सन्धिकारकसमासीयानामपाणिनीयप्रयोगाणां विमर्शः


॥ अथ प्रथमोऽध्यायः ॥

॥ सन्धिकारकसमासप्रकरणम्‌ ॥

अथ नत्वा घनश्यामं रामं सीतासमन्वितम्।
अपाणिनीयानध्यात्मरामायणगतान् किल॥
शब्दान् श्रीगुरुपादाब्जरजसा बुद्धया धिया।
विमर्शये[१] यथाबुद्धि सुधियो मर्षयन्त्वघम्॥

   अथ प्रकृतमनुसरामि। तत्र पूर्वं रामायण­शब्द एव साधना­प्रकारं प्रदर्शये। रामा सीता रामो रामचन्द्रो रामा च रामश्चेति विग्रहे पुमान् स्त्रिया (पा॰सू॰ १.२.६७) स्त्रिया सहोक्तौ पुमाञ्छिष्यते (वै॰सि॰कौ॰ ९३३) इतिवृत्तिकेन सूत्रेणानेन स्त्री­वाचकस्य लोपे यः शिष्यते स लुप्यमानार्थाभिधायी[२] इति नियमाद्राम­शब्दस्यैव द्वित्व­बोधकतया रामौ इति शब्दः सीताराम­बोधको हंसी च हंसश्च हंसौ इतिवत्ततो रामयोः सीता­रामयोः अयनम्‌ इति विग्रहे इण् गतौ (धा॰पा॰ १.१०४५) इत्यस्माद्धातोरीयते गम्यत इति कर्म­व्युत्पत्त्या बाहुलकात्कर्मणि ल्युट्।[३]

   सम्प्रति अध्यात्म­रामायण­शब्दस्य सिद्धिं प्रदर्शये। अधिगतोऽन्तर्यामित्वेनाधिश्रित आत्मा मनो बुद्धिरहङ्कारश्चित्तं प्रत्यगात्मा वा याभ्यां तौ अध्यात्मानौ इत्यत्र प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तर­पद­लोपश्च (वा॰ २.२.२२) इति वार्त्तिक­बलेन अनेकमन्य­पदार्थे (पा॰सू॰ २.२.२४) इति सूत्रेण बहुव्रीहि­समासेऽथवाऽऽत्मानमधिगताविति अध्यात्मानौ एवं अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा॰ २.२.१८) इति वार्त्तिकेन तत्पुरुष­समासे पुनरध्यात्म­शब्दस्य द्विवचनान्त­राम­शब्देन सहाध्यात्मानौ च तौ रामौ चेति विग्रहे सति विशेषणं विशेष्येण बहुलम्‌ (पा॰सू॰ २.१.५७) इति सूत्रेण कर्मधारय­समासे पश्चादध्यात्म­राम­शब्दस्यायन­शब्देन सह षष्ठी­तत्पुरुषः। यद्वाऽध्यात्म­रामाभ्यामयनमिति विग्रहे चतुर्थी­तत्पुरुषः। चतुर्थी तदर्थार्थ­बलि­हित­सुख­रक्षितैः (पा॰सू॰ २.१.३६) इति सूत्रेण। उक्त­सूत्रे वर्णित­समस्यमान­लक्षणतावच्छेदकत्वावच्छिन्न­प्रतियोगितावच्छेदकताभाव­विरहात्कथमयन­शब्देन सह समास इति न शङ्क्यम्। पूर्वं चतुर्थी इति योगेन विभज्यताम्। अर्थश्च भवेत्। चतुर्थ्यन्तं सुबन्तेन समर्थेन समस्यते। इत्यर्थे समासः। पश्चात् पूर्वपदात्सञ्ज्ञायामगः (पा॰सू॰ ८.४.३) इत्यनेन णत्वे अध्यात्म­रामायणम्‌। तस्मिन् अध्यात्म­रामायणे। पाणिनिना प्रोक्ताः पाणिनीयाः। तेन प्रोक्तम्‌ (पा॰सू॰ ४.३.१०१) इत्यनेन तृतीयान्त­पाणिनि­शब्दाच्छप्रत्यये[४] आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ (पा॰सू॰ ७.१.२) इत्यनेन ईय्‌­आदेशे भत्वात्पाणिनि­घटकेकार­लोपे[५] जस्‌ विभक्तौ पाणिनीयाःन पाणिनीया इत्यपाणिनीया इति नञ्समासः।[६] प्रकर्षेण युज्यन्त इति प्रयोगाः इति प्रपूर्वो युज्‌­धातोः (युजिँर् योगे धा॰पा॰ १४४४) कर्मणि घञ्‌[७] प्रकर्षेण युज्यतेऽर्थो यैः वेति करणे घञ्‌[८] ततः लशक्वतद्धिते (पा॰सू॰ १.३.८) इति सूत्रेणेत्सञ्ज्ञायां लोपे ञकारस्य चानुबन्धकार्ये च पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे चजोः कु घिण्ण्यतोः (पा॰सू॰ ७.३.५३) इत्यनेन कुत्वे जस्विभक्तौ प्रयोगाः। ततः अपाणिनीयाश्चामी प्रयोगा इत्यपाणिनीयप्रयोगाः इति कर्मधारय­समासः। पुनः विशेषेण मृश्यत इति विमर्शः। वि­पूर्वक­मृश्‌­धातोः (मृशँ आमर्शने धा॰पा॰ १४२५) भावे घञि[९] पुनरनुबन्ध­कार्ये गुणे[१०] रपरत्वे[११] विभक्ति­कार्ये विमर्शः[१२] पुनः कृदतिङ्‌ (पा॰सू॰ ३.१.९३) इत्यनेन घञ्प्रत्ययत्वे कृत्सञ्ज्ञायां ततः कर्तृ­कर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कर्मणि षष्ठी। अपाणिनीय­प्रयोग­पदादामि नुडागमे दीर्घे णत्वे अपाणिनीय­प्रयोगाणाम्‌[१३] एवम् अपाणिनीय­प्रयोगाणां विमर्शः इति। एवमध्यात्म­रामायणोत्तर­सप्तम्या वैषयिकतयाऽनुयोगिता­रूपेऽर्थे स्वीकृते निष्ठा­रूपे वाऽर्थे स्वीकृते प्रयोग­पदोत्तर­षष्ठ्याः कर्मता­रूपेऽर्थेऽङ्गीकृते प्रयोग­शब्दस्य निरूपितत्व­सम्बन्धेनान्वयेऽध्यात्म­रामायणानुयोगितावच्छेदक­पाणिनीय­प्रयोग­भिन्न­प्रयोग­निष्ठ­निरूपित­कर्मतावच्छेदक­विमर्शोऽथवाऽध्यात्म­रामायण­निष्ठतावच्छेदक­पाणिनीय­प्रयोग­भिन्न­प्रयोग­निष्ठ­निरूपित­कर्मतावच्छेदक­विमर्श इत्यर्थं प्रयच्छति अध्यात्म­रामायणेऽपाणिनीय­प्रयोगाणां विमर्शः। शोध­प्रबन्धेऽस्मिन्नध्यात्म­रामायणे बाल­बुद्ध्याऽपाणिनीयताप्रतीतानां शब्दानां प्रायः सन्धि­कारक­समास­लिङ्ग­कृत्तद्धितान्त­धातु­सम्बन्धिनां विमर्शं कर्तुमहं निर्दिष्टः। अत्र त्रयोऽध्यायाः। प्रत्येकमध्याये द्वौ द्वौ परिच्छेदौ कल्पितौ। साम्प्रतं प्रकृते प्रथमाध्याये सन्धि­कारक­समास­सम्बन्धिनोऽध्यात्म­रामायणीया अपाणिनीयाः प्रयोगा विमृश्यन्ते।

॥ अथ प्रथमाध्याये प्रथमः परिच्छेदः ॥

॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥

(१) जगताम्‌

यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः
सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः।
निश्चक्रं हतराक्षसः पुनरगाद्ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे॥

– अ॰रा॰ १.१.१

   अयं प्रयोगोऽध्यात्म­रामायणस्य बाल­काण्डस्य प्रथम­सर्गस्य प्रथमे मङ्गलाचरणात्मके श्लोके कीर्तिं पाप­हरां विधाय जगताम्‌ इति चतुर्थ­चरणांश उद्धृतः। निर्विघ्न­ग्रन्थ­समाप्तये शिवो नमस्कारात्मकं मङ्गलमाचरन् श्रीरामं स्तौति यद्भू­भार­हरणाय देवैः प्रार्थितो यः श्रीरामो भूतले रघु­कुलेऽवतीर्य राक्षसान्निहत्य जगत्सु पाप­हरां कीर्तिं व्यवस्थाप्य पुनो ब्रह्मत्वमगमत्तमेव जानकीशमहं वन्दे। अत्र कीर्तिं पाप­हरां विधाय इत्यत्र प्रयुक्तो ल्यप्‌­प्रत्ययान्तो वि­पूर्वकडुधाञ्‌­धातुर्धारणार्थः। यद्यपि उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। प्रहाराहार­संहार­विहार­परिहारवत्॥[१४] इति कारिकानुरोधेन वि­उपसर्गात् विधाय इत्यस्य कृत्वा इत्यनेनार्थेन भवितव्यं किन्तु प्रकृते करण­रूपस्यार्थस्योप­योगो नास्त्यतोऽयं धातुरन्तर्भावित­ण्यर्थो विधाप्य इत्यर्थ­सूचकः स्वीकरणीयः। एवं विधाय इत्यस्य व्यवस्थाप्येत्यस्मिन्नर्थे व्यवस्थापनस्याधारे सम्भवात् जगताम्‌ इत्यत्राधिकरण­बोधिका सप्तम्युचिता। करणार्थेऽपि स्वीकृते करोतेश्चोत्पत्त्यर्थतयाऽत्र सप्तम्येवोचिता। अतो जगताम्‌ इति षष्ठ्यन्त­प्रयोगोऽपाणिनीय इति। किन्तु विमर्शे कृत इदमपि पाणिनीय­सिद्धान्तानुरूपम्। विवक्षाधीनानि कारकाणि भवन्ति इति हि भाष्य­वचनम्।[१५] विवक्षा नाम श्रोताऽर्थं बुध्येतेति वक्तुर्वक्तुमिच्छा। अत्र सम्बन्ध­विवक्षया षष्ठी। यतो हि भगवतो रामस्य कीर्तिः शाश्वत्यतस्तस्याः संसारेण सह शाश्वतः सम्बन्धः। अतः सप्तम्यपेक्षया सम्बन्ध­विवक्षायां षष्ठी शेषे (पा॰सू॰ २.३.५०) इति षष्ठी विभक्तिर्वरीयसी। बहुवचनं च चतुर्दशानां भुवनानामित्यभिप्रायेण। इत्थं जगताम्‌ इति प्रयोगः पाणिनि­सिद्धान्तानुकूलः।

(२) अध्यात्मरामगङ्गा

पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥

– अ॰रा॰ १.१.५

   अयं प्रयोगोऽध्यात्म­रामायणस्य बाल­काण्डस्य प्रथमे सर्गे ग्रन्थ­प्रशंसायां कृतो वर्तते। रूपक­विधयाऽध्यात्म­रामायणं गङ्गात्वेन संस्मृतम्। अध्यात्म­रामायण­गङ्गा शङ्कर­हिमालयात्प्रादुर्भूय श्रीराम­रूपेण सागरेण सङ्गम्य सकल­भुवनानि पुनातीति तात्पर्यम्। अध्यात्म­रामायण­गङ्गा इति वक्तव्ये अध्यात्म­राम­गङ्गा इत्युक्तम्। अध्यात्म­रामायण­गङ्गेत्यस्याध्यात्म­राम­गङ्गेति नैवार्थ­बोधे समर्थः शब्दः। पाणिनि­मते शब्दार्थयोर्वाच्य­वाचक­भावः।[१६] राम­शब्दस्तद्वाच्यं दाशरथि­नियतमर्थं बोधयिष्यति किन्त्वेकाक्षर­कोषं विना मकारोऽकारो रकारो वा न तद्बोधयितुं समर्थः। अस्मन्मते वर्ण­स्फोटस्य गतेवोपयोगिता। वाक्य­स्फोटोऽतिनिष्कर्षे तिष्ठतीति मत­स्थितिः (वै॰सि॰का॰ ५९) इति प्राचीनोक्तेः। किं बहुना उच्चारित एव शब्दः प्रत्यायको भवति नानुच्चारितः[१७] इति भाष्य­वचनादप्यध्यात्म­राम­गङ्गा­शब्दोऽध्यात्म­रामायण­गङ्गार्थं कथं बोधयिष्यतीति चेत्। उच्यते। अत्राध्यात्म­रामायण­शब्देऽध्यात्म­राम­शब्दस्य लक्षणा। यदि चेत्सा नैव वैयाकरणैरङ्गीकृता लक्षणा­खण्डनं विस्तरशो नागोजिभट्ट­विरचित­वैयाकरण­सिद्धान्त­लघु­मञ्जूषायां विलसितं तदा शक्यतावच्छेदकता स्वीक्रियताम्। अथवा विनाऽपि प्रत्ययं पूर्वोत्तर­पद­लोपो वक्तव्यः (वा॰ ५.३.८३)। यथा सत्या भामा सत्यभामा भामा सत्या इत्यादि।[१८] अनेन नियमेनायन­शब्दस्य लोपः। तस्मादध्यात्म­राम­गङ्गा­शब्दोऽध्यात्म­रामायण­गङ्गार्थ­परो लुप्तेऽप्ययन­शब्दे तदर्थ­बोधकत्वात्।[१९]

(३) भक्तेषु

गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः।
तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम्॥

– अ॰रा॰ १.१.८

  \noindent   एष प्रयोगोऽपि बाल­काण्डस्य प्रथम­सर्ग एव। पार्वती शिवं प्रत्यकथयद्यन्महा­नुभावा अत्यन्त­गोप्यमपि भक्तेषु वदन्ति। अत्र भक्तेषु इति सप्तमी चिन्त्या। यतो हि सप्तम्यधिकरणे भवति सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इति सूत्रेण। अधिकरणं ह्याधारस्य सञ्ज्ञा आधारोऽधिकरणम्‌ (पा॰सू॰ १.४.४५) इति सूत्रात्। अत्राऽधारस्य सम्भावनैव नास्ति।[२०] तथा चात्र अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्म­सञ्ज्ञैवोचिता। एवं भक्तेषु इति सप्तम्या आधारः पाणिनि­विरुद्ध इव भाति। परं विचारे कृतेऽविरुद्धमेतत्। अकथितं च (पा॰सू॰ १.४.५१) इत्यस्यार्थो हि सिद्धान्त­कौमुद्यां कारक­प्रकरणे लिखितो भट्टोजिदिक्षित­महाभागैर्यत् अपादानादि­विशेषैरविवक्षितं कारकं कर्म­सञ्ज्ञं स्यात्‌ (वै॰सि॰कौ॰ ५३९)। तत्र षोडश­धातूनां परिगणनं कारिकायामकारि –

दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥

– वै॰सि॰कौ॰ ५३९

इति। अर्थ­निबन्धनेयं सञ्ज्ञा (वै॰सि॰कौ॰ ५३९) इति नियमेनापि परिगणित­धातु­समानार्थकानामपि सङ्ग्रहो यथा बलिं भिक्षते वसुधाम्‌। अत्र हि भिक्ष्‌­धातुः (भिक्षँ भिक्षायामलाभे लाभे च धा॰पा॰ ६०६) कारिका­परिगणित­याच्समानार्थकः। तेनापादानेनाविवक्षितस्य बलिरित्यस्य कर्म­सञ्ज्ञा। तथैवात्रापि धातुर्ब्रू­समानार्थः। तस्मात् वदन्ति इत्यस्य योगेन भक्तेषु इत्यत्र द्वितीयया भवितव्यमासीत्। किन्तु यदाऽपादानादिभिरविवक्षा तदाऽयं नियम इत्येव अकथित­शब्दाज्ज्ञायते। अत्र तु वैषयिकस्याधारस्य सम्भावनयाऽधिकरण­कारकस्य विवक्षैव। अर्थाद्भक्त­विषये वदन्ति। विषयता चात्रोपस्थिति­रूपा। यद्वा संस्थेषु विद्यमानेषु वेत्यध्याहार्यम्। एवं च भक्तेषु विद्यमानेषु वदन्तीति निर्गलितम्। पश्चात् गम्यमानाऽपि क्रिया कारक­विभक्तौ प्रयोजिका (वै॰सि॰कौ॰ ५६८) इति नियमेन गोषु दुह्यमानासु गतः इतिवदत्रापि यस्य च भावेन भाव­लक्षणम्‌ (पा॰सू॰ २.३.३७) इति सूत्रेण सप्तमी। इति पाणिन्यनुकूलम्।

(४) मे

अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रूत मे संशयभेदि वाक्यम्॥

– अ॰रा॰ १.१.१५

   अयं प्रयोगोऽपि बाल­काण्डस्य प्रथम­सर्गीय एव। अत्र पार्वती भगवती श्रीशिवं प्रार्थयमाना कथयति यद्यदुत्तरं ज्ञातं संशय­भेदि वाक्यं तन्मे ब्रूतेति। मे इति मह्यं मम वेत्यस्याऽदेशः। अत्र द्वितीया­स्थाने चतुर्थी­प्रयोगः षष्ठी­प्रयोगो वा पाणिनीयं विरुणद्धीव परं विचारे कृतेऽविरोधः। मह्यमित्यत्र क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। नमस्कुर्मो नृसिंहाय इतिवत्। मामनुकूलयितुं मां बोधयितुं वा ब्रुवन्तु। तत्राप्रयुज्यमान­धातु­कर्म­भूते माम्‌ इत्यर्थे चतुर्थी तस्य च मे इत्यादेशः। यद्वा कर्मणोऽपि सम्बन्ध­विवक्षायां षष्ठी मातुः स्मरति इतिवत्। अत्रापि माम्‌ इति कर्मणः सम्बन्ध­विवक्षा तस्मात्षष्ठी मम इति तस्य च मे इत्यादेश[२१] इति द्वितीयः कल्पः। अथवा मे इत्यस्य संशय­शब्देनान्वयः। अर्थान्मत्प्रतियोगिक­संशयस्य भेदकं वाक्यं मत्सम्बन्धि­संशयस्येति तात्पर्यम्। सम्बन्धे षष्ठी। तत्र पार्वती प्रतियोगी संशयश्चानुयोगी विषयि­विषय­भाव­सम्बन्धः। यदि चेदाशङ्का स्यात् संशय­शब्दः समस्तः स च मे­शब्देन सापेक्षः स च सापेक्षः असमर्थवत्‌ इति न्यायेनासमर्थः सन् कथं समस्येदिति चेन्नित्य­सापेक्षा­स्थले नैवास्य नियमस्य प्रसरः देवदत्तस्य गुरुकुलम्‌ इतिवत्। अतोऽत्र सुतरां षष्ठी।

(५) ते कथयिष्यामि

अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम्।
सीताराममरुत्सूनुसंवादं मोक्षसाधनम्॥

