथैव सहायायेदं सहायार्थम् इत्यत्राप्यस्वपदविग्रहे अर्थशब्देन नित्यसमासः[५१] क्रियाविशेषणत्वाच्च द्वितीया। अथवा सहायार्थम् इति पदं भगवन्तम् इत्यस्य विशेषणम्। एवं हि हरिरूपधारिणः सर्वे देवा हरेरितस्ततः स्थिताः सहायार्थमीश्वरं भगवन्तं प्रतीक्षमाणाः इति योजनीयम्। एवं सहायानामर्थः सहायार्थः। सोऽस्त्यस्मिन्निति सहायार्थः। अर्शआद्यच्।[५२] तं सहायार्थम्। सहायप्रयोजनवन्तमिति भावः। सेवकेभ्यो गौरवं दातुं भगवाञ्छ्रीरामो रावणेन पराजितानपि देवान् स्वकीयलीलोपकरणानि मत्वा तत्साहाय्यमभिलषति यथा श्रीमद्भागवते –
नेदं यशो रघुपतेः सुरयाच्ञयाऽऽत्तलीलातनोरधिकसाम्यविमुक्तधाम्नः।
रक्षोवधो जलधिबन्धनमस्त्रपूगैः किं तस्य शत्रुहनने कपयः सहायाः॥
– भा॰पु॰ ९.११.२०
यद्वा सहायान् कपीश्वरानर्थयतेऽभिलषत्यन्वेष्टि वेति सहायार्थस्तं सहायार्थम् इति विग्रहे णिजन्तअर्थ्धातोः (अर्थ उपयाच्ञायाम् धा॰पा॰ १९०६) कर्मण्यणि[५३] दीर्घे विभक्तिकार्ये सिद्धमिदम्।[५४]
(१२) पुत्रीयम्
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम्।
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः॥
– अ॰रा॰ १.३.८
अत्र पुत्रे भवं पुत्रीयम् इति भवार्थे छप्रत्यये[५५] तस्य चेयादेशे[५६] विभक्तिकार्ये पुत्रीयम् इति। किन्तु भवार्थस्यानुपयोगादत्र पुत्राय हितम् इति विग्रहे छप्रत्यये[५७] शब्दसिद्धिः। यद्वा आत्मनः पुत्रमिच्छति इति विग्रहे सुप आत्मनः क्यच् (पा॰सू॰ ३.१.८) इत्यनेन क्यच्प्रत्यये क्यचि च (पा॰सू॰ ७.४.३३) इत्यनेन दीर्घ ईकारे धातुसञ्ज्ञायां[५८] लटि तिपि शपि पुत्रीयति।[५९] पुत्रीयतीति पुत्रीयः इति विग्रहे पचादित्वादच्।[६०] तच्च भावे। एवं तदस्त्यस्मिन्निति विग्रहेऽच्प्रत्यये[६१] पुत्रीयम्। अथवा पुत्री इति पृथक्पदम्।[६२] अग्निर्यज्ञस्थले प्रादुर्भूय महाराजं दशरथं कथयति यत् त्वं पुत्री दिव्यं पायसं गृहाण यं गृहीत्वा पुत्रत्वोपलक्षितं परमात्मानं लप्स्यसे।
(१३) इत्युक्ते
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल।
इति त्वया याचितोऽसौ भगवान्भूतभावनः॥
– अ॰रा॰ १.४.१६
अत्राध्यात्मरामायणे बालकाण्डे चतुर्थसर्गे विश्वामित्रो यज्ञरक्षार्थं श्रीरामं दशरथमयाचत्। तत्र पुत्रवात्सल्यधिया महीपतिना महामुनिः विश्वामित्रः प्रत्याख्यातः। पश्चाद्वसिष्ठो महाराजं प्रत्यबोधयद्यत्पुरा त्वया बहु तप्तं[६३] तदा वृणीष्व वरम् इति भगवत्युक्तवति त्वया भगवान् पुत्ररूपेण याचितः स एव परमात्मा श्रीरामरूपेण तव गृहेऽवातरत्। इह उक्ते इति भगवद्विशेषणम् उक्तवति इत्यभिप्रायकम्। प्रायो निष्ठासञ्ज्ञकौ द्वौ प्रत्ययौ क्तः क्तवतुश्च।[६४] क्तप्रत्ययः प्रायशः कर्मणि भावे च भवति।[६५] तथा च सूत्रम् तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०)। क्तवत्तुप्रत्ययः कर्तर्येव भवति।[६६] किन्त्वत्र उक्ते इति कथमिति चेत्। ब्रूधातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) भावे क्तप्रत्ययः।[६७] ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन वच् आदेशे वचिस्वपियजादीनां किति (पा॰सू॰ ६.१.१५) इत्यनेन सम्प्रसारणे चोः कुः (पा॰सू॰ ८.२.३०) इत्यनेन ककारे विभक्तिकार्ये उक्तम्। तदस्त्यस्मिन्निति उक्तम्। अर्शआदित्वादच्।[६८] तस्मिन्नुक्ते। इत्थं मत्वर्थीयेनाच्प्रत्ययेन उक्तवति इत्यभिप्रायकः उक्ते इति शब्दोऽपि पाणिनीय एव। यद्वा उक्तमाचष्टे करोति वा इति विग्रहे तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) इति णिचि तिपि शपि उक्तयति।[६९] उक्तयतीत्युक्तः। कर्तर्यच्।[७०] तस्मिन् उक्ते। यद्वा उक्ते इति कर्मण्येव प्रत्ययः। वृणीष्व वरमिति भगवतोक्ते त्वयि इति न दोषः।[७१] अथवा वाक्य उक्ते।[७२]
(१४) प्रमुदितान्तरः
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा।
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः॥
– अ॰रा॰ १.४.२१
श्रीरघुनाथस्याऽध्यात्मिकरहस्यं वसिष्ठमुखान्निशम्य महाराजो मुमुदे। अत्र प्रयोगो वर्तते प्रमुदितान्तरः। प्रमुदितमन्तरं यस्य स प्रमुदितान्तरः इति। प्रामोद्यत इति प्रमोदितम्। अयं भूतकालानुसारेण विग्रहः। णिचि पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे धातुसञ्ज्ञायां क्तप्रत्यये सति आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) इत्यनेनेटि कृते णिलोपे विभक्तिकार्ये प्रमोदितम् इत्येव पाणिनीयम्।[७३]न च पुगन्तलघूपधस्य च इति गुणोऽत्र न प्रवर्त्स्यत्यतो नापाणिनीयता।[७४] यतो हि सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) इति सम्पूर्णस्य सूत्रस्यात्रानुवृत्तिस्तत्र च सप्तमी। एवं मिदेर्गुणः (पा॰सू॰ ७.३.८२) इत्यतो गुणपदमनुवर्त्यते। तथा च इको गुणवृद्धी (पा॰सू॰ १.१.३) इति सूत्रेण षष्ठ्यन्तम् इकः इति पदमप्युपतिष्ठते। यतो हि षड्विधसूत्रेषु इको गुणवृद्धी इति सूत्रं परिभाषासूत्रम्। परिभाषा नामानियमे नियमकारिणी। अर्थाद्गुणः कुत्र भवेदित्यनियमे सतीयं नियमयति यदिक एव गुणः स्यात्। तथा हि सूत्रार्थः गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र ‘इक’ इति षष्ठ्यन्तं पदमुपतिष्ठते (वै॰सि॰कौ॰ ३४)। गुणवृद्धिशब्दाभ्याम् इत्यत्र हि पञ्चमी। सा च गुणवृद्धिशब्दावुच्चार्य इत्यर्थे। उच्चार्यरूपल्यबन्तकर्मणि गुणवृद्धिशब्दइत्यत्र ल्यब्लोपे कर्मण्यधिकरणे च (पा॰सू॰ २.३.२८) इति वार्त्तिकेन श्वशुराज्जिह्रेति (वै॰सि॰कौ॰ ५९४) इतिवत्पञ्चमी। अर्थात् गुणवृद्धी उच्चार्य यत्र गुणवृद्धी विधीयेते तत्र इकः इति षष्ठ्यन्तमुपतिष्ठते। एवं गुणपदप्रयोज्यविधेयताश्रयभूते गुणे विधीयमाने तथा वृद्धिपदप्रयोज्यविधेयताश्रयभूतायां वृद्धौ विधीयमानायाम् इकः इति षष्ठ्यन्तं पदमुपतिष्ठत इति। अर्थात् मिदेर्गुणः (पा॰सू॰ ७.३.८२) इतिसूत्रादनुवृत्तलघूपधगुणविधायकसूत्रस्थगुणपदप्रयोज्यविधेयताश्रयो गुणो विधीयतेऽतः षष्ठ्यन्तम् इकः इति पदमुपतिष्ठते। तस्य च लघूपधस्य इत्यनेनान्वये षष्ठीसमभिव्याहारादवयवावयविभावसम्बन्धः। एवं सार्वधातुकार्धधातुकाव्यवहितपूर्वत्वविशिष्टस्य पुगन्तलघूपधाङ्गावयवस्येकः स्थाने गुणः अयं हि परिष्कृतसूत्रार्थः। तथा चात्र णिच् इत्यार्धधातुकसञ्ज्ञः। आर्धधातुकं शेषः (पा॰सू॰ ३.४.११४) इति सूत्रविहिता सा सञ्ज्ञा। तथा च प्रमुद् इ त[७५] इत्यत्र इक् मकारानन्तरमुकारः। किन्तु तदार्धधातुकाव्यवहितं नास्ति दकारस्य व्यवधानात्। अत एव गुणाप्राप्तौ प्रमुदित इति कामं पाणिनीय इति चेत्। येन नाव्यवधानं तद्व्यवहितेऽपि वचनप्रामाण्यात् (भा॰पा॰सू॰ ७.२.३, ७.३.४४, ७.३.५४, ७.४.१, ७.४.९३)। येन इति कर्तरि तृतीया। अर्थात् यत्कर्तृकमव्यवधानं न तेन व्यवहितेऽपि वचनप्रामाण्याद्गुणो भवेत्। यतो ह्ययं लघूपधगुणः। उपधात्वं नाम समुदायविशिष्टवर्णत्वम्।[७६]वैशिष्ट्यञ्च स्वघटकत्वस्वघटकान्त्यालवधिकपूर्वत्वविशिष्टत्वम् इति।[७७] एतदुभयसम्बन्धेन। तथा च सूत्रम् अलोऽन्त्यात्पूर्व उपधा (पा॰सू॰ १.१.६५)। अन्त्यादलः पूर्वो वर्ण उपधासञ्ज्ञः स्यात् (वै॰सि॰कौ॰ २४९)। एवं लघ्व्युपधा लघूपधा पुगन्तञ्च लघूपधा चेति समाहारद्वन्द्वे तस्य च अङ्गस्य इत्यनेनावयवावयविभावसम्बन्धेनान्वय एवम् अङ्गावयवं सार्वधातुकार्धधातुकाव्यवहितपूर्वत्वविशिष्टं यत्पुगन्तं लघूपधञ्च तस्येको गुणः इति सुपरिष्कृतः सूत्रार्थः। तथा च लघूपधशब्दयोगेन वर्णमात्रव्यवधानं त्वनिवार्यमेव। तदभाव उपधा कुतः। यतो ह्यन्त्यादलः पूर्वस्थैव सा। अतः येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (वै॰सि॰कौ॰ २१८९) इति प्रवर्तते। एवं च प्रमुद् इ त[७८] इत्यत्र दकारकर्तृकं व्यवधानं त्वनिवार्यम्। अत एकवर्णकर्तृकव्यवधानमत्र सोढव्यं येन इत्येकवचनप्रयोगात्। तेन भिनत्ति इत्यत्रानेकव्यवहित इकि न गुणः।[७९] भेत्ता इत्यादौ गुणः।[८०] इदं सर्वं सिद्धान्तकौमुद्यां भ्वादिप्रकरणे प्रपञ्चितम्।[८१] अतोऽत्र गुणप्राप्तिर्दुर्वारेति। अत्रोच्यते। वस्तुतोऽयं न णिजन्तोऽपि तु शुद्धात् मुदँ हर्षे (धा॰पा॰ १६) इति धातोः कर्तरि क्तान्तप्रयोगः।[८२] यद्वा नायं क्तान्तः प्रयोगोऽपि तु प्रमुद्यत इति प्रमुत्[८३] इति विग्रहे भावे क्विप्प्रत्यये[८४] सर्वापहारिलोपे सा सञ्जाताऽस्य इति सञ्जातार्थ आकृतिगणतया तारकादित्वात् इतच्प्रत्यये[८५] चकारानुबन्धकार्ये विभक्तिकार्ये प्रमुदितम् इति। यद्वा प्रमुदमितं प्रमुदितम् इति विग्रहे द्वितीया इति योगविभागेन द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (पा॰सू॰ २.१.२४) इत्यनेन समासे प्रमुदितम् इति पाणिनीयमेव। प्रमुदितमन्तरं यस्य प्रमुदितान्तरः इति साधनिकाप्रकारः।
(१५) क्षुत्क्षामादि
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते।
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते॥
– अ॰रा॰ १.४.२५
अत्र विश्वामित्रो यज्ञरक्षार्थं सौमित्रिसहितं रणधीरं श्रीरघुवीरं सिद्धाश्रमं समानयन् सरयूतटे श्रीरामभद्राय बलामतिबलां चैव द्वे विद्ये प्रयच्छति स्म ययोर्ग्रहणमात्रेण क्षुत्पिपासे न लगतः।[८६] तत्र क्षुत्क्षामादि इति प्रयोगो वर्तते। क्षुच्च क्षामं चेति क्षुत्क्षामौ ते आदौ यस्य तत् इति। एवं क्षामशब्दो हि प्रायः कर्तरि[८७] तर्हि कथं पिपासावाचकः। अत्र क्षै क्षये (धा॰पा॰ ९१३) इत्यस्माद्धातोर्भावे क्तप्रत्ययः।[८८] आदेच उपदेशेऽशिति (पा॰सू॰ ६.१.४५) इत्यनेनाऽकारादेशे क्षायो मः (पा॰सू॰ ८.२.५३) इत्यनेन मादेशे विभक्तिकार्ये क्षामम्।
(१६) क्रोधसम्मूर्च्छिता
तच्छ्रुत्वाऽसहमाना सा ताटका घोररूपिणी।
क्रोधसम्मूर्च्छिता राममभिदुद्राव मेघवत्॥
– अ॰रा॰ १.४.२९
ताटकामवलोक्य श्रीरामभद्राय विश्वामित्र आदेशं ददौ। अग्नौ शलभ इव सा स्वयमेव क्रोधसम्मूर्च्छिता रघुनन्दनमभिदुद्राव। अत्र क्रोधेन सम्मूर्च्छिता इति प्रयोगोऽपाणिनीयो लगति। यतो हि मुर्छाँ मोहसमुच्छ्राययोः (धा॰पा॰ २१२) इति धातोः कर्तरि क्तप्रत्यये राल्लोपः (पा॰सू॰ ६.४.२१) इत्यनेन रेफादङ्गस्य च्छस्य लोपे टापि मूर्ता इति पाणिनीयम्।[८९] मूर्च्छिता इति कथम्। मूर्च्छनं मूर्च्छा।[९०] मूर्च्छिता इति तु मूर्च्छाऽस्याः सञ्जाता सा मूर्च्छिता इति विग्रहे तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इत्यनेन इतच् प्रत्यये भत्वाट्टिलोपे[९१] टापि मूर्च्छिता। यद्वा मूर्च्छामिता मूर्च्छिता इति विग्रहे द्वितीयातत्पुरुषे शकन्ध्वादित्वात्पररूपे मूर्च्छिता इति।[९२]
(१७) प्रस्थिताः
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले।
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः॥
– अ॰रा॰ १.५.१
कानने महर्षिविश्वामित्रमहाभागैरेकां रजनीमुषित्वाप्रभाते प्रास्थायि। अत्र प्रोपसर्गसंयोजनेन गतिनिवृत्त्यर्थकस्थाधातोः (ष्ठा गतिनिवृत्तौ धा॰पा॰ ९२८) गत्यर्थकतयाऽकर्मकत्वाभावात्कर्तरि कथं क्तप्रत्ययः। एवं हि प्रस्थिताः इति स्थाधातोः कर्तरि क्तप्रत्यये घुमास्थागापाजहातिसां हलि (पा॰सू॰ ६.४.६६) इत्यनेनाऽकारस्येकारे विभक्तिकार्ये प्रस्थिताः इति चेत्। कर्मणोऽविवक्षायां क्तप्रत्ययः।[९३] यद्वा गत्यर्थकतयाऽपि क्तप्रत्यय आपत्त्यभावः।[९४]
(१८) कुतः
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ।
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह॥
– अ॰रा॰ १.५.४
अत्र श्रीरामभद्रो राक्षसयोः सुबाहुमारीचयोः स्थितिं जिज्ञासते। कुत्र तौ राक्षसाधमौ इति प्रष्टव्ये कुतः इति पृच्छति। कुतः इत्यत्र कस्मात् इति विग्रहे पञ्चम्यास्तसिल् (पा॰सू॰ ५.३.७) इति तसिलन्तप्रयोगः। सा च पञ्चमी विश्लेषमूलिका। अत्र विश्लेषाभावेऽपि कथं पञ्चमीति चेत्। अत्र विवक्षाधीनानि कारकाणि भवन्ति[९५] इति वचनेन पञ्चम्यन्तविवक्षया न दोषः। विवक्षाधीनानि कारकाणि भवन्ति इति वचने किं मानमिति चेत् कारके (पा॰सू॰ १.४.२३) इति हि सूत्रम्। अत्र प्रथमार्थे सप्तमीति भाष्यनिर्देशात्[९६] सूत्रकारप्रयोग एव मानम्। अथवाऽवध्यवधिमतोः[९७] कुतः स्थानात्समीपं राक्षसाधमौ इत्यर्थेऽन्तिकशब्दयोगे पञ्चमी।[९८] अथवा कुं पृथ्वीं तनुतः कृशां कुरुत इति कुतः इति विग्रहः। कुउपपदे तन्धातोः (तनुँ विस्तारे धा॰पा॰ १४६३) औणादिके ड्विन् प्रत्यये[९९] डित्त्वसामर्थ्यादभस्यापि टेर्लोपे[१००] सर्वापहारिलोपे च कुत्। तस्य द्विवचनान्तं रूपं कुतौ। व्यत्ययो बहुलम् (पा॰सू॰ ३.१.८५) इत्यनेन औविभक्तिस्थाने ङस्विभक्तौ कुतः इति छान्दसरूपम्।[१०१] अर्थात् वसुमतीं कृशयतो राक्षसाधमौ दर्शयस्व।यद्वाऽत्र नास्ति तसिल् अपि तु तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम् (वा॰ ५.४.४४) इत्यनेन सप्तमीतस्तसि प्रत्ययः।[१०२]
(१९) त्वरितम्
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात्।
धर्षयित्वाऽथ निरगात्त्वरितं मुनिरप्यगात्॥
– अ॰रा॰ १.५.२२
न चात्र तूर्णम् इति प्रयोक्तव्ये त्वरितम् इति प्रयुक्तम्।[१०३] अत्र आदितश्च (पा॰सू॰ ७.२.१६) इत्यनेनेण्निषेधे प्राप्ते रुष्यमत्वरसङ्घुषास्वनाम् (पा॰सू॰ ७.२.२८) इत्यनेन निषेधविकल्पः। तस्मात् तूर्णम् त्वरितम् इति रूपद्वयम्।[१०४] यद्वा त्वरामाचष्टे त्वरयति[१०५] इत्यस्मात् त्वरितम्।[१०६] भावे क्तः।[१०७] क्रियाविशेषणत्वाद्द्वितीया। यद्वा त्वरयेतं यथा स्यात्तथा इति विग्रहे तृतीया तत्कृतार्थेन गुणवचनेन (पा॰सू॰ २.१.३०) इत्यत्र तृतीया इति योगविभागेन समासः।[१०८]
॥ इति बालकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथायोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
(२०) अतिविदूयता
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते।
