Śrībhārgavarāghavīyam Home
Contents Foreword >>

श्रीभार्गवराघवीये – नान्दीवाक्

– अभिराजराजेन्द्रमिश्राः (त्रिवेणीकवयः)

  इदानीमेव सङ्कलय्य प्रकाशिते स्वोपज्ञे विंशशताब्दी­संस्कृत­ग्रन्थ­सूचीपत्रे (Catalogue of the Twentieth Century Sanskrit Creative Works) मया संस्कृत­महाकाव्यानां १९०१ तः २००० तमावधि­प्रणीतानां काऽपि बृहती विस्मयकारिणी च सूची सम्प्रस्तुता सहृदयानां परितोषाय। तत्र विंश­शताब्द्याश्चरम­महाकाव्य­कृतिर्वर्तते महाकवि­श्रीरामभद्राचार्य­प्रणीता श्रीभार्गव­राघवीयाभिधाना। अस्याः प्रशस्ताया महाकाव्य­सृष्टेः त्वरित­प्रकाशनाय मयैव प्रयतितमासीत्।
  अत एव रचनाया द्विसहस्र­तमख्रिस्ताब्द एव प्रकाशनोपक्रमे ममासीद्द्रढीयान् विश्वासः। परन्तु स्वचिन्तितं क्व तिष्ठति निष्प्रत्यवायम्। सैव महीयसी महाकाव्य­कृतिरिदानीं द्व्युत्तर­द्विसहस्रतमे ख्रैस्तेऽब्दे प्रकाश्यते।
  श्रीभार्गवराघवीयाभिधमिदं सकल­साहिती­सद्गुण­निकषभूतं महाकाव्यं प्रतिभा­पटिष्ठैर्हृद्यानवद्य­कविकर्म­नदीष्णैः श्रीचित्रकूटस्थ­रामानन्दाचार्य­पीठाधिपतिभिस्तुलसी­पीठस्थैः परम­समर्चनीयैः श्रीमद्रामभद्राचार्य­पादैः प्रणीतं संस्कृत­रामगाथा­परम्परायाः प्रत्यग्रतमं सारस्वत­पुष्पमिति सप्रणयं संसूचयन्नहं निश्चप्रचमान्तराह्लादस्य परां काष्ठामुपैमि। अनेन महाकाव्येनाचिरोप­जातेन चरितार्थतां भजते भगवन्तं प्राचेतसं वाल्मीकिं प्रति प्रकटिता वैरञ्चिवाणी –