– अ॰रा॰ १.१.२५

   अत्र त्वां कथयिष्यामि इत्युचितम्। कथ्‌­धातोः (कथँ वाक्य­प्रबन्धने धा॰पा॰ १८५१) अकथित­कर्मक­परिगणित­ब्रू­धातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) समानार्थकत्वात्। अतश्चतुर्थी वा षष्ठी वोभे अपि पाणिनीय­विरुद्धे इव। ते इति तुभ्यम्‌ इत्यस्य तव इत्यस्य वा विकरणम्।[२२] परमत्रोभे अपि साध्व्यौ। चतुर्थी तु क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन साध्वी। अर्थात् त्वां पार्वतीं प्रतिबोधयितुं कथयिष्यामि अतश्चतुर्थी गम्यमान­क्रियायाः प्रयोजकत्वात्। यद्वाऽत्र हित­शब्दोऽध्याहार्यस्तथाऽत्र ते हिताय हितं वेति कथयिष्यामि एवं हित­योगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। यद्वा क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्‌ (वा॰ १.४.३२) इति वार्त्तिकेनात्र चतुर्थी पत्ये शेते इतिवत्। अत्र शङ्करः कथन­क्रियया पार्वतीमभि­प्रैत्यतोऽत्र चतुर्थी। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन मुक्तये हरिं भजति इतिवदत्र चतुर्थी। अथवा मातुः स्मरति इतिवत्कर्मणि सम्बन्ध­विवक्षायां षष्ठी। अथवा सम्प्रदानेन सम्बन्धेन च विवक्षितत्वाद्द्वितीयाया अवसर एव न।[२३]

(६) ब्रूहि तत्त्वं हनूमते

रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान्॥

– अ॰रा॰ १.१.३०

   अत्रापि स्पष्टं ब्रू­धातुः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४)। स चाकथित­कर्मक­धातु­गणना­सूचक­कारिकायां प्रामुख्येन गणितः। अतोऽत्र तु द्वितीया दुर्वारैव। ब्रूहि तत्त्वं हनूमन्तम्‌ इत्युचितम्। चतुर्थ्यपाणिनीयेव। अत्र विमृश्यते। यदाऽपादानादिभिरभिधेयैरविवक्षितं सत्कारकं परिगणित­धातुभिः सह युज्येत तदा कर्म­सञ्ज्ञम्।[२४] इदं तु सम्प्रदानेन विवक्षितम्। सम्प्रदानादयश्च बुद्धिकृताः। अत एव ध्रुवमपायेऽपादानम्‌ (पा॰सू॰ १.४.२४) इत्येव सूत्रं व्यवस्थाप्येतः परमपादान­सञ्ज्ञा­सूत्राणि सर्वाण्यपि बुद्धि­कृतमपादानं कल्पयित्वा भाष्य­कृता प्रत्याख्यातानि।[२५] तस्मादत्रापि सम्प्रदानं विवक्षितमेव कल्प्यताम्। महा­सञ्ज्ञानां प्रायो लक्ष्यानुरूपोऽर्थो भवत्येवान्यथा लाघव­प्रियः पाणिनिः घु टि घि इत्यादि सञ्ज्ञा इवापादानाधिकरण­सम्प्रदान­सञ्ज्ञा अपि लघ्वीः कुर्यात्। तस्मान्महा­सञ्ज्ञा­करणादासां व्यवस्थितोऽर्थः। स च लक्ष्योपयोगी। प्रकृते सम्यक्प्रकर्षेण दीयते यस्मै स सम्प्रदानम् इति विग्रहे सम्प्र­पूर्वक­दा­धातोः (डुदाञ् दाने धा॰पा॰ १०९१) कृत्य­ल्युटो बहुलम्‌ (पा॰सू॰ ३.३.११३) इत्यनेन दानीयो विप्रः (ल॰सि॰कौ॰ ७७२) इतिवत्सम्प्रदाने ल्युट्। अनुबन्ध­कार्येऽनादेशे सम्प्रदानमिति सिद्ध्यति।[२६] हनूमांश्चात्र तत्त्व­जिज्ञासुतया कृत­प्रश्नः प्रबोधयितुं सीतयोपक्रम्यते। श्रीरामेण च हनूमन्तमुपदेष्टुं सीता प्रेर्यतेऽत उपदेश­दान­क्रियाया उद्देश्यं श्रीहनुमान्। अत्रैव दा­धातोर्वाच्य­दानस्य सम्यक्त्वं प्रकृष्टत्वञ्च सञ्जाघट्यते श्रीमहावीरे। यथाऽग्रिम­चरणे श्रीरामः समर्थयते निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान्‌। तस्माच्चतुर्थी। अथवा श्रीरामो हनूमते हितं चिकीर्षति चिकारयिषति च। हितं च राम­रहस्य­तत्त्व­ज्ञानोपदेशादेव। अतो हिताय इति योजनीयं ततः हित­योगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। इति नापाणिनीयता। अथवा धातूनामनेकार्थत्वात् ब्रूधातोर्दानार्थता। अतः ब्रूहि तत्त्वं हनूमते इत्यस्य देहि तत्त्वं हनूमते इत्यर्थः। ततः कर्मणा यमभिप्रैति स सम्प्रदानम्‌ (पा॰सू॰ १.४.३२) इत्यनेन हनूमतः सम्प्रदान­सञ्ज्ञा। चतुर्थी सम्प्रदाने (पा॰सू॰ २.३.१३) इत्यनेन हनूमते इत्यत्र चतुर्थी।

(७) मया

मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः।
अयोध्यानगरे वासो मया द्वादशवार्षिकः॥

– अ॰रा॰ १.१.३७

   अत्र मया इति प्रयोगो विभाव्यते। वास­शब्दो भाव­घञन्तः।[२७] घञ्‌­प्रत्ययश्च कृदन्तीयः।[२८] तथा कर्तृ­कर्मणोः कृति (पा॰सू॰ २.३.६५) इति सूत्रेण मम इति प्रसक्तम्। उच्यते। अत्र पूर्व­प्रसङ्गे रामस्य लीला­मञ्चे दृश्यमानं कर्तृत्वमौपचारिकमिति भगवती सीतोपक्रम्य निर्गुणे ब्रह्मणि रामचन्द्रे कर्तृत्वासम्भवं प्रदर्शयन्ती तत्तद्राम­कर्तृक­घटनासु राम­कर्तृत्वाभासं मूल­प्रकृतित्वात्स्वस्याः कर्तृत्वं व्यवस्थापयन्ती श्रीरघु­नाथ­कर्तृत्वं चाध्यारोपापवाद­न्यायेन निराकरोति। अतोऽत्र सर्वासु घटनासु श्रीरामस्य कर्तृत्वारोपस्तस्माद्द्वादश­वार्षिकस्यायोध्या­वासस्य कर्ता श्रीराम एव। सीता च वास­रूप­क्रिया­सिद्धौ प्रकृष्टोप­कारकतया साधकतमं करणम्‌ (पा॰सू॰ १.४.४२) इत्यनेन करण­सञ्ज्ञा­भाग्। अतः सीता­बोधक उत्तम­पुरुषैक­वचन­बोधकोऽस्मच्छब्दोऽपि कर्तृ­करणयोस्तृतीया (पा॰सू॰ २.३.१८) इति सूत्रेण तृतीयामलभत। यद्वा विनाऽपि तद्योगं तृतीया। वृद्धो यूनेत्यादिनिर्देशात्‌ (वै॰सि॰कौ॰ ५६४) इति नियमेन सहशब्दाभावेऽपि तृतीया। यथा वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (पा॰सू॰ १.२.६५) इति सूत्रे भगवान् पाणिनिः सहशब्दाभावेऽपि यूना इति निर्दिशति। तथैवात्रापि सह­शब्द­विरहेऽपि तृतीया। मया सीतया सह रामस्य द्वादश­वार्षिकोऽयोध्यायां वासः इति न पाणिनि­विरोधः।

(८) विभीषणे राज्यदानम्‌

रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः।
विभीषणे राज्यदानं पुष्पकेण मया सह॥

– अ॰रा॰ १.१.४१

   प्रयोगोऽयं बाल­काण्डस्य प्रथम­सर्गीय एव। अत्रापि विभीषणाय राज्य­दानम्‌ इत्यनेन भवितव्यमासीत्। यतो हि दान­क्रियाया उद्देश्यता विभीषण एव। अस्माद्दान­क्रियोद्देश्यस्य विभीषणस्य सम्प्रदानता निर्बाधैव। किन्त्वत्राधिकरण­कारकम्। एवमपाणिनीयं प्रतीयते। परं विभीषण आधारत्वं परिकल्प्याधिकरण­कारकमुचितम्। विभीषणो राम­भक्तस्तस्य च भगवते सर्वस्व­समर्पणम्। सम्प्रदानं हि स्व­स्वत्व­निवृत्तिपूर्वकं पर­स्वत्वोत्पादनम्‌ (त॰बो॰ ५६९)। इदमत्र सम्भविष्यति नहि राम­भक्तस्य सर्वथा स्वत्व­हीनत्वात्। अतोऽत्र वैषयिक आधारो विभीषणः। आधारे चाधिकरण­सञ्ज्ञा। अधिकरणे च सप्तमी निर्बाधा। सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्यनेन। अतो विभीषणे राज्यदानम्‌ सङ्गतम्। यद्वा विवक्षाधीनानि कारकाणि भवन्ति[२९] इति सिद्धान्तेनात्राधिकरणे विवक्षा। अथवाऽऽर्ष­सिद्धान्त­निरूपण­क्रमे सूत्र­वर्णन­पराङ्गत्वादत्र दर्शन­सूत्राणि वर्तन्ते। अतो यथा सूत्रे विभक्तीनां स्वातन्त्र्येण प्रयोगस्तथाऽत्रापि सीता सूत्र­हेतुं सिद्धान्तं हनुमते कथयत्यतोऽत्र सौत्री सप्तमी। यथा पाणिनीयमधिकार­सूत्रं कारके (पा॰सू॰ १.४.२३) इति। अत्र सप्तम्या उपयोगः। प्रथमार्थे सप्तमीति भाष्यकारा अपि स्वीकुर्वन्ति।[३०] तथैवात्रापि।

(९) पूर्णेन एकत्वम्‌

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा॥

– अ॰रा॰ १.१.४९

   अत्र तृतीया चिन्त्या। करणेऽपि तस्या असम्भवात्। यतो हि कारकाणि प्रायशः क्रियामेवाभ्यन्त्यनुयन्त्यत एव प्राचीनानां मते क्रियान्वयित्वं कारकत्वम्‌ इत्येव सिद्धान्तः। यद्यपि मातुः स्मरति इत्यादावति­व्याप्ति­वारणाय साक्षात्क्रियान्वयित्वं कारकत्वम्‌ इति प्राचीना आमनन्ति नवीनास्तु लक्षणेऽस्मिन् साक्षात्पद­निवेशमसहमानाः क्रिया­जनकत्वं कारकत्वम्‌ इत्येव व्यवस्थापयन्ति। तथा च कृ­धातुं (डुकृञ् करणे धा॰पा॰ १४७२) जन्यर्थकं मत्वा करोति क्रियां निर्वर्तयतीति कारकम्‌ अस्मिन् विग्रहे कृ­धातोः ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) इति सूत्रेण ण्वुल्‌­प्रत्ययः। लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेन लस्येत्सञ्ज्ञायां लोपे चुटू (पा॰सू॰ १.३.७) इत्यनेन णकारस्येत्सञ्ज्ञायां लोपे च अचो ञ्णिति (पा॰सू॰ ७.२.११५) इत्यनेन वृद्धौ उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन रपरत्वे युवोरनाकौ (पा॰सू॰ ७.१.१) इत्यनेनाकादेशे विभक्ति­कार्ये कारकमिति सिद्धम्। अतः पूर्वस्मिन् लक्षणे स्वीकृते क्रियान्वयित्वं कारकत्वमिति लक्षणस्य जागरूकतया माणवकस्य पितरं पन्थानं पृच्छति अत्र परम्परा­सम्बन्धेन माणवकेनाऽपि क्रियान्वयः। तेनात्रापि षष्ठ्यन्ते कारकत्व­प्रसङ्गः स्यात्। यद्यपि साक्षात्पद­निवेशने न दोषस्तथाऽपि मातुः स्मरति इत्यादावपि स्थितिः सामान्या। अतो व्युत्पत्त्यनुरोधेन गौरवं चानुमाय क्रिया­जनकत्वं कारकत्वं लक्षणं नवीनानां मते सार्वभौमतया सुस्थिरं परन्तु लक्षणेऽस्मिन् व्यवस्थितेऽपि सर्वेषां कारकाणां साक्षात्क्रिया­जनकत्वाभावात्परम्परा­पद­निवेशोऽत्रापि प्राचीन­लक्षण­सम एव। क्रियां साक्षाद्रूपेण तु केवलं कारक­द्वयं जनयति कर्ता कर्म च। तत्र व्यापार­रूपां क्रियां कर्ता स्वाश्रयतयैवं फल­रूपां क्रियां कर्म स्वानुकूलतया जनयति। शेषाणि कारकाणि यद्यप्यानुकूल्यमञ्चन्ति किन्त्वधिकरण­कारकन्तु परम्परयैव व्यापारांशे कर्तारं सहायकं कृत्वा फलांशे च कर्म सहायकं मत्वा क्रियामुत्पादयति। अतः पक्ष­द्वयेऽपि समान­गौरव­लाघवतया पूर्व­लक्षणमेव स्फुटार्थतया श्रेयो लगति। अत एव प्रौढ­मनोरमायामन्योऽन्याश्रय­दोष­परिहाराय दीक्षितेनायमेव सिद्धान्तो ध्वनितः। तत्र हीयं परिस्थितिः। अष्टाध्याय्यां प्रथमाध्याय इत्सञ्ज्ञा­विधायक­सूत्र­सूत्रण­प्रसङ्गे भगवान् पाणिनिः पपाठ हलन्त्यम्‌ (पा॰सू॰ १.३.३) इति सूत्रम्। वाक्यार्थ­बोधे पदार्थ­ज्ञानं कारणम्‌[३१] अयं हि नियमः। हलन्त्यम्‌ इति सूत्रस्य वाक्यार्थो ह्युपदेशेऽन्त्यं हलित्स्यात्। अत्र पदार्थ­बोधोऽपि विचार्यताम्। उपदेशे इत्‌ इति पद­द्वितयम् उपदेशेऽजनुनासिक इत्‌ (पा॰सू॰ १.३.२) अस्मात्सूत्रादनुवृत्तम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र (ल॰सि॰कौ॰ १) इति वरदराजोक्तेः। एवं हल्‌ अन्त्यम्‌ इति मुख्ये सूत्रस्थे पदे। तत्र हल्शब्दस्य कोऽर्थ इति जिज्ञासायां हल्सञ्ज्ञा­विधायकस्य आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इति सूत्रस्य वाक्यार्थे विचारयिष्यमाणे तत्र हेतुत्वात्पदार्थ­बोधस्य पूर्वं पदार्थ­चिन्तनमनिवार्यतां गतम्। तत्र आदिः अन्त्येन सह इता इमानि चत्वारि पदानि। सूत्रेऽस्मिन्नेवं समुदाये सञ्ज्ञाया अनुपयोगादवयवेषु विश्रामः। तथा च अन्त्येन इत्यप्रधान­तृतीया­निर्देशान्मध्य­वर्तिभिः सहाऽदि­वाच्यस्यापि सङ्ग्रहः। तथा च अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च सञ्ज्ञा स्यात्‌ (ल॰सि॰कौ॰ ४)। अत्र अन्त्य­पदस्य त्वर्थः सुस्पष्टः किन्तु इत्‌­शब्दस्यार्थोऽनवगतः। स चेत्सञ्ज्ञा­विधायकात् हलन्त्यम्‌ (पा॰सू॰ १.३.३) इति सूत्रादवगन्तुं शक्यते। तदपि तदैवेत्पदार्थं बोधयिष्यति यदा तस्य हल्पदार्थो बोधितो भविष्यति। हल्पदार्थ­बोधश्च तत्सञ्ज्ञा­विधायक आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इति सूत्राधीनः। स चेत्पदार्थ­ज्ञानमन्तरेण हल्पदार्थं बोधयितुं शक्नोत्येव नहि। इत्थं हल्पदार्थ­ज्ञानमित्पदार्थाधीनम्। इत्पदार्थ­ज्ञानञ्च हल्पदार्थाधीनम्। अत एकैकमेकैकाधीनमित्येव परस्परापेक्षत्व­रूपोऽन्योऽन्याश्रयः। अन्योऽन्याश्रयाणि कार्याणि न प्रकल्पन्ते। यथा नावि बद्धा नौर्नैव गतिशीला भवतीति भाष्ये[३२] सिद्धान्तितत्वान्महान् विप्लवः समुपस्थितः। अन्योऽन्याश्रयत्वं हि तद्ग्रह­सापेक्ष­ग्रह­सापेक्ष­ग्रह­विषयत्वम्‌। तद्ग्रहो हल्पदार्थ­ग्रहस्तत्सापेक्ष­ग्रह इद्ग्रहस्तत्सापेक्ष­ग्रहो हल्ग्रहस्तद्विषयत्वमित्सञ्ज्ञा­सूत्र एवमेव तद्ग्रह इद्ग्रहस्तद्विषयत्वं हल्सञ्ज्ञा­सूत्र इत्युभयतस्पाशा रज्जुः। इत्थमन्योऽन्याश्रयमाशङ्क्य श्रीदीक्षितेन हलन्त्यम्‌ इति सूत्रमेवावर्तितम्। विवेकोऽयं यन्मूल­सूत्रमसमस्तम्। समासे कृते सति अन्त्य­शब्दस्य विशेषणतया पूर्व­निपातापत्तेः। किन्त्वावृत्त­सूत्रं हलन्त्यम्‌ इति समस्तम्। हल्शब्दस्यान्त्य­शब्देन सह कः समासो भवेदित्येव विचारयितुमुपक्रान्तं वैयाकरण­सिद्धान्त­कौमुदी­टीका­प्रौढमनोरमा­सञ्ज्ञा­प्रकरणे। यथा प्रौढ­मनोरमायाम् –

“हलि अन्त्यम्” इति विग्रहे “सप्तमी” (पा॰सू॰ २.१.४०) इति योग­विभागात् “सुप्सुपा” (पा॰सू॰ २.१.४) इति वा समासः। यद्वा षष्ठी­तत्पुरुषोऽयम्॥