इत्यात्मन्येव सञ्चिन्त्य मनसाऽतिविदूयता॥
– अ॰रा॰ २.३.३
अत्राध्यात्मरामायणेऽयोध्याकाण्डे तृतीयसर्गे श्रीरामराज्याभिषेकसमाचारं श्रावयितुमिच्छुश्चक्रवर्ती दशरथः कैकेयिभवनं प्रविश्य तां दृष्ट्वा खिन्नेन मनसा पप्रच्छ। अत्र अतिविदूयता इति प्रयुक्तम्। अयं ह्यात्मनेपदीयो धातुः। तथा च दूङ् परितापे (धा॰पा॰ ११३३) इत्यस्मात्।[१०९] यथा कालिदासोऽपि प्रयुङ्क्ते –
तया हीनं विधातर्मां कथं पश्यन्न दूयसे।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम्॥
– र॰वं॰ १.७०
एवञ्च दूयत इति दूयमानं तेन दूयमानेन। आत्मनेपदीयत्वात् शानच्प्रत्यय एव सम्भवः। तथा च सूत्रम् – लटः शतृशानचावप्रथमासमानाधिकरणे (पा॰सू॰ ३.२.१२४)। अनेन लड्लकारस्य शतृशानचौ प्राप्तौ तदाऽग्रिमसूत्रेण शानच्प्रत्यय आत्मनेपद एव विधीयते तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इत्यनेन। तर्हि विदूयता इति कथमिति चेत्। विदूयत इति विदूयः इति विग्रहे पचाद्यच्।[११०] विदूयस्य भावो विदूयता इति विग्रहे तस्य भावस्त्वतलौ (पा॰सू॰ ५.१.११९) इत्यनेन तल्प्रत्यये टापि विदूयता। न च मनसाऽतिविदूयता इत्यनेन न सामानाधिकरण्यमेकत्र तृतीयान्ताऽपरत्र प्रथमान्तेति। सामानाधिकरण्ये नैव राजाज्ञा। मनसा इति तृतीया तु इत्थंभूतलक्षणे (पा॰सू॰ २.३.२१) इत्यनेन। मनसोपलक्षिताऽतिविदूयता।
(२१) निवारयित्वा
निवारयित्वा तान्सर्वान्कैकेयी रोषमास्थिता।
ततः प्रभातसमये मध्यकक्षमुपस्थिताः॥
– अ॰रा॰ २.३.३५
अत्र श्रीरामवनवासषड्यन्त्रं कार्यान्वितं चिकीर्षुः कैकेयी सर्वानपि मङ्गलोत्सवान्निवारयति। अत्र वारिधातोः[१११] समानकर्तृकयोः पूर्वकाले (पा॰सू॰ ३.४.२१) इत्यनेन क्त्वा प्रत्यये सतीटि[११२] सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) इत्यनेन वारि इत्यस्य गुणेऽयादेशे निउपसर्गे निवारयित्वा इत्याशङ्क्य निपूर्वकात् वारिधातोर्निष्पन्नोऽयं शब्दः। तथा समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा॰सू॰ ७.१.३७) इत्यनेन ल्यप् प्रत्यये तथा च निवार्य इति पाणिनीयम्।[११३] निवारयित्वा इति कथम्।उच्यते। न चात्र समासो विकल्पो विवक्षाधीनो वाऽतः समासाभाव उक्तदोष एव नास्ति। कुगतिप्रादयः (पा॰सू॰ २.२.१८) इत्यनेन हि नित्यसमासः। तर्हि नयतीति नीः इति विग्रहे क्विप्प्रत्यये[११४] सर्वापहारिलोपेऽर्थात् सर्वान् दुखं नयन्ती वारयित्वा।[११५] यद्वा निषिद्धं वारं निवारं करोतीति निवारयति[११६] इति विग्रह आचारणिजन्तात् निवारिधातोः क्त्वाप्रत्ययः।[११७] एवं च कैकय्यभिन्नैककर्तृकपूर्वकालावच्छिन्ननिषिद्धभूतकवारणानुकूलो व्यापारः।[११८] इत्थं निवारिधातोः क्त्वाप्रत्यये नापाणिनीयता।[११९] अथवा निवारयतीति निवारयित्वा इति विग्रहे निपूर्वकवारिधातोः अन्येभ्योऽपि दृश्यन्ते (पा॰सू॰ ३.२.७५) इत्यनेन वनिप्प्रत्ययः। पकारस्येत्सञ्ज्ञायां लोप इटि गुणेऽयादेशे ह्रस्वस्य पिति कृति तुक् (पा॰सू॰ ६.१.७१) इत्यनेन तुगागमे विभक्तिकार्ये सर्वनामस्थाने चासम्बुद्धौ (पा॰सू॰ ६.४.८) इत्यनेन दीर्घे सुलोपनलोपयोः निवारयित्वा इति सम्यक्पाणिनीयम्।[१२०] निवारणशीला कैकेयी सर्वान्प्रति रोषं प्रकटयन्ती मध्यकक्षमाश्रिता इति ग्रन्थान्वयप्रकारः।
(२२) भुञ्जन्
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः।
भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा॥
– अ॰रा॰ २.४.४१
अत्र श्रीरामो लक्ष्मणमुपदिशन् भुञ्जन् इति प्रयुङ्क्ते। भुजँ पालनाभ्यवहारयोः (धा॰पा॰ १४५४) इत्यस्माद्धातोः भुङ्क्त इति भुञ्जानः इत्येव रूपं सामान्यतः पाणिनीयमते धातोरस्याभ्यवहारार्थ आत्मनेपदीयत्वात्।[१२१] भुङ्क्ते इति विग्रहे लड्लकारे कर्तरि लटः शतृशानचावप्रथमासमानाधिकरणे (पा॰सू॰ ३.२.१२४) इत्यनेन शतृशानचौ प्राप्तौ। तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इत्यनेन शानच्प्रत्यये कृते शकारस्यानुबन्धकार्ये चकारानुबन्धलोपे च भुञ्जानः इत्येव।[१२२] भुञ्जन् इति कथमिति चेत् भुङ्क्ते इति विग्रहे। भुञ्जानं वाऽचष्टे भुञ्जति[१२३] इति विग्रहे पुनः शतरि भुञ्जन्।[१२४] यद्वा भुजोऽनवने (पा॰सू॰ १.३.६६) इति सूत्रेणात्मनेपदं तच्चावनभिन्नेऽर्थे अनवने इति पर्युदासात्। ध्येयं यत्पाणिनिसूत्रेषु निषेधस्य द्वे क्रिये प्रसिद्धे पर्युदासः प्रसज्यश्च। पर्युदासस्तदा भवति प्रायो यदा निषेधः समासगर्भे यथा स्थानिवदादेशोऽनल्विधौ (पा॰सू॰ १.१.५६)। अत्र अनल्विधौ अर्थादल्विधिभिन्ने तत्सदृशे तथैवात्रापि। प्रसज्यस्तु यदा स्वतन्त्रो नञ्वाचको नकारो यथा न विभक्तौ तुस्माः (पा॰सू॰ १.३.४)। अत्र नकारः क्रियान्वयी। लक्षणमित्थं करणीयम् – पाणिन्युच्चरितनिषेधार्थबोधकत्वे सति कारकान्वयित्वे सति समासगर्भनञ्धर्मवत्त्वं पर्युदासत्वम्। प्रसज्यत्वं तु पाणिन्युच्चरितनिषेधार्थबोधकत्वे सति क्रियान्वयित्वे सति नञ्धर्मतावच्छेदकतावत्त्वम्। तथा चोच्यते –
द्वौ नञर्थौ समाख्यातौ पर्युदासप्रसज्यकौ।
पर्युदासः सदृग्ग्राही प्रसज्यः प्रतिषेधकृत्॥
– इति गुरवः
अतोऽत्रापि अनवने इति पर्युदासः। अवनभिन्नेऽवनसदृशे। सादृश्यं चाऽत्र धातुवाच्यत्वेन। सदृशत्वं नाम तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्। यथा चन्द्रमिव मुखं पश्यति (का॰सू॰वृ॰ ४.२.१३) इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वमिति सदृशत्वम्। तथैव अवनभिन्नत्वे सत्यवनगतधातुवाचकत्वम्। एवमत्रावनार्थं प्रसृज्य भोजनार्थ आत्मनेपदम्। यतो हि भुज् धातोर्द्वयोरर्थयोः शक्तिर्भोजने पालने चैव। भुजँ पालनाभ्यवहारयोः (धा॰पा॰ १४५४) इति पठितत्वात्। अतोऽवनभिन्नेऽर्थ आत्मनेपदं भवत्यवने तु परस्मैपदम्। तत्रैव शतृप्रत्ययः। अर्थात् भुनक्तीति भुञ्जन् इति विग्रहे भुज् धातोः वर्तमाने लड्लकारे लटः शतृशानचावप्रथमासमानाधिकरणे (पा॰सू॰ ३.२.१२४) इत्यनेन शतृँप्रत्यये लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेन शकारस्येत्सञ्ज्ञायां तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन लोप ऋकारस्य च उपदेशेऽजनुनासिक इत् (पा॰सू॰ १.३.२) इत्यनेनेत्सञ्ज्ञायां तेनैव सूत्रेण लोपे प्रातिपदिकसञ्ज्ञायां विभक्तिकार्ये सौ भुज् अत् सु इति स्थिते रुधादिभ्यः श्नम् (पा॰सू॰ ३.१.७८) इत्यनेन श्नमि प्रत्यये मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) इत्यनेन जकारात्पूर्वं कृते शकारमकारयोरनुबन्धकार्ये श्नसोरल्लोपः (पा॰सू॰ ६.४.१११) इत्यनेनालोपे उगिदचां सर्वनामस्थानेऽधातोः (पा॰सू॰ ७.१.७०) इत्यनेन नुमि सोर्लोपे तकारलोपे च भुञ्जन्।[१२५] भगवतोऽयमभिप्रायो यत्त्वं प्रारब्धं मा भुङ्क्ष्व अपि तु भुङ्ग्धि। कारणमिदं यत्त्वं योगेश्वरोऽसि। योगेश्वरो भोगं न बुभुक्षतेऽपि तु योगमेव युयुक्षते। अतस्त्वं भुङ्ग्धि मर्यादानुसारं रक्ष पालय। यतो हि लक्ष्मण ईश्वररूपः। ईश्वरश्चक्रवर्तिदशरथस्य गृह आत्मानं चतुर्धा कृत्वा प्रकटयाम्बभूवेति रामायणपुराणादौ प्रसिद्धम्। यथा वाल्मीकीयरामायणे –
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥
– वा॰रा॰ ६.१२८.१२०
एवं श्रीमद्भागवतेऽपि –
तस्यापि भगवानेष साक्षाद्ब्रह्ममयो हरिः।
अंशांशेन चतुर्धाऽगात्पुत्रत्वं प्रार्थितः सुरैः।
रामलक्ष्मणभरतशत्रुघ्ना इति सञ्ज्ञया॥
– भा॰पु॰ ९.१०.२
एवमत्राप्यध्यात्मरामायणे शेषस्तु लक्ष्मणो राजन् (अ॰रा॰ १.४.१७) इति बहुत्र सङ्कीर्तनात्। ईश्वरस्य कर्मविपाको न भवति। सूत्रेऽपि क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो॰सू॰ १.२४) इति। अत एव –
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते॥
– भ॰गी॰ ४.१४
इति भगवद्गीतोक्तमपि सङ्गच्छेत। अतो लक्ष्मण ईश्वरः। न वा तस्य प्रारब्धो न वा कर्मबन्धनं न वा बुभुक्षामुमुक्षे। अत एवाऽचतुर्दशाब्दमरण्ये त्यक्तनिद्रानारीभोजनत्वमपि सङ्घटते। अतो भगवाञ्छ्रीरामः कथयति यत् त्वं प्रारब्धभोगाय न विवशोऽपि तु लोकसङ्ग्रहार्थमखिलं प्रारब्धं भुञ्जन्नवन् रक्षन्नित्यर्थस्तटस्थो भूत्वा वर्तस्व। इत्थं लक्ष्मणाभिन्नैककर्तृकप्रारब्धकर्मकवर्तमानकालावच्छिन्नप्रारब्धपालनानुकूलव्यापाराश्रयो लक्ष्मण इति शाब्दबोधः।
(२३) उद्वीक्षयन्
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः
पौरान् जानपदान् कुतूहलदृशः सानन्दमुद्वीक्षयन्।
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन्
पादन्यासपवित्रिताखिलजगत्प्रापालयं तत्पितुः॥
– अ॰रा॰ २.४.८७
अत्र ईक्ष्धातुर्दर्शने (ईक्षँ दर्शने धा॰पा॰ ६१०) आत्मनेपदी। स च उद्विइत्युपसर्गद्वयपूर्वकः। तथा चाऽत्मनेपदित्वादत्र शानज्रूपम् उद्वीक्षमाणः इति पाणिनितन्त्रानुरूपम्। उद्वीक्षयन् अपि तथैव। अत्र स्वार्थे णिच्। उद्वीक्षते इत्यर्थे उद्वीक्षयति।[१२६] उद्वीक्षयतीत्युद्वीक्षयन्। यद्वा उद्वीक्ष्यत इत्युद्वीक्षा उद्विपूर्वकधातोर्भावे अः प्रत्ययः स्त्रियाम्।[१२७] उद्वीक्षां करोत्युद्वीक्षयति इति विग्रहे तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) इत्यनेन णिचि टिलोपादौ उद्वीक्षयति।[१२८] ततः शतरि विभक्तिकार्ये उद्वीक्षयन्। यद्वा पौराः श्रीराममुद्वीक्षन्ते रामस्तान् प्रेरयति इत्यर्थे रामः पौरानुद्वीक्षयति इति विग्रहे तत्प्रयोजको हेतुश्च (पा॰सू॰ १.४.५५) इत्यनेन हेतुसञ्ज्ञायां हेतुमति च (पा॰सू॰ ३.१.२६) इत्यनेन णिचि सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) इत्यनेन धातुसञ्ज्ञायां लटि तिपि शपि गुणेऽयादेशे उद्वीक्षयति। उद्वीक्षयतीत्युद्वीक्षयन् इति विग्रहे शतृप्रत्यये पूर्वोक्तसाधनप्रक्रियातः उद्वीक्षयन् इति पाणिनीयमेव। प्रथमपक्षे पौरजनकर्मकदर्शनानुकूलव्यापाराश्रयो रामः। द्वितीयकल्पे वर्तमानकालावच्छिन्नपौरजनकर्तृकरामकर्मकवीक्षणानुकूलव्यापारानुकूलव्यापाराश्रयो रामः इति शाब्दबोधः।
(२४) गच्छतीम्
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति।
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम्॥
– अ॰रा॰ २.५.५
अत्र भगवतीं जनकनन्दिनीं सीतां वल्कलवस्त्रधारिणं पादचारिणं सौमित्रिसुखकारिणं भक्तभयहारिणमाप्तकामं श्रीराममनुगच्छन्तीं विलोक्य सशोकाः पौरलोकाः समालोचमाना निगदन्ति पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम्। अत्र गच्छन्तीम् इति हि पाणिनीयम्। यतो हि गच्छतीति गच्छन्ती ताम् इति विग्रहे गम्धातोः (गमॢँ गतौ धा॰पा॰ ९८२) वर्तमानकाले लड्लकारे शतृप्रत्ययेऽनुबन्धकार्ये इषुगमियमां छः (पा॰सू॰ ७.३.७७) इत्यनेन छान्तादेशे छे च (पा॰सू॰ ६.१.७३) इत्यनेन तुगागमे श्चुत्वे उगितश्च (पा॰सू॰ ४.१.६) इत्यनेन ङीपि नुम्यमि गच्छन्तीम्।[१२९] गच्छतीम् इति कथम्। अत्र हि पृषोदरादित्वान्नुमभावः। यद्वा आगमशास्त्रमनित्यम् (प॰शे॰ ९३.३)। अतो नुमभावः कल्प्यताम्। यद्वाऽत्रौणादिकः तृँच्प्रत्ययः।[१३०] ततश्च उगितश्च (पा॰सू॰ ४.१.६) इत्यनेन ङीप्। इत्थम् गच्छतीम् इति पाणिनीयम्। उणादयः पाणिनिसम्मता न वेति चैत्तत्रैव पाणिनिसूत्रम् उणादयो बहुलम् (पा॰सू॰ ३.३.१)। तत्रैव कारिका –
सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
कार्याद्विद्यादनूबन्धमेतच्छाशास्त्रमुणादिषु॥
– भा॰पा॰सू॰ ३.३.१
(२५) विजानती
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात्।
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती॥
– अ॰रा॰ २.५.३६
अत्रापि विजानाति इति विग्रहे शतृप्रत्यये ङीपि नुमि विजानन्ती इति।[१३१] परमत्र नुमभावः। श्नाभ्यस्तयोरातः (पा॰सू॰ ६.४.११२) इति लोपेन।[१३२]
(२६) भाषतोः
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः।
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः॥
– अ॰रा॰ २.६.१६
अत्र गुहलक्ष्मणयोर्भाषतोर्भाषमाणयो रात्रिर्व्यतीता। भाषतोः इत्यपाणिनीयमिव। यतो हि भाषणार्थको भाष्धातुः (भाषँ व्यक्तायां वाचि धा॰पा॰ ६१२) आत्मनेपदी। ततश्च भाषेते इति भाषमाणौ तयोर्भाषमाणयोः इति पाणिनीयम्। किन्तु भाषेते इति भाषौ पचादित्वादच्।[१३३] पुनः भाषाविवाऽचरतो भाषतः।[१३४] आचारार्थे क्विप्। ततश्च धातुत्वाल्लटि तसि शपि। ततः भाषत इति भाषन्तौ[१३५] इति विग्रहे परस्मैपदधातोः शतृप्रत्यये भाषतोः षष्ठ्यन्तं सप्तम्यन्तं वा।[१३६] ज्ञात्वाऽपि श्रीरामतत्त्वं कथनोपकथनव्याजेन लोके श्रीरामतत्त्वाविश्चिकीर्षया भाषणमाचरतोरिवेति ग्रन्थतात्पर्यं प्रतिभाति। इदं ह्यध्यात्मरामायणम्। अत्र प्रत्यक्षरं निगूढदर्शनपीयूषनिर्भरम्। अतो व्याकरणप्रयोगा अपि विशेषमेव निगूढरहस्यात्मकं तत्त्वं वितन्वन्तो लक्ष्यन्ते। यतो हि लक्ष्मणः साक्षान्नारायणस्य भगवतः श्रीरामस्यांशः। दार्शनिकदृष्ट्या च चतस्रोऽवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः। चतसृणामपि चत्वारो विभवो विराड्ढिरण्यगर्भसर्वज्ञब्रह्माख्याः। तत्राशेषविशेषातीतं ज्ञानगीर्गोऽतीतं निर्गुणं ब्रह्म तुरीयं श्रीरामः। तदवस्था तुरीयावस्था श्रीसीता। तुरीयावस्थाब्रह्मणोरिव सीतारामयोरप्यभेदः। सुषुप्त्यवस्था माण्डवी। तच्चैतन्याधिष्ठानदेवता सर्वज्ञ ईश्वरो भरतः। स्वप्नावस्था श्रुतकीर्तिः। तच्चैतन्याधिष्ठानं हिरण्यगर्भः शत्रुघ्नः। जागृतावस्थोर्मिला। तद्विभुर्विराट् श्रीलक्ष्मणः। अतस्तुलसीदासो गायति –
सुन्दरी सुन्दर बरनि सह सब एक मंडप राजहीं।
जनु जीव उर चारिउ अवस्था बिभुन सहित बिराजहीं॥[१३७]
– रा॰च॰मा॰ १.३२५.१४
एवमेवेमे चत्वारो रामभरतलक्ष्मणशत्रुघ्नाः क्रमशो मोक्षकामधर्मार्थरूपाः। धर्मादिष्वनियमः (वा॰ २.२.३४) इति वार्त्तिकेनात्राभिप्रायानुसारं क्रमव्यत्यासः। एवम् ओम् (ॐ) इत्यत्र हि चत्वारि पदानि – अ उ म् अर्धमात्रा च। तत्रार्धमात्रात्मको रामो मकारो भरतो वासुदेव उकारः शत्रुघ्नो विधिरूपोऽकारो लक्ष्मणः शिवरूपश्चेति कथ्यते[१३८] –