यावत्स्थास्यन्ति गिरयस्सरितश्च महीतले।
तावद्रामायणकथा लोकेषु प्रचरिष्यति॥

  इति। सहस्र­धारा भगवती भागीरथीव सन्दृश्यते रामकथा­परम्परा। त एव स्वादमनुभूत­वन्तोऽस्याः कथाया येऽस्यां निमग्नाः। यथाऽपरिमेय­सलिलाकरस्सागरश्शत­शतावर्तैः प्रनृत्यन्नीर­चक्रवालैः कशाभिघात­प्रतीकाशैस्तरङ्गोच्चयैर्डिण्डीर­बुद्बुदशुक्ति­शङ्खादिभिश्च विलक्षणमेव किमपि हरिचन्दन­नयनासेचनकं जनयन् महतीमभिख्यामुपयाति तथैव भगवतो रामभद्रस्य सुचरितप्रवाहोऽपि कविप्रतिभा­प्रसूत­नूतनप्रस्थानैः प्रकरण­वक्रताभिश्च काप्यपूर्वामेव सारस्वतीं विच्छित्तिं जनयति। कियद्भिरेव प्राचेतसोत्तर­वर्तिभिः कवि­पुङ्गवैर्भास­कालिदास­भवभूति­कुमारदासाभिनन्द­भट्टि­मुरारि­मायुराज­राजशेखर­भोजदेव­जयदेव­महादेव­शक्तिभद्र­विरूपाक्ष­राम­भद्र­दीक्षित­मल्लिनाथ­प्रभृतिभिः दृश्य­श्रव्य­राघव­कथाकारैः साभिनवकल्पनं स्वकाव्यानि प्रणीतानि। हन्त। न तथापि निरवकाशा जाता दशरथ­नन्दन­यशश्चन्द्रिका। रामकथा अद्यापि कविभिः प्रणीयन्ते प्रणेष्यन्ते च भविष्यत्कालेऽपि। यतो हि सार्व­कालिको रामः। सार्व­देशिको रामः। सर्वधर्म­व्याख्येयो रामः। सर्वसम्प्रदाय­समाधेयो रामः। सर्वभाषा­साहित्य­सङ्कीर्तनीयो रामः। एतादृशं लोकवन्दनीयं लोकमर्यादा­प्रतिमानभूतं निष्कलङ्कं चरितं क्वान्यत्र सन्दृश्यते। पदे पदे सन्ति समराङ्गण­सूत्रधारा इतिहास­वर्णिताः। वदान्यानां लोकोपकार­प्रवणानां दानदाक्षिण्य­कलावतंसानां महीपानां लोकधुर्याणाञ्चापि नैयून्यं न संलक्ष्यते। तथाऽप्यप्रतिमो रामः। अतुलनीयो रामः। सर्वथाऽनिर्वचनीयो रामः प्रतिभाति। इदमेवास्ति राम­चरितस्य सनातनत्वम्। इदमेवास्ति राम­चरितस्याक्षुण्णत्वम्। सर्वेऽपि नायकत्वेनोप­कल्प्यमानाः सुचरितविग्रहाः कालातीताः प्रतीयन्ते। परन्तु नित्य­कीर्तनीयस्तिष्ठति केवलं वैदेहीजानिर्भगवान् दशरथनन्दन एव। येन राम­कथानुशंसया न पवित्रीकृताऽऽत्मकाव्य­प्रतिभा वृथैव जातं तत्कवित्वम्। तत एवाद्यापि कवीनुत्कयति रामकथा।