– प्रौ॰म॰ १

इति। तत्र सप्तमी इति प्रतीकमादाय शब्दरत्ने व्याचक्षते श्रीहरिदीक्षित­महाभागाः अधिकरण­कारकस्य कर्त्राद्यन्वय­द्वारा क्रियान्वयादस्ति सामर्थ्यमिति भावः (श॰र॰ १)। सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इति सूत्रे योग­विभागं मत्वा सप्तमी­समासो दर्शितः। तत्रायं पूर्वपक्षस्याक्षेपो यदधिकरण­कारकं क्रियया नान्वेति। असति क्रियान्वये क्रियान्वय­लक्षण­कारकत्वस्याभावात्तस्मिन् कथं सामर्थ्यं सामर्थ्याभावे च कथं समास इति चेत्। हरिदीक्षितः कथयति यत्कर्तारं कर्म च द्वारीकृत्याधिकरण­कारकं क्रियायामन्वेति क्रिया च ते एव माध्यमं कृत्वाऽधिकरण­कारकेणान्वेति। यदाऽकर्मका क्रिया तदा कर्ता माध्यमो यदा च सकर्मिका तदा कर्म माध्यममित्यपि क्रियते। तद्यथा रामः शय्यायां शेते इत्यत्र स्व­वृत्ति­वृत्तित्व­सम्बन्धेन क्रियाऽन्वेति। स्वं शय्या तद्वृत्ती रामस्तद्वृत्तिः शयनानुकूलो व्यापारः। एवमेव स्थाल्यां तण्डुलं पचति इत्यादौ स्वं स्थाली तत्र तद्वृत्तिस्तण्डुलस्तद्वृत्तिः पाकः। एवमेव क्रियाऽधिकरण­कारकेन स्वाश्रयाश्रयत्व­सम्बन्धेनान्वेति। यथा सीता वाटिकायां वर्तते इत्यत्र स्वं वर्तनानुकूला क्रिया तदाश्रयः सीता तदाश्रयश्च वाटिकेति।

   इत्थं क्रियान्वयित्व­रूप­कारकत्व­सार्वजनीनत्वात् पूर्णेन एकत्वम्‌ इत्येव साधयितुं नैव किमपि कारकं सङ्घटते। अस्मादत्रोपपद­विभक्तिः। तस्मादुपपदं विना तृतीयाऽपाणिनीयेति चेत्। विभक्तिर्द्विधा कारक­विभक्तिरुपपद­विभक्तिश्च। क्रियामाश्रित्य जायमाना विभक्तिः कारक­विभक्तिः। एवं पदमाश्रित्य जायमाना विभक्तिरुपपद­विभक्तिः। कारक­विभक्तिर्यथा रामं नमति अत्र हि नमन­क्रियामाश्रित्यैव द्वितीया­विभक्तिरुत्पन्ना। द्वितीया च याऽपरा सा पदमाश्रित्यैव। यथा नमः शिवाय अत्र क्रियान्वयाभावात्कारक­विभक्तिर्नास्ति। एवं पद­प्रयोगाभावादतोऽत्र तृतीया किमाधारा इति वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (पा॰सू॰ १.२.६५) इत्यत्र सह­प्रयोगं विनाऽपि सहोक्त्या तृतीया दरीदृश्यते।[३३] तस्मादत्र गम्यमान­पदस्य कारक­विभक्तीनां प्रयोजकत्वात् पूर्णेन एकत्वम्‌ इत्यत्र पाणिनीयताऽक्षतैव।

(१०) साक्षात्कथितं तव

इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ।
मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम्॥

– अ॰रा॰ १.१.५२

   अत्रापि अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्म­सञ्ज्ञा तथा च द्वितीयोचितैव। किन्तु विवक्षाधीनानि कारकाणि भवन्ति[३४] इति न्यायाङ्गीकारेण कर्मणि सम्बन्ध­विवक्षया षष्ठी। यद्वा समक्षम्‌ इत्यध्याहार्यम्। तव समक्षं कथितम्‌ इति तात्पर्यम्। एवमत्र तु सुतरां सम्बन्धो निर्बाध एव। तेनात्र निसर्गतः षष्ठी। अथवाऽत्र पृष्ट­शब्दस्याध्याहारः। तव पृष्टस्य कथितम्‌। ततो यस्य च भावेन भाव­लक्षणम्‌ (पा॰सू॰ २.३.३७) इत्यनेन पृष्ट­शब्देन कथन­रूप­क्रियान्तरस्य द्योतनात्षष्ठी कारकीया।[३५]

(११) तेऽभिहितम्‌

एतत्तेऽभिहितं देवि श्रीरामहृदयं मया।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम्॥

– अ॰रा॰ १.१.५३

   अत्रापि ब्रू­धातु­समानार्थक­अभिधा­प्रकृतिकस्य[३६] अभिहित­शब्दस्य प्रयोगेण अकथितं च (पा॰सू॰ १.४.५१) इति कर्म­सञ्ज्ञया द्वितीया दुर्वारा किन्त्वत्र सम्प्रदान­विवक्षया चतुर्थी। किं वा त्वां सन्तोषयितुमभिहितम्‌ क्रियार्थोप­पदस्याप्रयुज्यमानस्य कर्मणि चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन। यद्वा ते हिताय इति हित­शब्दमध्याहार्यम्। ततः हित­योगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। यद्वा सुखपदमध्याहार्यम्। ते तुभ्यं हनुमते सुखायाभिहितम्‌। ततः चतुर्थी तदर्थार्थ­बलि­हित­सुख­रक्षितैः (पा॰सू॰ २.१.३६) इत्यत्र पठित­सुख­शब्दस्य चतुर्थी­परत्व­सूचनादत्र चतुर्थी।[३७] यद्वा ते इति षष्ठ्यन्त्यम्। एवमत्र सम्बन्धे षष्ठी। यद्वा प्रश्नोत्तर­शब्दोऽध्याहार्यः। तव प्रश्नोत्तरमभिहितम्‌[३८]

(१२) रामेणोक्तं पुरा मम

शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत्।
अध्यात्मरामचरितं रामेणोक्तं पुरा मम॥

– अ॰रा॰ १.२.४

   अयं प्रयोगोऽध्यात्म­रामायणस्य बाल­काण्डस्य द्वितीय­सर्गस्य चतुर्थे श्लोके शिवेन कृतो वर्तते। कृत­राम­विषयक­प्रश्नां पार्वतीं सम्बोधयन् शिवः प्राह यत् यत्कथा­वस्तु पुरा रामेण ममोक्तम्‌। अत्र तु उक्तम्‌ इति शब्दोऽकथित­गणित­ब्रू­धातु­प्रकृतिक एव। यतो हि ब्रू­धातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) कर्मणि क्त­प्रत्ययः। ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन वच्‌­आदेशः। वचि­स्वपि­यजादीनां किति (पा॰सू॰ ६.१.१५) इत्यनेन सम्प्रसारणम्। सम्प्रसारणाच्च (पा॰सू॰ ६.१.१०८) इत्यनेन पूर्वरूपैकादेशः। चोः कुः (पा॰सू॰ ८.२.३०) इत्यनेन कुत्वम्। अत्र साक्षात्कारिका­परिगणित­ब्रू­धातोरुपस्थितौ द्वितीयाया अवश्यम्भावितया षष्ठीति पाणिनि­विरुद्धेव किन्तु वस्तुतस्त्वनुरुद्धाऽत्र सम्बन्ध­विवक्षया षष्ठी। रामायण­शिवयोः प्रतिपाद्य­प्रतिपादक­रूप­शाश्वत­सम्बन्धस्य वक्तुमिष्टत्वात्। मम पुरः इति वा मम हितार्थम्‌ इति वा। मम श्रवणे इति वा। अत्रास्मच्छब्दस्य श्रवण­शब्देनावयवावयवि­भाव­सम्बन्धस्य सिद्धत्वात्सम्बन्धे षष्ठी।

(१३) ब्रह्मणे प्राह

भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य।
गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं
ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात्॥

– अ॰रा॰ १.२.६

   अत्रापि अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन द्वितीयैव। तत्स्थाने चतुर्थी तु ब्रह्माणं मोदयितुं प्राह इत्यप्रयुज्यमान­मोदन­क्रिया­कर्मीभूत­ब्रह्म­शब्दात्।[३९] यद्वा ब्रह्मणे हिताय इत्यध्याहारे हित­योगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा सुखमित्यध्याहृत्य चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (पा॰सू॰ २.१.३६) इति चतुर्थी­समास­सङ्केत­सूचनाच्चतुर्थी। यद्वा ब्रह्म परमात्मानं नयति धरा­धाम प्रापयतीति ब्रह्मणः इति ब्रह्मोपपदे नी­धातोर्व्युत्पन्नम्।[४०] ततश्च सप्तमी उपस्थिते इति शब्देऽध्याहृते यस्य च भावेन भाव­लक्षणम्‌ (पा॰सू॰ २.३.३७) इत्यनेन। यद्वा नमस्कुर्मो नृसिंहाय इतिवद्ब्रह्माणमनुकूलयितुं प्राह। यद्वाऽत्र पत्ये शेते इतिवत् क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्‌ (वा॰ १.४.३२) इति वार्त्तिकेन कथन­क्रियया ब्रह्मणोऽभिप्रेतत्वात्सम्प्रदाने ततश्चतुर्थी।

(१४) कश्यपस्य वरो दत्तः

कश्यपस्य वरो दत्तस्तपसा तोषितेन मे॥

– अ॰रा॰ १.२.२५

   अत्र भाराक्रान्तया गो­रूप­धारिण्या पृथिव्या सह देवैः क्षीर­सागरमभिगम्य स्तुवन्तं ब्रह्माणं प्रति स्वकीयावतरण­प्रकारं प्रकटयन् भगवान् प्रणिगदति यन्मया पूर्वं कश्यपाय वरो दत्तो वर्तते। अतस्तस्यैव गृहे पुत्र­रूपेणावतरिष्यामि। तत्र दत्त­पद­प्रयोगेण चतुर्थ्युचिता तस्मै चपेटां ददाति (भा॰पा॰सू॰ १.१.१) इति भाष्य­प्रयोगात्किन्तु कश्यपस्य इति षष्ठी तन्त्रविरुद्धेव। परं नैतत्। दानस्य कर्मणा यमभिप्रैति स सम्प्रदानम्।[४१] अत्र सम्प्रदानस्य न विवक्षा। यतो हि प्रभुरात्मानं न सम्यक्प्रददाति। मङ्गलाचरण एव स्व­धाम­गमन­सङ्केतात्। यथा रजकस्य वस्त्रं ददाति इत्यत्र क्षालयितुं वस्त्राणि दीयन्ते पुनश्च परावर्त्यन्ते तथैवात्रापि सप्तविंशति­वर्षाणां कृते पुत्र­रूपेणाऽगतः[४२] कश्यपावतारस्य दशरथस्य समक्षम्। पुनः श्रीराम­वियोगानल­दग्ध­शरीरः सनयन­नीरो धीरो दशरथ एव कश्यपतां गतः। अतोऽत्र षष्ठी दशरथस्याल्प­कालिकत्वं सूचयति। सम्प्रदानं हि स्व­स्वत्व­निवृत्तिपूर्वकं पर­स्वत्वोत्पादनम्‌ (त॰बो॰ ५६९) इति तत्त्वबोधिनी। अत्र भगवान् स्व­स्वत्वं निवर्तयत्येव नहि स्थले स्थले लोकोत्तर­कौतुक­प्रदर्शनाय। यद्वा कृते इत्यध्याहार्यम्। कश्यपस्य कृते वरो दत्तः इति कृते­योगे षष्ठी। यद्वा भार्यायै इत्यध्याहार्यम्। कश्यपस्य भार्यायै वरो दत्तः अतो दाम्पत्य­भाव­रूपे सम्बन्धे षष्ठी।

(१५) दृष्टं मे

त्वं ममोदरसम्भूत इति लोकान्विडम्बसे।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम॥

– अ॰रा॰ १.३.२६

   अत्र परम­पितरं परमात्मानं स्वपुर ईश्वर­रूपेण प्रस्तुतं विलोक्य भगवती कौसल्या स्तौति यत् हे रघूत्तम अद्य भक्तेषु ते पारवश्यं मे दृष्टम्‌दृश्‌­धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) कर्मणि क्त­प्रत्यये कृते तेन च कर्मणोऽभिहितत्वात्कर्तुश्चानभिहितत्वात् कर्तृ­करणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेनानभिहितेऽस्मत्पद­वाच्य­कौसल्या­रूपिणि कर्तरि तृतीया। अत्र षष्ठी­विचार­विषयतामाटीकते। कर्तरि सम्बन्ध­विवक्षायां षष्ठी। यद्वा दृष्टम्‌ इति भावे कृत्प्रत्ययः नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन। ततश्च भावस्य विवक्षयाऽविवक्षितत्वाच्च कर्तुः क्तस्य च वर्तमाने नपुंसके भाव उपसङ्ख्यानम्‌ (वा॰ २.३.६५) इत्यनेन मम इत्यत्र षष्ठी[४३] तस्य च मे इत्यादेशः।[४४] यद्वा मे इत्यस्मात्परं पुरतः इत्यध्याहार्यम्। मे पुरतो दृष्टम्‌ अत्र सम्बन्धे षष्ठी स्वारसिकी। यद्वा मे शब्दस्य रघूत्तम­शब्देन अन्वयः। अर्थात् हे मे मम रघूत्तम भक्तेषु ते पारवश्यमथ दृष्टम्‌। अत्र पुत्र­भावनया मे रघूत्तम इति व्याहरति। यथाऽयोध्या­काण्डे स्वयमेव कौसल्या कथयति यत् पुत्रः सभार्यो वनमेव यातः सलक्ष्मणो मे रघुरामचन्द्रः (अ॰रा॰ २.७.८५)। अयं मम पुत्रः इति कौसल्या­वचनं माधुर्यं सूचयति। अत्र च जन्य­जनक­भाव­रूपे सम्बन्धे षष्ठीत्यनेन सूचितं यद्यदा जीवः श्रीरामं प्रत्येव मम इति सम्बोधयति तदा तस्य संसार­ममता­जालं नश्यति।

(१६) रामेति

यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि॥

– अ॰रा॰ १.३.४०

   एष प्रयोगोऽध्यात्म­रामायण­बाल­काण्ड­तृतीय­सर्गे चत्वारिंशे श्लोके श्रीमता वसिष्ठेन कृतो भगवतो नाम­करण­प्रसङ्गे। अत्र राम­शब्दस्य व्युत्पत्ति­प्रकार­द्वयं दर्शयति। एकोऽधिकरण­घञन्तोऽपरः कर्त्रजन्तश्च। यस्मिन्मुनयो रमन्ते स रामो यश्च रमयति रमते वा स राम इति। अत्र प्रथमैक­वचनान्तो रामः इति शब्दः। ततश्च इति­शब्देन सह संहिता­काले राम सुँ इति स्थिते पश्चात् ससजुषो रुः (पा॰सू॰ ८.२.६६) इत्यनेन रुत्वे भो­भगो­अघो­अपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) इत्यनेन रोर्यत्वे लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन यकारलोपे पुना राम­घटकाकारस्येति­घटकेकारेण सहाऽशङ्क्यमाने गुणे पूर्वत्रासिद्धम्‌ (पा॰सू॰ ८.२.१) इत्यनेन त्रिपादीत्वाद्यलोपासिद्धौ गुणानवसरे राम इति इत्येव पाणिनीयम्। पूर्वत्रासिद्धम्‌ (पा॰सू॰ ८.२.१) इति सूत्रस्य जागरूकतायां गुणाभावे कथं रामेति इति चेत्। मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.५९) इति सूत्र­ज्ञापनात् अनुकरणानु­कार्ययोर्भेदाभेद­विवक्षा च[४५] इति परिभाषया तावद्भेद­विवक्षाऽभेद­विवक्षा च क्रियते। इति­शब्द­समभिव्याहरणेनात्र द्विःप्रयुक्तो राम­शब्दोऽनुकरण­परः। इति­शब्दो ह्यनुकरण­द्योतकः। तथा च पाणिनेः सूत्रम् अव्यक्तानुकरणस्यात इतौ (पा॰सू॰ ६.१.९८)। ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेशः स्यात्। पटत् इति पटिति (वै॰सि॰कौ॰ ८१)। अत्रत्या तत्त्वबोधिनी च – यद्यपि “अतो गुणे” इति पूर्व­सूत्रादत इत्यनुवर्त्यातो­ग्रहणमिह त्यक्तुं शक्यं तथाऽपि पूर्व­सूत्रे अत इति तपर­करणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकार­पक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्रातो­ग्रहणं कृतम्। अव्यक्त­शब्दं व्याचष्टे “ध्वनेरिति”। “अनुकरणस्येति”। परिस्फुटाकारादि­वर्णस्येति भावः। तस्य चानुकरणत्वं किञ्चित्साम्येन बोध्यम्। पर­रूपस्यास्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह। “पटदितीति” (त॰बो॰ ८१)। अतोऽत्राभेद­विवक्षायां विभक्त्यभावः।[४६] एवं च आद्गुणः (पा॰सू॰ ६.१.८७) इत्यनेन गुणः।[४७] ज्ञानाधिकरण­ज्ञान­स्वरूप इति न्याय­वेदान्त­बोध्य­निर्गुण­ब्रह्माभिन्न एव दशरथ­पुत्रो राम इत्येव वसिष्ठ­तात्पर्यं द्योतयितुमत्राभेद­विवक्षायां संहिता। संहितात्वं नामार्ध­मात्रा­कालातिरिक्त­काल­व्यवधान­शून्यत्वम्‌। यद्वा अपदं न प्रयुञ्जीत इति व्याकरण­प्रसिद्धेर्द्विपदमनुकुर्वतो द्विपदस्य परम­पदस्य भगवतः श्रीरामचन्द्रस्य कृते किमपदं प्रयुञ्जीत शिव इत्यपेक्षायामुच्यते। सह सुपा (पा॰सू॰ २.१.४) इति हि सूत्रम्। अत्र हि योग­विभागः सह इति पृथक्पदं सुपा इति च पृथक्। सहेति समर्थेन सह समस्यते इत्यर्थक­योग­विभाग­प्रथमांशेनात्र समासः राम­शब्दस्य इति­शब्देन। पश्चात् सुपो धातु­प्रातिपादिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्ति­लोपः। पश्चाद्गुणः। प्रत्यय­लक्षणमाश्रित्य पुनर्गुण­व्यवधानं न शक्यं यथा गो­हितम्‌ इत्यत्रान्तर्वर्तिनीं ङे­विभक्तिमाश्रित्य न अव्‌­आदेशस्तथैव वर्णाश्रये नास्ति प्रत्यय­लक्षणम्‌ (प॰शे॰ २०) इत्यनेनात्रापि प्रत्यय­लक्षणं निषेध्यम्। अतो रामेति अयं शब्दः पाणिनीय एव।

(१७) मुनीन्द्राहम्‌

अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः।
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात्॥