बेद तत्त्व नृप तव सुत चारी॥[१३९]
– रा॰च॰मा॰ १.१९८.१
इदं सर्वं कण्ठरवेण कथितं विस्तरभयान्न निरूप्यते। एवं लक्ष्मणः साक्षाद्भगवान्निषादश्च नित्यो भगवत्परिकरः किं तयोः किमप्यज्ञातम्।[१४०] केवलं लोकलीलार्थं प्रश्नं प्रश्नोत्तरं कुर्वन्ताविव लक्ष्येते। अतो भावतो विदितरामतत्त्वतयाऽभाषमाणयोरेव भाषणमाचक्षाणयोरिवानयोर्बाह्यपरिवेषः।
(२७) निरहङ्कारिणः
निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः।
समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम्॥
– अ॰रा॰ २.६.५७
अत्र प्राचेतसाश्रमं गत्वा सुनिवासस्थानं श्रीरामचन्द्रेण पृष्टो हृष्टो वाल्मीकिः प्रणिगदति निरहङ्कारिणः इति। यद्यप्यत्र द्वेधा समासः कर्तुं पार्यते तत्पुरुषो बहुव्रीहिश्च तत्पुरुषो यथा अहङ्कारान्निष्क्रान्ता निरहङ्काराः इति निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा॰ २.२.१८) इति वचनसहायेन कुगतिप्रादयः (पा॰सू॰ २.२.१८) इति सूत्रेण प्रथमः समासो द्वितीयश्च प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च (वा॰ २.२.२२) इत्यनेन बहुव्रीहिरपि निर्गतोऽहङ्कारो येषामिति निरहङ्काराः इत्थं द्वयोः समासयोः कृतयोरपि निरहङ्कारिणः इति विधाय तत्पुरुषं पुनर्मत्वर्थीय इनिः इति। न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः[१४१] इति पाणिनिसम्मतनियममुल्लङ्घ्य किमेतेन द्रविडप्राणायामेन। द्रविडप्राणायामप्रकारनिदर्शनं हि निर्गतोऽहङ्कारो निरहङ्कारः इत्यत्र कुगतिप्रादयः (पा॰सू॰ २.२.१८) इत्यनेन तत्पुरुषसमासः पश्चात् निरहङ्कार एषां निरहङ्कारिणः इति चेत्।[१४२] उच्यते। यदि बहुव्रीहावभीष्टार्थलाभः स्यात्तदेदमनुधावनं न स्यात्। तदैव नियमोल्लङ्घनरूपाऽपाणिनीयता स्यात्। बहुव्रीहौ नित्यनिरहङ्काररूपेऽभीष्टेऽर्थे न प्राप्ते नित्ययोगविवक्षायामिनिरत एव न दोषः।[१४३] अतो गीतायामपि निरहङ्कारः इति प्रयुक्तं यथा –
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥
– भ॰गी॰ १२.१३
अर्थान्निरहङ्कारस्तु मम प्रियः किन्तु निरहङ्कारिणो हृदये वसामीत्येवान्तरं बहुव्रीहिमत्वर्थीययोः। एवं निरहङ्कारिणः इत्यत्र नित्यमहङ्काराभाव इति गूढमर्थं ध्वनयितुं तत्पुरुषबहुव्रीहिवर्त्म विहाय विकटः पन्था आश्रितः। यद्वा अन्यमपि दर्शयामि। निरहं कर्तुं शीलं येषां ते निरहङ्कारिणः इति सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन सूत्रेण णिनिविधाने निरहङ्कारिणः।
(२८) प्रकाशन्तः
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभाः।
तानन्वधावं लोभेन तेषां सर्वपरिच्छदान्॥
– अ॰रा॰ २.६.६८
अत्र वाल्मीकिर्भगवन्तं श्रीरामं प्रति पूर्ववृत्तान्तवर्णनप्रसङ्गे सप्तर्षिवर्णनं प्रस्तौति। अत्र प्रकाशन्तः इति प्रयोगः। प्रपूर्वको काश्धातुर्दीप्त्यर्थः (काशृँ दीप्तौ धा॰पा॰ ११६२) अकर्मक आत्मनेपदी च। अत्र शानचा भवितव्यं शत्रन्तप्रयोगो ह्यपाणिनीय इति चेत्। प्रकाशन्तः इत्थमाचारक्विबन्ताद्रूपसिद्धिः।[१४४] यद्वा अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) मत्वा परस्मैपदत्वाच्छतृप्रत्ययः।[१४५]
(२९) निश्चयः
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः।
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम्॥
– अ॰रा॰ २.६.७३
अत्र सप्तर्षिकथितमेवानुवदति वाल्मीकिर्यत् तावद्वयमत्र स्थास्यामो यावत्त्वं कृतनिश्चय आगमिष्यसि। आगमिष्यसि निश्चयः इति वाक्यखण्डे निश्चयः इति हि युष्मत्पदवाच्यवाल्मीकिरूपकर्तृविशेषणम्। त्वं निश्चयः सन् यावदागमिष्यसि तावद्वयं स्थास्यामः इति भावः। निश्चयशब्दः प्रायो भावेऽबन्तः।[१४६] भावप्रत्ययान्तशब्दः कथं कर्तृवाचकस्य विशेषणमसमानाधिकरणात्। असामानाधिकरण्ये कथं स्याद्विभक्तिः कथमन्वयश्च। सामानाधिकरण्याभावे आगमिष्यसि इति प्रयोगोऽपि नैव सम्भविष्यति। तथा च सूत्रम् युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (पा॰सू॰ १.४.१०५)। अस्यार्थः तिङ्वाच्यकारकवाचिनि युष्मद्युपपदे समानाधिकरणे प्रयुज्यमानेऽप्रयुज्यमाने वा मध्यमः। न च क्वचिदसमानाधिकरणमपि विशेषणम्। विशेषणविशेष्ययोः सामानाधिकरण्ये नैव राजाज्ञा। भूतले घटः, राज्ञः पुरुषः इत्यादौ यथा सप्तम्यन्तषष्ठ्यन्तयोरपि विशेषणत्वदर्शनात्। सत्यम्। किन्त्वत्र समानाधिकरणत्वं नाम समानविभक्तिकत्वम्। समानविभक्तिकत्वं प्राय एकार्थवाचकयोर्विशेषणविशेष्ययोरेव भवति। यथा नीलमुत्पलम् अत्रोत्पलशब्दोत्तरसुब्विभक्तिर्नीलपदोत्तरसुब्विभक्तिश्चोभे अप्येकमेवोत्पलरूपमर्थं नीलत्वविशिष्टं कथयतः। यतो हि नीलशब्दस्य उत्पलशब्देनाभेदसम्बन्धेनान्वयः। तथाऽपि व्युत्पत्तिवादे श्रीगदाधरभट्टा व्युत्पादयन्ति यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसङ्ख्याया अविवक्षितत्वं तत्रैव विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमः (व्यु॰वा॰ का॰प्र॰)। यथा सुन्दरो रामः इत्यत्र विशेष्यवाचकपदं रामः इति तदुत्तरविभक्तिः सु इति तत्तात्पर्यविषयसङ्ख्यैकत्वरूपा तद्विरुद्धसङ्ख्या द्वित्वत्रित्वादयस्तासां विशेष्यवाचकसुन्दरपदोत्तरसुविभक्त्या न विवक्षितत्वमतोऽत्र समानवचनकत्वम्। इति मीमांसामात्रे आगमिष्यसि इत्यस्य समानाधिकरणः त्वम् इति। तस्य सामानाधिकरणं निश्चयः इति। अन्यथा कथं प्रथमाविभक्तिः क्रियेत। स च तदैव त्वम् इत्यस्य सामानाधिकरणो भविष्यति यदा तदर्थमेव भाषेत। भावे विहिताजन्तनिश्चयशब्दः कथं कर्त्रर्थमनुवदिष्यति। अस्यैकार्थवाचकत्वे कथमत्र समानवचनकत्वमिति महत्पङ्कमिति चेत्। अत्र निश्चिनोतीति निश्चयः इति विग्रहे पचादित्वादच्।[१४७] यद्वा निश्चयः इति भावेऽबन्त एव तथाऽपि निश्चयोऽस्त्यस्य इति विग्रहेऽर्शआदित्वान्मत्वर्थीयोऽच्।[१४८] निश्चयः इत्यस्य निश्चयवान् इत्यर्थः। अथवा पृथक्पदं वाक्यभेदश्च। यदाऽऽगमिष्यसि तदा निश्चयो भविष्यतीति व्यञ्जनया ध्वन्यते। काव्यस्यात्मा हि ध्वनिस्तथा च ध्वन्यालोकेऽभिनन्दयन्त्यानन्दवर्धनाचार्याः –
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व-
स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये।
केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं
तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्॥
– ध्व॰ १.१
न च साहित्यिकमतेन वैयाकरणानां किमिति चेत्। आनन्दवर्धनाचार्यैरपि बुधशब्दे वैयाकरणानां ध्वनिस्वीकृतत्वप्रतिपादनात्। यथा बुधैर्वैयाकरणैः स एव ध्वनिः स्फोटरूपेण पूर्णसमाम्नातोऽभ्यस्तः। येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः (भा॰प॰)। न च काव्यात्मभूतध्वनिरत्र किमायातम्। अध्यात्मरामायणस्य सर्वत्र काव्यरूपेण चर्चितत्वात् यथा –
रामायणं जनमनोहरमादिकाव्यं
ब्रह्मादिभिः सुरवरैरपि संस्तुतं च।
श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं
विष्णोः प्रयाति सदनं स विशुद्धदेहः॥
– अ॰रा॰ ७.९.७३
इत्थं यदा आगमिष्यसि तदा निश्चयो भविष्यति इति न दोषः।
(३०) स्थाप्य
बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ।
जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह॥
– अ॰रा॰ २.७.२
सुमन्त्रः ससौमित्रिसीतं श्रीरामभद्रं रथेन गङ्गातटं यावत्प्रापय्य[१४९] तदाज्ञयाऽयोध्यां परावर्तमानो रथं बहिः स्थापयित्वा म्रियमाणं राजानं दशरथं ददर्श। अत्र बहिरेव रथं स्थाप्य इत्यपाणिनीयमिव। यतो हि ष्ठा गतिनिवृत्तौ (धा॰पा॰ ९२८) इति धातोर्ण्यन्ते अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (पा॰सू॰ ७.३.३६) इत्यनेन पुगागमे क्त्वाप्रत्यय इटि गुणेऽयादेशे स्थापयित्वा इति हि वरम्।[१५०] रथं स्थाप्य इति कथम्। ल्यप्प्रत्ययस्तु समासमन्तरेण भवितुं शक्य एव नहि। तथा च सूत्रम् समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा॰सू॰ ७.१.३७)। इदं ह्यनञ्पूर्वके समासे सत्येव क्त्वाप्रत्ययस्य स्थाने ल्यपं विदधाति। अत्र समासोऽपि नास्ति। अतः स्थाप्य इति विमृश्यते। अत्र संस्थाप्य इति प्रयोग आसीत्। तदा सम्पूर्वकणिजन्तस्थाधातोः क्त्वाप्रत्यये ल्यबादेशः। एवं विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन सम् उपसर्गस्य लोपः। न च समासे कृते कुतोऽत्र पदत्वम्। अन्तर्वर्तिनीं विभक्तिमाश्रित्यैवानेन वार्त्तिकेन लोपकरणात्।[१५१] सत्यभामा भामा (भा॰प॰, भा॰पा॰सू॰ १.१.४५) इत्यादावपि समस्तपदस्यैव लोपदर्शनात्। इत्थं सम् इत्यस्य लोपे सति प्रथमं स्थाप्य इति प्रामाणिक एव प्रयोगः। न च निमित्तापाये नैमित्तिकस्याप्यपायः इति परिभाषया निमित्तभूते समुपसर्गे लुप्ते नैमित्तिकस्य ल्यप् इत्यस्याप्यपायस्ततः स्थाप्य इत्यनिष्टं रूपमिति वाच्यम्। अस्याः परिभाषाया भाष्येऽदर्शनात्।[१५२] जातसंस्कारो न निवर्तते इति वचनबलेन लुप्तेऽपि समुपसर्गे तन्निमित्तकल्यपो न निवर्तनम्। यद्वा स्थापयितुं शक्यं योग्यं वेति स्थाप्यम् इति विग्रहे णिजन्तपुगन्तस्थाधातोः ऋहलोर्ण्यत् (पा॰सू॰ ३.१.१२४) इत्यनेन ण्यत् प्रत्ययः। अर्थादशक्यत्वादेकं स्थापयितुं योग्यं राजानं ददर्श। साम्प्रतं हि राज्ञो गतिर्निवृत्ता बुद्धिरपि शान्ता प्रत्यवसानमप्यवरुद्धं शब्दोऽपि शिथिलोऽतः स्थाप्यशब्दः राजन् शब्दस्य विशेषणम्। तथा स्थाप्यश्चासौ राजा चेति स्थाप्यराजा तं स्थाप्यराजानम्। देवराजानम् (अ॰रा॰ १.५.२६) इतिवट्टजभावः।[१५३] यद्वा स्थीयत इति स्था।[१५४] तथा च स्थयाऽऽप्तुं योग्यमिति स्थाप्यम् इत्थं भावसाधितस्थाशब्देनाऽप्यशब्दस्य समासः। आप्यशब्दोऽपि ण्यत्प्रत्ययान्त इति। तथा गतिनिवृत्त्याऽव्याप्तमिति तात्पर्यम्। अथवा म्रियमाणत्वाच्चितायां स्थापयितुं योग्यं राजानं ददर्श। न च स्थाप्यशब्दस्य राजन् शब्देन सह तत्पुरुषसमासे राजाऽहस्सखिभ्यष्टच् (पा॰सू॰ ५.४.९१) इत्यनेन टच् प्रत्यये टिलोपे विभक्तिकार्येऽमि स्थाप्यराजम् स्यादिति वाच्यम् महाराजम् इतिवत्। समासान्तप्रत्ययप्रकरणं ह्यनित्यम्। प्रमाणं चात्र यचि भम् (पा॰सू॰ १.४.१८) इति सूत्रम्। अत्र यश्चाच्च यच् इति समाहारद्वन्द्वः। इह द्वन्द्वाच्चुदषहान्तात्समाहारे (पा॰सू॰ ५.४.१०६) इत्यनेन चान्तत्वाट्टच्प्रत्ययः प्रयोक्तव्य आसीत्। तस्मिन् प्रयुक्ते यचे भम् इति स्यात्। यतो न प्रयुक्तोऽतः समासान्तप्रत्ययस्यानित्यता ज्ञायते।[१५५] अतः स्थाप्यराजानम् अस्मिन्प्रयोगे नापाणिनीयता।
(३१) अवेक्षती
सीता चाश्रुपरीताक्षी मामाह नृपसत्तम।
दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती॥
– अ॰रा॰ २.७.१२
शोकाकुलदशरथं प्रति रामसन्देशं वर्णयित्वा सुमन्त्रः साम्प्रतं सीतामनोदशां प्रतिपादयति यदश्रुपरीतलोचना सीता निरीक्ष्य रामभद्रं किमपि समादिशत्। यदिह किञ्चिदवेक्षती अयं प्रयोगः अवेक्षमाणा इति प्रयोक्तव्ये अवेक्षती इतिप्रयुक्तमत्रांशद्वयेऽपाणिनीयताभ्रान्तिः। अवपूर्वको हि ईक्ष्धातुः (ईक्षँ दर्शने धा॰पा॰ ६१०) आत्मनेपदी। एवं तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इत्यनेन विधीयमानः शानच् प्रत्ययोऽप्यात्मनेपदसञ्ज्ञकः। तथा च आने मुक् (पा॰सू॰ ७.२.८२) इत्यनेन मुकि कृते अवेक्षमाणा इत्येव प्रयोगः प्रचलितः। एवं अवेक्षती इति विमृश्यते। प्रथमं त्वात्मनेपदप्रयुक्तधातोः परस्मैपदवद्व्यवहारः। सति परस्मैपदे प्रत्ययविचारस्तत्रैव नुमभावनिस्तारः। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इति वचनेन सति परस्मैपदे अवेक्षति इति विग्रहे शतृप्रत्ययान्तरूपम्। ननु अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) अत्र न किमपि प्रमाणमिति चेन्न। चक्षिँङ् व्यक्तायां वाचि (धा॰पा॰ १०१७) इति हि धातुः। अयं चानुदात्तेन्ङिच्च। द्वयोरप्यनुबन्धयोरेकमेव फलमात्मनेपदम्। तत्र सूत्रम् अनुदात्तङित आत्मनेपदम् (पा॰सू॰ १.३.१२) एव। अस्यैव फलस्य कृते द्वयोरनुबन्धकरणत्वं किमर्थम्। अनुदात्तेत्त्वकरणेनैवाऽत्मनेपदसिद्धिः। ङित्करणेन किं प्रयोजनम्। तदेव व्यर्थं सज्ज्ञापयति यदनुदातेत्त्वलक्षणमात्मनेपदं तत्कार्यं चानित्यम्। अतस्तस्यानित्यत्वात्परस्मैपदशतृप्रयोगः। शतृप्रयोगे सति कथं नुमभावः इति चेत्। आगमशास्त्रस्यानित्यत्वात्।[१५६] यद्वाऽत्र न शतृप्रत्ययः। अत्र तृँच् प्रत्यय औणादिकः।[१५७] एवं नुमभावः। तथा च स्त्रीत्वविवक्षायां ङीप्प्रत्यये[१५८] अवेक्षती इति सिद्धम्।
(३२) रुदन्ती
ततो दुःखेन महता पुनरेवाहमागतः।
ततो रुदन्ती कौसल्या राजानमिदमब्रवीत्॥
– अ॰रा॰ २.७.१५
भगवतः श्रीरामचन्द्रस्य वनवासे सत्ययोध्यामागते सुमन्त्रे निशम्य सकलं समाचारं विलपन्तं रघुनन्दं निरानन्दं म्रियमाणं राजानं विलोक्य रुदती कौशल्याऽब्रवीत्। अत्र रुदन्ती इति प्रयुक्तम्। तच्चासङ्गतमिव। यतो हि रुद्धातुः (रुदिँर् अश्रुविमोचने धा॰पा॰ १०६७) अदादिगणपठितः। तत्र अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) इत्यनेन शपो लुग्भवति। ततश्च शतृप्रत्यये नुमभावः स्वत एव सिद्धः।[१५९] अत्र नुमपाणिनीय इति कृत्वा विमृश्यते। गणकार्यमनित्यम् (प॰शे॰ ९३.३)। अतः शपो न लुक्। तथा च रुदतीति रुदन्ती इति विग्रहे नुम्। यद्वा रोदनं रुदः। भावेऽच्प्रत्ययः।[१६०] रुदमाचरतीति रुदति। आचारार्थे क्विप्। ततो धातुसञ्ज्ञातो लटि तिपि शपि रुदति।[१६१] अतः रुदतीति रुदन्ती इत्थं साधु।[१६२]
(३३) गृह्य
अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि।
नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम्॥
– अ॰रा॰ २.७.३१