  भवतु प्रकृतमनुसरामस्तावत्। अस्मद्दीक्षागुरवो वन्द्यचरणाः श्रीरामभद्राचार्याश्चित्रकूटस्थ­तुलसीपीठाधिपतयः प्रणयन्ति सम्प्रत्येकविंशति­सर्गात्मकं श्रीभार्गवराघवीयं महाकाव्यम्। नाम्नैव परिस्फुटं जायते यदत्र भार्गव­राघवयोर्हिमावदात­चरितं मिथः प्रस्तूयते। महा­काव्येऽस्मिन् प्रसादगम्भीरपदे सौशब्द्यार्थ­गौरवमण्डिते प्रतिसर्गमेव किञ्चिदभिनवं परि­लक्ष्यते। श्रुतेन यत्नेन चोपासिता भगवती वाक्कमप्यनुग्रहं करोत्येवेति दाण्डि­प्रामाण्येन जानीमो वयम्। परन्तु क्वचित्कदाचिच्च वंशवदाऽप्यसौ भवतीति चित्रम्। वश्यवाणी­कविचक्रवर्त्यासीन्महाकवि­र्बाणभट्ट इति सहृदयानाम्मतम्। तादृश्येव वश्यवाणी­कवि­चक्रवर्तिता श्रीमद्रामभद्राचार्य­पादेष्वपि सन्दृश्यते। अस्यैव जन्मनस्समुप­लब्धिरियमाहोस्वित्पूर्व­जन्मनां कश्चिदप्रतिहत­प्रातिभ­कवित्व­संस्कारस्सम­वाप्तावसरः सम्प्रति निरर्गलं समुज्जृम्भतेतरामिति निश्चेतुं न शक्यम्।
  शैशवादेवापगत­दृष्टिः कविः। श्रावण­प्रत्यक्षमहिम्नैव सर्वोऽपि वैशारदी­सम्भारो विद्या­वितानश्च तेनाधिगतौ। सम्पूर्णानन्द­संस्कृत­विश्वविद्यालये त्रिपुरहर­नगरीस्थ ऋषि­कल्पानामाचार्याणामन्ते­वासित्वमुपगतेन कविना शास्त्राण्यधीतानि। अत्रैव सम्पादितं तेन विद्या­वारिधि­शोधकार्यम्। विद्याधि­गमान्तेऽत्रैव विद्या­वाचस्पतिरपि सञ्जातोऽसावष्टाध्यायीं नूतनया दृशा प्रसमीक्ष्य समीक्ष्य च। चतुःसहस्रेण स्वोपज्ञ­श्लोक­समवायेन स्वाभिप्रायं गद्यमयं सरसमसौ विदधाति स्म। सोऽपि शोधप्रबन्धो विपश्चित्कण्ठ­हारायमाणस्सम्प्रति ममैव कुलपतित्वे प्रकाश्यते विश्व­विद्यालय­प्रकाशन­केन्द्रेणेति प्रकाशयन्नमन्दानन्दमनुभवामि।
  चतुरस्रं परिलक्ष्यते श्रीमद्रामभद्राचार्य­पादानां सारस्वतं क्षेत्रम्। क्व वेद­वेदाङ्गानां रहस्यमयं स्वरूपम्। क्व पुनर्विविध­शास्त्राणां नारिकेल­कठिन­कलेवराश्चूडान्त­सिद्धान्ताः। क्व चाप्यबोध­विकल­ग्राह्या भक्ति­रसरसायन­माधुरी श्रीरामकृष्ण­चरितनिस्यन्दिनी। हन्त। सर्वत्राप्यकुण्ठा गतिर्भार्गव­राघवीय­काराणाम्। रामकथा­प्रसङ्गान् प्रस्फुटीकुर्वन् कविर्यथा श्रोतॄन् साधारणीकरणापहृत­कथेतर­संसृतिभावान् रोदयति तथैव तदधिकं स्वयमपि रोदतीति चित्रम्। सर्वाण्यपि शास्त्राणि श्रीरामभद्राचार्य­वशंवदानीत्यत्र न काऽपि संशीतिः। अकिञ्चित्कर­किङ्करकल्पाः शास्त्रपङ्क्तयः स्मरण­समकालमेव तद्बुद्धौ समव­भासन्ते। एवं हि सर्वविद्यामयं प्रतिभाति श्रीमत्तुलसी­पीठाधीश्वर­व्यक्तित्वम्।
  कवित्वं श्रीमद्रामभद्राचार्याणां ललितोचित­सन्निवेश­चारु प्रतिभा­परिणतञ्चाव­लोक्यते। शब्दार्थ­प्रत्यभिज्ञान­कुशलः कविः। किञ्च –

सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः॥

  इति प्रतिपादयन् ध्वन्यालोक­प्रथमोद्योते यल्लक्षणं महाकवेः स्थापितवान् श्रीमदानन्द­वर्धनाचार्यस्तदपि सर्वथा घटतेऽस्मद्दीक्षा­गुरुपक्षे। महाकविरसावित्यत्र न कोऽपि सन्देग्धि। महाकाव्येऽस्मिन् तन्महाकवित्व­प्रमाणमनुस्यूतं परिलक्ष्यते सहृदयाधियाऽनुभूय­मानम्।
  हिन्दीकाव्यप्रचलिताः सपादिकाः (सवैया इति) घनाक्षरिकाश्च (घनाक्षरीति) यथायथं प्रयुज्य प्रस्तौति यथा छन्दोविचिति­प्रागल्भ्यं कविस्तथैव रामकथाया नूतनाभिप्रायानपि समुपन्यस्यति। मन्य एभिरेवाभिप्रायैः प्रकरण­वक्रतासौख्यं संसृजती भार्गवराघवीया रामकथा सहृदयानां मनांस्यावर्जयिष्यति।
  नात्रावकाशो महाकाव्यस्यास्य बृहत्समीक्षणस्य। तत्तु प्रकाशनानन्तरं पृथक्तया कदाचित्करिष्यते मयाऽन्यैश्चापि विपश्चिचद्भिः। परन्तु ममायं दृढो विश्वासो यत्प्रशस्तेयं कृतिः संस्कृत­महाकाव्य­परम्परायां महतीमभिख्यां समज्ञाञ्चोपयास्यति। महाकाव्यान्यद्यापि भूयस्त्वेन प्रणीयन्ते। परन्तु न क्वचिल्लक्ष्यन्ते काव्यगुणाः। व्याकरणदोषाः पुनः पदे पदे मनःक्लेशान् जनयन्ति। प्रचलित­वृत्तस्य संस्कृतभाषया परिणमन­मात्रमेव न भवति महाकाव्यम्। महाकाव्यं भवति ध्वनि­वक्रोक्ति­वैशिष्ट्य­मण्डितं नूतनाभिप्राय­प्रचुरपद­गुम्फसंवलितं रसच्छन्दोऽलङ्कार­रीतिवृत्त्यादि­प्रयोगरुचिरं किमपि विलक्षणमेव सारस्वतं कविकर्म। परन्तु विरल­संस्कृतप्रचारेऽस्मिन् युगे त्वेरण्डा अपि द्रुमायन्ते। शब्दार्थ­संयोजन­कलाज्ञातारोऽपि महाकवीयन्ति पुरस्कृताश्च जायन्ते स्वयमप्यपुरस्कृतैः पुरस्कारसमिति­सदस्यैः। विपर्यस्तमेव परिलक्ष्यते सारस्वतक्षेत्रम्।
  मन्ये श्रीभार्गवराघवीय­महाकाव्यमिदं तस्य विपर्यासस्यापवादो भविष्यति। यतो हि महाकाव्यमिदं प्राक्तनीं काव्य­सृष्टिसरणिं सर्वतोभावेन पुष्णाति। अलङ्काराणां समुपसर्जनीकृत­वाच्यार्थानां प्रयोगे रसाभि­व्यञ्जने चमत्कारातिशय­संवलित­विकटाक्षर­बन्धायोजने मुद्राशय्या­परिपाकादि­काव्यशास्त्रीय­तत्त्वोन्मीलने नवार्थ­प्रकाशने हृद्यानवद्य­जीवद्बिम्बसङ्घटने च महीयत एवेदं महाकाव्यम्। तदहं विश्वसिमि यद्भगवत्या वागधिष्ठात्र्याः शेवधिः समुपचीयत एव महाकाव्येनाऽनेन।
  कवयोऽन्ये यल्लिखन्ति तद्भवति तत्सारस्वताध्यवसाय­मूलकम्। तदेव तत्काव्येषु परिलक्ष्यते क्वचिदक्षमत्वमपि। परन्तु महाकाव्यमिदमार्ष­परम्परां पुष्णाति। नात्राध्यवसाय ऐहलौकिकः कश्चित्प्रभवति मूलीभूय। प्रत्युत कवेर्ऋषित्वमेवात्र प्रभवति। न किमपि वाङ्मयं कविना भौतिक­लोचनाभ्यां परिशीलितम्। तथापि न किमपि वाङ्मयमदृष्टं तिष्ठति तस्य। तदेवास्य कवेर्ऋषित्वम्। किञ्चर्षि­प्रणीतं काव्यं सर्वथैव सामान्यकवि­सृष्टिमतिशेते। तद्दृष्ट्याऽपि परमपूज्य­चरणेन्दीवराणां श्रीमद्रामभद्राचार्याणां कृतिरियमभि­नन्दनार्हा। धन्यतामुपयाति रचनयाऽनयाऽर्वाचीन­संस्कृतसाहित्यम्।

कुलपतिनिवासः, विद्वद्वशंवदो
विजयदशमी २००२ ई०, मिश्रोऽभिराजराजेन्द्रः

Contents Foreword >>
Śrībhārgavarāghavīyam Home