– अ॰रा॰ १.४.३

   अयं च प्रयोगोऽध्यात्म­रामायणस्य बाल­काण्डस्य चतुर्थ­सर्गीयः। अत्रायोध्या­समागतं श्रीराघव­समेतं विश्वामित्रं प्रणम्य प्राञ्जलिर्योग­राजो दशरथः कथयति मुनीन्द्र अहं कृतार्थः एवम्। दूराद्धूते च (पा॰सू॰ ८.२.८४) इत्यनेन प्लुतस्ततश्च प्लुत­प्रगृह्या अचि नित्यम्‌ (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृति­भावस्तस्मादतः मुनीन्द्र३ अहम्‌ इत्येव पाणिनीयम्। मुनीन्द्राहम्‌ इत्यार्षप्रयोगो नैव पाणिनीय इति न भ्रमितव्यम्। अत्र विश्वामित्रमभिगम्यैव दशरथः प्रणमति तेन दूर­सम्बोधनत्वाभावान्न प्लुतावसरः। यद्वा गुरोरनृतोऽ­नन्त्यस्याप्येकैकस्य प्राचाम्‌ (पा॰सू॰ ८.२.८६) इत्यत्र प्राचाम्‌ इति योग­विभागः। तथोक्तं सिद्धान्त­कौमुद्याम् इह प्राचामिति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७)। अनेन योग­विभागेन सर्वेषां प्लुतानां वैकल्पिकता। प्लुताभावे अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन सवर्णदीर्घः। अथवा अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इति सूत्रं सपाद­सप्ताध्यायीस्थं प्लुत­विधायकञ्च त्रिपादीस्थं दूराद्धूते च (पा॰सू॰ ८.२.८४)। ततः पूर्वत्रासिद्धम्‌ (पा॰सू॰ ८.२.१) इति सूत्र­बलेन सपाद­सप्ताध्याय्या दीर्घ­शास्त्र­कर्तव्यतायां प्लुत­विधायकं त्रिपादी­शास्त्रमसिद्धम्। एवं तन्निमित्तक­प्रकृति­भावस्य नास्ति प्रसरः। अतः मुनीन्द्राहम्‌ इत्यत्र दीर्घः पाणिनि­तन्त्रशोऽनुकूलः। एवमेव तदप्यहोऽहं तव देव भक्ता (अ॰रा॰ १.१.८) इत्यत्रापि समाधेयम्। यतो हि अहो इत्योदन्त­निपातः। ओत्‌ (पा॰सू॰ १.१.१५) इत्यनेन सूत्रेण अहो इत्यस्यौदन्त­निपातत्वात्प्रगृह्य­सञ्ज्ञा। ततोऽकारेऽचि परे प्लुतप्रगृह्या अचि नित्यम्‌ (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावे अहो अहम्‌ इत्येव पाणिनीयम् अहोऽहम्‌ इत्यपाणिनीयं प्रतीयत इति चेत्। अत्रापि प्राचाम्‌ (पा॰सू॰ ८.२.८६) इति योग­विभागेन प्लुतस्य विकल्प इव प्रगृह्यस्यापि विकल्पता। उपलक्षणत्वात्। यद्वा प्लुतप्रगृह्या अचि नित्यम्‌ (पा॰सू॰ ६.१.१२५) इत्यत्र नित्य­ग्रहणं प्रायिकार्थे। अर्थात्क्वचिदचि परे प्रगृह्यः प्रकृति­भाव­भाङ्न। यथा ङमो ह्रस्वादचि ङमुण्नित्यम्‌ (पा॰सू॰ ८.३.३२) इत्यत्र नित्यग्रहणस्य प्रायिकत्वात् इको यणचि (पा॰सू॰ ६.१.७७) सुप्तिङन्तं पदम्‌ (पा॰सू॰ १.४.१४) इत्यादौ न ङुण्मुटौ। तथैवात्र नित्य­ग्रहणस्य प्रायिकत्वात् अहो इत्यस्मात्परेऽप्यकारेऽचि न प्रकृतिभावः।

(१८) मह्यम्‌

प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः।
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत्॥

– अ॰रा॰ १.४.११

   विश्वामित्रो दशरथमभिगम्य राक्षस­वधार्थी सलक्ष्मणं श्रीरामचन्द्रं याचते। तत्र पुत्र­वत्सलतया रामचन्द्रं न दित्सन्महाराज­दशरथो विकल्पते यच्छ्रीराम­विसर्जनेऽहं जीवनमपि नैव धारयितुं शक्नोमि। एवं च प्रत्याख्यातः स मुनिः शापं दास्यति। एवमसत्य­भाषण­जनित­पातकमपि लगिष्यति। तदानीमयं प्रयोगः कथं श्रेयो भवेन्मह्यम्‌ इति। अत्रास्मच्छब्दस्य चतुर्थ्येक­वचनान्त­रूपं मह्यम्‌ इति।[४८] मह्यम्‌ शब्दस्य श्रेयः­प्रतियोगितया साकाङ्क्षत्वात्प्रतियोगिनः षष्ठ्यन्तत्वमेव। दृष्टि­दृष्ट­प्रायत्वादत्र सम्बन्धे षष्ठी भवेत्। किन्तु चतुर्थीयं महाराज एव श्रेयसः सम्प्रदानमिति विवक्षया। यद्वा मह्यम्‌ इत्यस्य शापं दास्यति इत्यत्रान्वयः। अर्थात्प्रत्याख्यातो मुनिरसंशयं मह्यं शापं दास्यत्येवं कथं श्रेयो भवेदसत्यं च न स्पृशेदित्यत्रान्वय­प्रकारः। इत्थं मह्यम्‌ शब्दस्य श्रेयः शब्देनासत्यन्वये परिहारः। यद्वा मह्यम्‌ न शब्द­रूपमपि तु कृत्य­प्रत्ययान्तम्। महँ पूजायाम्‌ (धा॰पा॰ ७३०, १८६७) इत्यस्माद्धातोः कृत्य­ल्युटो बहुलम्‌ (पा॰सू॰ ३.३.११३) इति सूत्रानुरोधेनानुबन्ध­लोपे सति मह्यत इति मह्यम्‌ इत्यस्मिन् विग्रहे कर्मणि यत्प्रत्ययः। अनुबन्ध­लोपे विभक्ति­कार्ये सौ सोरमादेशे[४९] मह्यम्‌ इति सिद्धम्। अत्र मह्यम्‌ शब्दः श्रेयः शब्दस्य विशेषणम्। अर्थात् मह्यं महत्त्व­पूर्णम्‌

(१९) रामाय

विश्वामित्रोऽपि रामाय तां योजयितुमागतः।
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन॥

– अ॰रा॰ १.४.१९

   वसिष्ठ­वाक्यमिदम्। अत्र रामेण योजयितुं इति पाणिनीयं रामाय इत्यार्ष­चतुर्थी। विचारे कृत इयमपि पाणिनीया। अत्र हित­शब्दोऽध्याहार्यः। ततश्च हित­योगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा रामं सुखयितुं तां योजयितुमागतः इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी।

(२०) रामरामेति

आहूय रामरामेति लक्ष्मणेति च सादरम्।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत्॥[५०]

– अ॰रा॰ १.४.२२

   अत्र राम­शब्देन सह इति­शब्दस्य संहिता। तत्र राम­घटकाकारस्य इति­घटकेकारेण सह संहितायामुभयोः स्थाने गुणः। स एव विचार्यः। दूराद्धूते च (पा॰सू॰ ८.२.८४) इति सूत्रेण दूर­सम्बोधन­वाक्यस्य राम३ राम३ इत्यस्य टेर्मकारोत्तराकारस्य प्लुतः। एवं प्लुत­प्रगृह्या अचि नित्यम्‌ (पा॰सू॰ ६.१.१२५) इति प्रकृति­भावः स्यात्। अत्र च राम३ राम३ इति इत्येव पाणिनि­तन्त्रीयः। अत्र सन्धिरार्षः।[५१] इत्थमेव प्रथम­श्रीमद्भागवत­टीका­कारैः श्रीधर­स्वामि­पादैः –

यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव।
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि॥

– भा॰पु॰ १.२.२

इत्यत्र पुत्रेति अयं प्रयोगोऽप्यार्षत्वेन समाहितः।[५२] तथैवात्रापि। वस्तुतस्त्वयं पाणिनीय एव। अत्र चत्वारः पक्षाः प्रदर्श्यन्ते। प्रथमः गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्‌ (पा॰सू॰ ८.२.८६) इत्यत्र प्राचाम्‌ इति योग­विभागस्तेन सर्वेषां प्लुतानां विकल्पः।[५३] अतोऽत्रापि प्लुताभावाद्गुणः सुकरः। द्वितीयः पक्षः अप्लुतवदुपस्थिते (पा॰सू॰ ६.१.१२९) इत्यनेन प्लुतस्याप्लुतवद्भाव उपस्थित­शब्देऽवैदिक­इति­परे। अर्थादवैदिक इति­परे प्लुतोऽप्लुत­वद्भवतीत्यनेनाप्लुत­वद्भावस्ततश्च गुणोऽतो रामरामेति अयं प्रयोगः पाणिनीयः। पक्षान्तरेऽपि सम्बुद्धौ शाकल्यस्येतावनार्षे (पा॰सू॰ १.१.१६) इति सूत्रेण वैकल्पिक­प्रकृति­भावः। चतुर्थे पक्षे प्लुत­प्रकरणमेवानित्यम्। अथ मया पञ्चम­पक्षः प्रस्तूयते यद्गुण­विधौ कर्तव्ये प्लुत­शास्त्रमेवासिद्धमतो रामरामेति पाणिन्यनुकूल एव।

(२१) लक्ष्मणेति

आहूय रामरामेति लक्ष्मणेति च सादरम्।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत्॥

– अ॰रा॰ १.४.२२

   अयमपि प्रयोगस्तथैव। लक्ष्मण इति स्थिते प्लुते जाते प्रकृति­भावो नित्यत्वेन प्राप्तः पुनः प्राचाम्‌ (पा॰सू॰ ८.२.८६) इति योग­विभाग­सामर्थ्यात्प्लुत­विकल्पे सन्धिः साधीयान्।

(२२) दीक्षां प्रविश्यताम्‌

पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम्।
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम्॥

– अ॰रा॰ १.५.३

   कौशिकेन स्वाश्रमं नीतो भगवान् श्रीरामो विश्वामित्रं कथयति हे मुने भवता दीक्षां प्रविश्यताम्‌। अत्र दीक्षां प्रविश इति कर्तृ­वाच्य­रूपम्। कर्म­वाच्ये च लः कर्मणि च भावे चाकर्मकेभ्यः (पा॰सू॰ ३.४.६९) इति सूत्रानुसारं भाव­कर्मणोः (पा॰सू॰ १.३.१३) इत्यनेनाऽत्मने­पदम्। ­प्रत्ययः टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेन ते इति जातः। ततश्च आमेतः (पा॰सू॰ ३.४.९०) इत्यनेन लोड्लकारे आम्‌ आदेशे प्रविश्यताम्‌[५४] एवं यस्मिन्नर्थे प्रत्ययः स उक्तो महा­सञ्ज्ञा­करणाच्च प्रत्याययत्यर्थं यः स प्रत्यय इत्युभयोर्नियमयोर्जागरूकत्वे कर्मणि प्रत्ययस्य विहितत्वात्प्रथमैवोचिता। एवं च अनभिहिते (पा॰सू॰ २.३.१) इति सूत्रं ह्यधिकारः। अधिकारो नामोत्तरोत्तर­सम्बन्धित्वम्। ततः कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेनाप्येतस्य सम्बन्धः। अथ च अनभिहिते कर्मणि द्वितीया इत्येव सूत्रार्थः। तस्मात्कर्मणोऽभिहितत्वादत्र प्रथमैव। तथा चोक्तं सिद्धान्त­कौमुद्यां कारक­प्रकरणे अभिधानं च प्रायेण तिङ्कृत्तद्धित­समासैः (वै॰सि॰कौ॰ ५३७) तेन हरिः सेव्यते इति प्रयोग इवात्रापि तिङ्। तिङोक्तं कर्म। अतो दीक्षाम्‌ इत्यत्र द्वितीया पाणिनि­विरुद्धेव। विचारे कृतेऽत्र प्रविश्यताम्‌ इतिघटक­धातुरकर्मकः। यद्यपि विश्‌­धातुः (विशँ प्रवेशने धा॰पा॰ १४२४) सकर्मकः सर्व­जन­विदितः कथमत्राकर्मकतेत्यपेक्षायां तत्रैव बाल­मनोरमायामात्मनेपद­प्रक्रिया­प्रकरणे दीक्षित­महाभागैरेका कारिका निरटङ्कि यत्कस्यां कस्यां परिस्थितावकर्मिकाः क्रिया भवन्ति यथा –

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥

– बा॰म॰ २६९५, वै॰सि॰कौ॰ २७०१, वा॰प॰ ३.७.८८

यदा धातोरर्थान्तरं भवति तदाऽकर्मता। यथा वहँ प्रापणे (धा॰पा॰ १००४) इत्यस्य वहँ स्यन्दने। अयं भारं वहति इत्यत्र सकर्मकः नदी वहति इत्यत्र अकर्मकः। यदा धात्वर्थेनैव सङ्ग्रहो भवति तदैवाकर्मकः। यथा जीवनं धारयति इत्यस्य जीवति इत्यत्रोपसङ्ग्रहः। प्रसिद्धेरप्यकर्मकता। यथा मेघो वर्षति अत्र जल­रूपस्य कर्मणः प्रसिद्धिस्तस्मादकर्मकः। एवमेव कर्मणोऽविवक्षातोऽकर्मकता। तस्मादत्र कर्मणो न विवक्षा। तस्मादकर्मक­विश्‌­धातोर्भावे लोड्लकारे त­प्रत्ययः। एवं दीक्षाम्‌ इत्यस्य आश्रित्य इत्यध्याहृता क्रिया। तस्मादाश्रयानुकूल­व्यापारस्य कर्मणः क्त्वा­प्रत्यय­स्थानापन्न­ल्यप्प्रत्यनेनानुक्तत्वम्। तस्य कर्तर्येवं विधानम्। अतोऽनुक्ते कर्मणि द्वितीया पाणिन्यनुकूला। अतो दीक्षां प्रविश्यताम्‌ अयं प्रयोगः सुकरः। अथवा गण­कार्यमनित्यम्‌ (प॰शे॰ ९३.३) इति नियमात् प्र­पूर्वक­विश्‌­धातुर्दैवादिकः कल्प्यताम्।[५५] ततश्च दिवादिभ्यः श्यन्‌ (पा॰सू॰ ३.१.६९) इत्यनेन प्र­पूर्वक­विश्‌­धातोः श्यन्‌ विकरणः। एवं हे मुने तां पूर्व­निर्दिष्टां दीक्षां त्वं प्रविश्य प्रविष्टो भव इति नेयं कर्म­वाच्य­क्रियाऽपि तु प्रविश्य इति कर्तृ­वाच्य­क्रिया। इदं नव्यं समाधानम्। अथवा दीक्षां प्रविश्य ताम्‌ इत्यत्र प्रविश्य इति ल्यबन्त­प्रयोगः। तस्य च परवर्ति­श्लोकस्थेन दर्शयस्व इत्यनेन क्रिया­पदेनान्वयः। अर्थात् हे महाभाग मुने तां पूर्व­निर्दिष्टां दीक्षां प्रविश्य कुतस्तौ राक्षसाधमौ दर्शयस्व

(२३) पक्वफलादिभिः

भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः।
पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम्॥

– अ॰रा॰ १.५.११

   अत्र श्रीरामः फलं भुङ्क्ते विश्वामित्रः प्रेरयतीत्यर्थे विश्वामित्रो रामं पक्व­फलादीनि भोजयति। अस्यामेवावस्थायां क्त्वा­प्रत्यये पक्वफलादीनि भोजयित्वा इत्येव सामान्यतः पाणिनीयानुरूपम्। पक्व­फलादिभिः इति कथम्। विमर्शे सति विवक्षाधीनानि कारकाणि भवन्ति[५६] इति नियमेनात्र करणत्व­विवक्षा। करणं हि साधकतमं करणम्‌ (पा॰सू॰ १.४.४२) इति पाणिनीय­सूत्रानुसारं क्रिया­सिद्धौ प्रकृष्टोप­कारकं कारकम्। वाक्य­पदीये च करण­लक्षणमित्थम् –

क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्।
विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥

– वा॰प॰ ३.७.९०

अतः कर्तृ­करणयोस्तृतीया (पा॰सू॰ २.३.१८) इति सूत्रेण तृतीया। यद्वा हेतौ (पा॰सू॰ २.३.२३) इति सूत्रेण तृतीया पक्व­फलादौ हेतुत्व­विवक्षणात्। सिद्धान्त­कौमुद्यां हेतु­करणयोरन्तर­प्रतिपादन­पुरः­सरे लक्षणे व्याचष्ट दीक्षितो यत् द्रव्यादि­साधारणं निर्व्यापार­साधारणं च हेतुत्वम्। करणत्वं तु क्रियामात्र­विषयं व्यापारनियतं च (वै॰सि॰कौ॰ ५६८) इति। अतः तृतीयायां नानुपपत्तिः। यद्वा प्रकृत्यादिभ्य उपसङ्ख्यानम्‌ (वा॰ २.३.१८) इति वार्त्तिक­बलेन तृतीया। सा चाभेदे।[५७] प्रकृत्यादिश्चाऽकृति­गणः।[५८] पक्व­फलाद्यभिन्नं भोजनं श्रीरामं भोजयित्वेति तात्पर्यम्।

(२४) यत्राहल्यास्थिता तपः

गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः।
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम्॥

– अ॰रा॰ १.५.१५

   अत्र स्था­धातुर्गति­निवृत्तौ (ष्ठा गति­निवृत्तौ धा॰पा॰ ९२८)। अस्यैव क्त­प्रत्ययान्तं रूपमिदम्। अत्र तप इति वैषयिक आधारः। अत एव आधारोऽधिकरणम्‌ (पा॰सू॰ १.४.४५) इत्यनेनाधिकरण­सञ्ज्ञा। ततश्च सप्तम्यधिकरणे च (पा॰सू॰ १.४.४५) इत्यनेन सप्तमी सङ्गता। तपसि स्थिता इत्यनेन भवितव्यं किन्तु यत्राऽहल्या इत्यत्र आकारः प्रश्लिष्टः। स च आश्रित्य इत्यस्य सूचकः। अर्थात् तप आश्रित्य स्थिता अहल्या। यद्वाऽत्राधिरुपसर्गः स च विनाऽपि प्रत्ययं पूर्वोत्तर­पद­लोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन लुप्तत्वात्सम्प्रति न दृश्यते किन्तु पूर्वमासीत्। तत्पूर्वकस्य स्था­धातोर्योगे तपः अधिष्ठिता इति स्थिते अधिशीङ्स्थासां कर्म (पा॰सू॰ १.४.४६) इत्यनेन कर्म­सञ्ज्ञायां कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया विभक्तौ पश्चादधीत्यस्य लोपे द्वितीया न निवर्तते। जात­संस्कारो न निवर्तते इति परिभाषा­बलेन। अथवा तपःस्थिता इत्येकं समस्तं पदम्। अत्र सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इति सूत्रेण तपसि स्थिता इति विग्रहे लौकिके तपस् ङि स्थिता सुँ इत्यलौकिक­विग्रहे सप्तमी­तत्पुरुषे कृत्तद्धित­समासाश्च (पा॰सू॰ १.२.४६) इत्यनेन प्रातिपदिक­सञ्ज्ञायां सुपो धातु­प्रातिपादिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्ति­लुकि विभक्त्यादि­कार्ये तपःस्थिता इति।[५९] अथवा तपसि इति पृथक्पदं स्थिता इत्यपि पृथगुभे पदे च व्यस्ते तथा सुपां सुलुक्पूर्व­सवर्णाच्छेयाडाड्यायाजालः (पा॰सू॰ ७.१.३९) इति सूत्रेण छान्दसतया सप्तम्या लुक्। अथवाऽनेनैव सूत्रेण सुआदेशे पुनर्विसर्गादिः।[६०] यद्वा तप आस्थिता इति विग्रहः। आङ्‌­पूर्वस्य स्था­धातोः करणार्थः। तप आस्थिता इत्यस्य तपः कुर्वत्यासीत्‌ इत्यर्थः। यथा श्रीमद्भागवते आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्राऽपि यदव्यलीकम्‌ (भा॰पु॰ ४.८.१९) इत्यत्र टीकायां श्रीधर­स्वामिनः आतिष्ठ कुरु (भा॰पु॰ श्री॰टी॰ ४.८.१९) वंशीधराश्च यत्तप उक्तं तत्कुरु (भा॰पु॰ वं॰टी॰ ४.८.१९) इति।