अत्र महाराजो दशरथः श्रमणकुमारात्सजलं कलशं गृहीत्वा वृद्धदम्पती गतः। सलिलं गृह्य पुत्रो नायाति अत्र किं वा कारणम् – इति तौ चिन्तितवन्तावास्ताम्। ल्यबन्तप्रयोगोऽयम् गृह्य। स च समस्तपदं विनाऽसम्भवः। इह कोऽपि समासो नहीति। मैवम्। प्रगृह्य इति पदम्। तस्य च प्रोपसर्गस्य विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन लोपे तथा च जातसंस्कारो न निवर्तते इति परिभाषाबलेन ल्यबपि न निवृत्त इत्थं नापाणिनीयता। यद्वा गृह्यशब्दो हि क्यप्प्रत्ययान्तः।[१६३] कित्वात्सम्प्रसारणम्।[१६४] एवं गृह्यो ग्रहीतुं योग्यः पुत्रः सौम्यः इति तात्पर्यम्।[१६५] तथा च गृह्यश्चासौ पुत्रश्चेति गृह्यपुत्रः इति कर्मधारयः। आदाय इति चाध्याहार्यम्।[१६६]
(३४) क्रन्दमानौ
हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम्।
जलं देहीति पुत्रेति किमर्थं न ददास्यलम्॥
– अ॰रा॰ २.७.४३
अत्र मुमूर्षुदम्पत्योर्दशां कौशल्यासमक्षं दशरथो वर्णयति हाहेति क्रन्दमानौ तौ। क्रन्द्धातुः (क्रदिँ आह्वाने रोदने च धा॰पा॰ ७१) परस्मैपदी। इदितो नुम् धातोः (पा॰सू॰ ७.१.५८) इत्यनेन नुम्। ततश्च क्रन्दत इति क्रन्दन्तौ अयमेव प्रयोगः सामान्यतः पाणिनीयः। क्रन्दमानौ इति कथमिति चेत्। कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनात्रात्मनेपदम्। कर्मव्यतिहारो नाम कार्यपरिवर्तनम्। अन्यस्य योग्यं लवनमन्यः करोति व्यतिलुनीते (वै॰सि॰कौ॰ २६८०)। तथैवाऽत्र साधारणजीवाचरितं क्रन्दनं तपःपूतावपीमौ कुरुतः। अत आत्मनेपदम्। क्रन्देते इति क्रन्दमानौ। शानच्प्रत्यये शप्यनुबन्धकार्ये आने मुक् (पा॰सू॰ ७.२.८२) इत्यनेन मुगागमे विभक्तिकार्ये क्रन्दमानौ। यद्वा क्रन्दतीति क्रन्दम्। क्रन्दनशीलम्। पचादित्वादच्।[१६७] क्रन्दं मानं शरीरदशा ययोस्तौ क्रन्दमानौ इति बहुव्रीहौ नापाणिनीयताशङ्कापङ्ककलङ्कावकाशः।
(३५) विलपितम्
असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः।
इति विलपितं पुत्रं पतितं मुक्तमूर्धजम्॥
– अ॰रा॰ २.७.६७
दशरथमरणानन्तरं वसिष्ठनिर्देशाद्धावकैरयोध्यां नीतो भरतः कैकयीतः सकलवृत्तान्तं विज्ञायोपरतं पितरमुद्दिश्य विलपति। असमर्प्यैव इत्यादि। अत्र विलपितम् इति भरतस्य विशेषणं विलपितं पुत्रम् इति। क्तप्रत्ययस्य कर्मणि भावे च विधानात् क्तवतुप्रत्ययस्य पारिशेष्यात्कर्तरि विधानात् विलपितवन्तं पुत्रम् इति प्रयोक्तव्यमासीत्। किन्त्वविवक्षातः कर्मणो धातुमिममकर्मकं मत्वा[१६८] गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तप्रत्ययः। यद्वा भावे क्तप्रत्यये कृते[१६९] विलपितमस्त्यस्य इत्यर्शआद्यजन्तं विलपितम्।[१७०] अथवा विलपनं विलपः। पचाद्यच्।[१७१] विलपमितो विलपितस्तं विलपितम् इति द्वितीयान्तविलपशब्दस्य क्तान्तइतइत्यनेन समासः। शकन्ध्वादित्वात्पूर्वोक्तदिशा पररूपे विलपितम्। यद्वा विलपशब्दं तारकादिगणे मत्वा विलपोऽस्य सञ्जातः इति विग्रहे तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इत्यनेनेतच्यनुबन्धकार्ये भसञ्ज्ञालोपयोर्विभक्तिकार्ये विलपितम्।[१७२] यद्वा विलपमाचष्टे विलपं करोति वा विलपयति।[१७३] विलपयतीति विलपितस्तं विलपितम्।[१७४] इत्थमाचक्षाणणिजन्तात्कर्तरि क्तप्रत्ययः।[१७५] श्रीराम एव स्वयं विलपित इव। वस्तुतस्तु तस्य हृदये भक्तिभावेन सदाऽपि श्रीरामः सन्निहित एव। केवलं भावुकेभ्यो भरतः प्रेमदिग्दर्शनं कारयति।
(३६) दूरे स्थाप्य
तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति।
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ॥
– अ॰रा॰ २.८.४१
अत्र समस्तपदं विनाऽपि स्थाप्य इति ल्यबन्तप्रयोगः कथमिति चेत्। अत्र मयूरव्यंसकादित्वात्समासः।[१७६] तथा च हलदन्तात्सप्तम्या सञ्ज्ञायाम् (पा॰सू॰ ६.३.९) इत्यनेन सप्तम्या अलुक्ततो ल्यप्प्रत्यये[१७७] दूरेस्थाप्य इति। यद्वा दूरे इति सप्तमीप्रतिरूपकाव्ययं ततश्च सुविभक्तेरेव अव्ययादाप्सुपः (पा॰सू॰ २.४.८२) इत्यनेन लुक्। इत्थं दूरेस्थाप्य इति साधु।[१७८]
॥ इत्ययोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे द्वितीयाध्याये प्रथमपरिच्छेदः।
॥ अथ द्वितीयाध्याये द्वितीयः परिच्छेदः ॥
॥ अथारण्यकाण्डीयप्रयोगाणां विमर्शः ॥
(३७) यातः
को वा दयालुः स्मृतकामधेनुरन्यो जगत्यां रघुनायकादहो।
स्मृतो मया नित्यमनन्यभाजा ज्ञात्वा स्मृतिं मे स्वयमेव यातः॥
– अ॰रा॰ ३.२.८
अत्र आयातः इत्यर्थे यातः इति प्रयुक्तम्। यतो हि आङ्उपसर्गस्य लोपे सति[१७९] यः शिष्यते स लुप्यमानार्थाभिधायी[१८०] इत्यनेन तादृशार्थस्य बोधकत्वात्।
(३८) अरूपिणः
पश्यामि राम तव रूपमरूपिणोऽपि
मायाविडम्बनकृतं सुमनुष्यवेषम्।
कन्दर्पकोटिसुभगं कमनीयचाप-
बाणं दयार्द्रहृदयं स्मितचारुवक्त्रम्॥
– अ॰रा॰ ३.२.३२
अत्र न रूपमरूपम्।[१८१] अरूपमस्त्यस्येत्यरूपी तस्यारूपिणः।[१८२] अत्र न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः[१८३] अयं नियमो जागरूकः। तस्मात् नास्ति रूपं यस्य सोऽरूपस्तस्यारूपस्य इति बहुव्रीहावेवार्थबोधे अरूपिणः इति कथमिति चेत्। अरूपिणः इत्यत्र बहुव्रीहेरीप्सितोऽर्थो न लभ्यते। यतो ह्यत्र प्राशस्त्ये भूमत्वे नित्ययोगे चेनिः।[१८४] भगवतो रूपस्य भूयस्त्वं प्रशस्तत्वञ्च नित्ययोगत्वमपि सिद्धमेव। तद्बहुव्रीहिणा कथमपि लब्धुमशक्यत्वात्।[१८५] अथवा अरूपयितुं तच्छील इत्यरूपी तस्यारूपिणः इति ताच्छील्ये णिनिः। सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इति सूत्रेण।
(३९) मदुपासनात्
इत्येवं स्तुवस्तस्य रामः सुस्मितमब्रवीत्।
मुने जानामि ते चित्तं निर्मलं मदुपासनात्॥
– अ॰रा॰ ३.२.३५
अत्र ण्यासश्रन्थो युच् (पा॰सू॰ ३.३.१०७) इत्यनेन युच्कथं न। मदुपासनात् इत्यपाणिनीय इव।[१८६] अत्र ल्युट् च (पा॰सू॰ ३.३.११५) इत्यनेन भावे नपुंसके ल्युट्।[१८७] लकारटकारयोरनुबन्धकार्ये युवोरनाकौ (पा॰सू॰ ७.१.१) इत्यनेनानादेशे पञ्चम्येकवचने मदुपासनात्।[१८८]
(४०) ध्यायमानः काङ्क्षमाणः
शीघ्रमानय भद्रं ते रामं मम हृदि स्थितम्।
तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः॥
– अ॰रा॰ ३.३.१०
प्रयोगाविमावध्यात्मरामायणेऽरण्यकाण्डस्य तृतीयसर्गीयौ। श्रीरामभद्रः सीतालक्ष्मणसमेतः पावितमुनिजननिकेतोऽगस्त्यस्याश्रममुपतिष्ठमानः[१८९] सुतीक्ष्णेन सूचयति। रामागमनश्रवणसञ्जातहर्षोऽगस्त्यः प्रोवाच यत् राममानयाहं तमेव ध्यायमानस्तिष्ठामि। ध्यैधातुः (ध्यै चिन्तायाम् धा॰पा॰ ९०८) परस्मैपदी। तथा सति लटि तिपि शपि गुणेऽयादेशे ध्यायति। शतरि च ध्यायतीति ध्यायन् इत्येव प्रयोगः। ध्यायमानः इति कथम्। अत्र कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यात्मनेपदम्। यतो हि ध्यानस्य बुद्धिविषयत्वात्तदेव ध्यानमहंपदवाच्यप्रत्यग्भिन्नचैतन्य आत्मन्यारोप्यतेऽतः कर्मव्यतिहारतयाऽऽत्मनेपदम्। ततश्च ध्यायत इति ध्यायमानः इति विग्रहे ध्यैधातोर्लटि[१९०] तस्य शानजादेशे[१९१] शपि आने मुक् (पा॰सू॰ ७.२.८२) इत्यनेन मुगागमे विभक्तिकार्ये ध्यायमानः। अथवा ध्यायम् ध्यायम् इत्याभीक्ष्ण्ये णमुल्।[१९२] प्रथमस्य ध्यायम् इत्यस्य लोपे आसमन्तादनितीत्यानः।[१९३] ततो वर्णसम्मेलने ध्यायमानः। एवमेव काङ्क्षमाणः इत्यत्रापि काङ्क्षति इति परस्मैपदी। तत्रापि कर्मव्यतिहार आत्मनेपदं ततः शानच्।[१९४]
(४१) प्रतीक्षन्
त्वदागमनमेवाहं प्रतीक्षन्समवस्थितः।
यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा॥
– अ॰रा॰ ३.३.१८
सीतालक्ष्मणसेव्यमानो निर्मानो भगवान् श्रीरामोऽगस्त्यदर्शनार्थमाश्रमद्वार्युपस्थितः। तदागमनश्रवणसञ्जातकुतूहलो विह्वलोऽगस्त्यः प्रणिजगाद यत् अहमपि भगवत आगमनं प्रतीक्षे। अत्र प्रतिपूर्वकः ईक्ष्धातुः (ईक्षँ दर्शने धा॰पा॰ ६१०) आत्मनेपदी दर्शनार्थः। ततश्च प्रतीक्षते इति विग्रहे शानच्प्रत्यये कृते[१९५] मुगागमे[१९६] विभक्तिकार्ये प्रतीक्षमाणः इति पाणिनीयः। आत्मनेपदीयत्वाद्दुर्गमः शतृप्रत्ययः। एवं प्रतीक्षन् इति कथमिति चेत्। उच्यते। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) इति नियमेन परस्मैपदीयत्वाच्छतृप्रत्यये प्रतीक्षन्। यद्वा प्रतीक्षणं प्रतीक्षा इति विग्रहे भावे आङ् औणादिकप्रत्यये[१९७] प्रतीक्षां करोतीति प्रतीक्षयति।[१९८] प्रतीक्षयतीति प्रतीक्षः।[१९९] प्रतीक्ष इवाऽचरन्निति प्रतीक्षन्।[२००] एवं आचक्षाणणिजन्तान्तकर्तर्यच्। तत आचारे क्विप्प्रत्यये लटि शतरि शपि पररूपे विभक्तिकार्ये प्रतीक्षन्।
(४२) समीपतः
एकदा गौतमीतीरे पञ्चवट्यां समीपतः।
पद्मवज्राङ्कुशाङ्गानि पदानि जगतीपतेः॥
– अ॰रा॰ ३.५.२
अत्र विश्लेषाभावात् ध्रुवमपायेऽपादानम् (पा॰सू॰ १.४.२४) इत्यनेनापादानसञ्ज्ञा तु नैव विचारसहा। तदभावे पञ्चम्यास्तसिल् (पा॰सू॰ ५.३.७) इत्यनेन तसिल्प्रत्ययोऽपि नोपयुक्तः। तथा च सामीप्यवाचकशब्दात्सप्तम्यर्थ एव तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम् (वा॰ ५.४.४४) इत्यनेन तसिप्रत्यये सिद्धमिदम्।[२०१] समीप एव समीपतः। न चात्र समीपवाचकशब्दे कथं सप्तमीति चेत्। सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्यत्र चकारग्रहणेन दूरान्तिकार्थवाचकशब्देभ्यः सप्तमी।[२०२] समीपं ह्यन्तिकार्थवाचकं ततः सप्तमी।
(४३) कनीयान्
एषा मे सुन्दरी भार्या सीता जनकनन्दिनी।
स तु भ्राता कनीयान्मे लक्ष्मणोऽतीवसुन्दरः॥
– अ॰रा॰ ३.५.९
अत्र श्रीरामो लक्ष्मणस्य परिचयं कारयति यत् स मे कनीयान् भ्राता। ईयसुन् प्रत्ययो हि यत्र द्वयोर्विभागः।[२०३] अत्र रामापेक्षया कनीयान् भरतः। कथं लक्ष्मणं कनीयांसं कथयतीति चेत्। अत्र रामलक्ष्मणयोर्द्वयोरेव विवक्षितत्वात्। भरतशत्रुघ्नावयोध्यायामरण्ये रामलक्षणौ। अनयोर्द्वन्द्वः शाश्वतः शेषशेषिभावात्। लीलायामपि रामलक्ष्मणयोः संयोगः सर्वत्र प्रसिद्धः। अतः शब्दार्थसन्देहे विशेषस्मृतिहेतूनां परिगणनावसरे साहचर्य उदाहरणं रामलक्ष्मणौ।[२०४] यद्यपि लक्ष्मणशब्दस्य द्वावर्थौ लक्ष्मणो दाशरथिलक्ष्मणो दुर्योधनपुत्रश्च किन्तु रामसाहचर्यादत्र दाशरथिर्लक्ष्मण एवार्थबोधविषयो भवति। एवं रामशब्दस्य त्रयोऽर्था रामो जामदग्न्यो रामो दाशरथी रामो वासुदेवश्चेति। अत्रोच्चरिते रामशब्द उपस्थितेषु त्रिष्वर्थेषु को रामो गृह्यतामिति चेत् रामलक्ष्मणौ इति कथनेन दशरथपुत्रस्य ग्रहणं भवति। अध्यात्मरामायणेऽपि –
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च।
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः॥
– अ॰रा॰ १.३.४२
यद्वा मे इत्युच्चारण आत्मानं भ्रातृसमुदायात्पृथक्करोति। ज्येष्ठस्य भ्रातुः पितृवद्दायित्वं लोकप्रसिद्धम्।[२०५] अतस्ते सन्ति त्रयो भ्रातरः। षष्ठी पालकपाल्यभावसम्बन्धे। अहं त्रयाणां भ्रातॄणां पालको ज्येष्ठत्वात्। उपरते पितरि मे मय्येव सर्वेषामुत्तरदायित्वम्। वाल्मीकीयेऽपि विभीषणं शरणागतं स्वीकुर्वञ्छ्रीरामभद्रो रावणहननाय त्रयाणां भ्रातॄणां शपथं करोति। यथा –
अहत्वा रावणं सङ्ख्ये सपुत्रबलवाहनम्।
अयोध्यां न प्रवेक्ष्यामि भ्रातृभिश्च त्रिभिः शपे॥
– वा॰रा॰ ६.४१.७
इत्थं मम त्रिषु भ्रातृषु ज्येष्ठो भ्राता भरतोऽयोध्यामधितिष्ठति ततो लक्ष्मणः कनीयानिति श्रीरामचन्द्रस्य तात्पर्यं प्रतिभाति। अस्मादेव कारणात् स तु भ्राता कनीयान्मे इत्यत्र षष्ठी। अन्यथा पञ्चमी विभक्ते (पा॰सू॰ २.३.४२) इति सूत्रेण विभज्यमाने पञ्चमी स्यात्। तथा च द्विवचनविभज्योपपदे तरबीयसुनौ (पा॰सू॰ ५.३.५७) इत्यनेन द्विवचनविभज्यमानवाचक उपपदे तरप् ईयसुन् च प्रत्ययो भवति। तत्र च पञ्चम्यनिवार्या। यथा रामाच्छ्यामो लघुतरः। रामाद्भरतः कनीयान्। अतः षष्ठीं दृष्ट्वाऽत्र रामस्य समुदायात्पृथग्भूतत्वं प्रतीयते। यद्वा भ्रियन्ते पुष्यन्त इति भ्रातरः।[२०६]तथा च रामः खलु निर्गुणो महाविष्णू राम एव परब्रह्मेत्युत्तरतापनीयश्रुतेः।[२०७] एवं तस्य महाविष्णोर्भगवतः परात्परब्रह्मणः श्रीरामचन्द्रस्य त्रयोंऽशा ब्रह्मविष्णुमहेशाख्याः। ब्रह्मा खलु शत्रुघ्नो विष्णुर्भरतो लक्ष्मणः शिवः। कर्पूरगौरत्वाच्छिवस्य लक्ष्मणो गौरो विष्णोश्च श्यामतया भरतः श्यामो विष्णुत्वेन जनकत्वाद्ब्रह्मावतारः शत्रुघ्नो भरतं जनकमिवान्वञ्चति। अतस्तेषु पोष्यमाणेषु भ्रातृरूपेषु त्रिष्वंशेषु लक्ष्मणः कनीयान्। यद्वा –
स्थूलं चाष्टभुजं प्रोक्तं सूक्ष्मं चैव चतुर्भुजम्।
परं च द्विभुजं रूपं तस्मादेतत्त्रयं यजेत्॥
– आ॰सं॰[२०८]
द्वाभ्यां भुजाभ्यां भक्तस्य योगं क्षेमं च वहत्यथवा द्वाभ्यां भुजाभ्यां ज्ञानप्रधानांश्च भागवतान् भुनक्ति। त्रिपुरसुन्दरीतन्त्रे तस्य भगवतो महाविष्णोः श्रीरामभद्रस्येमे त्रयो विष्णव एवांशाः। तत्र क्षीरशायी भरतो वैकुण्ठाधीशो लक्ष्मणः।[२०९] वैकुण्ठाधीशस्य शुक्लवर्णता पुराणे प्रसिद्धा यथा –
केनोपयान चैतेषां दुःखनाशो भवेद्ध्रुवम्।
इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा॥
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम्।
शङ्खचक्रगदापद्मवनमालाविभूषितम्॥
– स्क॰पु॰ रे॰ख॰ २३३.५,६
एवमेव लक्ष्मणस्याऽपि गौराङ्गता स्पष्टा। क्षीराब्धिस्वामी श्यामलो यथा –
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
तथा क्षीराब्धिस्वामी भरतो वैकुण्ठविहारी विष्णुर्लक्ष्मणो भूमा शत्रुघ्नो रामः सनातनं ब्रह्म। तथा चोक्तं बृहद्ब्रह्मसंहितायां यत् –
क्षीराब्धीशस्तु भरतो वैकुण्ठेशस्तु लक्ष्मणः।
भूमा तु शत्रुघ्नो ज्ञेयो रामो ब्रह्म सनातनम्॥
– बृ॰ब्र॰सं॰
अतो मे त्रयो भ्रातरोंऽशाः। तत्र क्षीरशायिभरतापेक्षया वैकुण्ठेशो लक्ष्मणः कनीयानित्येव हार्दं हरेः।
(४४) क्रन्दमाना
क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा।
किमेतदिति तामाह खरः खरतराक्षरः॥
– अ॰रा॰ ३.५.२१