(२५) देवराजानम्‌

योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव।
शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम्॥

– अ॰रा॰ १.५.२६

   अत्राहल्याभिमर्श­सञ्जात­रोषो गौतमः कृत­किल्बिषं पुरन्दरं क्रुद्धः शपति। अत्र देवराजानम्‌ इति प्रयोगः कथम्। यतो हि देवानां राजा इति विग्रहे षष्ठी­तत्पुरुषे राजाऽहस्सखिभ्यष्टच्‌ (पा॰सू॰ ५.४.९१) इत्यनेन टच्प्रत्यये चुटू (पा॰सू॰ १.३.७) इत्यनेन टकारेत्सञ्ज्ञायां लोपे चकारस्याप्यनुबन्ध­कार्ये भत्वात् अन्‌ इत्यस्य लोपेऽमि देवराजम्‌[६१] परञ्च विचारे कृत इदमपि साधु। साधुत्वञ्चाऽत्र वृत्त्यप्रवृत्त­नित्य­विध्युद्देश्यतावच्छेदकतानाक्रान्तत्वम्‌। एवं हि देवानां राजा इति विग्रहेऽपि कथं न टच् प्रत्यय इत्यपेक्षायां समासान्त­प्रत्यया अनित्या इत्येव समाधानम्।[६२]

   यद्वा राजृँ दीप्तौ (धा॰पा॰ ८२२) इत्यस्माद्धातोः राजनं राट्‌ इति विग्रहे भावे क्विप्।[६३] तस्य सर्वापहारि­लोपः। पश्चात् व्रश्च­भ्रस्ज­सृज­मृज­यज­राज­भ्राजच्छशां षः (पा॰सू॰ ८.२.३६) इति सूत्रेण मूर्धन्य­षकारो झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यनेन जश्त्वं वाऽवसाने (पा॰सू॰ ८.४.५६) इत्यनेन वैकल्पिक­चर्त्वमित्थं देवराट्‌ इति निष्पन्न­प्रयोग­स्थितिः। किन्तु राजनं राट्‌ इति विग्रहे क्विप्प्रत्ययान्तस्य राज्‌ शब्दस्य देव शब्देन सह समासे तेन च देव­राजाऽऽसमन्तादनिति देव­शासनेन निश्वसिति पद­लोलुपतया सम्मानाकाङ्क्षिततया सुखं निश्वसितीति विग्रहे आङ्‌­उपसर्ग­पूर्वकात् अन्‌­धातोः (अनँ प्राणने, धा॰पा॰ १०७०) नन्दि­ग्रहि­पचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन अच्‌­प्रत्ययः पश्चात् तृतीया तत्कृतार्थेन गुण­वचनेन (पा॰सू॰ २.१.३०) इति सूत्रे तृतीया इति योग­विभाग­बलात् देवराजा इति शब्दस्य आन इति शब्देन तृतीया­तत्पुरुषः। अथवा देवराजे सुर­शासनायाऽनिति इति विग्रहे चतुर्थी­तत्पुरुषः। अथवा देवराज्यानिति निर्भरतया जीवतीति विग्रहे सप्तमी­तत्पुरुषः। अथवा देवराज इदं देवराजार्थम्‌ इति विग्रहे अर्थेन नित्य­समासो विशेष्य­लिङ्गता चेति वक्तव्यम्‌ (वा॰ २.१.३६) इति वार्त्तिक­बलेन चतुर्थ्यन्त देवराजे शब्दस्य अर्थ शब्देन नित्य­चतुर्थी­समासः। पश्चात् देवराजार्थमानिति इति विग्रहे देवराजार्थ शब्दस्य आन शब्देन सह सुप्सुपा (पा॰सू॰ २.१.४) इति सूत्रेण समासः। एवं शब्दमिममाकृति­गणत्वाच्छाक­पार्थिवादि­गणे मत्वा शाकप्रियः पार्थिवः शाकपार्थिवः इतिवत् शाक­पार्थिवादीनां सिद्धय उत्तर­पद­लोपस्योप­सङ्ख्यानम्‌ (वा॰ २.१.६०) इति वार्त्तिकेन अर्थशब्दस्य लोपे विभक्ति­कार्ये देवराजानम्‌ इति पूर्णतया पाणिन्यनुकूलम्। एतादृक्समास­प्रकारस्तु पस्पशाह्निकेऽन्वमूमुदन्महा­भाष्यकाराः सामोदम्। तत्रायं विचारः समुपस्थितो यद्यदि सिद्धः शब्दोऽर्थः सम्बन्धश्चेति लोकतो ज्ञायते। यदि लोक एषु प्रमाणं तर्हि किं शास्त्रेण क्रियत इत्यपेक्षायां वार्त्तिकमव­तारयामासुः प्राञ्जलयः पतञ्जलयः यत् लोकतोऽर्थप्रयुक्ते शब्द­प्रयोगे शास्त्रेण धर्मनियमः। धर्म­नियम­शब्दे बहवः समास­प्रकाराः प्रदर्शयाम्बभूविरे। किमिदं धर्मनियम इति। धर्माय नियमो धर्मनियमः। धर्मार्थो वा नियमो धर्मनियमः। धर्मप्रयोजनो वा नियमो धर्मनियमः (भा॰प॰) इत्यादि। इत्थं देवराजानम्‌ इति त्रि­मुनि­सम्मतम्। यद्वा अन्‌ धातुमन्तर्भावित­णिजन्तार्थमङ्गीकृत्य देव­राजं देव­शासनमनित्यानयति श्वासयतीति भावो निज­प्रताप­बलेन जीवयतीति हार्दं विग्रहेऽस्मिन्। तत्रोपपदं सप्तमीस्थम्‌ (पा॰सू॰ ३.१.९२) इत्यनेन उपपद­सञ्ज्ञायां कर्मण्यण्‌ (पा॰सू॰ ३.२.१) इत्यनेन अण्‌ प्रत्यये अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेन वृद्धौ उपपदमतिङ्‌ (पा॰सू॰ २.२.१९) इति सूत्र­बलेन समासे विभक्ति­कार्ये देवराजानम्‌ इति सम्यक्सिद्धम्।

(२६) पुलकाङ्कितसर्वाङ्गा

उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम्।
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत॥

– अ॰रा॰ १.५.४२

   श्रीराम­चरणारविन्द­रजः­संस्पर्श­लब्ध­ललित­ललना­शरीरा कलित­लोचन­नीरा धीरा विगत­शल्याऽहल्या कौसल्या­सुतं श्रीरामं पुलक­पूर्णाङ्गी स्तौति। अत्रैव पुलकाङ्कित­सर्वाङ्गा इति प्रयोगोऽपाणिनीय इव। पुलकेन अङ्कितानि सर्वाणि अङ्गानि यस्याः इति विग्रहे अनेकमन्य­पदार्थे (पा॰सू॰ २.२.२४) इत्यनेन चतुष्पदे बहुव्रीहौ स्वाङ्गाच्चोप­सर्जनादसंयोगोपधात्‌ (पा॰सू॰ ४.१.५४) इत्यस्योपरि अङ्ग­गात्र­कण्ठेभ्य इति वक्तव्यम् (का॰वृ॰वा॰ ४.१.५४) इत्यनेन प्राप्तः ङीष्‌ दुर्वार एव।[६४] एवञ्च पुलकाङ्कित­सर्वाङ्गा इत्यत्र टाप्‌ कथमिति चेत्। उच्यते। अत्र हि सिद्धान्त­कौमुदी­वर्णनम् – स्वाङ्गं त्रिधा। अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम्‌ (वै॰सि॰कौ॰ ५१०)।[६५] तथाऽपि ङीष्‌­भावो वैकल्पिकः। स्वाङ्गाच्चोप­सर्जनादसंयोगोपधात्‌ (पा॰सू॰ ४.१.५४) इति सूत्रं[६६] हि वैकल्पिकं ङीष्‌­प्रत्ययं करोति।[६७] यद्यपि –

अद्य प्रभृत्यवनताङ्गि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।

– कु॰स॰ ५.८६

इति कुमारसम्भवे कालिदासः ङीष्‌­प्रत्ययान्तमेवाश्रयति।[६८] अत्र कथं नाऽश्रित इति चेत्। कवीनां कामचारः। यद्वा विकल्प­बुद्धिमतीमहल्यां वर्णयन् विकल्प­पक्षमेवाश्रयति।[६९] यद्वा नायं स्त्री­प्रत्ययान्तोऽपि तु कर्मधारयान्मत्वर्थीयः। पुलकेनाङ्कितानि पुलकाङ्कितानि पुलकाङ्कितानि च तानि सर्वाण्यङ्गानि इति कर्मधारयः। विशेषणं विशेष्येण बहुलम्‌ (पा॰सू॰ २.१.५७) इत्यनेन पुलकाङ्कित­शब्दस्य विशेषणतया पूर्व­निपातः। विशेषणत्वं नाम विद्यमानत्वे सति विधेयान्वयित्वे सतीतर­व्यावर्तकत्वम्‌। एवं पुलकाङ्कित­सर्वाङ्गाणि सन्ति यस्याः – प्रशस्तानि इति शेषः – इति विग्रहे अर्शआदिभ्योऽच्‌ (पा॰सू॰ ५.२.१२७) इत्यनेन अच्‌­प्रत्यये टापि प्रत्यये[७०] पुलकाङ्कितसर्वाङ्गा इति दिक्।[७१]

(२७) रमणीयदेहिनम्‌

मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये॥

– अ॰रा॰ १.५.४६

   शाप­मुक्ता भक्ति­युक्ता विगत­शल्याऽहल्या कौशल्यानन्द­वर्धनं स्तुवती[७२] श्रीराम­विशेषणं रमणीय­देहिनम्‌ इति­शब्दं प्रायुङ्क्त। अत्र रमणीयश्चासौ देहश्चेति रमणीय­देहःविशेषणं विशेष्येण बहुलम्‌ (पा॰सू॰ २.१.५७) इति कर्मधारयः। रमणीय­देहो नित्यत्वेन प्राशस्त्येन वाऽस्ति यस्य स रमणीय­देही तं रमणीय­देहिनम्। विचारणीयमिदं यत् रमणीयो देहो यस्य स रमणीयदेहस्तथाभूतम्‌ इत्थं विग्रहेऽपि रमणीय­देहवत्त्व­रूपोऽर्थोऽवगम्येत। कर्मधारयानन्तरं मत्वर्थीयस्तु पाणिनीय­तन्त्र­विरुद्धः। न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थ­प्रतिपत्ति­करः इति नियमेनात्र कर्मधारयादनन्तरं बहुव्रीहिरनुचित इति चेत्सत्यं किन्तु यदि बहुव्रीहौ विवक्षितार्थस्य प्रतीतिः स्यात्तदा कर्मधारयान्मत्वर्थीयो न। परमत्र मत्वर्थीयो नित्ययोगे प्राशस्त्ये च। तथा च कारिकां पेठुर्महाभाष्य­कारा यत् –

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥

– भा॰पा॰सू॰ ५.२.९४

   भगवतो रमणीयो देहो नित्यः। कौशल्यायाः समक्षन्तु केवलं प्रकटस्तथा वाल्मीकीयेऽपि कौसल्याजनयद्रामम्‌ (वा॰रा॰ १.१८.१०) इत्येव लिखितं न तु बालम्‌ इत्यनेन पुराऽपि राम आसीदित्येव सूच्यते। अध्यात्म­रामायणे तु शङ्ख­चक्र­गदा­पद्म­वन­माला­विभूषितं चतुर्भुज­रूपमेवादर्शयत्।[७३] श्रीमानसे तु मनु­शतरूपा­समक्षं शर­चाप­युक्त­द्वि­भुजरूप एवाऽगच्छत्। भगवतो द्विभुजं रूपं शाश्वतं चेति श्रुति­पुराण­शास्त्र­सम्मतम्। भागवतेऽपि ब्रह्मा कथयति –

अस्याऽपि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि।

– भा॰पु॰ १०.१४.२

तुलसीदासोऽपि साटोपं कथयति –

चिदानन्दमय देह तुम्हारी। बिगत बिकार जान अधिकारी॥[७४]

– रा॰च॰मा॰ २.१२७.५

इति। इत्थं नित्य­सिद्धस्य भगवतो देहस्य प्रतीतिर्बहु­व्रीहावसम्भवान्मत्वर्थीयमन्तरेण प्राशस्त्यमपि नैवावगन्तुं शक्यते। अतोऽसत्यां तादृशार्थ­प्रतीतौ मत्वर्थीयो वरीयान्। यद्वा दिहँ उपचये (धा॰पा॰ १०१५) इत्यस्माद्धातोस्ताच्छील्ये णिनिः। तथा च रमणीयं देग्धुं तच्छीलः इति विग्रहे कर्म­भूत­रमणीयोपपदे सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन णिनि­प्रत्ययेऽनुबन्ध­कार्ये गुणेऽमि रमणीय­देहिनम्‌ इति।[७५] अथवा रमणीया देहिनो मत्स्यादयश्चतुर्विंशतिरवतारा यस्य स रमणीय­देही तं रमणीय­देहिनम्‌। श्रीरामस्यैव सर्वावतारित्वात्।[७६] अथवा कृत्य­ल्युटो बहुलम्‌ (पा॰सू॰ ३.१.११३) इति सूत्रेण रमन्ते सर्वाकृतयो येषु ते रमणीयाः इति विग्रहे रमुँ क्रीडायाम्‌ (धा॰पा॰ ८५३) इत्यस्माद्धातोरधिकरणे अनीयर्‌ प्रत्ययः। एवं रमणीया देहिनो जीवात्मानो यस्य स रमणीयदेही तम्‌। षष्ठ्यर्थश्चांशांशि­भाव­रूपः। जीवात्मा परमात्मनोंऽश इति सार्वजनीनत्वात्। ममैवांशो जीव­लोके जीवभूतः सनातनः (भ॰गी॰ १५.७) इति गीतोक्तेः। अथवा रमन्ते इति रमणीयाःकृत्य­ल्युटो बहुलम्‌ (पा॰सू॰ ३.१.११३) इत्यनेन कर्तरि अनीयर्‌नित्यं रमणशीला जीवात्मानो देहिनो मुक्त­नित्या यस्मिन्स रमणीय­देही तं रमणीय­देहिनम्‌

यस्मिन् रमन्ते मुनयो विद्ययाऽज्ञानविप्लवे।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि॥

– अ॰रा॰ १.३.४०

इत्यत्रैव ग्रन्थ उक्तत्वात्। तस्मादिदं पाणिनीयमेव।

(२८) तस्मात्ते

योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥

– अ॰रा॰ १.५.५७

   ते नमस्कुर्याम्‌ इत्यन्वयः। अत्र उपपद­विभक्तेः कारक­विभक्तिर्बलीयसी (भा॰पा॰सू॰ १.४.९५, २.३.४, ३.१.१९) इति परिभाषा­बलेन द्वितीयैव सम्भवति। कदाचित्समासाभावः स्यात्तदा विसर्गस्य सत्वं न स्यात्। नमस्पुरसोर्गत्योः (पा॰सू॰ ८.३.४०) इति सूत्रेण साम्प्रतं साक्षात्प्रभृतीनि च (पा॰सू॰ १.४.७४) इत्यनेन गति­सञ्ज्ञायां विसर्गस्य सत्वेऽत्रैकार्थी­भावः। एकार्थी­भावत्वञ्च पृथगर्थानामेकोपस्थित्या बोध­जनकत्वम्‌। यथा राज­पुरुषः इत्यादौ समासात्प्राग्व्यस्तावस्थायां राज्ञः इत्यस्य पृथगर्थः पुरुषः इत्यस्य च पृथक्। सति समास उभयोरपि सत्ता समाप्ता साम्प्रतं हि स्व­स्वामि­भाव­सम्बन्धावच्छिन्न­राज­विशिष्ट­पुरुषः इत्येकोऽर्थः। तथा चोक्तं वैयाकरण­भूषण­सारे समास­शक्ति­निर्णये –

समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्॥

– वै॰भू॰सा॰ ५.३१, वै॰सि॰का॰ ३१

   एवमत्रापि कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) करणानुकूल­व्यापारे शक्तिर्नास्ति न च नमस्‌ इति शब्देऽवनत्यर्थ­बोधिका सति समासे परनिष्ठोत्कृष्टत्व­विशिष्ट­स्वनिष्ठापकृष्टत्वानुकूल­व्यापारो नमस्कार­पदार्थः। अत्र च कारक­विभक्तेर्बलवत्वाद्द्वितीयैव। ते तुभ्यं नमस्कुर्याम्‌ इति कथम्। अत्रोच्यते। स्वयम्भुवे नमस्कृत्य (म॰स्मृ॰ १.१, भा॰पु॰ ४.६.२) इत्यादिवत् त्वामनुकूलयितुं प्रसादयितुं स्तोतुं वा नमस्कुर्याम्‌ इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा चरणौ इत्यध्याहृत्यावयावयवि­भाव­मूलक­सम्बन्धे षष्ठी। इति शम्।

(२९) कुटुम्बहानिः

पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि।
नो चेत्तरी सद्युवती मलेन स्याच्चेद्विभो विद्धि कुटुम्बहानिः॥

– अ॰रा॰ १.६.४

   अहल्योद्धारानन्तरं भू­भार­हारी हरिर्गङ्गामुत्तर्तुं निषादं नौकां याचते। कैवर्तकः केशवमप्रस्तुत­प्रशंसाभङ्ग्याऽऽक्षिपन्नाह यत्त्वच्चरण­कमल­रजसा शिला नारी­रूपेण परिणता। तत्स्पर्शेन मम नौकाऽपि नारी मा भूदिति कृत्वा चरणौ क्षालयित्वैव गङ्गा­पारं नेष्यामि। अत्रैव कथयति स्याच्चेद्विभो विद्धि कुटुम्ब­हानिः। अत्र ज्ञानार्थको विद्‌­धातुः (विदँ ज्ञाने धा॰पा॰ १०६४)। स च सकर्मकः। ज्ञानस्य सविषयकत्वाद्विषयतया कर्मणः संस्कृते पाश्चात्य­भाषायां सङ्कीर्तनात्। कर्मैव पाश्चात्य­भाषायाम् ऑब्जेक्ट्‌ शब्देन व्यवह्रियते। अतः कुटुम्बहानिम्‌ इति द्वितीयया भवितव्यमिति चेत्सत्यम्। वैयाकरण­सिद्धान्त­कौमुद्याः कारके द्वितीया­विभक्ति­प्रकरणेऽभिधान­चर्चायां दीक्षित­महाभागाः संलिखन्ति यत् अभिधानञ्च प्रायेण तिङ्कृत्तद्धित­समासैः। तिङ् हरिः सेव्यते। कृत् लक्ष्म्या सेवितः। तद्धितः शतेन क्रीतः शत्यः। समासे प्राप्त आनन्दो यं स प्राप्तानन्दः। क्वचिन्निपातेनाप्यभिधानम्। विष­वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्। असाम्प्रतमित्यस्य हि न युज्यते इत्यर्थः (वै॰सि॰कौ॰ ५३७)। अत्र प्रायेणापि शब्देनैव निपातेन कर्मोक्तं मन्यन्तेऽन्यथा संवर्ध्य इति ल्यबन्तपद­समभिव्याहारेण विष­वृक्षः इत्यत्र द्वितीया दुर्वारेति सर्व­विदितम्।[७७] किन्त्वस्मत्सम्प्रदाये त्वस्मद्गुरु­चरणा असाम्प्रतम्‌­घटक­साम्प्रतम्‌इति­निपातेनैवोक्तं कर्म व्यवस्थापयन्ति। अत्रैवार्थ­बोधन­सामर्थ्यात्। सा रीतिरत्राप्यनु­श्रियते। स्याच्चेद्विभो विद्धि कुटुम्ब­हानिः इति छन्दश्चतुर्थ­चरण­घटक­चेत्‌­इति­निपातेनैवोक्तं कर्म। अत उक्ते कर्मणि प्रथमा विष­वृक्षोऽपि संवर्ध्य (कु॰स॰ २.५५) इतिवत् विद्धि कुटुम्ब­हानिः इति। यद्वा कुटुम्ब­हानिः इति पदं विद्धि इति पदेन नान्वीयताम्। तथा चाविवक्षया कर्मणः विद्धि इति­घटक­विद्‌­धातुम् (विदँ ज्ञाने धा॰पा॰ १०६४) अकर्मकं मत्वा वाक्यं विभिद्य व्याख्येयम्। अर्थात् नौकायां गतायां मम कुटुम्ब­हानिः स्याद्धे विभ इति त्वं विद्धि जानीहि इति तात्पर्यम्। इत्थं नापाणिनीयता।[७८]

(३०) मे मनःप्रीतिकरौ

कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ।
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव॥

– अ॰रा॰ १.६.९

   अत्र लोकाभिरामं श्रीरामं सुमित्रा­सुताभिरामं दृष्ट्वा योगिराजो जनको विश्वामित्रं पृच्छति यत् मे मनः­प्रीति­करौ एतौ कस्य सुतौ। अत्र मनसः प्रीति­करौ इति समासः। मनः­शब्दस्य हि मम­स्थानापन्न­मे­इति­शब्देन साकाङ्क्षता। कस्य मन इत्यपेक्षायां मे जनकस्य यन्मनस्तस्य प्रीतिकरौ। मे इति मनः­शब्दस्य विशेषणम्। इतरस्माद्व्यावर्तकत्वात्तत्र भाष्ये प्रतिपादितं सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषण­योगो न (भा॰पा॰सू॰ २.१.१)। अर्थाद्विशेषणवतः शब्दस्य विशेषणं विहाय पञ्चसु वृत्तिषु कृत्तद्धित­समासैक­शेष­सनाद्यन्त­धातु­रूपासु कतमाऽपि वृत्तिर्न भवति। यथा ऋद्धस्य राज्ञः पुरुषः इत्यत्र ऋद्धस्येति राज्ञ इत्यस्य विशेषणम्। एवं ऋद्धस्य इति पदं त्यक्त्वा राज्ञः इति शब्दस्य पुरुषः इति पदेन कथमपि न समासः।[७९] एवं राज्ञः इत्यस्य पुरुषः इत्यनेन समासे ऋद्धस्य इति विशेषणं कथमपि न योजयितुं शक्यते। तस्मात् मे इत्यस्य विशेषणतया जागरूकतायां मनः इत्यस्य प्रीति­करौ इति शब्देन कथं समासः। सापेक्षमसमर्थवत्‌ इति न्यायात्सामर्थ्य­विरहात् समर्थः पद­विधिः (पा॰सू॰ २.१.१) इति सूत्रस्य प्रसरण­गन्धोऽपि नेत्यपेक्षायामुच्यते। नित्य­सापेक्ष­स्थले नियमोऽयमपोद्यते। चैत्रस्य दास­भार्या इतिवत् देवदत्तस्य गुरु­कुलम्‌ इतिवच्च। मनसो व्यक्ति­विशेषेण नित्य­साकाङ्क्षतया व्यक्ताविव तन्निष्ठत्वादस्य नियमस्यापवादः। यद्वा मनः­प्रीति­करौ पृथक्समासः पश्चात् मे इत्यनेन सह पार्ष्ठिकोऽन्वय इति न विरोधः।

(३१) नोदितो मे

मखसंरक्षणार्थाय मयाऽऽनीतौ पितुः पुरात्।
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम्॥
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः।
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान्॥

– अ॰रा॰ १.६.११-१२

   विश्वामित्रो राम­पराक्रमं प्रशंसन् कथयति मे नोदितः शरेणैकेन श्रीरामस्ताटकां हतवान्‌। अत्र अहं राममनोदयम्‌ इति कर्तृ­वाच्यार्थे मया रामोऽनोद्यत इति कर्म­वाच्ये तस्मिन्नेव तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इति सूत्रानुसारं निष्ठा (पा॰सू॰ २.२.३६) इत्यनेन कर्मणि क्त­प्रत्ययेन कर्मण उक्तत्वादनुक्ते कर्तरि तृतीया­सम्भवात्[८०] मया नोदितः इत्येव वाच्यम्। मे इति तु सम्बन्ध­विवक्षायां कर्तरि षष्ठी। मत्सम्बन्धि­नोदनाश्रयो रामः इति तात्पर्यम्। यद्वा नोदनं नोदः। भावघञन्तः।[८१] स सञ्जातोऽस्य स नोदितः। मे इत्यस्य राघवः (अ॰रा॰ १.६.११) इत्यनेन सम्बन्धः। स च गुरु­शिष्य­भाव­मूलको भावना­पक्षे सेवक­सेव्य­भाव­मूलकश्चेति मीमांसायां तदस्य सञ्जातं तारकादिभ्य इतच्‌ (पा॰सू॰ ५.२.३६) इति सूत्रेणाऽकृति­गणतया तारकादि­गणे मत्वा नोद­शब्दात् इतच्‌­प्रत्यय एवं भत्वाट्टिलोपे[८२] नोदितः। प्रेरणावाल्लीँला­शक्त्या मे मम विश्वामित्रस्य शिष्य आराध्य इष्ट­देवः श्रीराम­चन्द्रस्ताटकामेकेनैव बाणेन हतवानिति पाणिनीयतयाऽर्थ­माधुर्यमपि समायातम्।

(३२) रामाय दर्शय

ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम्।
जनक उवाच
शीघ्रमानय विश्वेशचापं रामाय दर्शय॥

– अ॰रा॰ १.६.१८

   अत्र महर्षि­विश्वामित्रः श्रीराम­पराक्रम­परिचय­प्रस्तावनया जनकस्य हृदि श्रीरामस्य शैव­कोदण्ड­खण्डन­सामर्थ्य­विषयक­विश्वासं सबलमुत्पाद्य रामाय धनुर्दर्शय इत्यादिशति। अत्र रामाय इति चतुर्थी विचार­विषयः। वस्तुतस्तु रामश्चापं पश्यतु त्वं च प्रेरय इत्यर्थे हेतुमति च (पा॰सू॰ ३.१.२६) इत्यनेन ण्यन्त­दृश्‌­धातुर्ज्ञान­सामान्यार्थकः। एवं च गति­बुद्धि­प्रत्यवसानार्थ­शब्द­कर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२) इति सूत्रेणाण्यन्तः कर्तृ­भूतो रामोऽधुना ण्यन्तावस्थायां कर्म स्यात्। रामं दर्शय इत्येवाऽपातत उचितम्। पुनर्ण्यन्ते सति रामम्‌ इत्येव भवितव्यं रामाय इति कथं तदुपर्युच्यते। तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेनात्र चतुर्थी। रामार्थं धनुर्दर्शय इति तात्पर्यम्। तवानेन किमपि प्रयोजनं न सेत्स्यतीति व्यज्यते। यद्वाऽत्र सम्प्रदानस्य विवक्षा। अर्थादिदं रामाय सम्प्रदेहि स्व­स्वत्व­निवर्तनं कुरु। रामः सज्जीकृत्य त्रोटयेद्वा रक्षेद्वा। तव कोऽप्यधिकारो नापेक्षते। एतावत्कालं यावद्धनुः पूजितवानधुना धनुर्धरं पूजय समुद्रं प्राप्य नदीमिव धनुर्धरे ममतां कुरु धनुर्ममतां च त्यजेत्येव विश्वामित्र­तात्पर्यं प्रतिभाति। यद्वा रामाय दातुं धनुर्दर्शय इति गम्यमान­दान­क्रिया। तद्बलेन सुतरां चतुर्थी। यद्वा रामं परीक्षितुं धनुर्दर्शय इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा रामाय इति न चतुर्थ्यन्तमपि तु जनकस्य सम्बोधनमिदम्। विश्वामित्राद्रामं सगुणं ब्रह्म श्रुत्वा तमेवात्मना प्रविशन्तं समाधि­मग्नं श्रीराम­रूप­माधुरी­चोरित­हृदयं पावके द्रवीभूतं कनकमिव जनकं विलोक्य विश्वामित्रो रामाय इति शब्देन जनकं सम्बोधयति। अयँ गतौ (धा॰पा॰ ४७४) इति धातुः। गत्यर्थस्य ज्ञानार्थतया प्राप्त्यर्थतया च प्रसिद्धत्वात्[८३] रामं श्रीरामचन्द्रमयते गच्छति प्रविशति जानाति वा स रामायः इति विग्रहे कर्मण्यण्‌ (पा॰सू॰ ३.२.१) इत्यनेन अण्‌­प्रत्यये विभक्तिकार्ये रामायः। तत्सम्बुद्धौ हे रामायहे राम­तत्त्वज्ञअधुना विश्वस्तः सन्नहङ्कार­प्रतीकं तमःप्रतीकं वा शिव­धनुः श्रीरामं दर्शय। तस्मिन् सज्जीकृते सति यथा श्रीसीता­राम­विवाहो विलोक्येत।

(३३) दर्शयामास रामाय

दर्शयामास रामाय मन्त्री मन्त्रयतां वरः।
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम्॥

– अ॰रा॰ १.६.२३

   अत्रापि रामं दर्शयामास इति प्रयोक्तव्ये रामाय इति प्रायुङ्क्त। यतो ह्यत्र सम्प्रदानस्य विवक्षा। रामाय दातुं दर्शयामास इति तात्पर्यम्।[८४] यद्वा तादर्थ्ये चतुर्थी।[८५] रामार्थं दर्शयामास इति।[८६]

(३४) दीयते मे सुता

दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम।
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन्॥

– अ॰रा॰ १.६.५४

   अत्र मया दीयते इति प्रयोक्तव्ये मे दीयते इति प्रयुक्तम्। यतो ह्यत्र सम्बन्ध­विवक्षायां षष्ठी। स च सम्बन्धः पालक­पाल्य­रूपः। यद्वा मे इत्यस्य सुतया साकमन्वयः। मत्सम्बन्धिनी सुता तुभ्यं दीयते। इत्थमन्वय­विपरिणाम आपत्ति­निरासः।

(३५) वसिष्ठाय विश्वामित्राय

ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः।
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम्॥

– अ॰रा॰ १.६.५८

   अत्र वसिष्ठाय विश्वामित्राय चेति प्रयोगद्वयमपि द्वितीयायां प्रयोक्तव्यमासीत्किन्तु विवक्षाधीनानि कारकाणि भवन्ति[८७] इति नियममनुसृत्य चतुर्थी प्रयुक्ता। यद्वा वसिष्ठं विश्वामित्रञ्च तोषयितुम्‌ इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा स्व­सुतोदन्तम्‌ इत्यत्र रुचितम्‌ इत्यध्याहार्यम्। सीता­कथायाः सर्वेभ्योऽपि रुचितत्वौचित्यात्। अतः रुचितं स्व­सुतोदन्तम्‌। काभ्याम्। वसिष्ठाय विश्वामित्राय। द्वयोरेवर्षिवर्ययोर्नाम।[८८] कथम्। यतो हि द्वावपि वैदिकावृषी। वसिष्ठो राम­मन्त्रार्थ­तत्त्वज्ञो विश्वामित्रश्च सीता­मन्त्रार्थ­तत्त्ववित्। इत्थं राममन्त्रे स्थिता सीता सीतामन्त्रे च राघवः[८९] इति प्राचीनोक्तेरुभयोरपि वेद­मन्त्र­साक्षात्­कारित्वम्। विश्वामित्रस्तु साक्षाद्ब्रह्म­गायत्र्या ऋषिः सीतैव गायत्री­मन्त्रार्थः। वसिष्ठश्च महा­मृत्युञ्जय­मन्त्र­द्रष्टर्षिर्महा­मृत्युञ्जयश्च सीताराम­गुण­गान­परः। तथा हि –

त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्॥

– ऋ॰वे॰सं॰ ७.५९.१२

अस्यार्थः। तिस्रः कौसल्या­कैकेयी­सुमित्रा अरुन्धत्यहल्यानसूयाः कौसल्या­सुनयना­शबर्योऽम्बा यस्य स त्र्यम्बको रामचन्द्रः। तं सुगन्धिं सुरभि­युक्तं पुष्टिवर्धनमनुग्रह­वर्धन­कर्तारमुर्वारुकं दूर्वादलमिव श्यामलं श्रीरामचन्द्रं यजामहे यथा मृत्योर्मुक्षीय मुक्तो भवेयं माऽमृतादमृतान्मुक्तो न भवेयम्। यद्वा त्रीण्यम्बकानि सीता­लक्ष्मण­भरताख्यानि यस्य स त्र्यम्बको रामस्तं त्र्यम्बकं शेषं समानम्। अत एव द्वाभ्यां सीता­वृत्तं रोचेतैव। तस्मात् वसिष्ठाय विश्वामित्राय रुचितम्‌ इति वाक्ये रुच्यर्थानां प्रीयमाणः (पा॰सू॰ १.४.३३) इत्यनेन चतुर्थी।

॥ इति बालकाण्डीयप्रयोगाणां विमर्शः ॥

॥ अथायोध्याकाण्डीयप्रयोगाणां विमर्शः ॥

(३६) प्रतिज्ञा ते कृता

यदि राज्याभिसंसक्तो रावणं न हनिष्यसि।
प्रतिज्ञा ते कृता राम भूभारहरणाय वै॥

– अ॰रा॰ २.१.३४

   एष प्रयोगोऽयोध्या­काण्डस्य प्रथम­सर्गीयः। अत्र विविध­विद्या­विशारदो भगवान्नारदः श्रीराममभिगम्य कथयति यद्राज्य­लोभासक्तो रावणं न हनिष्यसि तदा ते कृता प्रतिज्ञा व्यर्था भविष्यति। त्वया कृता इति प्रयोक्तव्ये ते कृता इति प्रयुक्तम्। अत्र सम्बन्ध­विवक्षायां षष्ठी। यद्वा ते प्रतिज्ञा इत्यन्वये सम्बन्धे षष्ठी।

(३७) शृणु मे

शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित्।
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः॥

– अ॰रा॰ २.१.३६

   अत्र शृणु मत्‌ इति प्रयोक्तव्ये शृणु मे इति सम्बन्ध­विवक्षायां षष्ठी। यद्वा मे वाक्यं शृणु इत्यन्वये षष्ठी साधु। सा च सम्बन्ध­सामान्ये। सम्बन्ध­मीमांसायां न्याय­व्याकरणयोरीषदन्तरम्। नैयायिकाः सम्बन्धमेक­निष्ठं मन्यन्ते तदपि प्रतियोगित्व­समानाधिकरणेन व्यवस्थापयन्ति किन्तु वयं सम्बन्धं द्विष्ठं मन्यामहे। एवं सम्यग्बध्नाति प्रतियोग्यनुयोगिनौ यः स सम्बन्धः। अत एव सम्बन्धत्वं नाम सम्बन्धि­भिन्नत्वे सति द्विष्ठत्वे सति विशिष्ट­बुद्धि­नियामकतावच्छेदकत्वम्[९०] यथा राज­पुरुषः इत्यत्र स्व­स्वामि­भाव­रूपः सम्बन्धः स च राजनि पुरुषे चेति द्वयोस्तिष्ठति राज­पुरुषाभ्यां भिन्न एवं स्वस्वामि­भाव­सम्बन्धावच्छिन्न­राज­विशिष्टः पुरुषः इति विशिष्ट­बुद्धि­नियामकश्च। तस्माच्छक्ति­निर्णय­प्रसङ्गे को नाम शक्ति­पदार्थः इति जिज्ञासायां बोध­जनकता शक्तिः[९१] इति यत्प्राचीनानां मतं तदप्यनयैवापत्त्या खण्डित­प्रायम्। शक्तिर्हि शब्दार्थयोः सम्बन्धः। स च बोध­जनकत्व­रूपश्चेदसङ्गतः। यतो हि बोध­जनकता समवायतया शब्दमधितिष्ठति नार्थम्। सम्बन्धस्य द्विष्ठत्वं सकल­वैयाकरण­सम्मतं नोपपद्येत। तस्माद्वाच्य­वाचक­भावापर­पर्याया शक्तिः।[९२] स एव सम्बन्धो द्वावपि शब्दार्थावधितिष्ठति। सम्बन्धोऽयं तादात्म्य­मूलकः शब्दार्थयोः। तत्रापि तादात्म्ये मूलमितरेतराध्यासः। तादात्म्यं नामाद्वैत­वादि­वेदान्ति­दृष्ट्या तु तदभिन्नत्वे सति तद्भेदेन प्रतीयमानतावच्छेदकत्वम्। अस्मन्मते तद्भिन्नत्वे सति तदभेदेन प्रतीयमानतावच्छेदकत्वम्[९३] अद्वैत­वेदान्तिनोऽभेदं पारमार्थिकं मन्यन्ते वयञ्च तमौपचारिकं स्वीकुर्महे। इत्थं वैयाकरण­सिद्धान्तितः सम्बन्ध एव सूत्रकारैः शेष­शब्देन व्यवह्रियते। तथा च सूत्रं षष्ठी शेषे (पा॰सू॰ २.३.५०)। अत्र कौमुदी­कारो लिखति कारक­प्रातिपदिकार्थादि­व्यतिरिक्तः स्व­स्वामि­भावादि­सम्बन्धः शेषस्तत्र षष्ठी स्यात्‌ (वै॰सि॰कौ॰ ६०६)। भाष्य­कारास्तु कथयन्ति यत् एकशतं हि षष्ठ्यर्थाः (भा॰पा॰सू॰ १.१.४९)। तथाऽपि सम्बन्ध­सामान्ये षष्ठी प्रसिद्धा। कुत्रचित्तत्तत्कारकेष्वपि षष्ठी भवति तत्तत्सूत्र­विहित­षष्ठी। सामान्य­सम्बन्ध­षष्ठ्योर्बाह्यतस्तु न कोऽपि भेदः किन्तु शाब्द­बोधे वैलक्षण्यम्। तत्तल्लक्षणेष्वपि समासाद्यभावरूपं वैलक्षण्यमवगम्यत एव। यथा सम्बन्ध­षष्ठ्यां षष्ठी (पा॰सू॰ २.२.८) इति सूत्रेण तत्पुरुष­समासो भवति राज­पुरुषः इतिवत्। कृत्षष्ठ्यां च कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्‌ (वा॰ २.२.८) इति वार्त्तिकेन तत्पुरुष­समासो भवति इध्मप्रव्रश्चनः इतिवत्। परञ्च प्रतिपद­विहित­षष्ठ्यां समासं नैवेच्छन्ति भाष्यकारा यथा प्रतिपद­विधाना षष्ठी च न समस्यते (भा॰पा॰सू॰ २.२.८)।[९४] तस्मादत्रापादाने सम्बन्ध­विवक्षया षष्ठी। यद्वा मे वाक्यं श्रृणु इति योजनया वाच्य­वाचक­भाव­मूलिका षष्ठी।