अत्र शूर्पणखापरिस्थितिं वर्णयति। क्रन्दमाना इति। आह्वाने रोदने च क्रन्द्धातुः (क्रदिँ आह्वाने रोदने च धा॰पा॰ ७१) परस्मैपदी। ततश्चात्र शत्रा भवितव्यम्। एवं क्रन्दतीति क्रन्दन्ती इत्येव पाणिनीयम्।[२१०] अत्र तु क्रन्दमाना इति।[२११] क्रन्दते इति कर्मव्यतिहारादात्मनेपदम्।[२१२] क्रन्दत इति क्रन्दमाना इति शानचि शपि मुकि टापि च कृते सिद्धम्।[२१३] यद्वाऽत्र वैक्लव्ये क्रन्द्धातुः (क्रदिँ वैकल्ये धा॰पा॰ ७७३) आत्मनेपदी। ततः शानचि टापि क्रन्दमाना। यद्वेममाकृतिगणत्वात्स्वरितेतं पठित्वा स्वरितञितः कर्त्रभिप्राये क्रियाफले (पा॰सू॰ १.३.७२) इत्यनेनाऽत्मनेपदत्वाच्छानचि शपि मुकि टापि क्रन्दमाना।[२१४]
(४५) घोररूपिणः
सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल।
हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः॥
– अ॰रा॰ ३.५.३०
खरदूषणौ दृष्ट्वा निर्वासितखरदूषणो निरस्तदूषणो रघुकुलभूषणः श्रीरामो लक्ष्मणं सतर्कयति यत्त्वं सीतां नीत्वा गुहां प्रविश तावदहमद्यैव घोररूपिणो राक्षसान् हन्तुमिच्छामि। अत्र घोररूपिणः इति प्रयोगः कथं न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः इति नियमस्य जागरूकत्वे घोरं च तद्रूपं चेति घोररूपं तदस्ति येषां ते घोररूपिणस्तान् घोररूपिणः इति चेत्। बहुव्रीहौ सतीप्सितार्थस्यानवगतावेष पन्था अनुगतः। घोरं रूपं येषां ते इत्यर्थे सति न किमप्यर्थवैलक्षण्यम्। मत्वर्थीय इनिर्निन्दायाम्।[२१५] इन्प्रत्ययविधानात् निन्दितघोररूपयुक्ताः इत्यर्थो ध्वन्यते। अथवा घोरं यथा स्यात्तथा रूपयितुं तच्छीलाः इति विग्रहे सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन णिनिप्रत्यये समाधानम्।
(४६) शापितः
अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि।
तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ॥
– अ॰रा॰ ३.५.३१
शप्धातोः (शपँ आक्रोशे धा॰पा॰ १०००, ११६८) कर्मणि क्तप्रत्ययेऽनिट्कत्वात्[२१६] शप्तः इत्येव।[२१७] आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२) इति कृत्वेडागमेऽपि शपितः।[२१८] शापितः इति कथम्। अत्र स्वार्थे णिचि प्रत्यये ततः क्तान्तेन समाधानम्।[२१९]
(४७) समाधिविरमे
ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम्।
समाधिविरमेऽपश्यद्रावणं गृहमागतम्॥
– अ॰रा॰ ३.६.३
सङ्ग्रामे श्रीरामेण स्वधामनीतेषु खरदूषणत्रिशीर्षेषु प्रतिशोधं चिकीर्षन् रावणः श्रीरामं ध्यायन्तं मारीचं प्रत्यगात्। तत्र समाधिविरामे मारीचो रावणमपश्यत्। तत्र समाधिविरमे इति प्रयोगस्तु विचारकोटावागच्छति। न च समाधेर्विरामः समाधिविरामस्तस्मिन् समाधिविरामे। विरमणं विरामः। भावे (पा॰सू॰ ३.३.१८) इति घञ्। विरामोऽवसानम् (पा॰सू॰ १.४.११०) इति सूत्रं प्रमाणम्। यद्वा विरमन्तेऽस्मिन्निति विरामः। हलश्च (पा॰सू॰ ३.३.१२१) इति घञ्।[२२०] अच्प्रत्ययः कर्तरि। करणाधिकरणयोः सञ्ज्ञायाञ्चान्यप्रत्ययानां हलश्च (पा॰सू॰ ३.३.१२१) इत्यनेन बाधः। अत्रोच्यते। विगता रमा यस्मात्तद्विरमम्। समाधौ हि भक्तिरूपिणी रमा। ब्रह्मानुभवत्वात्। तदभावे रमाया निर्गमः स्वभाविक एवातः। यद्वा रमाऽस्त्यस्मिन्निति रमम्। अर्शआदित्वादच्।[२२१] विगतं रममिति विरमम्।[२२२] समाधेर्विरमं समाधिविरमं तस्मिन् समाधिविरमे।[२२३]
(४८) सहायं मे
त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत्।
इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः॥
– अ॰रा॰ ३.६.१४
अत्र भावे ष्यञ् प्रत्यये साहाय्यम् इति तु पाणिनीयमेव।[२२४] किन्तु अयनम् अयः इति भावे एरच् (पा॰सू॰ ३.३.५६) इत्यनेन इधातोः (इण् गतौ धा॰पा॰ १०४५) अचि गुणेऽयादेशे विभक्तिकार्ये अयः। सह अयः सहायस्तं सहायम् इति पूर्वोक्तदिशा साधनीयम्।[२२५]
(४९) स्थाप्य
श्रुत्वा रामोदितं वाक्यं सापि तत्र तथाकरोत्।
मायासीतां बहिः स्थाप्य स्वयमन्तर्दधेऽनले॥
– अ॰रा॰ ३.७.४
अत्र गतिनिवृत्त्यर्थकणिजन्तस्थाधातोः (ष्ठा गतिनिवृत्तौ धा॰पा॰ ९२८) पुकि[२२६] ल्यबन्तमेवम्।[२२७] किन्त्विदं समासं विना कथं सम्भवमिति चेत्। अत्र साक्षात्प्रभृतिगणे बहिस् इत्यपि पठित्वा साक्षात्प्रभृतीनि च (पा॰सू॰ १.४.७४) इत्यनेन गतिसञ्ज्ञायां समासः।[२२८] ततो समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा॰सू॰ ७.१.३७) इत्यनेन क्त्वास्थाने ल्यबादेशे बहिःस्थाप्य इति।
(५०) कानकम्
पश्य राम मृगं चित्रं कानकं रत्नभूषितम्।
विचित्रबिन्दुभिर्युक्तं चरन्तमकुतोभयम्।
बद्ध्वा देहि मम क्रीडामृगो भवतु सुन्दरः॥
– अ॰रा॰ ३.७.६
कनकमृगं दृष्ट्वा मायासीता मायामनुष्यं रामं मायामृगं हन्तुं चोदयति यत् कानकं मृगं पश्य। अत्र विकारार्थे मयटि कृते[२२९] कनकमयम्। परन्तु मायामृगत्वात्कनकविकाराभावे कनकस्यायं कानकस्तं कानकम्। तस्येदम् (पा॰सू॰ ४.३.१२०) इत्यनेन अण्। वृद्धौ भत्वादलोपे विभक्तिकार्ये कानकम्।[२३०] यद्वा कनकानां समूहः कानकम्।[२३१] तदस्त्यस्मिन्निति कानकस्तं कानकम् इति समूहार्थाणन्तान्मत्वर्थीयेऽचि[२३२] विभक्तिकार्ये। न च तद्धितप्रत्ययान्तादत्र कथं तद्धितप्रत्ययः। तथा च कारिका –
शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥
– भा॰पा॰सू॰ ३.१.७
इतिवचनाच्छैषिकाच्छैषिकः सरूपप्रत्ययो न मत्वर्थीयान्मत्वर्थीयो न। सरूपत्वं नाम समानदेशत्वे सति समानार्थबोधकत्वम्। अतो न दोषः।[२३३] यद्वा कनकमेव कानकस्तं कानकम् इति स्वार्थेऽण्।[२३४] यद्वा कनके भवः कानकस्तं कानकम्।[२३५] यद्वा कनके जातः कानकस्तं कानकम्।[२३६] कानकं मृगं बद्ध्वाऽऽनय इति भगवत्यादिशति।
(५१) वध्यमाना
इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह।
तच्छ्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः॥
– अ॰रा॰ ३.७.३५
मायामृगस्य श्रीरामानुकारिस्वरं श्रुत्वा लक्ष्मणं गमयितुमिच्छन्ती यातुमनिच्छन्तं तं भर्त्सयित्वा बाहुभ्यां हृदयं ताडयन्ती रुरोद मायासीता। तत्र वध्यमाना इति प्रयुक्तम्। वध आदेशो हि हन्धातोः (हनँ हिंसागत्योः धा॰पा॰ १०१२) लिङि लुङि चार्धधातुकप्रत्यये भवति। तथा च सूत्रद्वयम् – हनो वध लिङि (पा॰सू॰ २.४.४२) लुङि च (पा॰सू॰ २.४.४३)। अतः वध्यमाना अपाणिनीयमेव बाहुभ्यां हृदये हन्यते इति विग्रहे हन्यमाना इत्येव पाणिनीयमिति चेत्। हिंसार्थे वध्धातुरपि।[२३७] तस्य वध्यते इति कर्मवाच्ये सार्वधातुके यक् (पा॰सू॰ ३.१.६७) इत्यनेन यकि ततश्च शानच्प्रत्यये मुगागमे टापि वध्यमाना।[२३८] यद्वा हननं वधः।[२३९] वधमाचरतीति वधति।[२४०] बाहू हृदये वधमाचरत इति वधतः[२४१] विग्रहेऽस्मिन् वधशब्दादाचारक्विबन्तात्कर्मणि लकारे बाहुभ्यां हृदये वध्यते इति विग्रहे वध्यमाना।[२४२] अत आचारक्विबन्तवधधातोः कर्मवाच्ये शानचि कृते सिद्धं रूपमिदम्।
(५२) क्रोशमानाम्
वाक्शरेण हतस्त्वं मे क्षन्तुमर्हसि देवर।
इत्येवं क्रोशमानां तां रामागमनशङ्कया॥
– अ॰रा॰ ३.७.६१
क्रुश्धातुः (क्रुशँ आह्वाने रोदने च धा॰पा॰ ८५६) परस्मैपदी। ततः क्रोशति इति विग्रहे शतृप्रत्यये ङीपि नुमि क्रोशन्ती इति पाणिनीयप्रयोगः।[२४३] क्रोशमानाम् इत्यपि तथा हि कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यत्राऽत्मनेपदे। यतो हि सत्यपि वेदवती जानन्त्यपि रामपराक्रमं प्रवृत्तियोग्यं क्रोशनं रावणवधार्थं स्वयं करोति तत्राऽत्मनेपदम्। क्रोशत इति क्रोशमाना ताम् इति विग्रह आत्मनेपदीयत्वाच्छानचि प्रत्यये मुगागमे टापि विभक्तिकार्ये सुलोपे क्रोशमानाम् शब्दोऽपि पाणिनीयः।
(५३) विलप्यमाना
कृशातिदीना परिकर्मवर्जिता दुःखेन शुष्यद्वदनातिविह्वला।
हा राम रामेति विलप्यमाना सीता स्थिता राक्षसवृन्दमध्ये॥
– अ॰रा॰ ३.७.६६
अत्र रावणनीतां सीतां वर्णयति ग्रन्थकृद्यत् विलप्यमाना इति। विपूर्वको लप्धातुः (लपँ व्यक्तायां वाचि धा॰पा॰ ४०२) परस्मैपदी। ततः शतृप्रत्यये विलपन्ती इति।[२४४] विलप्यमाना इति कथम्। अत्र[२४५] यक्प्रत्ययाभाव आत्मनेपदाभावश्च। न च कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदं क्रियतां सीता साधारणविलापं करोतीत्यर्थस्वीकारे ग्रन्थगौरवपुरःसरं भावमाधुर्यमपीति चेत्। आत्मनेपदे सत्यपि यक् कुतः सीताया विलपनकर्तृत्वादिति चेत्।[२४६] विलप्यत इति विलप्यमानम् भावे शानचि भावकर्मणोः (पा॰सू॰ १.३.१३) इत्यात्मनेपदत्वात् विलप्यमानमस्ति नित्यमस्यामिति विलप्यमाना।[२४७] अथवेमं दिवादिगणे मत्वा[२४८] दिवादित्वाच्छ्यन्यात्मनेपदे विलप्यमाना।
(५४) घातितः
रावणं तत्र युद्धं मे बभूवारिविमर्दन।
तस्य वाहान् रथं चापं छित्त्वाहं तेन घातितः॥
– अ॰रा॰ ३.८.२८
अत्र जटायुसमीपं गत्वा श्रीरामभद्रस्तद्दशां विलोक्य तत्पराभवकारणमपृच्छत्। अत्र जटायुषा निगद्यते यत् तेनाहं घातितः। तत्र हन्धातोः (हनँ हिंसागत्योः धा॰पा॰ १०१२) कर्मणि क्तप्रत्यये कृते हतः इत्यनेन भवितव्यम्। यतो रावणो मामहन् पुनः कर्मवाच्ये रावणेनाहमहन्ये इत्यर्थे रावणेनाहं हतः। किन्तु घातितः अयं प्रयोगो हि ण्यन्तक्तान्तस्येत्येवापाणिनीयः प्रतिभाति। यतो हि ण्यन्तप्रयोगास्तु प्रायः प्रेरककर्तृके भवन्ति। यथा रामो रावणं हन्ति विभीषणस्तं प्रेरयति इत्यर्थे विभीषणो रामेण रावणं घातयति। अत्र तु कश्चन प्रेरको नासीत्। अतः प्रयोजकाभावे हेतुमति च (पा॰सू॰ ३.१.२६) इत्यनेन कथं णिजिति चेत्सत्यम्। रावणो खड्गेन जटायुषमघातयत्।[२४९] पुनः कर्मवाच्ये रावणेन खड्गेन जटायुरघात्यत[२५०] इत्यर्थे हिंसार्थकहन्धातोर्णिचि हनस्तोऽचिण्णलोः (पा॰सू॰ ७.३.३२) इत्यनेन तान्तादेशे हो हन्तेर्ञ्णिन्नेषु (पा॰सू॰ ७.३.५४) इत्यनेन घकारे अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेन वृद्धौ ततः समानकर्तृकयोः पूर्वकाले (पा॰सू॰ ३.४.२१) इत्यनेन कर्मणि क्तप्रत्यये विभक्तिकार्ये घातितः इति।[२५१] यद्वाऽत्र स्वार्थे णिचि रावणेन जटायुरहन्यत इत्यर्थ एव रावणेन जटायुरघात्यत।[२५२] पुनरस्मिन्स्वार्थे क्तप्रत्यये घातितः।[२५३] यद्वा हननमेव घातः।[२५४] घातमितो घातितः।[२५५]
(५५) स्मयन्
तथेति रामः पस्पर्श तदङ्गं पाणिना स्मयन्।
ततः प्राणान्परित्यज्य जटायुः पतितो भुवि॥
– अ॰रा॰ ३.८.३६
जटायुषो वृत्तान्तं समाकर्ण्य राजीवलोचनो रामः स्मयमानस्तदङ्गं पस्पर्श। अत्र स्मयन् प्रयोगो ह्यपाणिनीय इव। यतो हीषद्धासार्थकः स्मिधातुः (ष्मिङ् ईषद्धसने धा॰पा॰ ९४८) आत्मनेपदी। ततश्च स्मयत इति स्मयमानः इत्येव पाणिनीयः। किन्तु स्मयन् इत्यपि। तथा च स्मयत इति स्मयः। पचादित्वादच्।[२५६] स्मय इवाऽचरति इत्यर्थे क्विपि सर्वापहारिलोपे सनाद्यन्तत्वाद्धातुसञ्ज्ञायां लटि तिपि शपि पररूपे स्मयति।[२५७] स्मयतीति स्मयन् इत्यर्थे शतृप्रयोगे न दोषः।[२५८] श्रीराम ईषद्धासानुकूलव्यापारसदृशाचरणानुकूलव्यापाराश्रयः इति शाब्दबोधः। यतो हि श्रीरामचन्द्रस्तु जटायुषं पितरं मन्यमानस्तन्म्रियमाणदशां दृष्ट्वा शोकातुर आसीत्। किन्तु मरणकाले जटायुषो मनसि व्यथा मा भूदिति कृत्वा स्मयमान इव प्रतीयते स्म। अतः स्मयन् इति सम्यक्पाणिनीयः। जटायुषं प्रति राघवेन्द्रस्य व्यथामत्रैव ग्रन्थकृत्स्पष्टयति यथा –
रामस्तमनुशोचित्वा बन्धुवत्साश्रुलोचनः।
लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम्॥
– अ॰रा॰ ३.८.३७
अतः स्मयन् इत्याचारक्विबन्ताच्छतृप्रत्ययः कमपि निगूढं भावं व्यञ्जयति।
(५६) अनुशोचित्वा
रामस्तमनुशोचित्वा बन्धुवत्साश्रुलोचनः।
लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम्॥
– अ॰रा॰ ३.८.३७
जटायुषो मृत्युं दृष्ट्वा भक्तवत्सलः श्रीरामस्तमनुशोच्य तद्दाहसंस्कारं चक्रे। अत्रानूपसर्गयोगेन समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा॰सू॰ ७.१.३७) इत्यनेन ल्यपि अनुशोच्य इत्येव पाणिनिसम्मतम्। अनुशोचित्वा अपि शोकार्थकात् शुच् धातोः (शुचँ शोके धा॰पा॰ १८३) क्त्वा प्रत्यय इति कृते गुणे। न च कित्वाल्लघूपधगुणनिषेधः शङ्क्यः।[२५९] न क्त्वा सेट् (पा॰सू॰ १.२.१८) इत्यनेन कित्वनिषेधे गुणे अनुशोचित्वा। न च समासे सति अनुशोच्य इति भविष्यति कथम् अनुशोचित्वा इति। अनुशब्दस्य शोचित्वा इत्यनेन सह न योगोऽपि तु तम् इत्यनेन सह। तथा च अनुर्लक्षणे (पा॰सू॰ १.४.८४) इत्यनेन कर्मप्रवचनीयसञ्ज्ञायां कर्मप्रवचनीययुक्ते द्वितीया (पा॰सू॰ २.३.८) इत्यनेन द्वितीयाविभक्तिः। अथ चानूपयोगाभावे क्त्वाप्रत्ययः निर्विवादः। यद्वा लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (पा॰सू॰ १.४.९०) इत्यनेन अनुशब्दस्य कर्मप्रवचनीयसञ्ज्ञायां द्वितीयायाञ्च सत्यां तमनु शोचित्वा इति साधु।
(५७) प्राणरिरक्षया
बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया।
छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक्॥
– अ॰रा॰ ३.९.१४
अत्र कबन्धः तव प्राणरिरक्षया इति प्रयुङ्क्ते। प्राणस्य रक्षितुमिच्छा इति प्राणरिरक्षा। किन्त्वत्र रिरक्षा इत्यपाणिनीयः। तथा हि रक्षितुमिच्छा इति विग्रहे रक्ष्धातोः (रक्षँ पालने धा॰पा॰ ६५८) धातोः कर्मणः समानकर्तृकादिच्छायां वा (पा॰सू॰ ३.१.७) इत्यनेन सन् प्रत्यय इटि षत्वे सन्यङोः (पा॰सू॰ ६.१.९) इत्यनेन द्वित्वे पूर्वोऽभ्यासः (पा॰सू॰ ६.१.४) इत्यनेनाभ्याससञ्ज्ञायामभ्यासकार्ये हलादिः शेषः (पा॰सू॰ ७.४.६०) इत्यनेन रकारभावे शिष्टे सन्यतः (पा॰सू॰ ७.४.७९) इत्यनेनेकारे अ प्रत्ययात् (पा॰सू॰ ३.३.१०२) इत्यनेन अप्रत्यये टापि रिरक्षिषा इत्येव।[२६०] अत्र अ प्रत्ययात् (पा॰सू॰ ३.३.१०२) इत्यनेनाकारे पृषोदरादित्वात्सन्प्रत्ययस्य लोपे[२६१] टापि समासे तृतीयैकवचने प्राणरिरक्षया।[२६२] यद्वा प्राणस्यारयः प्राणारयः क्षुत्पिपासादयस्तेभ्यो रक्षेति प्राणरिरक्षा तया इति विग्रहे प्राणशब्दस्य अरिशब्देन समासे शकन्ध्वादित्वात्पररूपे पुनः प्राणरिशब्दस्य रक्षाशब्देन सह समासे तृतीयैकवचने प्राणरिरक्षया।[२६३]
(५८) आदृता
रामलक्ष्मणयोः सम्यक्पादौ प्रक्षाल्य भक्तितः।
तज्जलेनाभिषिच्याङ्गमथार्घ्यादिभिरादृता॥
– अ॰रा॰ ३.१०.७
भक्तवत्सलः श्रीरामः शबरीमुद्दिधीर्षन् तया बहुमानितः। सा भगवतः श्रीचरणारविन्दं प्रक्षाल्यार्घ्यादिभिरादृता। आदृतवती इति प्रयोक्तव्ये आदृता इति प्रयुक्तम्। यद्यपि आपूर्वकात् दृधातोः (दृङ् आदरे धा॰पा॰ १४११) सकर्मकतया तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इति सूत्रेण क्तप्रत्ययविधानं कर्मण्येव पाणिन्यनुकूलं तथाऽपि गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यत्र चकारात्क्वचित्सकर्मकादपि। तेनात्र सकर्मकधातोः कर्तरि आदृता। यद्वा आदर एव आदृतम्। भावे क्तप्रत्ययः।[२६४] आदृतमस्त्यस्या इत्यादृता। अर्शआद्यजन्तः प्रयोगः।[२६५] यद्वा कर्मणोऽविवक्षायामकर्मकत्वात्[२६६] गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तप्रत्यये टापि आदृता इति सम्यक्।[२६७]
(५९) विरागित्वम्
मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः।
बाह्यार्थेषु विरागित्वं शमादिसहितं तथा॥
– अ॰रा॰ ३.१०.२६
विगतो रागो यस्य स विरागस्तस्य भावो विरागत्वम् इति बहुव्रीहिजन्यविरागशब्दात् त्वप्रत्यये[२६८] यद्यप्यर्थसिद्धिः किं न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः[२६९] इत्यस्य नियमस्योल्लङ्घनेन तथाऽपि विगतो रागो विरागः इत्यत्र प्रगत आचार्यः प्राचार्यः (भा॰पा॰सू॰ २.२.१८)[२७०] इतिवत् कुगतिप्रादयः (पा॰सू॰ २.२.१८) इत्यनेन समासे विरागः प्रशस्तो नित्यो वाऽस्त्यस्मिन् इति बहुव्रीह्यलब्धविशिष्टार्थं बोधयितुं कर्मधारयादिनिः।[२७१] ततश्च तस्य भावस्त्वतलौ (पा॰सू॰ ५.१.११९) इत्यनेन त्वप्रत्यये विभक्तिकार्ये विरागित्वम्।
॥ इत्यरण्यकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
(६०) दाशरथो रामः
अहं दाशरथो रामस्त्वयं मे लक्ष्मणोऽनुजः।
सीतया भार्यया सार्धं पितुर्वचनगौरवात्॥
– अ॰रा॰ ४.१.१९
सीतामन्वीक्षमाणौ धनुर्बाणधरौ श्रीरामलक्ष्मणौ विलोक्य तदाशङ्कयासुग्रीवेण प्रेषितं वटुवेषधारिणं मारुतिं दृष्ट्वा तेन नामादिपरिचयं पृष्टः श्रीरामभद्रः सङ्क्षिप्य परिचयं प्रस्तौति दाशरथो रामः इति। अत्र दशरथस्यापत्यं पुमान् दाशरथिः इति विग्रहे तस्यापत्यम् (पा॰सू॰ ४.१.९२) इति सूत्रार्थानुसारमपत्यार्थे षष्ठ्यन्तदशरथप्रातिपदिकात् अत इञ् (पा॰सू॰ ४.१.९५) इत्यनेन इञ् प्रत्यये दाशरथिः इत्येव प्रसिद्धप्रयोगः दाशरथः इति कथमकारान्तात् इञ् प्रत्ययस्य दुर्निवारत्वात्। श्रीरामो वस्तुतो दशरथस्य नापत्यं तत्क्षेत्रजन्यव्यवहाराद्दाशरथिरित्युपचर्यते। अतो हनुमतः समक्षमपत्यरूपमर्थं न कथयन्नाह दाशरथः। दशरथस्यायं दाशरथः इति विग्रहे तस्येदम् (पा॰सू॰ ४.३.१२०) इत्यनेन अण्प्रत्यये भत्वादकारलोपे[२७२] दाशरथः। दशरथस्य स्वेन सह केवलं पाल्यपालकभावरूपसम्बन्धस्यैव विवक्षा भक्तप्रवरहनुमतः सम्मुखे राघवेन्द्रस्य। यद्वा दशरथादागतो दाशरथः इति विग्रहे पञ्चम्यन्तदशरथशब्दात् तत आगतः (पा॰सू॰ ४.३.७४) इति अण्प्रत्ययः। लोपादिकार्ये तद्धितेष्वचामादेः (पा॰सू॰ ७.२.११७) इत्यनेन वृद्धौ दाशरथः। अर्थादण् पार्थक्ये। यतो हि दशरथस्य सकाशादहमागतः। अथवाऽपि विभाषा गुणेऽस्त्रियाम् (पा॰सू॰ २.३.२५) इत्यनेन पञ्चमी। ततोऽण्। अनेन प्रदीयतां दाशरथाय मैथिली (वा॰रा॰ ६.१४.३) इति वाल्मीकीयरामायणप्रयोगोऽपि व्याख्यातः।
(६१) अभिषेचनम्
तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत।
राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्त्रिणः॥
– अ॰रा॰ ४.१.५३
अत्र मामभिषेचनं चक्रुः इति सामानाधिकरण्यदर्शनात् अभिषेचनम् इत्यत्र प्रत्ययसन्देहपरं भवति माम्। तथा च भावे ल्युट्[२७३] चेत्कृद्योगे कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इति सूत्रेण षष्ठ्यां ममाभिषेचनम् इति स्यात्। द्वितीयायां प्रत्ययजिज्ञासा तदवस्थेति चेत्। अभिषिच्यत इत्यभिषेचनः इति कर्मणि कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन ल्युट्। यद्वा सेचनम् इति भावल्युडन्तम्। अभितः सेचनं यस्य सोऽभिषेचनस्तमभिषेचनम् इति प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च (वा॰ २.२.२२) इत्यनेन समासे अभिषेचनम् इति सिद्धम्।
(६२) बलवतां बली
सुग्रीवोऽप्याह राजेन्द्र वाली बलवतां बली।
कथं हनिष्यति भवान्देवैरपि दुरासदम्॥
– अ॰रा॰ ४.१.६०
अत्र बहूनां निर्धारणतया तमप् प्रत्ययः इष्ठन् प्रत्ययो वा प्राप्तः[२७४] किन्त्वविवक्षणतया न।
(६३) चेतनम्
तदा मुहूर्त्तं निःसंज्ञो भूत्वा चेतनमाप सः।
ततो वाली ददर्शाग्रे रामं राजीवलोचनम्।
धनुरालम्ब्य वामेन हस्तेनान्येन सायकम्॥
– अ॰रा॰ ४.२.४८
श्रीरामबाणभिन्नशरीरो भूमौ पतितो वाली चेतनां प्राप्तत्वान्। अत्र चेतनम् इति प्रयुक्तम्। चितीँ सञ्ज्ञाने (धा॰पा॰ ३९) इति धातोः स्वार्थे णिचि[२७५] ततश्च चेत्यत इति चेतना[२७६] इति विग्रहे ण्यासश्रन्थो युच् (पा॰सू॰ ३.३.१०७) इत्यनेन भावे युचि प्रत्ययेऽनादेशे स्त्रीत्वाट्टाप्प्रत्यये चेतना।[२७७] चेतनम् इत्यत्र हि शुद्धात् चेतति इत्यस्माद्भावे ल्युट्।[२७८] चेतनम्।
(६४) भ्राजद्वनमालाविभूषितम्
बिभ्राणं चीरवसनं जटामुकुटधारिणम्।
विशालवक्षसं भ्राजद्वनमालाविभूषितम्॥
– अ॰रा॰ ४.२.४९
भूमिपतितो वाली समरधीररघुवीरस्य भुवनमोहनसौन्दर्यं लोचनातिथीकरोति यच्छ्रीरामो वल्कलधरो विविधभूषणभूषितः। तत्र भ्राजद्वनमालाविभूषितम् इति शब्दघटिते भ्राजत् इत्यत्र शतृप्रयोगोऽनुचितः।[२७९] तथाऽप्यस्याऽत्मनेपदीयत्वं त्वौपचारिकमेव। अनुदात्तेत्त्वलक्षणस्याऽत्मनेपदस्यानित्यत्वात्।[२८०] भ्राजन्ती चासौ वनमाला चेति भ्राजद्वनमाला तया भूषितम् इति।
(६५) तिरोभूत्वा
राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम्।
वृक्षखण्डे तिरोभूत्वा त्यजता मयि सायकम्॥
– अ॰रा॰ ४.२.५२
वाली श्रीरामं भर्त्सयन्नाह यन्मां गुप्तवेषो हतवान्। अत्र तिरोभूत्वा इति प्रयुक्तम्। तिरस्शब्दस्य हि भूशब्देन समासे क्त्वो ल्यपि[२८१] तिरोभूय इत्येव। असति समासे तिरो इति पृथक्पदम्। कथं न तिरस् तर्हि। संहिताया विवक्षणात्। अतः समासाभावे तिरो भूत्वा इति न दोषः।
(६६) वानरम्
वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद।
अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि॥
– अ॰रा॰ ४.२.५८
वाली कथयति यत् वानरं मांसं विगर्हितम्। अत्र वानरे भवमिति वानरीयम्। वृद्धाच्छः (पा॰सू॰ ४.२.११४) इत्यनेन छप्रत्यये वानरीयम् इति पाणिनीयम्। वानरम् इति कथम्। नीलो घटः इतिवत् वानरं मांसम्। शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (व्यु॰वा॰ का॰प्र॰) इति व्युत्पत्तिवादप्रयोगात् वानराभिन्नं मांसम्। यद्वा वानरस्येदं वानरम् इति विग्रहे तस्येदम् (पा॰सू॰ ४.३.१२०) इति अण्प्रत्ययः।
(६७) बहु भाषन्तम्
इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत्।
धर्मस्य गोप्ता लोकेऽस्मिंश्चरामि सशरासनः॥
– अ॰रा॰ ४.२.५९
पतितं वालिनं बहु भाषमाणं श्रीरामभद्रः प्रतिवक्ति। अत्र भाषमाणम् इत्यर्थे भाषन्तम् इति प्रयुक्तम्। यतो हि भाष् धातुः (भाषँ व्यक्तायां वाचि धा॰पा॰ ६१२) आत्मनेपदीयस्तथा च भाषत इति भाषमाणस्तं भाषमाणम् इति शानचा भवितव्यमासीत्। किन्तु भाषत इति भाषः पचादित्वादच्।[२८२] भाष इवाऽचरति इति क्विपि लटि तिपि शपि पररूपे भाषति।[२८३] भाषतीति भाषन् तं भाषन्तम् इत्याचारक्विबन्तात् शतृप्रत्यये न दोषः।[२८४] वालिर्भाषते नह्यपि तु भाष इवाऽचरति इति परस्मैपदस्य तात्पर्यम्।
(६८) दापितम्
सुग्रीवं त्वं सुखं राज्यं दापितं वालिघातिना।
रामेण रुमया सार्धं भुङ्क्ष्व सापत्नवर्जितम्॥
– अ॰रा॰ ४.३.११
अत्र दत्तम् इति न कथयित्वा दापितम् इति प्रयुक्तम्। स्वार्थे णिचि अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (पा॰सू॰ ७.३.३६) इत्यनेन पुकि क्तप्रत्यये दापितम्। अर्थात् रामेण राज्यमदाप्यत। यद्वा वाल्यददाद्रामः प्रेरयत् इत्यर्थे वालिना राज्यमदाप्यत कर्मवाच्ये वालिघातिना वालिना राज्यमदाप्यत इत्यस्मिन्नर्थे क्तप्रत्ययः। अत्र हेतुमति च (पा॰सू॰ ३.१.२६) इत्यनेन णिच्।
(६९) कुर्वन्ती
ध्यात्वा मद्रूपमनिशमालोचय मयोदितम्।
प्रवाहपतितं कार्यं कुर्वन्त्यपि न लिप्यसे॥
– अ॰रा॰ ४.३.३५
श्रीरामस्तारां प्रति कथयति कार्यं कुर्वत्यपि मत्कृपया न लिप्ता भविष्यसि। अत्र नुम् अपाणिनीय इव। करोतीति कुर्वती इति तनादित्वाच्छबभावे[२८५] नुम् कथमिति चेत्। गणकार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन शपि नुम् सङ्गत एव। यद्वा सौत्रधातव इवात्राप्याकृतिगणतया क्रियार्थः कुर्वँ धातुः भ्वादिगणे पठ्यतां[२८६] तथा च कुर्वतीति कुर्वन्ती इति शतृप्रत्यये नुम् साधुः।
(७०) असहन्
रामस्तु पर्वतस्याग्रे मणिसानौ निशामुखे।
सीताविरहजं शोकमसहन्निदमब्रवीत्॥
– अ॰रा॰ ४.५.१
षहँ मर्षणे (धा॰पा॰ ८५२, १८०९) इत्यात्मनेपदीयधातुः। तत्र शानचि सहमानः इति पाणिनीयः। असहन् इति तु सहत इति सहो न सह इत्यसहः पचादित्वादच्[२८७] नञ्समासश्च।[२८८] असह इवाऽचरतीत्यसहति।[२८९] असहतीत्यसहन्। आचारक्विबन्ताच्छतृप्रत्ययः।[२९०] असहनशीलसमानमाचरणं करोति। वस्तुतस्तु तस्य क्व वियोग इत्येवाऽचारक्विबन्ताच्छतृप्रत्ययस्याऽध्यात्मिकं तात्पर्यं प्रतिभाति।
(७१) विस्मृतः
कृतघ्नवत्त्वया नूनं विस्मृतः प्रतिभाति मे।
त्वत्कृते निहितो वाली वीरस्त्रैलोक्यसम्मतः॥
– अ॰रा॰ ४.४.४५
रामकार्यार्थमनिशं जागर्ति न तु विस्मृतः।
आगताः परितः पश्य वानराः कोटिशः प्रभो॥
– अ॰रा॰ ४.५.५५
सकर्मकस्मृधातोः (स्मृ आध्याने धा॰पा॰ ८०७) विउपसर्गपूर्वकात्कर्तरि क्तवतुप्रत्यये विस्मृतवान् इति पाणिनीयः। किन्तु विस्मरणं विस्मृतम् इति भावक्तान्तविस्मृतशब्दात्[२९१] तदस्त्यस्येत्यर्शआद्यजन्तात्[२९२] विस्मृतः अपि पाणिनीयं कर्तृविशेषणं सदपि।[२९३]
(७२) गृह्य
इत्युक्त्वा लक्ष्मणं भक्त्या करे गृह्य स मारुतिः।
आनयामास नगरमध्याद्राजगृहं प्रति॥
– अ॰रा॰ ४.५.३९
अत्रोपसर्गं विना कथं ल्यबिति चेत्। करे इत्यस्य साक्षाद्गणे पाठात् साक्षात्प्रभृतीनि च (पा॰सू॰ १.४.७४) इत्यनेन गतिसञ्ज्ञायां समासे ल्यबादेशे न दोषः।[२९४]यद्वा प्रउपसर्ग आसीत्तस्य विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन लोपः।
(७३) मारुतिः
इत्युक्त्वा लक्ष्मणं भक्त्या करे गृह्य स मारुतिः।
आनयामास नगरमध्याद्राजगृहं प्रति॥
– अ॰रा॰ ४.५.३९
यद्यपि मरुतोऽयम् इति विग्रहे तु मारुतः।[२९५] अकारान्ताभावात् इञ् प्रत्ययस्याऽप्यभावः। किन्तु मरुदेव मारुतः।[२९६] प्रज्ञादित्वात्स्वार्थे अण्।[२९७] मारुतस्यापत्यं पुमान् मारुतिः इति अत इञ् (पा॰सू॰ ४.१.९५) इत्यनेनेञ्प्रत्यये विभक्तिकार्ये मारुतिः।[२९८]
(७४) दशसाहस्राः
प्रेषिता दशसाहस्रा हरयो रघुसत्तम।
आनेतुं वानरान् दिग्भ्यो महापर्वतसन्निभान्॥
– अ॰रा॰ ४.५.४६
दशसाहस्रमस्त्येषामिति दशसाहस्राः इत्यर्शआद्यजन्तम्।[२९९]
॥ इति किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
(७५) उद्वमती
हनूमानपि तां वाममुष्टिनाऽवज्ञयाऽहनत्।
तदैव पतिता भूमौ रक्तमुद्वमती भृशम्॥
– अ॰रा॰ ५.१.४६
अत्र हनुमन्मुष्टिप्रहारेण रक्तमुद्वमन्ती लङ्किनी पपात। वम् धातोः (टुवमँ उद्गिरणे धा॰पा॰ ९८४) भ्वादित्वात् नुम् प्रयोक्तव्यः।[३००] किन्त्वत्र उद्वमति इति विग्रह उणादिः तृँच् प्रत्ययः।[३०१] ततो ङीपि[३०२] उद्वमती। यद्वा गणकार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन शबभावे नुमभावः।[३०३]
(७६) ऐन्द्रः
ऐन्द्रः काकस्तदागत्य नखैस्तुण्डेन चासकृत्।
मत्पादाङ्गुष्ठमारक्तं विददाराऽमिषाशया॥
– अ॰रा॰ ५.३.५४
इन्द्रस्यापत्यं पुमान् इति विग्रहे अत इञ् (पा॰सू॰ ४.१.९५) इत्यनेन इञ् प्रत्यये ऐन्द्रिः। किन्तु इन्द्रस्यायम् इति विग्रहे तस्येदम् (पा॰सू॰ ४.३.१२०) इत्येन अण् प्रत्यये भत्वादकारलोपे[३०४] ऐन्द्रः। सीतापहाररूपगर्हितकर्मत्वादपत्यत्वकलङ्कधियाऽत्र तदपत्यत्वं न विवक्षितम्।
(७७) ब्रह्मपाशतः
बद्ध्वाऽऽनेष्ये द्रुतं तात वानरं ब्रह्मपाशतः।
इत्युक्त्वा रथमारुह्य राक्षसैर्बहुभिर्वृतः॥
– अ॰रा॰ ५.३.९२
अत्र ब्रह्मपाशतः इति ब्रह्मपाशेन विग्रहेऽस्मिन्तृतीयार्थे सार्वविभक्तिकस्तसिः।[३०५]
(७८) भेदयित्वा
भेदयित्वा ततो घोरं सिंहनादमथाकरोत्।
ततोऽतिहर्षाद्धनुमान स्तम्भमुद्यस्य वीर्यवान्॥
– अ॰रा॰ ५.३.९६
भिदिँर विदारणे (धा॰पा॰ १४३९) इत्यत्र स्वार्थिको णिच्।[३०६] ततो क्त्वाप्रत्यय इटि गुणेऽयादेशे भेदयित्वा।[३०७]
॥ इति सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
(७९) आरोहयन्तः
शैलानारोहयन्तश्च जग्मुर्मारुतवेगतः।
असङ्ख्याताश्च सर्वत्र वानराः परिपूरिताः॥
– अ॰रा॰ ६.१.३९
आपूर्वकं रुह्धातुं (रुहँ बीजजन्मनि प्रादुर्भावे च धा॰पा॰ ८५९) स्वार्थे णिजन्तं कृत्वा ततः शतरि शपि गुणेऽयादेशे प्रथमाबहुवचने आरोहयन्तः।[३०८]
(८०) याचते
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥
– अ॰रा॰ ६.३.१२[३०९]