(३८) तवाहितं कर्ता

को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा।
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः॥

– अ॰रा॰ २.३.९

   अत्र श्वोभावि­राम­राज्याभिषेक­सूचनादित्सया चक्रवर्ती दशरथः कोप­भवने शयानां कैकेयीं श्रुत्वा तामनुनयन् कथयति यद्भवत्याः कः अहितं कर्ता। अत्र कृ­धातोः (डुकृञ् करणे धा॰पा॰ १४७२) ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) इत्यनेन विहिते तृचि ततः कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कृतायां षष्ठ्याम् अहितस्य कर्ता इत्यनेन भवितव्यमासीत्। अहितं कर्ता इत्यापाततोऽपाणिनीयं लगति। परं तृन्नन्तमिदम्। अर्थात् तृन्‌ (पा॰सू॰ ३.२.१३५) इति सूत्रेण कृ­धातोस्तृन्। रपरत्वेन गुणे विभक्ति­कार्ये सौ ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) इत्यनेनानङि अप्तृन्तृच्स्वसृ­नप्तृ­नेष्टृ­त्वष्टृ­क्षत्तृ­होतृ­पोतृ­प्रशास्तॄणाम्‌ (पा॰सू॰ ६.४.११) इत्यनेन दीर्घे सुलोपे नलोपे चेति कर्ता[९५] एवं प्राप्तायां षष्ठ्यां न लोकाव्यय­निष्ठा­खलर्थ­तृनाम्‌ (पा॰सू॰ २.३.६९) इत्यनेन निषेधेऽनुक्तत्वाच्च कर्मणस्तत्रैव कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया विभक्तिः। यद्वा कर्ता इति तिङन्त­रूपं न कृदन्तम्। एवं हि कृ­धातोः अनद्यतने लुट्‌ (पा॰सू॰ ३.३.१५) इत्यनेन लुड्­लकारे तिप्तस्झि­सिप्थस्थ­मिब्वस्मस्ताताञ्झ­थासाथान्ध्वमिड्वहिमहिङ्‌ (पा॰सू॰ ३.४.७८) इत्यनेन प्रथम­पुरुषैकवचने तिप्‌­प्रत्यये स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) इत्यनेन तासि­प्रत्यये गुणे रपरत्वे लुटः प्रथमस्य डारौरसः (पा॰सू॰ २.४.८५) इत्यनेन डा आदेशे चुटू (पा॰सू॰ १.३.७) इत्यनेन डकारेत्सञ्ज्ञायां डित्त्वसामर्थ्यादभस्यापि टेर्लोपः (ल॰सि॰कौ॰ ३४३) इति नियमेन[९६] टि­लोपे कर्ता इति सिद्धम्।[९७] अतः कर्मणि द्वितीया निरुपद्रवा निर्भ्रान्ता।

(३९) मम

रामः प्राह न मे मातर्भोजनावसरः कृतः।
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः॥

– अ॰रा॰ २.४.४

   अत्र निउपसर्ग­पूर्वकाच्चयनार्थकचिञ्‌­धातोः (धा॰पा॰ १२५१) भूते कर्मणि क्तः। कर्मण्युक्ते सति तत्र प्रथमा किन्त्वनुक्ते कर्तरि तृतीया। अतः मया कालः निश्चितः इत्येव। मम कालः निश्चितः इति कथम्। कर्तरि सम्बन्ध­विवक्षया षष्ठी। यद्वा मम इत्यस्य कालः इत्यनेनान्वयः। तेन सम्बन्ध­सामान्ये षष्ठी। अर्थात्स्वयं कालातीतः सन् भक्त­वत्सलो राघवः कालमेव नियन्तारं मत्वा मातरं प्राह यदद्य मन्निरूपकः कालो दण्डकारण्य­गमनाय पित्रा निश्चितः। यद्वा निरुपसर्ग­चिञ्‌­धातोः नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन भावार्थे क्त­प्रत्ययः। ततश्च निश्चितमस्त्यस्मिन्‌ इति विग्रहे अर्शआदिभ्योऽच्‌ (पा॰सू॰ ५.२.१२७) इत्यनेन अच्‌­प्रत्ययः। अर्थाद्दण्डकारण्य­गमनाय कालोऽयं निश्चयवानिति राघवेन्द्रस्य तात्पर्यं प्रतिभाति। यद्वा निश्चिनोतीति निश्चितः इति विग्रहे कर्तर्येव क्त­प्रत्ययः।[९८] अर्थात्साम्प्रतमयं कालो मम विश्रामं न ह्यनुमन्यते। तस्मादाज्ञां देहि। यद्वा मम शब्दस्य दण्डकागमने इति शब्देनान्वयः।

(४०) शरीरम्‌

प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत्।
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो॥

– अ॰रा॰ २.४.२८

   अत्र श्रीरामचन्द्रः क्रुद्धं लक्ष्मणं सान्त्वयन्नुपदिशति यत्काम­क्रोधादयः षट्सपत्नाः शरीरं प्रहरन्ति। शरीरे प्रहरन्ति इति प्रयोक्तव्ये शरीरम्‌ इति प्रयुक्तम्। शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा (प्र॰ना॰ १.१२) इति प्रतिमानाटके प्रयुक्तत्वात्प्रहारस्याधार­तयाऽधिकरणत्वं परित्यज्य कर्मत्वमुक्तमिति चेत्। कथ्यते। शरीरमवलोक्य प्रहरन्ति इति व्याख्यायताम्।[९९] न चास्मिन् व्याख्याने ल्यब्लोपे कर्मण्यधिकरणे च (वा॰ २.३.२८) इत्यनेन पञ्चम्याशङ्क्या। तदा शरीरं लक्षयन्तः शरीरं घातयन्तो वा प्रहरन्ति[१००] यद्वा परौ भुवोऽवज्ञाने (पा॰सू॰ ३.३.५५) इत्यत्रावज्ञान­ग्रहणेन धातोरनेकार्थत्वं सूच्यते। यतो हि परि­पूर्वकस्य भू­धातोः (भू सत्तायाम् धा॰पा॰ १) निष्पन्नः परिभव­शब्दोऽपमान­सूचकः। अपमानं ह्यवज्ञानम्। अनादरः परिभवः परीभावस्तिरस्क्रिया (अ॰को॰ १.७.२२) इति कोष­प्रामाण्यात्। परि­पूर्वक­भू­धातोर्निसर्गतोऽप­मानार्थे सिद्धेऽवज्ञानार्थ एवं प्रत्यय­विधानेनावज्ञान­ग्रहणं व्यर्थम्। तदेव व्यर्थं सज्ज्ञापयति यत् अनेकार्था हि धातवः। तेनात्रावज्ञान­ग्रहणं चरितार्थं ज्ञापकञ्च। तदेव परं यत् स्वांशे चरितार्थं वचन­सिद्धिः फलमन्यत्र इति नियमेनावज्ञान­ग्रहणं स्वांशे चरितार्थमन्यस्मिन्नर्थे प्रत्यय­व्यावर्तकत्वात् अनेकार्था हि धातवः इति वचन­सिद्धिः परिभाव्य इत्यादौ सत्क्रिया­रूपं फलम्।[१०१] तथैवात्रापि प्र­पूर्वस्य हृ­धातोः (हृञ् हरणे धा॰पा॰ ८९९) हनन­रूपोऽर्थः। यद्यपि प्रहार­शब्दस्य सामान्यतो हिंसार्थ­शस्त्रादि­प्रक्षेपक­रूपोऽर्थः स्वीक्रियते। प्रक्षेपणञ्च कस्मिंश्चिदाधारे सम्भवात्प्रक्षिप्त­वस्तु­संयोगाश्रयतयौपश्लेषिक आधारो जागरूकतामापद्यते। अतो मनन्ति प्राचीनाः –

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
प्रहाराहारसंहारविहारपरिहारवत्॥

   तथाऽप्यत्र लक्ष्यानुरोधेन प्रहार­शब्दस्य हननार्थ­स्वीकारे तत्कर्मतया शरीरम्‌ इत्यत्र द्वितीया। यद्वाऽधिकरणेऽविवक्षिते सति अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्म। न च परिगणित­षोडश­धातुभ्योऽतिरिक्तस्य कथं कर्मतेति चेत् तथा स्यान्नीहृकृष्वहाम्‌ (वै॰सि॰कौ॰ ५३९) इत्युत्तरार्धे हृ­धातोरपि गणनात्। ननु प्र­पूर्वस्य हृ­धातोर्धात्वन्तरतया न सङ्ग्रहो भविष्यति। उपसर्ग­संयोजनेन धातुर्न परिवर्तते। यथा नील­वस्त्र­धरस्य बालकस्य कदाचिच्छ्वेत­वस्त्र­धारणेऽपि नैव परिवर्तनं लोके। न हि शास्त्रं लोकाद्भिद्यते (भा॰पा॰सू॰ १.१.३, ४.१.९३) इति महा­भाष्य­वचनाल्लोक­मतमप्यादर्तव्यम्। न च प्र­उपसर्ग­संयोजनेन धातोरर्थान्तरं तथा च अर्थ­निबन्धनेयं सञ्ज्ञा (वै॰सि॰कौ॰ ५३९) इति वचनेन हृधात्वर्थाभावान्न कर्म­संज्ञेति वाच्यम्। प्रापण­रूपस्यैवार्थस्य हृ­धातोर्वास्तविकत्वमिति नैव राजाज्ञा। धातोरनेकार्थकत्वस्यानुपदमेव निरूपितत्वात्। प्रायो धातूनामर्था भवन्त्युपसर्गास्तु केवलं प्रस्फोटयन्ति। निपाता द्योतका वाचका वेति पश्चाद्वक्ष्यते। यथा भू­धातोः (भू सत्तायाम् धा॰पा॰ १) अनुभव­रूपोऽर्थः शाश्वतः। अनुरुपसर्गो द्योतयति तद्यथा अनुभवति इत्यादि। अत एवात्र हननार्थतया शरीरं कर्म। ततो द्वितीया।

(४१) तव

अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि।
इत्याह मां विना गन्तुं तव राघव नोचितम्॥

– अ॰रा॰ २.४.६३

   अत्र भगवती सीता श्रीरामं प्रार्थयमानाऽनुनयन्ती ब्रवीति हे राघव मां विना तव गन्तुं न उचितम्‌। अत्र त्वया इति प्रयोक्तव्ये तव इति प्रयुक्तम्। अत्र कर्तृ­शेषत्व­विवक्षायां षष्ठी। यद्वा उचित­शब्देन सहान्वयात्सम्बन्ध­षष्ठी। यद्वा भावे तुमुन्‌ (भा॰पा॰सू॰ ३.३.१०, ३.४.९)। ततः कर्तुरनुक्तत्वादनुक्ते कर्तरि कर्तृ­कर्मणोः कृति (पा॰सू॰ २.३.६५) इति षष्ठी। यद्वा तव कृते इत्यध्याहार्यम्। अतः षष्ठ्युचिता।

(४२) श्रुतानि बहुभिर्द्विजैः

अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम्।
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः॥

– अ॰रा॰ २.४.७७

   वन­गमनायानुरोधं कुर्वती भगवती सीता कथयति यत् द्विजैर्बहूनि रामायणानि श्रुतानि। अत्र शब्दानां पृथग्भवनतः ध्रुवमपायेऽपादानम्‌ (पा॰सू॰ १.४.२४) इत्यनेनापादान­सञ्ज्ञा स्यात्। यतो हि अपायो विश्लेषस्तस्मिन्साध्ये यद्ध्रुवमवधि­भूतं कारकं तदपादान­सञ्ज्ञं स्यात्‌ (ल॰सि॰कौ॰ ८९९) इत्यर्थः। तदनु विश्लिष्ट­रामायणात्मक­शब्द­समूहस्यावधिभूत­द्विजानामपादान­सञ्ज्ञा। ततश्च अपादाने पञ्चमी (पा॰सू॰ २.३.२८) इत्यनेन पञ्चमी विभक्तिः। एवं द्विजेभ्यः इत्युचितं कथं द्विजैः इति। अत्रोच्यते। अत्र करणत्व­विवक्षा। एवं करण­तृतीया। यद्वा हेतुत्व­विवक्षायां हेतौ (पा॰सू॰ २.३.२३) इत्यनेन तृतीया। यद्वा कथितानि निगदितानि इत्यध्याहार्यम्। एवं द्विजैः कथितानि निगदितानि वा रामायणानि श्रुतानि इत्यनुक्ते कर्तरि तृतीया। यद्वा भवता तु श्रुतान्येव किन्तु द्विजैरपि श्रुतानि। अतो रामायणस्य श्रवणस्य द्विजेषु कर्तृत्वम्। तात्पर्यमिदं यद्भवतश्चरित्रं श्लाघा­विपर्ययतः कदाचिद्भवान्न शृणोति किन्तु संस्कार­शीला द्विजा बहुशः शृण्वन्त्यश्रौषुश्च। शुद्ध­संस्कारतया ते न विस्मरन्ति। तेषां वाक्यस्य प्रामाण्यं भवानपि मन्यतेऽतस्तान् पृच्छतु यत्कस्मिंश्चिद्रामायणे कस्मिंश्चिद्वा कल्पे भवान्मां विना वनमगच्छत्। श्रीसीताया हार्दमिदं यद्यद्यपि प्रतिकल्पं भवानवतरति मया सह तेषु तेषु कल्पेषु भिन्नानि भिन्नानि चरित्राणि समाचरति भवानतश्च तच्चारु­चारु­चरित्र­प्रतिपादन­परतया सहस्त्रशो रामायणानि व्याचक्षत मुनीन्द्राः। सत्सु प्रति­रामायणे भिन्नेषु भवच्चरित्रेषु जन्म­लीला विवाह­लीला वन­लीला रण­लीला राज्य­लीलाश्च सर्वत्र समाना एव। तत्र वन­लीलायां मया सह भवद्वन­गमनं सर्वैरपि रामायणैरनु­मोदितं श्रुतवन्तो द्विजास्तत्र प्रमाणम्। अतो द्विजैः इत्यनुक्त­कर्तरि तृतीया।

(४३) सजानकिम्‌

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकिम्।
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम्॥

– अ॰रा॰ २.५.१

   जानक्या सह वर्तमानं रामम्‌ इति विग्रहे तेन सहेति तुल्य­योगे (पा॰सू॰ २.२.२८) इत्यनेन समासे सहस्य सादेशे[१०२] अमि च सजानकीम्‌ इत्येव।[१०३] ह्रस्वः कथम्। जानकीवाऽचरति जानकयति[१०४] जानकयतीति जानकिः इति विग्रहे कर्तरि क्विप्। पृषोदरादित्वाद्ध्रस्वः। ततः समासे सजानकिम्‌ इति। यद्वा जानक्या सह वर्तमानम्‌ इति विग्रहेऽपि गोस्त्रियोरुप­सर्जनस्य (पा॰सू॰ १.२.४८) इत्यनेन ह्रस्वः।[१०५] अनित्यत्वाच्च न कप्प्रत्ययः।[१०६]

(४४) वनम्‌

गन्ताऽद्यैव वनं रामो लक्ष्मणेन सहायवान्।
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी॥

– अ॰रा॰ २.५.२३

   एष प्रयोगोऽध्यात्म­रामायणस्यायोध्या­काण्डे पञ्चमसर्गीयः। अत्र सीता­लक्ष्मणाभ्यां सह दण्डकावनं गच्छन्तं श्रीरामं विलोक्य शोक­सन्तप्त­हृदयान् विषाद­जलधौ निमज्जतः कोशल­पुर­वासिनो निरीक्ष्य भगवान् वामदेव आध्यात्मिक­श्रीराम­तत्त्व­वर्णन­माध्यमेन सर्वेषां शोकापनोदाय यतमानो ब्रवीति यत् लक्ष्मणेन सह श्रीरामोऽद्यैव वनं गन्ता। अत्र गन्ता इति तृजन्त­प्रयोगः। गम्‌धातोः (गमॢँ गतौ धा.पा. ९८२) गच्छतीति गन्ता इति विग्रहे तृच्‌प्रत्यये[१०७] नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) इत्यनेनानुस्वारे अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) इत्यनेन परसवर्णे नकारे विभक्ति­कार्ये सौ प्रत्यये ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) इत्यनेन अनङि अप्तृन्तृच्स्वसृ­नप्तृ­नेष्टृ­त्वष्टृ­क्षत्तृ­होतृ­पोतृ­प्रशास्तॄणाम्‌ (पा॰सू॰ ६.४.११) इत्यनेन दीर्घे सुलोप­नलोपयोः[१०८] गन्ता इति सिध्यति। वनम्‌ इत्यत्र कर्तृ­कर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठ्युचिता। परञ्चात्र न तृच्‌ अपि तु तृन्‌[१०९] तृन्तृचोः स्वरभेदः।[११०] तृन्प्रत्ययेऽपि कर्तृ­कर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठी प्राप्ता किन्तु न लोकाव्यय­निष्ठा­खलर्थ­तृनाम्‌ (पा॰सू॰ २.३.६९) इत्यनेन षष्ठीनिषेधः। यद्वा गन्ता इति लुट्प्रथम­पुरुषैक­वचनान्तं तिङन्त­रूपम्। अतस्तद्योगे कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इत्यनेन कर्मसञ्ज्ञा कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया। अनद्यतनत्वस्य चाविवक्षा।[१११]

(४५) रामसीतयोः

य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः।
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका॥

– अ॰रा॰ २.५.३१

   भगवान् वामदेवः श्रीरामचन्द्रं वल्कल­धारिणं वनं प्रयान्तं दृष्ट्वा शोक­कलित­मनस्कानयोध्या­वासिनः श्रीरामस्याऽध्यात्मिक­तत्त्वं बोधयित्वा फल­श्रुतिं श्रावयन्नाह रहस्यं राम­सीतयोः इति। यो मानवो मयोदितं राम­सीतयो रहस्यं चिन्तयिष्यति स निष्पापो भविष्यति। रामश्च सीतेति रामसीते तयोः इति द्वन्द्वः। विप्रतिपत्तिर्यत् सीता­रामयोः इत्यनेन भवितव्यं यथा तुलसीदासोऽपि प्रयुङ्क्ते सीता­राम­गुण­ग्राम­पुण्यारण्य­विहारिणौ (रा॰च॰मा॰ १/म॰ १.४)। सीता ह्यस्माकं जनन्यतः श्रीरामापेक्षयाऽभ्यर्हितैवं तस्या एव पूर्व­प्रयोगो भवेत्।[११२] उक्तञ्च स्मृतौ –

पितुर्दशगुणा माता गौरवेणातिरिच्यते।
मातुर्दशगुणा मान्या विमाता धर्मभीरुणा॥
[११३]

वाल्मीकीय­रामायणे बङ्ग­संस्करणे चापि जननी जन्मभूमिश्च स्वर्गादपि गरीयसी[११४] प्रसिद्धं चापि गौरी­शङ्करौ लक्ष्मी­नारायणौ शची­पुरन्दरौ सीता­रामौ राधा­कृष्णौ इत्याद्यत्रेयमेवापाणिनीयता प्रतिभाति। आर्षत्वात्‌ इत्यपि न विचार्यताम्। ऐश्वर्य­दृष्ट्या सीता सर्वेषां जननी। मुनिरत्र वामदेवो दशरथ­पुरोहितो गुरु­पुत्रो मन्त्री च। अयोध्यायाः सीता पुत्र­वधूरिति। श्वशुरालये स्त्रियः प्राधान्यं वा श्रैष्ठ्यत्वं वा नाङ्गीक्रियते शास्त्रीय­संस्कृतौ पत्न्याः पतिं प्रति दासीभाव­व्यवस्थापनात्। अतो वामदेव­दृष्टावयोध्या­निवास­कारणाच्छ्रीरामोऽभ्यर्हितः। अतः रामश्च सीता चेति तयो रामसीतयोः इति प्रयुक्तम्। यद्वा सिनोति बध्नातिप्रेम्णा सिनोति सीतां यः स सीतः[११५] सीता च सीतश्च इति विग्रहे पुमान् स्त्रिया (पा॰सू॰ १.२.६७) इत्यनेनैक­शेषः सीतौरमयत इति रामौ[११६] रामौ च तौ सीतौ चेति राम­सीतौ तयो राम­सीतयोः इति। यद्वा पूर्व­निपात­प्रकरणमनित्यम्। लक्षण­हेत्वोः क्रियायाः (पा॰सू॰ ३.२.१२६) इति दर्शनात्।[११७]

(४६) मे

गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे।
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम॥

– अ॰रा॰ २.५.६७

   अयोध्यातः प्रतिष्ठमानः सीता­लक्ष्मण­समेतः श्रीरामो निषादेन सह गतः। तदनु फल­मूलानि श्रीरामाय निषादो न्यवेदयत यत् मे सञ्चितानि फलमूलानि गृहाण। अत्र सञ्चयनानुकूल­व्यापारस्याऽश्रयः कर्ता निषादः प्रत्ययश्चात्र कर्मणि। अतः कर्तुरनुक्तत्वादत्र तृतीयया भवितव्यं[११८] किन्तु कर्तुः सम्बन्ध­विवक्षायां षष्ठी। यद्वा क्तस्य च वर्तमाने (पा॰सू॰ २.३.६८) इति सूत्रेण क्तयोगा षष्ठी।[११९] यद्वा मे इति फलमूलैः सहान्वितम्। तेन मत्सम्बन्धीनि फल­मूलानि गृहाण इति सामान्य­सम्बन्धेन षष्ठी। यद्वा मे इति अनुगृह्णीष्व इत्यनेनान्वितम्। मे ममोपर्यनुगृह्णीष्वानुग्रहं कुरुष्व इति तात्पर्यम्।

(४७) आरुह्यतां नौकाम्‌

स्वयमेव दृढं नावमानिनाय सुलक्षणाम्।
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च॥

– अ॰रा॰ २.६.१८

   गङ्गा­पारं गन्तुकामं रामं राजीव­लोचनं स्वामिनम् आरुह्यतां नौकाम्‌ इत्युवाच निनाय नावं निषादः। अत्र आरुह्यताम्‌ इति कर्म­वाच्य­प्रयोगः।

कर्मवाच्यप्रयोगेषु प्रथमा कर्मकारके।
तृतीयान्तो भवेत्कर्ता कर्माधीनं क्रियापदम्॥

– अस्मद्गुरुचरणाः

इति नियमानुसारमत्र आरुह्यताम्‌ इति कर्म­वाच्य­प्रयोगः। अत्र नौका इति कर्म। एवमत्र प्रथमा­विभक्त्या भवितव्यम् आरुह्यतां नौका इत्येव आरुह्यतां नौकाम्‌ इत्यार्ष­प्रयोगः प्रतिभाति। कारणमिदं यद्यस्मिन्नर्थे प्रत्ययो भवति स उक्तः। लकाराः प्रायस्त्रिषु कर्तरि कर्मणि भावे च भवन्ति। तत्र सूत्रम् लः कर्मणि च भावे चाकर्मकेभ्यः (पा॰सू॰ ३.४.६९) इति। अकर्मकेभ्यो धातुभ्यः कर्तरि भावे चैवं सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च लकारा भवन्त्विति। अत्राऽशङ्क्यते यत् भाव­कर्मणोः (पा॰सू॰ १.३.१३) इत्यस्मात्सूत्राद्भाव­कर्मणोर्ज्ञाने कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यस्मात् कर्तृ­पदस्यावगतौ भावे कर्तरि कर्मणि लकाराः स्युरिति द्वाभ्यां सूत्राभ्यामुपात्तं[१२०] किमनेन सूत्रारम्भेण इति चेन्न। सूत्राभावे सकर्मकेभ्यो धातुभ्यो लकारा भावेऽपि भविष्यन्ति प्रतिरोधकाभावात्। एवं घटं क्रियते इत्यनिष्ट­प्रयोगः स्यात्। अकर्मकेभ्यश्च धातुभ्यः कर्मणि लकारा भविष्यन्ति। तदर्थं सूत्रारम्भ आवश्यकः। न च अकर्मकेभ्यो भावे लः इत्येव न्यासोऽस्तु। एतन्न्यासे असति बाधके सर्वं वाक्यं सावधारणं भवति[१२१] इति न्यायेन अकर्मकेभ्यो भाव एव लः इति नियमे जातेऽकर्मकेभ्यो भाव एव लकारा भविष्यन्ति न कर्तरि। तदा रामः शेते इत्यादि­प्रयोगा न भविष्यन्ति रामेण क्रीड्यते इत्यादयो भाव­प्रयोगा एव सेत्स्यन्ति। एव­कारस्य त्रिधाऽर्थोऽस्मत्सम्प्रदाये प्रसिद्धोऽन्ययोग­व्यवच्छेदोऽयोग­व्यवच्छेदोऽत्यन्तायोग­व्यवच्छेदश्च। अन्य­योग­व्यवच्छेदो नामान्य­सम्बन्धि­योग­निवर्तकत्वम्। अयोग­व्यवच्छेदो नाम योगाभाव­निवर्तनम्। अत्यन्तायोग­व्यवच्छेदो नाम योगत्वावच्छिन्ने प्रतियोगितावच्छेदकाभाव­व्यावर्तकत्वम्। यत्र विशेषण­सङ्गत एवकारो भवति तत्रान्य­योगो व्यवच्छिद्यते यथा नीलमेवोत्पलम्‌ अत्र नीलत्व­प्रतिष्ठापनेन श्वेतत्वादीनां व्यवच्छेदः। विशेष्य­सङ्गत एव­कारे सत्ययोगो व्यवच्छिद्यते यथा दाशरथी राम एव सर्वावतारि­ब्रह्म। अत्यन्तायोगो व्यावर्त्यते क्रिया­सङ्गतेनैव­कारेण यथा दाशरथी रामः शराणागतान् रक्षत्येव। इत्थम् अकर्मकेभ्यो भाव एव लकारः इत्येव­कारेण कर्ता व्यवच्छिद्यते तथा रामो राजते मुकुन्दः इत्यादयः प्रयोगा न भविष्यन्ति। लो भावे चाकर्मकेभ्यो इति सूत्र्यतां चकारेण कर्ताऽऽगमिष्यति पुनर्द्वितीय­चकारस्य किं प्रयोजनमिति चेत्सत्यम्। तथा सत्यकर्मकेभ्य एव कर्तरि प्रयोगो भविष्यति। एवम् आरामे रमते रामः इत्यादय एव प्रयोगाः सेत्स्यन्ति। एवं सकर्मक­धातोः कर्तरि प्रयोगो नैव सम्पत्स्यते। तथा सति लश्च भावे चाकर्मकेभ्यः न्यासो भवतु। द्वितीय­चकारेण सकर्मकेभ्योऽपि कर्तरि लकारो भविष्यति पुनः कर्मणि इति पदस्य काऽऽवश्यकता इति चेत्। कर्मणि पदाभावे रामो रावणं हन्ति इत्यादय एव प्रयोगाः सम्पत्स्यन्ते तथा च रामेण रावणो हन्यते इत्यादयः प्रयोगा न निष्पत्स्यन्ते। न च यथा द्वितीय­चकारेण कर्तरि इत्यस्यानुकर्षणं[१२२] तथैव कर्मणि इत्यस्य[१२३] कथं नेति चेत् कर्मणि इत्यस्य पुनर्वैयर्थ्यं सत्यम्। उत्तर­सूत्रेऽनुवृत्त्यर्थमिदम्। न च सकर्मकेभ्यः कर्तरि कर्मणि च लकाराः इति कुत आयातं सूत्रे। अकर्मकेभ्यो भावे लकारविधानात् कर्मणि इति पद­ग्रहणेन तत्र लकारस्य प्राप्तत्वात्कर्मणश्चाकर्मक­धातुष्वसम्भवात् सकर्मकेभ्यः इत्यस्य सुतरां लाभः। नास्ति कर्म येषां त अकर्मकाः कर्मणा सहिताः सकर्मकाः। यत्र फलव्यापारौ द्वावपि धातु­वाच्यावेकस्मिन्नधिकरणे तिष्ठतः स एवाकर्मको यत्र च फल­व्यापारौ धात्वर्थौ विरुद्धमधिकरणमधि­तिष्ठतस्तत्रैव सकर्मकत्वम्। यद्यपि प्राचीना बालोपलालनार्थमिमां कारिकामपाठिषुर्यत् –

लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम्।
शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥
[१२४]

इति। किन्त्विदं न्यूनम्। रामः पश्यति, रावणो माद्यति, लक्ष्मणः परिश्राम्यति, रामो हसति इत्यादीनामसङ्ग्रहात्। अतो व्यवस्थितं लक्षणम् स्वार्थ­व्यापार­समानाधिकरण­फल­वाचकत्वमकर्मकत्वम्‌ इति। कर्म­वाच्ये कर्मणि लकारे नौका आरुह्यताम्‌ इत्येव वरमुक्ते कर्मणि प्रथमानियमादिति चेदुच्यते। आरुह्यताम्‌ इत्यविवक्षित­कर्माकर्मक­धातु­प्रयोगः। नौकां दृष्ट्वा आरुह्यताम्‌ यद्वा नौकां सनाथयिष्यताऽऽरुह्यतां भवता इति तात्पर्यम्। यद्वा आरुह्य इति ल्यबन्तः प्रयोगः तां नौकां आरुह्य स्वामिन् पारं व्रज इति निदर्शयत्यन्यथा स्वामिन्‌ इति कथयित्वा कर्तृ­सम्बोधनं पुनः आरुह्यताम्‌ इति कर्म­वाच्यं कथं प्रयुञ्जीत। न च स्वामिन्। भवता आरुह्यताम् इति चेत्। सम्भवत्येक­वाक्यत्वे वाक्य­भेदो न युज्यते (श्लो॰वा॰ १.९) इति वचन­बलेन निरर्थक­वाक्य­भेदस्यानौचित्यात् स्वामिन्‌ इति शब्देन सह ल्यबन्त­प्रयोगमेव रोचयामहे। तद्योगे च तां नौकाम्‌ इति कर्मणि द्वितीया साध्वी। यद्वा आरोहणमित्यारुट्‌ इति विग्रहे आङ्‌­पूर्वक­रुह्‌­धातोः (रुहँ बीजजन्मनि प्रादुर्भावे च धा॰पा॰ ८५९) क्विप्‌।[१२५] ततः सुप आत्मनः क्यच्‌ (पा॰सू॰ ३.१.८) इत्यनेन आत्मन आरुहमिच्छति इति विग्रहे आरुह्यतिसनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) इत्यनेन धातु­सञ्ज्ञायां तस्यैव लोड्लकार­प्रथम­पुरुषैक­वचनान्तं रूपम् आरुह्य अतो द्वितीया। यद्वाऽऽकृति­गणत्वात् आङ्‌­पूर्वको रुह्‌­धातुर्दिवादि­गणे पठ्यताम्।[१२६] तथा च धातु­सञ्ज्ञायां लड्लकारे तिप्प्रत्यये दिवादिभ्यः श्यन्‌ (पा॰सू॰ ३.१.६९) इत्यनेन श्यन्‌ विकरणेऽनुबन्ध­कार्ये आरुह्यति इति रूपं भवति[१२७] तस्यैव लोड्लकारे प्रथम­पुरुषैक­वचने रूपम् आरुह्य इति।[१२८] यद्वाऽत्र कर्तरि कर्म­व्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनात्मने­पदम्।[१२९] एवं लोड्लकारे प्रथम­पुरुषैक­वचने ­प्रत्यये टित आत्मने­पदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेनैत्वे आमेतः (पा॰सू॰ ३.४.९०) इत्यनेन आम्‌ आदेशे आरुह्यताम्‌[१३०] स्वामिन् भवान् नौकाम् आरुह्यताम्‌ इत्यनुक्ते कर्मणि द्वितीया।

(४८) बहिर्वनस्य

रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः।
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ॥

– अ॰रा॰ २.६.३०

   नौकया जाह्नवीमवतीर्य सौमित्रि­सीतानुचरः पद­चरः श्रीरामो भरद्वाज­चरण­कमलं दिदृक्षुर्दृष्टिं पातयन् भरद्वाज­शिष्यं प्रत्यात्मनो दर्शनेच्छां भारद्वाजाय ज्ञापयन् ब्रूते यत्सीता­लक्ष्मण­सहायो रामो भवद्दर्शनं चिकीर्षन् बहिर्वनस्य तिष्ठन् प्रतीक्षत इति। तत्रैव बहिर्वनस्य इति प्रयोगं करोति। बहिर्योगे पञ्चमीति अपपरिबहिरञ्चवः पञ्चम्या (पा॰सू॰ २.१.१२) इति सूत्रेण ज्ञापिता। अत्र पञ्चमी प्रयोक्तव्याऽऽसीत्किन्तु षष्ठी प्रयुक्ता। किमिदमार्षम्। वस्तुतस्त्विदमपि पाणिनीयम्। आस्ते बहिर्वनस्य इत्यत्र वनस्य बहिःप्रदेश आस्ते इति योजनीयम्। इत्थं चावयवावयवि­भाव­सम्बन्धमूलिका षष्ठी। यद्वा बहिर्योगे पञ्चमी इति वचनं ज्ञापक­मूलकम्। यतो हि अपपरिबहिरञ्चवः पञ्चम्या (पा॰सू॰ २.१.१२) इति समास­विधायकेन सूत्रेण बहिः शब्दस्य पञ्चम्यन्त­प्रादिपदिकेन समासो ज्ञाप्यते। वनाद्बहिरिति बहिर्वनम्‌। तेनैव बहिर्योगे पञ्चमी ज्ञापिता। यदि बहिर्योगे पञ्चमी न स्यात्तर्हि तत्र योगे समास­विधानमपि न स्याद्यतः समास­विधानं ततः पञ्चमीत्यन्वय­व्यतिरेकाभ्यां बहिर्योगे पञ्चमी साधिता। ज्ञापक­सिद्धं न सर्वत्र[१३१] इति नियमेन नियमोऽयं ज्ञापक­सिद्धतया न सार्वत्रिकः।[१३२] अतः षष्ठी। यद्वा विवक्षाधीनानि कारकाणि भवन्ति[१३३] इति नियमेन षष्ठी। यद्वा पञ्चम्या सह बहिःशब्दस्य समासो ज्ञापितः। किन्तु बहिर्योगे पञ्चम्येव भवतु इति नेतरा विभक्तयो निषिद्धाः। केवलं बहिः­शब्दस्येतर­विभक्त्यन्त­योग­समास एव नियन्त्रितस्तस्मादर्थानुरोधेनात्र षष्ठी साधीयसी। पञ्चम्यां सत्यां समासाग्रहो गले पतितः षष्ठ्यां तु समास आग्रहो नास्ति। इयान् विशेषः।

(४९) भरद्वाजाय मुनये

सभार्यः सानुजः श्रीमानाह मां देवसन्निभः।
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम्॥

– अ॰रा॰ २.६.३२

   अत्र स्वकीयं सन्देश­प्रकारं तन्वन् श्रीरामो ब्रवीति भरद्वाजाय मुनये ज्ञापयस्व। अत्र भरद्वाजो जानातु त्वं प्रेरय इत्यर्थे भरद्वाजं ज्ञापयस्व। यतो ह्यण्यन्तावस्थायाः कर्ता ण्यन्ते कर्म भवति। तथा च सूत्रं गति­बुद्धि­प्रत्यवसानार्थ­शब्दकर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२)। अत्र ज्ञा­धातुः (ज्ञा अवबोधने धा॰पा॰ १५०७) बुद्ध्यर्थस्तस्याण्यन्तावस्थायां कर्ता भरद्वाज इति सम्प्रति ण्यन्तावस्थायां कर्म भवत्वित्येव पाणिनीयम्। परमत्र चतुर्थ्यपि पाणिनीयैव। भरद्वाजाय मुनय आनन्दं दातुं ज्ञापयस्व इति दा­धातु­योगे (डुदाञ् दाने धा॰पा॰ १०९१) चतुर्थी।[१३४] यद्वा भरद्वाजाय मुनये रुचितं ज्ञापयस्व इति रुचित­पदाध्याहारे रुच्यर्थानां प्रीयमाणः (पा॰सू॰ १.४.३३) इत्यनेन सम्प्रदान­सञ्ज्ञा ततश्चतुर्थी। यद्वा भरद्वाजं मुनिं हर्षयितुं ज्ञापयस्व इत्यप्रयुज्यमान­तुमुन्­कर्मणि चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।

(५०) सीतया लक्ष्म