अत्र शरणागतं विभीषणं प्रति स्वस्वभावं प्रकटयन् रामभद्रः प्राह यत् प्रपन्नाय जनाय तवास्मीति याचमानायाहं सर्वप्राणिभ्योऽभयं ददामि। आत्मनेपदीयः याच् धातुः (टुयाचृँ याञ्चायाम् धा॰पा॰ ८६३)।[३१०] तस्मात् याचते इति हि प्रयोगः।[३११] अस्माच्छानचि चतुर्थ्यैकवचने याचमानाय इति हि पाणिनीयम्। किन्तु याचत इति याचः।[३१२] याच इवाऽचरतीति याचति।[३१३] याचतीति याचन्।[३१४] तस्मै याचते इत्याचारक्विबन्ताच्छतृप्रत्यये याचते।[३१५] याचकवदाचरणकारिणेऽप्यभयं ददामि तदा याचमानाय किं दद्यामिति स्वकारुण्यात्स्वयं ध्वनयितुं स्वयं निखिलनिगमार्णवो राघवो याचते इति प्रायुङ्क्त। अथवोभयपदी धातुरयम्। तथा च भगवान्पाणिनिः टुयाचृँ याच्ञायाम् (धा॰पा॰ ८६३)। स्वरितेदयम्। एष कर्त्रभिप्राये क्रियाफल आत्मनेपदी।[३१६] अन्याभिप्राये क्रियाफले परस्मैपदी।[३१७] भगवतोऽभिप्रायो यत् – यः स्वार्थं त्यक्त्वा प्रेमभक्तये मां प्रपन्नः तवास्मि इति वदन् मामभयं ब्रह्मैव याचति तस्मा अहं सर्वभूतेभ्योऽभयं ददामि। अतोऽत्र परस्मैपदं ततः शतृप्रत्ययः। तस्य चतुर्थ्येकवचनरूपं याचते। याचतीति याचन् तस्मै याचते।
(८१) अभिषेकम्
लङ्काराज्याधिपत्यार्थमभिषेकं रमापतिः।
कारयामास सचिवैर्लक्ष्मणेन विशेषतः॥
– अ॰रा॰ ६.३.४५
अत्र नायं भावसाधनोऽपि तु पुंसि सञ्ज्ञायां घः प्रायेण (पा॰सू॰ ३.३.११८) इत्यनेन घप्रत्ययः सञ्ज्ञायामित्यस्य प्रायिकत्वात्।
(८२) शासिता
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम्।
शासिताऽहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे॥
– अ॰रा॰ ६.५.२
अत्र शास्तीति शास्ता इत्यदादेर्धातोः (शासुँ अनुशिष्टौ धा॰पा॰ १०७५) तु नेट्।[३१८] किन्तु आगमशास्त्रमनित्यम् (प॰शे॰ ९३.२) इति कृत्वा सेट्।[३१९]
(८३) शिक्षन्
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम्।
शासिताऽहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे॥
– अ॰रा॰ ६.५.२
शिक्ष् धातुः (शिक्षँ विद्योपादाने धा॰पा॰ ६०५) आत्मनेपदी। स च शिक्षाग्रहणार्थको न तु शिक्षादानार्थकः।[३२०] अत्र शिक्षयन् इति पाणिनीयम्। किन्त्वन्तर्भावितण्यर्थत्वादनित्यमात्मनेपदम्। तस्मात् शिक्षन् प्रयोगोऽयं पाणिनीयोऽस्ति सर्वतः।
(८४) आप्लवन्तः
कोटिशतयुताश्चान्ये रुरुधुर्नगरं भृशम्।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः॥
– अ॰रा॰ ६.५.५२
प्लुधातुः (प्लुङ् गतौ धा॰पा॰ ९५८) आत्मनेपदी। अत्रापि शतृप्रत्यय आत्मनेपदस्यानित्यतास्वीकारेण।[३२१]
(८५) ग्रसन्ती
ततो ददर्श हनुमान् ग्रसन्तीं मकरीं रुषा।
दारयामास हस्ताभ्यां वदनं सा ममार हे॥
– अ॰रा॰ ६.७.२३
ग्रस्धातुः (ग्रसुँ अदने धा॰पा॰ ६३०) आत्मनेपदी। ग्रसमाना इति वक्तव्ये ग्रसन्ती इति शतृप्रत्ययान्तम् अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् (प॰शे॰ ९३.४) स्वीकृत्योक्तम्।
(८६) शासयन्तम्
पादुके ते पुरस्कृत्य शासयन्तं वसुन्धराम्।
मन्त्रिभिः पौरमुख्यैश्च काषायाम्बरधारिभिः॥
– अ॰रा॰ ६.१४.५३
अत्र शास्धातुं (शासुँ अनुशिष्टौ धा॰पा॰ १०७५) स्वार्थे णिजन्तं मत्वा शतरि शपि गुणेऽयादेशे नुमि विभक्तिकार्ये च शासयन्तम्।[३२२]
(८७) गायमानाः
पश्चाद्दुरात्मना राम रावणेनाभिविद्रुताः।
तमेव गायमानाश्च तदाराधनतत्पराः॥
– अ॰रा॰ ६.१५.६९
गैधातुः (गै शब्दे धा॰पा॰ ९१८) परस्मैपदी। गायन्तीति गायन्तः इति पाणिनीयम्। किन्तु कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यात्मनेपदे गायन्त इति गायमानाः। न च कर्मव्यतिहारद्योतकः शब्दो नास्तीति वाच्यम्। व्यतिगायन्ते इति प्रयोगः। विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन व्यति इत्यस्य लोपः। ततः शानचि गायमानाः। अयोग्यं गायं कुर्वाणाः इति भावः।
॥ इति युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथोत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
(८८) पौत्रान्
सुमाली वरलब्धांस्ताञ्ज्ञात्वा पौत्रान् निशाचरान्।
पातालान्निर्भयः प्रायात्प्रहस्तादिभिरन्वितः॥
– अ॰रा॰ ७.२.२४
पुत्र्या अपत्यानि पुमांसः इति विग्रहे स्त्रीभ्यो ढक् (पा॰सू॰ ४.१.१२०) इत्यनेन ढक् प्रत्यये आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (पा॰सू॰ ७.१.२) इत्यनेन एय् आदेशे किति च (पा॰सू॰ ७.२.११८) इत्यनेन वृद्धौ विभक्तिकार्ये पौत्रेयान् इति पाणिनीयम्। किन्तु पुत्र्या इमे इति विग्रहे तस्येदम् (पा॰सू॰ ४.३.१२०) इत्यनेन अण्। यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेन भत्वादीकारलोपे विभक्तिकार्ये पौत्रान्।
(८९) विकल्पोज्झितः
राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग्
भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः।
भक्तानामनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं
त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः॥
– अ॰रा॰ ७.४.१२
उज्झितो विकल्पो येन इति विकल्पे सप्तमीविशेषणे बहुव्रीहौ (पा॰सू॰ २.२.३५) इत्यनेन विशेषणस्य पूर्वं प्रयोक्तव्ये विकल्पशब्दस्य प्रयोगो नापाणिनीयः। पूर्वनिपातप्रकरणस्यानित्यत्वात्। समुद्राभ्राद्घः (पा॰सू॰ ४.४.११८) इत्यत्र समुद्रशब्दस्य पूर्वप्रयोगात्।[३२३]
(९०) पूज्य
तासां भावानुगं राम प्रसादं कर्तुमर्हसि।
श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च॥
– अ॰रा॰ ७.९.१०
अत्र साकेतगमनाय कृतसङ्कल्पानां प्रजानां विषये वसिष्ठस्य प्रार्थनं[३२४] श्रुत्वा करुणावरुणालयो भगवाञ्छ्रीरामोऽनुगन्तुं ता आज्ञप्तवान्। अत्र पूज्य इति प्रयुक्तम्। ल्यप्प्रत्ययः समासं विना सम्भवो नहि अतः पूज्य इति कथं पाणिनीयमिति चेत्। सम्पूज्य इति प्रयोगः। अस्य च विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन लोपे जातसंस्कारो न निवर्तते इति परिभाषया ल्यम्निवृत्त्यभावे पूज्य इति पाणिनीयमेव।
॥ इत्युत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे द्वितीयाध्याये द्वितीयपरिच्छेदः।
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे द्वितीयोऽध्यायः।
[१] ‘व्यासः’ इति शेषः।
[२] तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन
[३] यथा – पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति (गो॰गृ॰सू॰ २.६.१०) क्रमेण सुप्तामनु संविवेश (र॰वं॰ २.२४) चरमं संविशति या प्रथमं प्रतिबुध्यते (म॰भा॰ २.८८.३६) आन्याय्यादुत्थानादान्याय्याच्च संवेशनादेषोऽद्यतनः कालः (का॰वृ॰ १.२.५७) इत्यादिषु। अवलम्बः – चारुदेवशास्त्रिकृता उपसर्गार्थचन्द्रिका।
[४] विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन।
[५] अन्यत्रापि दृश्यते। जघनार्धेन च पशुरुच्च तिष्ठति सं च विशति (श॰ब्रा॰ ८.२.४.२०, संविशति = निषीदति)। पयटेत्कीटवद्भूमिं वर्षास्वेकत्र संविशेत् (ल॰वि॰स्मृ॰ ४.५, संविशेत् = तिष्ठेत् = वसेत्)। अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी (वि॰पु॰ ६.५.३३, संवेश्यते = उपवेश्यते)। अवलम्बः – चारुदेवशास्त्रिकृता उपसर्गार्थचन्द्रिका।
[६] अन्वयाद्यनुपपत्तिप्रतिसन्धानञ्च लक्षणाबीजम्। वस्तुतस्तु तात्पर्यानुपपत्तिसन्धानमेव तद्बीजम् (प॰ल॰म॰ २३–२४)।
[७] तन्न। सति तात्पर्ये सर्वे सर्वार्थवाचका इति भाष्याल्लक्षणाया अभावाद्वृत्तिद्वयावच्छेदकद्वयकल्पने गौरवात्। जघन्यवृत्तिकल्पनाया अन्याय्यत्वाच्च (प॰ल॰म॰ २७)।
[८] छान्दसत्वाद्बाहुलकाद्वा नोपधादमनुष्यजातेरप्यूङित्यर्थः। अत्र वाचस्पत्यकाराः – हनु(नू) पुंस्त्री॰ हन-उन् स्त्रीत्वे वा ऊङ्। शब्दकल्पद्रुमकाराश्च – हनूः, स्त्री, हनु + पक्षे ऊञ्। हनुः। इत्यमरटीकायां भरतः। भाष्ये तु ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनाम् (वा॰ ४.१.६६) इति वार्त्तिकानन्तरं हनुशब्दो रज्ज्वादिगणे पठितः। परन्तु दृश्यते हि हनूरूपमार्षग्रन्थेषु। यथा मूलरामायणे भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् (वा॰रा॰ १.१.८५)। अत्र गोविन्दराजाश्च – हनूशब्द ऊकारान्तोऽप्यस्ति (वा॰रा॰ भू॰टी॰ १.१.८५)।
[९] अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन।
[१०] आनन्द → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → आनन्द क्विँप् → आनन्द व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → आनन्द → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आनन्द लट् → आनन्द तिप् → आनन्द ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → आनन्द शप् ति → आनन्द अ ति → अतो गुणे (पा॰सू॰ ६.१.९७) → आनन्द ति → आनन्दति।
[११] आनन्द → धातुसञ्ज्ञा (पूर्ववत्) → क्विप् च (पा॰सू॰ ३.२.७६) → आनन्द क्विँप् → आनन्द व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → आनन्द → विभक्तिकार्यम् → आनन्दः। यद्वा नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तर्यचि। आनन्द → धातुसञ्ज्ञा (पूर्ववत्) → नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) → आनन्द अच् → आनन्द अ → अतो गुणे (पा॰सू॰ ६.१.९७) → आनन्द → विभक्तिकार्यम् → आनन्दः।
[१२] मूलं मृग्यम्।
[१३] उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन।
[१४] अट्कुप्वाङ्नुम्व्यवायेऽपि (पा॰सू॰ ८.४.२) इत्यनेन।
[१५] जगत्यति इति भाष्ये तुग्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः (वा॰ १.४.२) इति वार्तिक उदाहृतम्।
[१६] आद्गुणः (पा॰सू॰ ६.१.८७) इत्यनेन।
[१७] पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) इति सूत्रेणापदत्वम्। यद्वा अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) इति सूत्रेण छान्दसभत्वम्।
[१८] जगत् → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰) → जगत् णिच् → जगत् इ → जगति → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लँट् (पा॰सू॰ ३.२.१२३) → जगति लट् → जगति तिप् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → जगति शप् तिप् → जगति अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → जगते अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → जगतय् अ ति → जगतयति।
[१९] जगति → धातुसञ्ज्ञा (पूर्ववत्) → क्विप् च (पा॰सू॰ ३.२.७६) → जगति क्विँप् → जगति व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → जगति → णेरनिटि (पा॰सू॰ ६.४.५१) → जगत् → विभक्तिकार्यम् → जगत्।
[२०] या प्रापणे (धा॰पा॰ १०४९) → या → अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) → या ड → या अ → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → य् अ → य → विभक्तिकार्यम् → यः।
[२१] पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) इत्यनेन। यद्वा अयस्मयादीनि च्छन्दसि (पा॰सू॰ १.४.२०) इति सूत्रेण छान्दसभत्वम्।
[२२] समानः पतिरस्याः इति विग्रहे नित्यं सपत्न्यादिषु (पा॰सू॰ ४.१.३५) इत्यनेन निपातनात्समानस्य सादेशे सपत्नीशब्दो व्युत्पन्नः।
[२३] अपि च वाल्मीकीयरामायणेऽयोध्याकाण्डे – साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुध्यसे। सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि॥ (वा॰रा॰ २.८.२६)। अत्र टीकाकाराः – ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम् (पा॰सू॰ ६.३.६३) इत्यनेनार्षत्वेन वा ह्रस्वत्वम्। यथा – सपत्निवृद्धाविति ‘ङ्यापोः’ इति ह्रस्वः (वा॰रा॰ भू॰टी॰)। सपत्न्याः वृद्धिः – सपत्निवृद्धिः ‘ङ्यापोः’ इति ह्रस्वः (वा॰रा॰ क॰टी॰)। सपत्निवृद्धावित्यत्र ह्रस्व आर्षः (वा॰रा॰ शि॰टी॰)। सपत्निवृद्धावित्यार्षो ह्रस्वः (वा॰रा॰ ति॰टी॰)।
[२४] लशक्वतद्धिते (पा॰सू॰ १.३.८) तस्य लोपः (पा॰सू॰ १.३.९) इत्याभ्याम्।
[२५] ष्टुना ष्टुः (पा॰सू॰ ८.४.४१) इत्यनेन।
[२६] पूर्वपक्षोऽयम्।
[२७] यदि त्वादित्यधिकारादस्यैवेष्येत तर्हि मनीषा पतञ्जलिरिति न सिध्येत्। केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोप अकारस्यैव पररूपमाहुः (त॰बो॰ ७९)।
[२८] बालमनोरमायामपि – ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचस्स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते। आदित्यनुवृत्तौ शकन्ध्वादिगणे ‘सीमन्त’ इति कतिपयरूपाणामसिद्धेः (बा॰म॰ ७९)।
[२९] एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) इति सूत्रेण धातोरनिट्कत्वम्। तद्बाधित्वा रधादिभ्यश्च (पा॰सू॰ ७.२.४५) इत्यनेन वैकल्पिकेट्प्राप्तिः। परन्तु निष्ठायां यस्य विभाषा (पा॰सू॰ ७.२.१५) इत्यनेनेडभावः।
[३०] तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इत्यनेन।
[३१] यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भत्वम्। यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपः।
[३२] शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेन।
[३३] सहायः, पुं॰, (सह अयते इति। अय + अच्) इति शब्दकल्पद्रुमः।
[३४] तद्धितेष्वचामादेः (पा॰सू॰ ७.२.११७) इत्यनेनादिवृद्धिः। यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भत्वम्। यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपः।
[३५] साह्यम्, क्ली॰, सहस्य भावः (सह + ष्यञ्) इति शब्दकल्पद्रुमः।
[३६] सह अयः सहायः इत्यत्र सह सुपा (पा॰सू॰ २.१.४) इत्यनेन सुप्सुपासमासः। तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु। अनेन जानकिनाथ सहाय करैं जब कौन बिगाड़ करे नर तेरो इति मुक्तके सहाय करैं इति गोस्वामितुलसीदासकृतोऽवधीभाषाप्रयोगोऽपि व्याख्यातः।
[३७] इण् गतौ (धा॰पा॰ १.१०४५) इति धातोः एरच् (पा॰सू॰ ३.३.५६) इत्यनेन।
[३८] सुप्सुपासमासः।
[३९] अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा॰ २.१.३६) इत्यनेन नित्यसमासः।
[४०] अयँ गतौ (धा॰पा॰ ४७४) इति धातोः भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[४१] तन्न। सति तात्पर्ये सर्वे सर्वार्थवाचका इति भाष्याल्लक्षणाया अभावाद्वृत्तिद्वयावच्छेदकद्वयकल्पने गौरवात्। जघन्यवृत्तिकल्पनाया अन्याय्यत्वाच्च (प॰ल॰म॰ २७)।
[४२] उपश्लेष → तत्र जातः (पा॰सू॰ ४.३.२५) → उपश्लेष ठक् → उपश्लेष ठ → ठस्येकः (पा॰सू॰ ७.३.५०) → उपश्लेष इक → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → किति च (पा॰सू॰ ७.२.११८) → औपश्लेष इक → यस्येति च (पा॰सू॰ ६.४.१४८) → औपश्लेष् इक → औपश्लेषिक → विभक्तिकार्यम् → औपश्लेषिकः।
[४३] स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवतीत्युच्यते न चान्तरेण समासं स्त्र्यन्तं प्रातिपदिकमुपसर्जनमस्ति (भा॰पा॰सू॰ १.२.४८)।
[४४] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[४५] भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[४६] अर्शआदिभ्योऽच् पा॰सू॰ ५.२.१२७) इत्यनेन।
[४७] मूलं मृग्यम्।
[४८] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[४९] “सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सत्याश्रयतया विशिष्टबुद्धिनियामकः” इत्यभियुक्तव्यवहारात् (प॰ल॰म॰ ११)।
[५०] मयूरव्यंसकादयश्च (पा॰सू॰ २.१.७२) इत्यनेन।
[५१] अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा॰ २.१.३६) इत्यनेन।
[५२] अर्शआदिभ्योऽच् पा॰सू॰ ५.२.१२७) इत्यनेन।
[५३] कर्मण्यण् (पा॰सू॰ ३.२.१) इत्यनेन।
[५४] अर्थ उपयाच्ञायाम् (धा॰पा॰ १९०६) → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा॰सू॰ ३.१.२५) → अर्थ णिच् → अर्थ इ → अतो लोपः (पा॰सू॰ ६.४.४८) → अर्थ् इ → अर्थि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। सहाय शस् अर्थि → कर्मण्यण् (पा॰सू॰ ३.२.१) → सहाय शस् अर्थि अण् → सहाय शस् अर्थि अ → णेरनिटि (पा॰सू॰ ६.४.५१) → सहाय शस् अर्थ् अ → सहाय शस् अर्थ → उपपदमतिङ् (पा॰सू॰ २.२.१९) → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → सहाय अर्थ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → सहायार्थ → विभक्तिकार्यम् → सहायार्थ अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → सहायार्थम्।
[५५] तत्र भवः (पा॰सू॰ ४.३.५३) इत्यनेन।
[५६] आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (पा॰सू॰ ७.१.२) इत्यनेन।
[५७] तस्मै हितम् (पा॰सू॰ ५.१.५) इत्यनेन।
[५८] सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) इत्यनेन।
[५९] यथा भट्टिकाव्ये – पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान् क्रतुषु क्रियावान् (भ॰का॰ १.१०) इत्यत्र शत्रन्तप्रयोगे।
[६०] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[६१] अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन।
[६२] यथा रामरक्षास्तोत्रे – स चिरायुः सुखी पुत्री विजयी विनयी भवेत् (रा॰र॰स्तो॰ १०)। पुत्र → अत इनिठनौ (पा॰सू॰ ५.२.११५) → पुत्र इनिँ → पुत्र इन् → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → यस्येति च (पा॰सू॰ ६.४.१४८) → पुत्र् इन् → पुत्रिन् → विभक्तिकार्यम् → पुत्रिन् सुँ → पुत्रिन् स् → सौ च (पा॰सू॰ ६.४.१३) → पुत्रीन् स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → पुत्रीन् → नलोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) → पुत्री।
[६३] भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् (अ॰रा॰ १.४.१४)।
[६४] क्तक्तवतू निष्ठा (पा॰सू॰ १.१.२६)।
[६५] अदिकर्मणि क्तः कर्तरि च (पा॰सू॰ ३.४.७१) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्याभ्यां कर्तर्यपि भवति।
[६६] कर्तरि कृत् (पा॰सू॰ ३.४.६७) इत्यनेन।
[६७] नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन।
[६८] अर्शआदिभ्योऽच् पा॰सू॰ ५.२.१२७) इत्यनेन।
[६९] उक्त → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → उक्त णिच् → उक्त इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → उक्त् इ → उक्ति → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → उक्ति लट् → उक्ति तिप् → उक्ति ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → उक्ति शप् ति → उक्ति अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उक्ते अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → उक्तय् अ ति → उक्तयति।
[७०] उक्ति → पूर्ववद्धातुसञ्ज्ञा → नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) → उक्ति अच् → अनुबन्धलोपः → उक्ति अ → णेरनिटि (पा॰सू॰ ६.४.५१) → णिलोपः → उक्त् अ → उक्त → विभक्तिकार्यम् → उक्तः।
[७१] त्वयि इत्यध्याहार्यमिति भावः।
[७२] वाक्ये इत्यध्याहार्यमिति भावः।
[७३] यथा अनुमोदितम् आमोदितम् इत्यादिषु। वाचस्पत्येऽपि – अनुमोदित। त्रि॰ अनु मुद-णिच्-कर्म्मणि क्तः। आमोदित। त्रि॰ आ मुद-णिच्-क्तः। मुदँ हर्षे (धा॰पा॰ १६) → मुद् → हेतुमति च (पा॰सू॰ ३.१.२६) → मुद् णिच् → मुद् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → मोद् इ → मोदि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। प्र मोदि → तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) → निष्ठा (पा॰सू॰ ३.२.१०२) → प्र मोदि क्त → प्र मोदि त → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → प्र मोदि इट् त → प्र मोदि इ त → निष्ठायां सेटि (पा॰सू॰ ६.४.५२) → प्र मोद् इ त → प्रमोदित → विभक्तिकार्यम् → प्रमोदित सुँप् → अतोऽम् (पा॰सू॰ ७.१.२४) → प्रमोदित अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → प्रमोदितम्।
[७४] प्रवर्त्स्यति इत्यत्र वृद्भ्यः स्यसनोः (पा॰सू॰ १.३.९२) इत्यनेन परस्मैपदम्।
[७५] प्रमुद् णिच् क्त इति भावः।
[७६] समुदायविशिष्टवर्णत्वमुपधात्वम् (ल॰शे॰)।
[७७] वैशिष्ट्यञ्च स्वघटकत्वस्वघटकान्त्यालवधिकपूर्वत्वोभयसम्बन्धेन (ल॰शे॰)।
[७८] प्रमुद् णिच् क्त इति भावः।
[७९] अनेकव्यवहित इकि इत्यत्र यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन भावलक्षणा सप्तमी। अनेकव्यवहित इकि तस्येको न गुण इति भावः। भिदिँर् विदारणे (धा॰पा॰ १४३९) → भिद् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → भिद् तिप् → भिद् ति → रुधादिभ्यः श्नम् (पा॰सू॰ ३.१.७८) → मिदचोऽन्त्यात्परः (पा॰सू॰ १.१.४७) → भि श्नम् द् ति → भि न द् ति → खरि च (पा॰सू॰ ८.४.५५) → भि न त् ति → भिनत्ति।
[८०] भिदिँर् विदारणे (धा॰पा॰ १४३९) → भिद् → ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) → भिद् तृच् → भिद् तृ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → भेद् तृ → खरि च (पा॰सू॰ ८.४.५५) → भेत् तृ → भेत्तृ → विभक्तिकार्यम् → भेत्तृ सुँ → भेत्तृ स् → ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) → भेत्त् अनँङ् स् → भेत्त् अन् स् → अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (पा॰सू॰ ६.४.११) → भेत्त् आन् स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → भेत्त् आन् → नलोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) → भेत्त् आ → भेत्ता।
[८१] येन नाव्यवधानं तेन व्यवहितेऽपि। वचनप्रामाण्यात्। तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः (वै॰सि॰कौ॰ २१८९)।
[८२] गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तः। हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः (अ॰को॰ ३.१.१०३) इत्यमरः। तत्रैव सुधाटीकायां प्रमुदितम्। प्रमोदते स्म (अ॰को॰ व्या॰सु॰ ३.१.१०३) इति भानुजिदीक्षिताः। कर्तरि पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे प्राप्ते ग्क्ङिति च (पा॰सू॰ १.१.५) इत्यनेन गुणनिषेधे प्रमुदितम् इत्येव। उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (पा॰सू॰ १.२.२१) इत्यनेनाऽदिकर्मणि भावे च निष्ठाया वैकल्पिककित्त्वात् ग्क्ङिति च (पा॰सू॰ १.१.५) इत्यनेन प्राप्तस्य गुणनिषेधस्यापि वैकल्पिकत्वात् प्रमुदितम् प्रमोदितम् इति रूपद्वयम्।
[८३] यद्वा मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः (अ॰को॰ १.४.२४) इत्यमरकोशानुशासनात् प्रकृष्टा मुत् प्रमुत्। यथा भागवते – तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः (भा॰पु॰ १०.३३.१८)। अत्रान्वितार्थप्रकाशिका –तस्य भगवतः अङ्गसङ्गेन प्रकृष्टा या मुत् हर्षस्तया आकुलानि अवशानीन्द्रियाणी यासां ताः (भा॰पु॰ अ॰प्र॰टी॰ १०.३३.१८)। एवमेव श्रीभार्गवराघवीये – वक्राणि मूर्ध्ना प्रमुदा वहन्ती (भा॰रा॰ १३.९) निशम्य पौराः प्रमुदा समाययुः (भा॰रा॰ १७.११) इत्यादौ।
[८४] सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन।
[८५] तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इत्यनेन।
[८६] लगतः इत्यत्र लगेँ सङ्गे (धा॰पा॰ ७८६) इति धातुः।
[८७] क्षै क्षये (धा॰पा॰ ९१३) इत्यकर्मकधातोः गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तप्रत्यये क्षामशब्दस्त्रिलिङ्गे। क्षाम इति। ‘आदेचः’ इत्यात्वम्। ‘गत्यर्थाकर्मके’ति कर्तरि क्तः। क्षीण इत्यर्थः। अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः (बा॰म॰ ३०३२) इति बालमनोरमा। यथा वाल्मीकीयरामायणे – तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्॥ (वा॰रा॰ ५.१५.३०) इति पाठे। अत्रत्या तिलकटीका – क्षामां कृशाम् (वा॰रा॰ ति॰टी॰ ५.१५.३०)। क्षमाम् इति गोविन्दराजसम्मतः पाठः। एवमेव भागवते नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् (भा॰पु॰ ३.२१.४६) कालेन भूयसा क्षामां कर्शितां व्रतचर्यया (भा॰पु॰ ३.२३.५१) इत्यनयोः। तथा च मेघदूते क्षामच्छायम् (मे॰दू॰ २.१७) मध्ये क्षामा (मे॰दू॰ २.१९) आधिक्षामाम् (मे॰दू॰ २.२६) इत्यादिषु। प्रणेतॄणां भृङ्गदूताभिधे दूतकाव्येऽपि श्यामां क्षामां क्षपितहृदिभूकुङ्कुमामश्रुधारासारैर्नित्यं नमितवदनाम्भोरुहां रुग्णचित्ताम्। सूर्येन्दुभ्यामिव विरहितां कौहवीं सान्ध्यवेलां सीतां भीतामिव हरिणिकां द्रक्ष्यसि त्वं शुनीषु॥ (भृ॰दू॰ २.६१) याऽयोध्यायां जननिसविधे वाग्भिरत्युज्ज्वलाभिर्नैच्छद्वस्तुं क्षणमपि तदा साधु सीताऽनुनीता। दूरीभूता मृगमृगयुतः साम्प्रतं सा मृगाक्षी क्षामा श्यामा श्वसिति किमहो कोटिकूटे त्रिकूटे॥ (भृ॰दू॰ २.१३७) इत्यनयोर्वृत्तयोः कर्तर्येव क्षामशब्दः।
[८८] नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन।
[८९] मुर्छाँ मोहसमुच्छ्राययोः (धा॰पा॰ २१२) → मुर्छ् → गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) → मुर्छ् क्त → मुर्छ् त → राल्लोपः (पा॰सू॰ ६.४.२१) → मुर् त → न ध्याख्यापॄमूर्छिमदाम् (पा॰सू॰ ८.२.५७) → नकारादेशनिषेधः → आदितश्च (पा॰सू॰ ७.२.१६) → इडागमनिषेधः → हलि च (पा॰सू॰ ८.२.७७) → मूर् त → मूर्त → अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) → मूर्त टाप् → मूर्त आ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → मूर्ता → विभक्तिकार्यम् → मूर्ता सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → मूर्ता।
[९०] मुर्छाँ मोहसमुच्छ्राययोः (धा॰पा॰ २१२) → मुर्छ् → षिद्भिदादिभ्योऽङ् (पा॰सू॰ ३.३.१०४) → मुर्छ् अङ् → मुर्छ् अ → उपधायां च (पा॰सू॰ ८.२.७८) → मूर्छ् अ → अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) → मूर्छ् अ आ → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → मूर्छ् आ → मूर्छा → अचो रहाभ्यां द्वे (पा॰सू॰ ८.४.४६) → मूर् छ् छा → खरि च (पा॰सू॰ ८.४.५५) → मूर् च् छा → मूर्च्छा।
[९१] यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भत्वे यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाऽलोपः।
[९२] यद्वाऽत्र आदिकर्मणि क्तः कर्तरि च (पा॰सू॰ ३.४.७१) इत्यनेनाऽदिकर्मणि कर्तरि क्तः। ततः विभाषा भावादिकर्मणोः (पा॰सू॰ ७.२.१७) इत्यनेन पाक्षिकेण्निषेध इट्पक्षे टापि विभक्तिकार्ये मूर्च्छिता। अपि च घोररूपिणी इत्यत्र न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः इत्यनेन न पाणिनीयतेति न भ्रमितव्यम्। तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[९३] धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ (वा॰प॰ ३.७.८८)। अकर्मकत्वात् गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तः।
[९४] सोऽपि गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन।
[९५] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[९६] किमिदं ‘कारके’ इति। सञ्ज्ञानिर्देशः (भा॰पा॰सू॰ १.४.२३)। अत्र कैयटः – सञ्ज्ञानिर्देश इति। सुपां सुपो भवन्तीति प्रथमायाः स्थाने सप्तमी कृतेति भावः (भा॰प्र॰ पा॰सू॰ १.४.२३)।
[९७] उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चमीं विना (वै॰सि॰कौ॰ १९८४, ५.३.३५)।
[९८] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यनेन पञ्चमी।
[९९] कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽत्राविहितो ड्विन्प्रत्ययः।
[१००] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३)।
[१०१] सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥ (भा॰पा॰सू॰ ३.१.८५)। बहुलग्रहणं सर्वविधिव्यभिचारार्थम् (का॰वृ॰ ३.१.८५)।
[१०२] तसेः सार्वविभक्तिकत्वं तदन्तानामाकृतिगणत्वं च तमे पृष्ठे तम्यां पादटिप्पण्यां स्पष्टीकृतम्।
[१०३] पूर्वपक्षोऽयम्।
[१०४] ञित्वराँ सम्भ्रमे (धा॰पा॰ ७७५) → तवर् → नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) → त्वर् क्त → त्वर् त → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → इट्प्राप्तिः → आदितश्च (पा॰सू॰ ७.२.१६) →